| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत ते वचनं श्रुत्वा परानन्दं वयं गताः ॥ विस्तरात्कथय प्रीत्या तदेव व्रतमुत्तमम् ॥ १ ॥
सूत ते वचनम् श्रुत्वा पर-आनन्दम् वयम् गताः ॥ विस्तरात् कथय प्रीत्या तत् एव व्रतम् उत्तमम् ॥ १ ॥
sūta te vacanam śrutvā para-ānandam vayam gatāḥ .. vistarāt kathaya prītyā tat eva vratam uttamam .. 1 ..
कृतं पुरा तु केनेह सूतैतद्व्रतमुत्तमम् ॥ कृत्वाप्यज्ञानतश्चैव प्राप्तं किं फलमुत्तमम् ॥ २ ॥
कृतम् पुरा तु केन इह सूत एतत् व्रतम् उत्तमम् ॥ कृत्वा अपि अज्ञानतः च एव प्राप्तम् किम् फलम् उत्तमम् ॥ २ ॥
kṛtam purā tu kena iha sūta etat vratam uttamam .. kṛtvā api ajñānataḥ ca eva prāptam kim phalam uttamam .. 2 ..
।। सूत उवाच ।।
श्रूयतामृषयस्सर्वे कथयामि पुरातनम्॥इतिहासं निषादस्य सर्वपापप्रणाशनम् ॥ ३ ॥
श्रूयताम् ऋषयः सर्वे कथयामि पुरातनम्॥इतिहासम् निषादस्य सर्व-पाप-प्रणाशनम् ॥ ३ ॥
śrūyatām ṛṣayaḥ sarve kathayāmi purātanam..itihāsam niṣādasya sarva-pāpa-praṇāśanam .. 3 ..
पुरा कश्चिद्वने भिल्लो नाम्ना ह्यासीद्गुरुद्रुहः॥कुटुम्बी बलवान्क्रूरः क्रूरकर्मपरायणः ॥ ४॥
पुरा कश्चिद् वने भिल्लः नाम्ना हि आसीत् गुरु-द्रुहः॥कुटुम्बी बलवान् क्रूरः क्रूर-कर्म-परायणः ॥ ४॥
purā kaścid vane bhillaḥ nāmnā hi āsīt guru-druhaḥ..kuṭumbī balavān krūraḥ krūra-karma-parāyaṇaḥ .. 4..
निरन्तरं वने गत्वा मृगान्हन्ति स्म नित्यशः ॥ चौर्य्यं च विविधं तत्र करोति स्म वने वसन् ॥ ५ ॥
निरन्तरम् वने गत्वा मृगान् हन्ति स्म नित्यशस् ॥ चौर्य्यम् च विविधम् तत्र करोति स्म वने वसन् ॥ ५ ॥
nirantaram vane gatvā mṛgān hanti sma nityaśas .. cauryyam ca vividham tatra karoti sma vane vasan .. 5 ..
बाल्यादारभ्य तेनेह कृतं किंचिच्छुभं नहि ॥ महान्कालो व्यतीयाय वने तस्य दुरात्मनः ॥ ६ ॥
बाल्यात् आरभ्य तेन इह कृतम् किंचिद् शुभम् न हि ॥ महान् कालः व्यतीयाय वने तस्य दुरात्मनः ॥ ६ ॥
bālyāt ārabhya tena iha kṛtam kiṃcid śubham na hi .. mahān kālaḥ vyatīyāya vane tasya durātmanaḥ .. 6 ..
कदाचिच्छिवरात्रिश्च प्राप्तासीत्तत्र शोभना ॥ न दुरात्मा स्म जानाति महद्वननिवासकृत् ॥ ७ ॥
कदाचिद् शिवरात्रिः च प्राप्ता आसीत् तत्र शोभना ॥ न दुरात्मा स्म जानाति महत्-वन-निवास-कृत् ॥ ७ ॥
kadācid śivarātriḥ ca prāptā āsīt tatra śobhanā .. na durātmā sma jānāti mahat-vana-nivāsa-kṛt .. 7 ..
एतस्मिन्समये भिल्लो मात्रा पित्रा स्त्रिया तथा॥प्रार्थितश्च क्षुधाऽविष्टैर्भक्ष्यं देहि वनेचर॥८॥
एतस्मिन् समये भिल्लः मात्रा पित्रा स्त्रिया तथा॥प्रार्थितः च क्षुधा-आविष्टैः भक्ष्यम् देहि वनेचर॥८॥
etasmin samaye bhillaḥ mātrā pitrā striyā tathā..prārthitaḥ ca kṣudhā-āviṣṭaiḥ bhakṣyam dehi vanecara..8..
इति संप्रार्थितः सोऽपि धनुरादाय सत्वरम्॥जगाम मृगहिंसार्थं बभ्राम सकलं वनम्॥९॥
इति संप्रार्थितः सः अपि धनुः आदाय स त्वरम्॥जगाम मृग-हिंसा-अर्थम् बभ्राम सकलम् वनम्॥९॥
iti saṃprārthitaḥ saḥ api dhanuḥ ādāya sa tvaram..jagāma mṛga-hiṃsā-artham babhrāma sakalam vanam..9..
दैवयोगात्तदा तेन न प्राप्तं किंचिदेव हि॥अस्तप्राप्तस्तदा सूर्यस्स वै दुःखमुपागतः॥4.40.१०॥
दैवयोगात् तदा तेन न प्राप्तम् किंचिद् एव हि॥अस्त-प्राप्तः तदा सूर्यः स वै दुःखम् उपागतः॥४।४०।१०॥
daivayogāt tadā tena na prāptam kiṃcid eva hi..asta-prāptaḥ tadā sūryaḥ sa vai duḥkham upāgataḥ..4.40.10..
किं कर्तव्यं क्व गंतव्यं न प्राप्तं मेऽद्य किंचन॥बालाश्च ये गृहे तेषां किं पित्रोश्च भविष्यति ॥ ११ ॥
किम् कर्तव्यम् क्व गंतव्यम् न प्राप्तम् मे अद्य किंचन॥बालाः च ये गृहे तेषाम् किम् पित्रोः च भविष्यति ॥ ११ ॥
kim kartavyam kva gaṃtavyam na prāptam me adya kiṃcana..bālāḥ ca ye gṛhe teṣām kim pitroḥ ca bhaviṣyati .. 11 ..
मदीयं वै कलत्रं च तस्याः किंचिद्भविष्यति॥किंचिद्गृहीत्वा हि मया गंतव्यं नान्यथा भवेत्॥१२॥
मदीयम् वै कलत्रम् च तस्याः किंचिद् भविष्यति॥किंचिद् गृहीत्वा हि मया गंतव्यम् न अन्यथा भवेत्॥१२॥
madīyam vai kalatram ca tasyāḥ kiṃcid bhaviṣyati..kiṃcid gṛhītvā hi mayā gaṃtavyam na anyathā bhavet..12..
इत्थं विचार्य स व्याधो जलाशय समीपगः॥जलावतरणं यत्र तत्र गत्वा स्वयं स्थितः ॥ १३॥
इत्थम् विचार्य स व्याधः जलाशय-समीप-गः॥जलावतरणम् यत्र तत्र गत्वा स्वयम् स्थितः ॥ १३॥
ittham vicārya sa vyādhaḥ jalāśaya-samīpa-gaḥ..jalāvataraṇam yatra tatra gatvā svayam sthitaḥ .. 13..
