| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
मुक्तिर्नाम त्वया प्रोक्ता तस्यां किं नु भवेदिह ॥ अवस्था कीदृशी तत्र भवेदिति वदस्व नः ॥ १ ॥
मुक्तिः नाम त्वया प्रोक्ता तस्याम् किम् नु भवेत् इह ॥ अवस्था कीदृशी तत्र भवेत् इति वदस्व नः ॥ १ ॥
muktiḥ nāma tvayā proktā tasyām kim nu bhavet iha .. avasthā kīdṛśī tatra bhavet iti vadasva naḥ .. 1 ..
सूत उवाच ।।।
मुक्तिश्चतुर्विधा प्रोक्ता श्रूयतां कथयामि वः ॥ संसारक्लेशसंहर्त्री परमानन्ददायिनी ॥ २ ॥
मुक्तिः चतुर्विधा प्रोक्ता श्रूयताम् कथयामि वः ॥ संसार-क्लेश-संहर्त्री परमानन्द-दायिनी ॥ २ ॥
muktiḥ caturvidhā proktā śrūyatām kathayāmi vaḥ .. saṃsāra-kleśa-saṃhartrī paramānanda-dāyinī .. 2 ..
सारूप्या चैव सालोक्या सान्निध्या च तथा परा ॥ सायुज्या च चतुर्थी सा व्रतेनानेन या भवेत् ॥ ३॥
सारूप्या च एव सालोक्या सान्निध्या च तथा परा ॥ सायुज्या च चतुर्थी सा व्रतेन अनेन या भवेत् ॥ ३॥
sārūpyā ca eva sālokyā sānnidhyā ca tathā parā .. sāyujyā ca caturthī sā vratena anena yā bhavet .. 3..
मुक्तेर्दाता मुनिश्रेष्ठाः केवलं शिव उच्यते॥ब्रह्माद्या न हि ते ज्ञेया केवलं च त्रिवर्गदाः ॥ ४॥
मुक्तेः दाता मुनि-श्रेष्ठाः केवलम् शिवः उच्यते॥ब्रह्म-आद्याः न हि ते ज्ञेया केवलम् च त्रिवर्ग-दाः ॥ ४॥
mukteḥ dātā muni-śreṣṭhāḥ kevalam śivaḥ ucyate..brahma-ādyāḥ na hi te jñeyā kevalam ca trivarga-dāḥ .. 4..
ब्रह्माद्यास्त्रिगुणाधीशाश्शिवस्त्रिगुणतः परः ॥ निर्विकारी परब्रह्म तुर्यः प्रकृतितः परः ॥ ५॥।
ब्रह्म-आद्याः त्रिगुण-अधीशाः शिवः त्रिगुणतः परः ॥ निर्विकारी पर-ब्रह्म तुर्यः प्रकृतितः परः ॥ ५॥।
brahma-ādyāḥ triguṇa-adhīśāḥ śivaḥ triguṇataḥ paraḥ .. nirvikārī para-brahma turyaḥ prakṛtitaḥ paraḥ .. 5...
ज्ञानरूपोऽव्ययः साक्षी ज्ञानगम्योऽद्वयस्स्वयम् ॥ कैवल्यमुक्तिदस्सोऽत्र त्रिवर्गस्य प्रदोऽपि हि ॥ ६॥
ज्ञान-रूपः अव्ययः साक्षी ज्ञान-गम्यः अद्वयः स्वयम् ॥ कैवल्य-मुक्ति-दः सः अत्र त्रिवर्गस्य प्रदः अपि हि ॥ ६॥
jñāna-rūpaḥ avyayaḥ sākṣī jñāna-gamyaḥ advayaḥ svayam .. kaivalya-mukti-daḥ saḥ atra trivargasya pradaḥ api hi .. 6..
कैवल्याख्या पंचमी च दुर्लभा सर्वथा नृणाम् ॥ तल्लक्षणं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ॥ ७ ॥
कैवल्य-आख्या पंचमी च दुर्लभा सर्वथा नृणाम् ॥ तद्-लक्षणम् प्रवक्ष्यामि श्रूयताम् ऋषि-सत्तमाः ॥ ७ ॥
kaivalya-ākhyā paṃcamī ca durlabhā sarvathā nṛṇām .. tad-lakṣaṇam pravakṣyāmi śrūyatām ṛṣi-sattamāḥ .. 7 ..