अवश्यमत्र कश्चिद्वै जीवश्चैवागमिष्यति॥तं हत्वा स्वगृहं प्रीत्या यास्यामि कृतकार्यकः ॥ १४॥
अवश्यम् अत्र कश्चिद् वै जीवः च एव आगमिष्यति॥तम् हत्वा स्व-गृहम् प्रीत्या यास्यामि कृत-कार्यकः ॥ १४॥
avaśyam atra kaścid vai jīvaḥ ca eva āgamiṣyati..tam hatvā sva-gṛham prītyā yāsyāmi kṛta-kāryakaḥ .. 14..
इति मत्वा स वै वृक्षमेकं बिल्वेतिसंज्ञकम्॥समारुह्य स्थितस्तत्र जलमादाय भिल्लकः ॥ १५॥
इति मत्वा स वै वृक्षम् एकम् बिल्व-इति संज्ञकम्॥समारुह्य स्थितः तत्र जलम् आदाय भिल्लकः ॥ १५॥
iti matvā sa vai vṛkṣam ekam bilva-iti saṃjñakam..samāruhya sthitaḥ tatra jalam ādāya bhillakaḥ .. 15..
कदा यास्यति कश्चिद्वै कदा हन्यामहं पुनः॥इति बुद्धिं समास्थाय स्थितोऽसौ क्षुत्तृषान्वितः ॥ १६ ॥
कदा यास्यति कश्चिद् वै कदा हन्याम् अहम् पुनर्॥इति बुद्धिम् समास्थाय स्थितः असौ क्षुध्-तृषा-अन्वितः ॥ १६ ॥
kadā yāsyati kaścid vai kadā hanyām aham punar..iti buddhim samāsthāya sthitaḥ asau kṣudh-tṛṣā-anvitaḥ .. 16 ..
तद्रात्रौ प्रथमे यामे मृगी त्वेका समागता ॥ तृषार्ता चकिता सा च प्रोत्फालं कुर्वती तदा ॥ १७ ॥
तद्-रात्रौ प्रथमे यामे मृगी तु एका समागता ॥ तृषा-आर्ता चकिता सा च प्रोत्फालम् कुर्वती तदा ॥ १७ ॥
tad-rātrau prathame yāme mṛgī tu ekā samāgatā .. tṛṣā-ārtā cakitā sā ca protphālam kurvatī tadā .. 17 ..
तां दृष्ट्वा च तदा तेन तद्वधार्थमथो शरः ॥ संहृष्टेन द्रुतं विष्णो धनुषि स्वे हि संदधे ॥ १८ ॥
ताम् दृष्ट्वा च तदा तेन तद्-वध-अर्थम् अथो शरः ॥ संहृष्टेन द्रुतम् विष्णो धनुषि स्वे हि संदधे ॥ १८ ॥
tām dṛṣṭvā ca tadā tena tad-vadha-artham atho śaraḥ .. saṃhṛṣṭena drutam viṣṇo dhanuṣi sve hi saṃdadhe .. 18 ..
इत्येवं कुर्वतस्तस्य जलं बिल्वदलानि च ॥ पतितानि ह्यधस्तत्र शिवलिंगमभूत्ततः ॥ १९॥
इति एवम् कुर्वतः तस्य जलम् बिल्व-दलानि च ॥ पतितानि हि अधस् तत्र शिव-लिंगम् अभूत् ततस् ॥ १९॥
iti evam kurvataḥ tasya jalam bilva-dalāni ca .. patitāni hi adhas tatra śiva-liṃgam abhūt tatas .. 19..
यामस्य प्रथमस्यैव पूजा जाता शिवस्य च ॥ तन्महिम्ना हि तस्यैव पातकं गलितन्तदा ॥ 4.40.२०॥
यामस्य प्रथमस्य एव पूजा जाता शिवस्य च ॥ तद्-महिम्ना हि तस्य एव पातकम् गलितम् तदा ॥ ४।४०।२०॥
yāmasya prathamasya eva pūjā jātā śivasya ca .. tad-mahimnā hi tasya eva pātakam galitam tadā .. 4.40.20..
तत्रत्यं चैव तच्छब्दं श्रुत्वा सा हरिणी भिया ॥ व्याधं दृष्ट्वा व्याकुला हि वचनं चेदमब्रवीत्॥२१॥
तत्रत्यम् च एव तद्-शब्दम् श्रुत्वा सा हरिणी भिया ॥ व्याधम् दृष्ट्वा व्याकुला हि वचनम् च इदम् अब्रवीत्॥२१॥
tatratyam ca eva tad-śabdam śrutvā sā hariṇī bhiyā .. vyādham dṛṣṭvā vyākulā hi vacanam ca idam abravīt..21..
।।मृग्युवाच ।।
किं कर्तुमिच्छसि व्याध सत्यं वद ममाग्रतः ॥ तच्छुत्वा हरिणीवाक्यं व्याधो वचनमब्रवीत् ॥ २२॥
किम् कर्तुम् इच्छसि व्याध सत्यम् वद मम अग्रतस् ॥ तत् शुत्वा हरिणी-वाक्यम् व्याधः वचनम् अब्रवीत् ॥ २२॥
kim kartum icchasi vyādha satyam vada mama agratas .. tat śutvā hariṇī-vākyam vyādhaḥ vacanam abravīt .. 22..
।।व्याध उवाच।।
कुटुम्बं क्षुधितं मेऽद्य हत्वा त्वां तर्पयाम्यहम्॥दारुणं तद्वचश्श्रुत्वा दृष्ट्वा तं दुर्द्धरं खलम्॥२३॥
कुटुम्बम् क्षुधितम् मे अद्य हत्वा त्वाम् तर्पयामि अहम्॥दारुणम् तत् वचः श्रुत्वा दृष्ट्वा तम् दुर्द्धरम् खलम्॥२३॥
kuṭumbam kṣudhitam me adya hatvā tvām tarpayāmi aham..dāruṇam tat vacaḥ śrutvā dṛṣṭvā tam durddharam khalam..23..
किं करोमि क्व गच्छामि ह्युपायं रचयाम्यहम् ॥ इत्थं विचार्यं सा तत्र वचनं चेदमब्रवीत् ॥ २४ ॥
किम् करोमि क्व गच्छामि हि उपायम् रचयामि अहम् ॥ इत्थम् विचार्यम् सा तत्र वचनम् च इदम् अब्रवीत् ॥ २४ ॥
kim karomi kva gacchāmi hi upāyam racayāmi aham .. ittham vicāryam sā tatra vacanam ca idam abravīt .. 24 ..
।। मृग्युवाच ।।
मन्मांसेन सुखं ते स्याद्देहस्यानर्थकारिणः ॥ अधिकं किं महत्पुण्यं धन्याहं नात्र संशयः ॥ २५ ॥
मद्-मांसेन सुखम् ते स्यात् देहस्य अनर्थ-कारिणः ॥ अधिकम् किम् महत् पुण्यम् धन्या अहम् न अत्र संशयः ॥ २५ ॥
mad-māṃsena sukham te syāt dehasya anartha-kāriṇaḥ .. adhikam kim mahat puṇyam dhanyā aham na atra saṃśayaḥ .. 25 ..
उपकारकरस्यैव यत्पुण्यं जायते त्विह ॥ तत्पुण्यं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥
उपकार-करस्य एव यत् पुण्यम् जायते तु इह ॥ तत् पुण्यम् शक्यते ना एव वक्तुम् वर्ष-शतैः अपि ॥ २५ ॥
upakāra-karasya eva yat puṇyam jāyate tu iha .. tat puṇyam śakyate nā eva vaktum varṣa-śataiḥ api .. 25 ..
परं तु शिशवो मेऽद्य वर्तंते स्वाश्रमेऽखिलाः ॥ भगिन्यै तान्समर्प्यैव प्रायास्ये स्वामिनेऽथ वा ॥ २७ ॥
परम् तु शिशवः मे अद्य वर्तन्ते स्व-आश्रमे अखिलाः ॥ भगिन्यै तान् समर्प्य एव प्रायास्ये स्वामिने अथ वा ॥ २७ ॥
param tu śiśavaḥ me adya vartante sva-āśrame akhilāḥ .. bhaginyai tān samarpya eva prāyāsye svāmine atha vā .. 27 ..
न मे मिथ्यावचस्त्वं हि विजानीहि वनेचर ॥ आयास्येह पुनश्चेह समीपं ते न संशयः ॥ २८॥
न मे मिथ्या वचः त्वम् हि विजानीहि वनेचर ॥ आयास्ये इह पुनर् च इह समीपम् ते न संशयः ॥ २८॥
na me mithyā vacaḥ tvam hi vijānīhi vanecara .. āyāsye iha punar ca iha samīpam te na saṃśayaḥ .. 28..
स्थिता सत्येन धरणी सत्येनैव च वारिधिः ॥ सत्येन जलधाराश्च सत्ये सर्वम्प्रतिष्ठितम् ॥ २९॥
स्थिता सत्येन धरणी सत्येन एव च वारिधिः ॥ सत्येन जल-धाराः च सत्ये सर्वम् प्रतिष्ठितम् ॥ २९॥
sthitā satyena dharaṇī satyena eva ca vāridhiḥ .. satyena jala-dhārāḥ ca satye sarvam pratiṣṭhitam .. 29..
।। सूत उवाच ।।
इत्युक्तोऽपि तया व्याधो न मेने तद्वचो यदा॥तदा सुविस्मिता भीता वचनं साब्रवीत्पुनः ॥ 4.40.३० ॥
इति उक्तः अपि तया व्याधः न मेने तत् वचः यदा॥तदा सु विस्मिता भीता वचनम् सा ब्रवीत् पुनर् ॥ ४।४०।३० ॥
iti uktaḥ api tayā vyādhaḥ na mene tat vacaḥ yadā..tadā su vismitā bhītā vacanam sā bravīt punar .. 4.40.30 ..
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि शपथं हि करोम्यहम् ॥ आगच्छेयं यथा ते न समीपं स्वगृहाद्गता ॥ ३१ ॥
शृणु व्याध प्रवक्ष्यामि शपथम् हि करोमि अहम् ॥ आगच्छेयम् यथा ते न समीपम् स्व-गृहात् गता ॥ ३१ ॥
śṛṇu vyādha pravakṣyāmi śapatham hi karomi aham .. āgaccheyam yathā te na samīpam sva-gṛhāt gatā .. 31 ..
ब्राह्मणो वेदविक्रेता सन्ध्याहीनस्त्रिकालकम्॥स्त्रियस्स्वस्वामिनो ह्याज्ञां समुल्लंघ्य क्रियान्विताः ॥ ३२ ॥
ब्राह्मणः वेद-विक्रेता सन्ध्या-हीनः त्रि-कालकम्॥स्त्रियः स्व-स्वामिनः हि आज्ञाम् समुल्लंघ्य क्रिया-अन्विताः ॥ ३२ ॥
brāhmaṇaḥ veda-vikretā sandhyā-hīnaḥ tri-kālakam..striyaḥ sva-svāminaḥ hi ājñām samullaṃghya kriyā-anvitāḥ .. 32 ..
कृतघ्ने चैव यत्पापं तत्पापं विमुखे हरे ॥ द्रोहिणश्चैव यत्पापं तत्पापं धर्मलंघने ॥ ३३॥
कृतघ्ने च एव यत् पापम् तत् पापम् विमुखे हरे ॥ द्रोहिणः च एव यत् पापम् तत् पापम् धर्म-लंघने ॥ ३३॥
kṛtaghne ca eva yat pāpam tat pāpam vimukhe hare .. drohiṇaḥ ca eva yat pāpam tat pāpam dharma-laṃghane .. 33..
विश्वासघातके तच्च तथा वै छलकर्तरि ॥ तेन पापेन लिम्पामि यद्यहं नागमे पुनः ॥ ३४ ॥
विश्वास-घातके तत् च तथा वै छल-कर्तरि ॥ तेन पापेन लिम्पामि यदि अहम् न आगमे पुनर् ॥ ३४ ॥
viśvāsa-ghātake tat ca tathā vai chala-kartari .. tena pāpena limpāmi yadi aham na āgame punar .. 34 ..
इत्याद्यनेकशपथान्मृगी कृत्वा स्थिता यदा ॥ तदा व्याधस्य विश्वस्य गच्छेति गृहमब्रवीत् ॥ ३५ ॥
इत्यादि-अनेक-शपथात् मृगी कृत्वा स्थिता यदा ॥ तदा व्याधस्य विश्वस्य गच्छ इति गृहम् अब्रवीत् ॥ ३५ ॥
ityādi-aneka-śapathāt mṛgī kṛtvā sthitā yadā .. tadā vyādhasya viśvasya gaccha iti gṛham abravīt .. 35 ..
मृगी हृष्टाजलं पीत्वा गता स्वाश्रममण्डलम् ॥ तावच्च प्रथमो यामस्तस्य निद्रां विना गतः ॥ ३६॥
मृगी हृष्टा अ जलम् पीत्वा गता स्व-आश्रम-मण्डलम् ॥ तावत् च प्रथमः यामः तस्य निद्राम् विना गतः ॥ ३६॥
mṛgī hṛṣṭā a jalam pītvā gatā sva-āśrama-maṇḍalam .. tāvat ca prathamaḥ yāmaḥ tasya nidrām vinā gataḥ .. 36..
तदीया भगिनी या वै मृगी च परिभाविता ॥ तस्या मार्गं विचिन्वन्ती ह्याजगाम जलार्थिनी ॥ ३७॥
तदीया भगिनी या वै मृगी च परिभाविता ॥ तस्याः मार्गम् विचिन्वन्ती हि आजगाम जल-अर्थिनी ॥ ३७॥
tadīyā bhaginī yā vai mṛgī ca paribhāvitā .. tasyāḥ mārgam vicinvantī hi ājagāma jala-arthinī .. 37..
तां दृष्ट्वा च स्वयं भिल्लोऽकार्षीद्बाणस्य कर्षणम् ॥ पूर्ववज्जलपत्राणि पतितानि शिवोपरि ॥ ३८॥
ताम् दृष्ट्वा च स्वयम् भिल्लः अकार्षीत् बाणस्य कर्षणम् ॥ पूर्ववत् जल-पत्राणि पतितानि शिव-उपरि ॥ ३८॥
tām dṛṣṭvā ca svayam bhillaḥ akārṣīt bāṇasya karṣaṇam .. pūrvavat jala-patrāṇi patitāni śiva-upari .. 38..
यामस्य च द्वितीयस्य तेन शंभोर्महात्मनः ॥ पूजा जाता प्रसंगेन व्याधस्य सुखदायिनी ॥ ३९ ॥
यामस्य च द्वितीयस्य तेन शंभोः महात्मनः ॥ पूजा जाता प्रसंगेन व्याधस्य सुख-दायिनी ॥ ३९ ॥
yāmasya ca dvitīyasya tena śaṃbhoḥ mahātmanaḥ .. pūjā jātā prasaṃgena vyādhasya sukha-dāyinī .. 39 ..