उत्पद्यते यतः सर्वं येनैतत्पाल्यते जगत् ॥ यस्मिंश्च लीयते तद्धि येन सर्वमिदं ततम् ॥ ८ ॥
उत्पद्यते यतस् सर्वम् येन एतत् पाल्यते जगत् ॥ यस्मिन् च लीयते तत् हि येन सर्वम् इदम् ततम् ॥ ८ ॥
utpadyate yatas sarvam yena etat pālyate jagat .. yasmin ca līyate tat hi yena sarvam idam tatam .. 8 ..
तदेव शिवरूपं हि पठ्यते च मुनीश्वराः ॥ सकलं निष्कलं चेति द्विविधं वेदवर्णितम् ॥ ९ ॥
तत् एव शिव-रूपम् हि पठ्यते च मुनि-ईश्वराः ॥ सकलम् निष्कलम् च इति द्विविधम् वेद-वर्णितम् ॥ ९ ॥
tat eva śiva-rūpam hi paṭhyate ca muni-īśvarāḥ .. sakalam niṣkalam ca iti dvividham veda-varṇitam .. 9 ..
विष्णुना तच्च न ज्ञातं ब्रह्मणा न च तत्तथा ॥ कुमाराद्यैश्च न ज्ञातं न ज्ञातं नारदेन वै ॥ 4.41.१०॥
विष्णुना तत् च न ज्ञातम् ब्रह्मणा न च तत् तथा ॥ कुमार-आद्यैः च न ज्ञातम् न ज्ञातम् नारदेन वै ॥ ४।४१।१०॥
viṣṇunā tat ca na jñātam brahmaṇā na ca tat tathā .. kumāra-ādyaiḥ ca na jñātam na jñātam nāradena vai .. 4.41.10..
शुकेन व्यास पुत्रेण व्यासेन च मुनीश्वरैः।तत्पूर्वैश्चाखिलैर्देवैर्वेदैः शास्त्रैस्तथा न हि॥११॥
शुकेन व्यास-पुत्रेण व्यासेन च मुनि-ईश्वरैः।तद्-पूर्वैः च अखिलैः देवैः वेदैः शास्त्रैः तथा न हि॥११॥
śukena vyāsa-putreṇa vyāsena ca muni-īśvaraiḥ.tad-pūrvaiḥ ca akhilaiḥ devaiḥ vedaiḥ śāstraiḥ tathā na hi..11..
सत्यं ज्ञानमनंतं च सच्चिदानन्दसंज्ञितम्॥निर्गुणो निरुपाधिश्चाव्ययः शुद्धो निरंजनः ॥ १२॥
सत्यम् ज्ञानम् अनंतम् च सच्चिदानन्द-संज्ञितम्॥निर्गुणः निरुपाधिः च अव्ययः शुद्धः निरंजनः ॥ १२॥
satyam jñānam anaṃtam ca saccidānanda-saṃjñitam..nirguṇaḥ nirupādhiḥ ca avyayaḥ śuddhaḥ niraṃjanaḥ .. 12..
न रक्तो नैव पीतश्च न श्वेतो नील एव च ॥ न ह्रस्वो न च दीर्घश्च न स्थूलस्सूक्ष्म एव च॥१३॥
न रक्तः न एव पीतः च न श्वेतः नीलः एव च ॥ न ह्रस्वः न च दीर्घः च न स्थूलः सूक्ष्मः एव च॥१३॥
na raktaḥ na eva pītaḥ ca na śvetaḥ nīlaḥ eva ca .. na hrasvaḥ na ca dīrghaḥ ca na sthūlaḥ sūkṣmaḥ eva ca..13..
यतो वाचो निवर्तंते अप्राप्य मनसा सह॥तदेव परमं प्रोक्तं ब्रह्मैव शिवसंज्ञकम्॥१४॥
यतस् वाचः निवर्तन्ते अ प्राप्य मनसा सह॥तत् एव परमम् प्रोक्तम् ब्रह्म एव शिव-संज्ञकम्॥१४॥
yatas vācaḥ nivartante a prāpya manasā saha..tat eva paramam proktam brahma eva śiva-saṃjñakam..14..