मृगी सा प्राह तं दृष्ट्वा किं करोषि वनेचर ॥ पूर्ववत्कथितं तेन तच्छ्रुत्वाह मृगी पुनः ॥ 4.40.४०॥
मृगी सा प्राह तम् दृष्ट्वा किम् करोषि वनेचर ॥ पूर्ववत् कथितम् तेन तत् श्रुत्वा आह मृगी पुनर् ॥ ४।४०।४०॥
mṛgī sā prāha tam dṛṣṭvā kim karoṣi vanecara .. pūrvavat kathitam tena tat śrutvā āha mṛgī punar .. 4.40.40..
मृग्युवाच ।।
धन्याहं श्रूयतां व्याध सफलं देहधारणम् ॥ अनित्येन शरीरेण ह्युपकारो भविष्यति ॥ ४१॥
धन्या अहम् श्रूयताम् व्याध स फलम् देहधारणम् ॥ अनित्येन शरीरेण हि उपकारः भविष्यति ॥ ४१॥
dhanyā aham śrūyatām vyādha sa phalam dehadhāraṇam .. anityena śarīreṇa hi upakāraḥ bhaviṣyati .. 41..
परन्तु मम बालाश्च गृहे तिष्ठन्ति चार्भकाः ॥ भर्त्रे तांश्च समर्प्यैव ह्यागमिष्याम्यहं पुनः ॥ ४२॥
परन्तु मम बालाः च गृहे तिष्ठन्ति च अर्भकाः ॥ भर्त्रे तान् च समर्प्य एव हि आगमिष्यामि अहम् पुनर् ॥ ४२॥
parantu mama bālāḥ ca gṛhe tiṣṭhanti ca arbhakāḥ .. bhartre tān ca samarpya eva hi āgamiṣyāmi aham punar .. 42..
व्याध उवाच ।।
त्वया चोक्तं न मन्येहं हन्मि त्वां नात्र संशयः ॥ तच्छुत्वा हरिणी प्राह शपथं कुर्वती हरे ॥ ४३ ॥
त्वया च उक्तम् न मन्ये इहम् हन्मि त्वाम् न अत्र संशयः ॥ तत् शुत्वा हरिणी प्राह शपथम् कुर्वती हरे ॥ ४३ ॥
tvayā ca uktam na manye iham hanmi tvām na atra saṃśayaḥ .. tat śutvā hariṇī prāha śapatham kurvatī hare .. 43 ..
मृग्युवाच ।।
शृणु व्याध प्रवक्ष्यामि नागच्छेयं पुनर्यदि ॥ वाचा विचलितो यस्तु सुकृतं तेन हारितम् ॥ ४४ ॥
शृणु व्याध प्रवक्ष्यामि न आगच्छेयम् पुनर् यदि ॥ वाचा विचलितः यः तु सुकृतम् तेन हारितम् ॥ ४४ ॥
śṛṇu vyādha pravakṣyāmi na āgaccheyam punar yadi .. vācā vicalitaḥ yaḥ tu sukṛtam tena hāritam .. 44 ..
परिणीता स्त्रियं हित्वा गच्छत्यन्यां च यः पुमान् ॥ वेदधर्मं समुल्लंघ्य कल्पितेन च यो व्रजेत् ॥ ४५ ॥
परिणीता स्त्रियम् हित्वा गच्छति अन्याम् च यः पुमान् ॥ वेद-धर्मम् समुल्लंघ्य कल्पितेन च यः व्रजेत् ॥ ४५ ॥
pariṇītā striyam hitvā gacchati anyām ca yaḥ pumān .. veda-dharmam samullaṃghya kalpitena ca yaḥ vrajet .. 45 ..
विष्णुभक्तिसमायुक्तः शिवनिन्दां करोति यः ॥ पित्रोः क्षयाहमासाद्य शून्यं चैवाक्रमेदिह ॥ ४६ ॥
विष्णु-भक्ति-समायुक्तः शिव-निन्दाम् करोति यः ॥ पित्रोः क्षय-अहम् आसाद्य शून्यम् च एव आक्रमेत् इह ॥ ४६ ॥
viṣṇu-bhakti-samāyuktaḥ śiva-nindām karoti yaḥ .. pitroḥ kṣaya-aham āsādya śūnyam ca eva ākramet iha .. 46 ..
कृत्वा च पारतापं हि करोति वचनं पुनः ॥ तेन पापेन लिंपामि नागच्छेयं पुनर्यदि ॥ ४७ ॥
कृत्वा च पारतापम् हि करोति वचनम् पुनर् ॥ तेन पापेन लिंपामि न आगच्छेयम् पुनर् यदि ॥ ४७ ॥
kṛtvā ca pāratāpam hi karoti vacanam punar .. tena pāpena liṃpāmi na āgaccheyam punar yadi .. 47 ..
सूत उवाच ।।।
इत्युक्तश्च तया व्याधो गच्छेत्याह मृगीं च सः ॥ सा मृगी च जलं पीत्वा हृष्टाऽगच्छत्स्वमाश्रमम् ॥ ४८ ॥
इति उक्तः च तया व्याधः गच्छ इति आह मृगीम् च सः ॥ सा मृगी च जलम् पीत्वा हृष्टा अगच्छत् स्वम् आश्रमम् ॥ ४८ ॥
iti uktaḥ ca tayā vyādhaḥ gaccha iti āha mṛgīm ca saḥ .. sā mṛgī ca jalam pītvā hṛṣṭā agacchat svam āśramam .. 48 ..
तावद्द्वितीयो यामो वै तस्य निद्रां विना गतः ॥ एतस्मिन्समये तत्र प्राप्ते यामे तृतीयके ॥ ४९ ॥
तावत् द्वितीयः यामः वै तस्य निद्राम् विना गतः ॥ एतस्मिन् समये तत्र प्राप्ते यामे तृतीयके ॥ ४९ ॥
tāvat dvitīyaḥ yāmaḥ vai tasya nidrām vinā gataḥ .. etasmin samaye tatra prāpte yāme tṛtīyake .. 49 ..
ज्ञात्वा विलंबं चकितस्तदन्वेषणतत्परः ॥ ।तद्यामे मृगमद्राक्षीज्जलमार्गगतं ततः॥4.40.५०॥
ज्ञात्वा विलंबम् चकितः तद्-अन्वेषण-तत्परः ॥ ।तद्-यामे मृगम् अद्राक्षीत् जल-मार्ग-गतम् ततस्॥४।४०।५०॥
jñātvā vilaṃbam cakitaḥ tad-anveṣaṇa-tatparaḥ .. .tad-yāme mṛgam adrākṣīt jala-mārga-gatam tatas..4.40.50..
पुष्टं मृगं च तं दृष्ट्वा हृष्टो वनचरस्स वै ॥ शरं धनुषि संधाय हन्तुं तं हि प्रचक्रमे ॥ ५१॥
पुष्टम् मृगम् च तम् दृष्ट्वा हृष्टः वन-चरः स वै ॥ शरम् धनुषि संधाय हन्तुम् तम् हि प्रचक्रमे ॥ ५१॥
puṣṭam mṛgam ca tam dṛṣṭvā hṛṣṭaḥ vana-caraḥ sa vai .. śaram dhanuṣi saṃdhāya hantum tam hi pracakrame .. 51..
तदैवं कुर्वतस्तस्य बिल्वपत्राणि कानिचित् ॥ तत्प्रारब्धवशाद्विष्णो पतितानि शिवोपरि ॥ ५२ ॥
तदा एवम् कुर्वतः तस्य बिल्व-पत्राणि कानिचिद् ॥ तद्-प्रारब्ध-वशात् विष्णो पतितानि शिव-उपरि ॥ ५२ ॥
tadā evam kurvataḥ tasya bilva-patrāṇi kānicid .. tad-prārabdha-vaśāt viṣṇo patitāni śiva-upari .. 52 ..