आकाशं व्यापकं यद्वत्तथैव व्यापकन्त्विदम्॥मायातीतं परात्मानं द्वन्द्वातीतं विमत्सरम् ॥ १५॥
आकाशम् व्यापकम् यद्वत् तथा एव व्यापकम् तु इदम्॥माया-अतीतम् परात्मानम् द्वन्द्व-अतीतम् विमत्सरम् ॥ १५॥
ākāśam vyāpakam yadvat tathā eva vyāpakam tu idam..māyā-atītam parātmānam dvandva-atītam vimatsaram .. 15..
तत्प्राप्तिश्च भवेदत्र शिवज्ञानोदयाद्ध्रुवम् ॥ भजनाद्वा शिवस्यैव सूक्ष्ममत्या सतां द्विजाः॥१६॥
तद्-प्राप्तिः च भवेत् अत्र शिव-ज्ञान-उदयात् ध्रुवम् ॥ भजनात् वा शिवस्य एव सूक्ष्म-मत्या सताम् द्विजाः॥१६॥
tad-prāptiḥ ca bhavet atra śiva-jñāna-udayāt dhruvam .. bhajanāt vā śivasya eva sūkṣma-matyā satām dvijāḥ..16..
ज्ञानं तु दुष्करं लोके भजनं सुकरं मतम् ॥ तस्माच्छिवं च भजत मुक्त्यर्थमपि सत्तमाः ॥ १७ ॥
ज्ञानम् तु दुष्करम् लोके भजनम् सुकरम् मतम् ॥ तस्मात् शिवम् च भजत मुक्ति-अर्थम् अपि सत्तमाः ॥ १७ ॥
jñānam tu duṣkaram loke bhajanam sukaram matam .. tasmāt śivam ca bhajata mukti-artham api sattamāḥ .. 17 ..
शिवो हि भजनाधीनो ज्ञानात्मा मोक्षदः परः ॥ भक्त्यैव बहवः सिद्धा मुक्तिं प्रापुः परां मुदा ॥ १८॥
शिवः हि भजन-अधीनः ज्ञान-आत्मा मोक्ष-दः परः ॥ भक्त्या एव बहवः सिद्धाः मुक्तिम् प्रापुः पराम् मुदा ॥ १८॥
śivaḥ hi bhajana-adhīnaḥ jñāna-ātmā mokṣa-daḥ paraḥ .. bhaktyā eva bahavaḥ siddhāḥ muktim prāpuḥ parām mudā .. 18..
ज्ञानमाता शंभुभक्तिर्मुक्तिभुक्तिप्रदा सदा ॥ सुलभा यत्प्रसादाद्धि सत्प्रेमांकुर लक्षणा ॥ १९ ॥
ज्ञानमाता शंभु-भक्तिः मुक्ति-भुक्ति-प्रदा सदा ॥ सुलभा यद्-प्रसादात् हि सत्-प्रेम-अंकुर लक्षणा ॥ १९ ॥
jñānamātā śaṃbhu-bhaktiḥ mukti-bhukti-pradā sadā .. sulabhā yad-prasādāt hi sat-prema-aṃkura lakṣaṇā .. 19 ..
सा भक्तिर्विविधा ज्ञेया सगुणा निर्गुणा द्विजाः ॥ वैधी स्वाभाविकी याया वरा सासा स्मृता परा ॥ 4.41.२० ॥
सा भक्तिः विविधा ज्ञेया स गुणा निर्गुणा द्विजाः ॥ वैधी स्वाभाविकी वरा सासा स्मृता परा ॥ ४।४१।२० ॥
sā bhaktiḥ vividhā jñeyā sa guṇā nirguṇā dvijāḥ .. vaidhī svābhāvikī varā sāsā smṛtā parā .. 4.41.20 ..