तेन तृतीययामस्य तद्रात्रौ तस्य भाग्यतः ॥ पूजा जाता शिवस्यैव कृपालुत्वं प्रदर्शितम् ॥ ५३॥
तेन तृतीय-यामस्य तद्-रात्रौ तस्य भाग्यतः ॥ पूजा जाता शिवस्य एव कृपालु-त्वम् प्रदर्शितम् ॥ ५३॥
tena tṛtīya-yāmasya tad-rātrau tasya bhāgyataḥ .. pūjā jātā śivasya eva kṛpālu-tvam pradarśitam .. 53..
श्रुत्वा तत्र च तं शब्दं किं करोषीति प्राह सः ॥ कुटुम्बार्थमहं हन्मि त्वां व्याधश्चेति सोब्रवीत् ॥ ५४ ॥
श्रुत्वा तत्र च तम् शब्दम् किम् करोषि इति प्राह सः ॥ कुटुम्ब-अर्थम् अहम् हन्मि त्वाम् व्याधः च इति सः ब्रवीत् ॥ ५४ ॥
śrutvā tatra ca tam śabdam kim karoṣi iti prāha saḥ .. kuṭumba-artham aham hanmi tvām vyādhaḥ ca iti saḥ bravīt .. 54 ..
तच्छ्रुत्वा व्याधवचनं हरिणो हृष्टमानसः ॥ द्रुतमेव च तं व्याधं वचनं चेदमब्रवीत् ॥ ५५ ॥
तत् श्रुत्वा व्याध-वचनम् हरिणः हृष्ट-मानसः ॥ द्रुतम् एव च तम् व्याधम् वचनम् च इदम् अब्रवीत् ॥ ५५ ॥
tat śrutvā vyādha-vacanam hariṇaḥ hṛṣṭa-mānasaḥ .. drutam eva ca tam vyādham vacanam ca idam abravīt .. 55 ..
हरिण उवाच ।।
धन्योहं पुष्टिमानद्य भवत्तृप्तिर्भविष्यति ॥ यस्यांगं नोपकाराय तस्य सर्वं वृथा गतम् ॥ ५६ ॥
धन्यः उहम् पुष्टिमान् अद्य भवत्-तृप्तिः भविष्यति ॥ यस्य अंगम् न उपकाराय तस्य सर्वम् वृथा गतम् ॥ ५६ ॥
dhanyaḥ uham puṣṭimān adya bhavat-tṛptiḥ bhaviṣyati .. yasya aṃgam na upakārāya tasya sarvam vṛthā gatam .. 56 ..
यो वै सामर्थ्ययुक्तश्च नोपकारं करोति वै ॥ तत्सामर्थ्यं भवेद्व्यर्थं परत्र नरकं व्रजेत् ॥ ५७ ॥
यः वै सामर्थ्य-युक्तः च न उपकारम् करोति वै ॥ तद्-सामर्थ्यम् भवेत् व्यर्थम् परत्र नरकम् व्रजेत् ॥ ५७ ॥
yaḥ vai sāmarthya-yuktaḥ ca na upakāram karoti vai .. tad-sāmarthyam bhavet vyartham paratra narakam vrajet .. 57 ..
परन्तु बालकान् स्वांश्च समर्प्य जननीं शिशून् ॥ आश्वास्याप्यथ तान् सर्वानागमिष्याम्यहं पुनः ॥ ५८ ॥
परन्तु बालकान् स्वान् च समर्प्य जननीम् शिशून् ॥ आश्वास्य अपि अथ तान् सर्वान् आगमिष्यामि अहम् पुनर् ॥ ५८ ॥
parantu bālakān svān ca samarpya jananīm śiśūn .. āśvāsya api atha tān sarvān āgamiṣyāmi aham punar .. 58 ..
इत्युक्तस्तेन स व्याधो विस्मितोतीव चेतसि ॥ मनाक् शुद्धमनानष्टपापपुंजो वचोऽब्रवीत् ॥ ५९ ॥
इति उक्तः तेन स व्याधः विस्मिता उतीव चेतसि ॥ मनाक् वचः अब्रवीत् ॥ ५९ ॥
iti uktaḥ tena sa vyādhaḥ vismitā utīva cetasi .. manāk vacaḥ abravīt .. 59 ..
व्याध उवाच ।।
ये ये समागताश्चात्र तेते सर्वे त्वया यथा ॥ कथयित्वा गता ह्यत्र नायान्त्यद्यापि वंचकाः ॥ 4.40.६० ॥
ये ये समागताः च अत्र ते ते सर्वे त्वया यथा ॥ कथयित्वा गताः हि अत्र न आयान्ति अद्य अपि वंचकाः ॥ ४।४०।६० ॥
ye ye samāgatāḥ ca atra te te sarve tvayā yathā .. kathayitvā gatāḥ hi atra na āyānti adya api vaṃcakāḥ .. 4.40.60 ..
त्वं चापि संकटे प्राप्तो व्यलीकं च गमिष्यसि ॥ मम सञ्जीवनं चाद्य भविष्यति कथं मृग ॥ ६१ ॥
त्वम् च अपि संकटे प्राप्तः व्यलीकम् च गमिष्यसि ॥ मम सञ्जीवनम् च अद्य भविष्यति कथम् मृग ॥ ६१ ॥
tvam ca api saṃkaṭe prāptaḥ vyalīkam ca gamiṣyasi .. mama sañjīvanam ca adya bhaviṣyati katham mṛga .. 61 ..
मृग उवाच ।।
शृणु व्याध प्रवक्ष्यामि नानृतं विद्यते मयि ॥ सत्येन सर्वं ब्रह्माण्डं तिष्ठत्येव चराचरम् ॥ ६२॥
शृणु व्याध प्रवक्ष्यामि न अनृतम् विद्यते मयि ॥ सत्येन सर्वम् ब्रह्माण्डम् तिष्ठति एव चराचरम् ॥ ६२॥
śṛṇu vyādha pravakṣyāmi na anṛtam vidyate mayi .. satyena sarvam brahmāṇḍam tiṣṭhati eva carācaram .. 62..
यस्य वाणी व्यलीका हि तत्पुण्यं गलितं क्षणात् ॥ तथापि शृणु वै सत्यां प्रतिज्ञां मम भिल्लक ॥ ६३ ॥
यस्य वाणी व्यलीका हि तत् पुण्यम् गलितम् क्षणात् ॥ तथा अपि शृणु वै सत्याम् प्रतिज्ञाम् मम भिल्लक ॥ ६३ ॥
yasya vāṇī vyalīkā hi tat puṇyam galitam kṣaṇāt .. tathā api śṛṇu vai satyām pratijñām mama bhillaka .. 63 ..
सन्ध्यायां मैथुने घस्रे शिवरात्र्यां च भोजने ॥ कूटसाक्ष्ये न्यासहारे संध्याहीने द्विजे तथा ॥ ६४ ॥
सन्ध्यायाम् मैथुने घस्रे शिव-रात्र्याम् च भोजने ॥ कूट-साक्ष्ये न्यासहारे संध्या-हीने द्विजे तथा ॥ ६४ ॥
sandhyāyām maithune ghasre śiva-rātryām ca bhojane .. kūṭa-sākṣye nyāsahāre saṃdhyā-hīne dvije tathā .. 64 ..
शिवहीनं मुखं यस्य नोपकर्ता क्षमोऽपि सन् ॥ पर्वणि श्रीफलस्यैव त्रोटनेऽभक्ष्यभक्षणे ॥ ६५ ॥
शिव-हीनम् मुखम् यस्य न उपकर्ता क्षमः अपि सन् ॥ पर्वणि श्रीफलस्य एव त्रोटने अभक्ष्य-भक्षणे ॥ ६५ ॥
śiva-hīnam mukham yasya na upakartā kṣamaḥ api san .. parvaṇi śrīphalasya eva troṭane abhakṣya-bhakṣaṇe .. 65 ..
असंपूज्य शिवं भस्मरहितश्चान्नभुक् च यः ॥ एतेषां पातकं मे स्यान्नागच्छेयं पुनर्यदि ॥ ६६ ॥
अ संपूज्य शिवम् भस्म-रहितः च अन्न-भुज् च यः ॥ एतेषाम् पातकम् मे स्यात् न आगच्छेयम् पुनर् यदि ॥ ६६ ॥
a saṃpūjya śivam bhasma-rahitaḥ ca anna-bhuj ca yaḥ .. eteṣām pātakam me syāt na āgaccheyam punar yadi .. 66 ..
शिव उवाच ।।
इति श्रुत्वा वचस्तस्य गच्छ शीघ्रं समाव्रज ॥ स व्याधेनैवमुक्तस्तु जलं पीत्वा गतो मृगः ॥ ६७ ॥
इति श्रुत्वा वचः तस्य गच्छ शीघ्रम् समाव्रज ॥ स व्याधेन एवम् उक्तः तु जलम् पीत्वा गतः मृगः ॥ ६७ ॥
iti śrutvā vacaḥ tasya gaccha śīghram samāvraja .. sa vyādhena evam uktaḥ tu jalam pītvā gataḥ mṛgaḥ .. 67 ..
ते सर्वे मिलितास्तत्र स्वाश्रमे कृतसुप्रणाः ॥ वृत्तांतं चैव तं सर्वं श्रुत्वा सम्यक् परस्परम्॥६८॥
ते सर्वे मिलिताः तत्र स्व-आश्रमे ॥ वृत्तांतम् च एव तम् सर्वम् श्रुत्वा सम्यक् परस्परम्॥६८॥
te sarve militāḥ tatra sva-āśrame .. vṛttāṃtam ca eva tam sarvam śrutvā samyak parasparam..68..
गन्तव्यं निश्चयेनेति सत्यपाशेन यंत्रिताः ॥ आश्वास्य बालकांस्तत्र गन्तुमुत्कण्ठितास्तदा ॥ ६९ ॥
गन्तव्यम् निश्चयेन इति सत्य-पाशेन यंत्रिताः ॥ आश्वास्य बालकान् तत्र गन्तुम् उत्कण्ठिताः तदा ॥ ६९ ॥
gantavyam niścayena iti satya-pāśena yaṃtritāḥ .. āśvāsya bālakān tatra gantum utkaṇṭhitāḥ tadā .. 69 ..
मृगी ज्येष्ठा च या तत्र स्वामिनं वाक्यमब्रवीत् ॥ त्वां विना बालका ह्यत्र कथं स्थास्यंति वै मृग ॥ 4.40.७० ॥
मृगी ज्येष्ठा च या तत्र स्वामिनम् वाक्यम् अब्रवीत् ॥ त्वाम् विना बालकाः हि अत्र कथम् स्थास्यंति वै मृग ॥ ४।४०।७० ॥
mṛgī jyeṣṭhā ca yā tatra svāminam vākyam abravīt .. tvām vinā bālakāḥ hi atra katham sthāsyaṃti vai mṛga .. 4.40.70 ..
प्रथमं तु मया तत्र प्रतिज्ञा च कृता प्रभो ॥ तस्मान्मया च गन्तव्यं भवद्भ्यां स्थीयतामिह ॥ ७१ ॥
प्रथमम् तु मया तत्र प्रतिज्ञा च कृता प्रभो ॥ तस्मात् मया च गन्तव्यम् भवद्भ्याम् स्थीयताम् इह ॥ ७१ ॥
prathamam tu mayā tatra pratijñā ca kṛtā prabho .. tasmāt mayā ca gantavyam bhavadbhyām sthīyatām iha .. 71 ..
इति तद्वचनं श्रुत्वा कनिष्ठा वाक्यमब्रवीत् ॥ अहं त्वत्सेविका चाद्य गच्छामि स्थीयतां त्वया॥७२॥
इति तत् वचनम् श्रुत्वा कनिष्ठा वाक्यम् अब्रवीत् ॥ अहम् त्वद्-सेविका च अद्य गच्छामि स्थीयताम् त्वया॥७२॥
iti tat vacanam śrutvā kaniṣṭhā vākyam abravīt .. aham tvad-sevikā ca adya gacchāmi sthīyatām tvayā..72..
तच्छ्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ॥ भवत्यौ तिष्ठतां चात्र मातृतः शिशुरक्षणम्॥७३॥
तत् श्रुत्वा च मृगः प्राह गम्यते तत्र वै मया ॥ भवत्यौ तिष्ठताम् च अत्र मातृतः शिशु-रक्षणम्॥७३॥
tat śrutvā ca mṛgaḥ prāha gamyate tatra vai mayā .. bhavatyau tiṣṭhatām ca atra mātṛtaḥ śiśu-rakṣaṇam..73..
तत्स्वामिवचनं श्रुत्वा मेनाते तन्न धर्मतः ॥ प्रोचुः प्रीत्या स्वभर्तारं वैधव्ये जीवितं च धिक् ॥ ७४॥
तद्-स्वामि-वचनम् श्रुत्वा मेनाते तत् न धर्मतः ॥ प्रोचुः प्रीत्या स्व-भर्तारम् वैधव्ये जीवितम् च धिक् ॥ ७४॥
tad-svāmi-vacanam śrutvā menāte tat na dharmataḥ .. procuḥ prītyā sva-bhartāram vaidhavye jīvitam ca dhik .. 74..
बालानाश्वास्य तांस्तत्र समर्प्य सहवासिनः ॥ गतास्ते सर्व एवाशु यत्रास्ते व्याधसत्तमः ॥ ७५ ॥
बालान् आश्वास्य तान् तत्र समर्प्य सहवासिनः ॥ गताः ते सर्वे एव आशु यत्र आस्ते व्याध-सत्तमः ॥ ७५ ॥
bālān āśvāsya tān tatra samarpya sahavāsinaḥ .. gatāḥ te sarve eva āśu yatra āste vyādha-sattamaḥ .. 75 ..
ते बाला अपि सर्वे वै विलोक्यानुसमागताः ॥ एतेषां या गतिः स्याद्वै ह्यस्माकं सा भवत्विति ॥ ७६ ॥
ते बालाः अपि सर्वे वै विलोक्य अनुसमागताः ॥ एतेषाम् या गतिः स्यात् वै हि अस्माकम् सा भवतु इति ॥ ७६ ॥
te bālāḥ api sarve vai vilokya anusamāgatāḥ .. eteṣām yā gatiḥ syāt vai hi asmākam sā bhavatu iti .. 76 ..
तान् दृष्ट्वा हर्षितो व्याधो बाणं धनुषि संदधे ॥ पुनश्च जलपत्राणि पतितानि शिवोपरि ॥ ७७ ॥
तान् दृष्ट्वा हर्षितः व्याधः बाणम् धनुषि संदधे ॥ पुनर् च जल-पत्राणि पतितानि शिव-उपरि ॥ ७७ ॥
tān dṛṣṭvā harṣitaḥ vyādhaḥ bāṇam dhanuṣi saṃdadhe .. punar ca jala-patrāṇi patitāni śiva-upari .. 77 ..
तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ॥ तस्य पापन्तदा सर्वं भस्मसादभवत् क्षणात् ॥ ७८ ॥
तेन जाता चतुर्थस्य पूजा यामस्य वै शुभा ॥ तस्य पापन्तदा सर्वम् भस्मसात् अभवत् क्षणात् ॥ ७८ ॥
tena jātā caturthasya pūjā yāmasya vai śubhā .. tasya pāpantadā sarvam bhasmasāt abhavat kṣaṇāt .. 78 ..
मृगी मृगी मृगश्चोचुश्शीघ्रं वै व्याधसत्तम ॥ अस्माकं सार्थकं देहं कुरु त्वं हि कृपां कुरु ॥ ७९ ॥
मृगी मृगी मृगः च ऊचुः शीघ्रम् वै व्याध-सत्तम ॥ अस्माकम् सार्थकम् देहम् कुरु त्वम् हि कृपाम् कुरु ॥ ७९ ॥
mṛgī mṛgī mṛgaḥ ca ūcuḥ śīghram vai vyādha-sattama .. asmākam sārthakam deham kuru tvam hi kṛpām kuru .. 79 ..
।। शिव उवाच ।।
इति तेषां वचश्श्रुत्वा व्याधो विस्मयमागतः ॥ शिवपूजाप्रभावेण ज्ञानं दुर्लभमाप्तवान् ॥ 4.40.८० ॥
इति तेषाम् वचः श्रुत्वा व्याधः विस्मयम् आगतः ॥ शिव-पूजा-प्रभावेण ज्ञानम् दुर्लभम् आप्तवान् ॥ ४।४०।८० ॥
iti teṣām vacaḥ śrutvā vyādhaḥ vismayam āgataḥ .. śiva-pūjā-prabhāveṇa jñānam durlabham āptavān .. 4.40.80 ..
एते धन्या मृगाश्चैव ज्ञानहीनास्सुसंमताः ॥ स्वीयेनैव शरीरेण परोपकरणे रताः ॥ ८१॥
एते धन्याः मृगाः च एव ज्ञान-हीनाः सु संमताः ॥ स्वीयेन एव शरीरेण पर-उपकरणे रताः ॥ ८१॥
ete dhanyāḥ mṛgāḥ ca eva jñāna-hīnāḥ su saṃmatāḥ .. svīyena eva śarīreṇa para-upakaraṇe ratāḥ .. 81..
मानुष्यं जन्म संप्राप्य साधितं किं मयाधुना ॥ परकायं च संपीड्य शरीरं पोषितं मया ॥ ८२ ॥
मानुष्यम् जन्म संप्राप्य साधितम् किम् मया अधुना ॥ पर-कायम् च संपीड्य शरीरम् पोषितम् मया ॥ ८२ ॥
mānuṣyam janma saṃprāpya sādhitam kim mayā adhunā .. para-kāyam ca saṃpīḍya śarīram poṣitam mayā .. 82 ..
कुटुम्बं पोषितं नित्यं कृत्वा पापान्यनेकशः ॥ एवं पापानि हा कृत्वा का गतिर्मे भविष्यति ॥ २३ ॥
कुटुम्बम् पोषितम् नित्यम् कृत्वा पापानि अनेकशस् ॥ एवम् पापानि हा कृत्वा का गतिः मे भविष्यति ॥ २३ ॥
kuṭumbam poṣitam nityam kṛtvā pāpāni anekaśas .. evam pāpāni hā kṛtvā kā gatiḥ me bhaviṣyati .. 23 ..
कां वा गतिं गमिष्यामि पातकं जन्मतः कृतम् ॥ इदानीं चिंतयाम्येवं धिग्धिक् च जीवनं मम ॥ ८४ ॥
काम् वा गतिम् गमिष्यामि पातकम् जन्मतः कृतम् ॥ इदानीम् चिंतयामि एवम् धिक् धिक् च जीवनम् मम ॥ ८४ ॥
kām vā gatim gamiṣyāmi pātakam janmataḥ kṛtam .. idānīm ciṃtayāmi evam dhik dhik ca jīvanam mama .. 84 ..
इति ज्ञानं समापन्नो बाणं संवारयंस्तदा ॥ गम्यतां च मृगश्रेष्ठा धन्याः स्थ इति चाब्रवीत् ॥ ८५ ॥
इति ज्ञानम् समापन्नः बाणम् संवारयन् तदा ॥ गम्यताम् च मृग-श्रेष्ठाः धन्याः स्थ इति च अब्रवीत् ॥ ८५ ॥
iti jñānam samāpannaḥ bāṇam saṃvārayan tadā .. gamyatām ca mṛga-śreṣṭhāḥ dhanyāḥ stha iti ca abravīt .. 85 ..
शिव उवाच ।।
इत्युक्ते च तदा तेन प्रसन्नश्शंकरस्तदा ॥ पूजितं च स्वरूपं हि दर्शयामास संमतम् ॥ ८६॥
इति उक्ते च तदा तेन प्रसन्नः शंकरः तदा ॥ पूजितम् च स्व-रूपम् हि दर्शयामास संमतम् ॥ ८६॥
iti ukte ca tadā tena prasannaḥ śaṃkaraḥ tadā .. pūjitam ca sva-rūpam hi darśayāmāsa saṃmatam .. 86..
संस्पृश्य कृपया शंभुस्तं व्याधं प्रीतितोऽब्रवीत् ॥ वरं ब्रूहि प्रसन्नोऽस्मि व्रतेनानेन भिल्लक ॥ ८७ ॥
संस्पृश्य कृपया शंभुः तम् व्याधम् प्रीतितः अब्रवीत् ॥ वरम् ब्रूहि प्रसन्नः अस्मि व्रतेन अनेन भिल्लक ॥ ८७ ॥
saṃspṛśya kṛpayā śaṃbhuḥ tam vyādham prītitaḥ abravīt .. varam brūhi prasannaḥ asmi vratena anena bhillaka .. 87 ..
व्याधोऽपि शिवरूपं च दृष्ट्वा मुक्तोऽभवत्क्षणात्॥पपात शिवपादाग्रे सर्वं प्राप्तमिति बुवन् ॥ ८८॥
व्याधः अपि शिव-रूपम् च दृष्ट्वा मुक्तः अभवत् क्षणात्॥पपात शिव-पाद-अग्रे सर्वम् प्राप्तम् इति बुवन् ॥ ८८॥
vyādhaḥ api śiva-rūpam ca dṛṣṭvā muktaḥ abhavat kṣaṇāt..papāta śiva-pāda-agre sarvam prāptam iti buvan .. 88..
शिवोऽपि सुप्रन्नात्मा नाम दत्वा गुहेति च ॥ विलोक्य तं कृपादृष्ट्या तस्मै दिव्यान्वरानदात् ॥ ।८९॥
शिवः अपि सु प्रन्न-आत्मा नाम द-त्वा गुहा इति च ॥ विलोक्य तम् कृपा-दृष्ट्या तस्मै दिव्यान् वरान् अदात् ॥ ।८९॥
śivaḥ api su pranna-ātmā nāma da-tvā guhā iti ca .. vilokya tam kṛpā-dṛṣṭyā tasmai divyān varān adāt .. .89..
शिव उवाच ।।
शृणु व्याधाद्य भोगांस्त्वं भुंक्ष्व दिव्यान्यथेप्सितान् ॥ राजधानीं समाश्रित्य शृंगवेरपुरे पराम् ॥ 4.40.९०॥
शृणु व्याध अद्य भोगान् त्वम् भुंक्ष्व दिव्यान् यथा ईप्सितान् ॥ राजधानीम् समाश्रित्य शृंगवेर-पुरे पराम् ॥ ४।४०।९०॥
śṛṇu vyādha adya bhogān tvam bhuṃkṣva divyān yathā īpsitān .. rājadhānīm samāśritya śṛṃgavera-pure parām .. 4.40.90..