नैष्ठिक्यनैष्ठिकीभेदाद्विविधैव हि कीर्तिता॥षड्विधा नैष्ठिकी भेदाद्द्वितीयैकविधा स्मृता ॥ २१॥
नैष्ठिकी अनैष्ठिकी भेदात् विविधा एव हि कीर्तिता॥षड्विधा नैष्ठिकी भेदात् द्वितीया एकविधा स्मृता ॥ २१॥
naiṣṭhikī anaiṣṭhikī bhedāt vividhā eva hi kīrtitā..ṣaḍvidhā naiṣṭhikī bhedāt dvitīyā ekavidhā smṛtā .. 21..
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ॥ तयोर्बहुविधत्वाच्च विस्तारो न हि वर्ण्यते ॥ २२॥
विहित-अ विहित-अभेदात् ताम् अनेकाम् विदुः बुधाः ॥ तयोः बहुविध-त्वात् च विस्तारः न हि वर्ण्यते ॥ २२॥
vihita-a vihita-abhedāt tām anekām viduḥ budhāḥ .. tayoḥ bahuvidha-tvāt ca vistāraḥ na hi varṇyate .. 22..
ते नवांगे उभे ज्ञेये श्रवणादिकभेदतः ॥ सुदुष्करे तत्प्रसादं विना च सुकरे ततः ॥ २३ ॥
ते नव-अंगे उभे ज्ञेये श्रवण-आदिक-भेदतः ॥ सु दुष्करे तद्-प्रसादम् विना च सुकरे ततस् ॥ २३ ॥
te nava-aṃge ubhe jñeye śravaṇa-ādika-bhedataḥ .. su duṣkare tad-prasādam vinā ca sukare tatas .. 23 ..
भक्तिज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ॥ तस्माद्भेदो न कर्तव्यस्तत्कर्तुस्सर्वदा सुखम् ॥ २४ ॥
भक्ति-ज्ञाने न भिन्ने हि शंभुना वर्णिते द्विजाः ॥ तस्मात् भेदः न कर्तव्यः तद्-कर्तुः सर्वदा सुखम् ॥ २४ ॥
bhakti-jñāne na bhinne hi śaṃbhunā varṇite dvijāḥ .. tasmāt bhedaḥ na kartavyaḥ tad-kartuḥ sarvadā sukham .. 24 ..
विज्ञानं न भवत्येव द्विजा भक्तिविरोधिनः ॥ शंभुभक्तिकरस्यैव भवेज्ज्ञानोदयो द्रुतम् ॥ २५॥
विज्ञानम् न भवति एव द्विजाः भक्ति-विरोधिनः ॥ शंभु-भक्ति-करस्य एव भवेत् ज्ञान-उदयः द्रुतम् ॥ २५॥
vijñānam na bhavati eva dvijāḥ bhakti-virodhinaḥ .. śaṃbhu-bhakti-karasya eva bhavet jñāna-udayaḥ drutam .. 25..
तस्माद्भक्तिर्महेशस्य साधनीया मुनीश्वराः ॥ तयैव निखिलं सिद्धं भविष्यति न संशयः ॥ २६ ॥
तस्मात् भक्तिः महेशस्य साधनीया मुनि-ईश्वराः ॥ तया एव निखिलम् सिद्धम् भविष्यति न संशयः ॥ २६ ॥
tasmāt bhaktiḥ maheśasya sādhanīyā muni-īśvarāḥ .. tayā eva nikhilam siddham bhaviṣyati na saṃśayaḥ .. 26 ..
इति पृष्टं भवद्भिर्यत्तदेव कथितं मया ॥ तच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २७ ॥
इति पृष्टम् भवद्भिः यत् तत् एव कथितम् मया ॥ तत् शुत्वा सर्व-पापेभ्यः मुच्यते न अत्र संशयः ॥ २७ ॥
iti pṛṣṭam bhavadbhiḥ yat tat eva kathitam mayā .. tat śutvā sarva-pāpebhyaḥ mucyate na atra saṃśayaḥ .. 27 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां मुक्तिनिरूपणं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् मुक्तिनिरूपणम् नाम एकचत्वारिंशः अध्यायः ॥ ४१ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām muktinirūpaṇam nāma ekacatvāriṃśaḥ adhyāyaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In