अनपाया वंशवृद्धिश्श्लाघनीयः सुरैरपि ॥ गृहे रामस्तव व्याध समायास्यति निश्चितम् ॥ ९१॥
अनपाया वंश-वृद्धिः श्लाघनीयः सुरैः अपि ॥ गृहे रामः तव व्याध समायास्यति निश्चितम् ॥ ९१॥
anapāyā vaṃśa-vṛddhiḥ ślāghanīyaḥ suraiḥ api .. gṛhe rāmaḥ tava vyādha samāyāsyati niścitam .. 91..
करिष्यति त्वया मैत्री मद्भक्तस्नेहकारकः ॥ मत्सेवासक्तचेतास्त्वं मुक्तिं यास्यसि दुर्लभाम् ॥ ९२॥
करिष्यति त्वया मैत्री मद्-भक्त-स्नेह-कारकः ॥ मद्-सेवा-आसक्त-चेताः त्वम् मुक्तिम् यास्यसि दुर्लभाम् ॥ ९२॥
kariṣyati tvayā maitrī mad-bhakta-sneha-kārakaḥ .. mad-sevā-āsakta-cetāḥ tvam muktim yāsyasi durlabhām .. 92..
एतस्मिन्नंतरे ते तु कृत्वा शंकरदर्शनम् ॥ सर्वे प्रणम्य सन्मुक्तिं मृगयोनेः प्रपेदिरे ॥ ९३ ॥
एतस्मिन् अन्तरे ते तु कृत्वा शंकर-दर्शनम् ॥ सर्वे प्रणम्य सत्-मुक्तिम् मृग-योनेः प्रपेदिरे ॥ ९३ ॥
etasmin antare te tu kṛtvā śaṃkara-darśanam .. sarve praṇamya sat-muktim mṛga-yoneḥ prapedire .. 93 ..
विमानं च समारुह्य दिव्यदेहा गतास्तदा ॥ शिवदर्शनमात्रेण शापान्मुक्ता दिवं गताः ॥ ९४ ॥
विमानम् च समारुह्य दिव्य-देहाः गताः तदा ॥ शिव-दर्शन-मात्रेण शापात् मुक्ताः दिवम् गताः ॥ ९४ ॥
vimānam ca samāruhya divya-dehāḥ gatāḥ tadā .. śiva-darśana-mātreṇa śāpāt muktāḥ divam gatāḥ .. 94 ..
व्याधेश्वरः शिवो जातः पर्वते ह्यर्बुदाचले ॥ दर्शनात्पूजनात्सद्यो भुक्तिमुक्तिप्रदायकः ॥ ९५॥
व्याधेश्वरः शिवः जातः पर्वते हि अर्बुद-अचले ॥ दर्शनात् पूजनात् सद्यस् भुक्ति-मुक्ति-प्रदायकः ॥ ९५॥
vyādheśvaraḥ śivaḥ jātaḥ parvate hi arbuda-acale .. darśanāt pūjanāt sadyas bhukti-mukti-pradāyakaḥ .. 95..
व्याधोपि तद्दिनान्नूनं भोगान्स सुरसत्तम ॥ भुक्त्वा रामकृपां प्राप्य शिवसायुज्यमाप्तवान् ॥ ९६ ॥
व्याधः अपि तद्-दिनात् नूनम् भोगान् स सुर-सत्तम ॥ भुक्त्वा राम-कृपाम् प्राप्य शिव-सायुज्यम् आप्तवान् ॥ ९६ ॥
vyādhaḥ api tad-dināt nūnam bhogān sa sura-sattama .. bhuktvā rāma-kṛpām prāpya śiva-sāyujyam āptavān .. 96 ..
अज्ञानात्स व्रतञ्चैतत्कृत्वा सायुज्यमाप्तवान् ॥ किं पुनर्भक्तिसंपन्ना यान्ति तन्मयतां शुभाम्॥९७॥
अज्ञानात् स व्रतञ्च च एतत् कृत्वा सायुज्यम् आप्तवान् ॥ किम् पुनर् भक्ति-संपन्नाः यान्ति तद्-मय-ताम् शुभाम्॥९७॥
ajñānāt sa vratañca ca etat kṛtvā sāyujyam āptavān .. kim punar bhakti-saṃpannāḥ yānti tad-maya-tām śubhām..97..
विचार्य्य सर्वशास्त्राणि धर्मांश्चैवाप्यनेकशः॥शिवरात्रिव्रतमिदं सर्वोत्कृष्टं प्रकीर्तितम्॥९८॥
विचार्य्य सर्व-शास्त्राणि धर्मान् च एव अपि अनेकशस्॥शिवरात्रि-व्रतम् इदम् सर्व-उत्कृष्टम् प्रकीर्तितम्॥९८॥
vicāryya sarva-śāstrāṇi dharmān ca eva api anekaśas..śivarātri-vratam idam sarva-utkṛṣṭam prakīrtitam..98..
व्रतानि विविधान्यत्र तीर्थानि विविधानि च ॥ दानानि च विचित्राणि मखाश्च विविधास्तथा ॥ ९९॥
व्रतानि विविधानि अत्र तीर्थानि विविधानि च ॥ दानानि च विचित्राणि मखाः च विविधाः तथा ॥ ९९॥
vratāni vividhāni atra tīrthāni vividhāni ca .. dānāni ca vicitrāṇi makhāḥ ca vividhāḥ tathā .. 99..
तपांसि विविधान्येव जपाश्चैवाप्य नेकशः ॥ नैतेन समतां यान्ति शिवरात्रिव्रतेन च ॥ 4.40.१००॥
तपांसि विविधानि एव जपाः च एव आप्य नेकशस् ॥ न एतेन सम-ताम् यान्ति शिव-रात्रि-व्रतेन च ॥ ४।४०।१००॥
tapāṃsi vividhāni eva japāḥ ca eva āpya nekaśas .. na etena sama-tām yānti śiva-rātri-vratena ca .. 4.40.100..
तस्माच्छुभतरं चैतत्कर्तव्यं हितमीप्सुभिः ॥ शिवरात्रिव्रतन्दिव्यं भुक्ति मुक्तिप्रदं सदा ॥ १०१ ॥
तस्मात् शुभतरम् च एतत् कर्तव्यम् हितम् ईप्सुभिः ॥ शिवरात्रि-व्रतन् दिव्यम् मुक्ति-प्रदम् सदा ॥ १०१ ॥
tasmāt śubhataram ca etat kartavyam hitam īpsubhiḥ .. śivarātri-vratan divyam mukti-pradam sadā .. 101 ..
एतत्सर्वं समाख्यातं शिवरात्रिव्रतं शुभम् ॥ व्रतराजेति विख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ १०२ ॥
एतत् सर्वम् समाख्यातम् शिवरात्रि-व्रतम् शुभम् ॥ व्रतराजा इति विख्यातम् किम् अन्यत् श्रोतुम् इच्छसि ॥ १०२ ॥
etat sarvam samākhyātam śivarātri-vratam śubham .. vratarājā iti vikhyātam kim anyat śrotum icchasi .. 102 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ४०॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमाहात्म्यवर्णनम् नाम चत्वारिंशः अध्यायः ॥ ४०॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām vyādheśvaramāhātmye śivarātrivratamāhātmyavarṇanam nāma catvāriṃśaḥ adhyāyaḥ .. 40..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In