| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
शिवः को वा हरिः को वा रुद्रः को वा विधिश्च कः ॥ एतेषु निर्गुणः को वा ह्येतं नश्छिन्धि संशयम् ॥ १ ॥
शिवः कः वा हरिः कः वा रुद्रः कः वा विधिः च कः ॥ एतेषु निर्गुणः कः वा हि एतम् नः छिन्धि संशयम् ॥ १ ॥
śivaḥ kaḥ vā hariḥ kaḥ vā rudraḥ kaḥ vā vidhiḥ ca kaḥ .. eteṣu nirguṇaḥ kaḥ vā hi etam naḥ chindhi saṃśayam .. 1 ..
सूत उवाच ।।
यच्चादौ हि समुत्पन्नं निर्गुणात्परमात्मनः ॥ तदेव शिवसंज्ञं हि वेदवेदांतिनो विदुः ॥ २ ॥
यत् च आदौ हि समुत्पन्नम् निर्गुणात् परमात्मनः ॥ तत् एव शिव-संज्ञम् हि वेद-वेदांतिनः विदुः ॥ २ ॥
yat ca ādau hi samutpannam nirguṇāt paramātmanaḥ .. tat eva śiva-saṃjñam hi veda-vedāṃtinaḥ viduḥ .. 2 ..
तस्मात्प्रकृतिरुत्पन्ना पुरुषेण समन्विता ॥ ताभ्यान्तपः कृतं तत्र मूलस्थे च जले सुधीः ॥ ३ ॥
तस्मात् प्रकृतिः उत्पन्ना पुरुषेण समन्विता ॥ ताभ्याम् अन्तपः कृतम् तत्र मूल-स्थे च जले सुधीः ॥ ३ ॥
tasmāt prakṛtiḥ utpannā puruṣeṇa samanvitā .. tābhyām antapaḥ kṛtam tatra mūla-sthe ca jale sudhīḥ .. 3 ..
पञ्चकोशीति विख्याता काशी सर्वातिवल्लभा ॥ व्याप्तं च सकलं ह्येतत्तज्जलं विश्वतो गतम् ॥ ४ ॥
पञ्चकोशी इति विख्याता काशी सर्व-अति वल्लभा ॥ व्याप्तम् च सकलम् हि एतत् तत् जलम् विश्वतस् गतम् ॥ ४ ॥
pañcakośī iti vikhyātā kāśī sarva-ati vallabhā .. vyāptam ca sakalam hi etat tat jalam viśvatas gatam .. 4 ..
संभाव्य मायया युक्तस्तत्र सुप्तो हरिस्स वै ॥ नारायणेति विख्यातः प्रकृतिर्नारायणी मता ॥ ५ ॥
संभाव्य मायया युक्तः तत्र सुप्तः हरिः स वै ॥ नारायण-इति विख्यातः प्रकृतिः नारायणी मता ॥ ५ ॥
saṃbhāvya māyayā yuktaḥ tatra suptaḥ hariḥ sa vai .. nārāyaṇa-iti vikhyātaḥ prakṛtiḥ nārāyaṇī matā .. 5 ..
तन्नाभिकमले यो वै जातस्स च पितामहः ॥ तेनैव तपसा दृष्टस्स वै विष्णुरुदाहृतः ॥ ६।
तद्-नाभि-कमले यः वै जातः स च पितामहः ॥ तेन एव तपसा दृष्टः स वै विष्णुः उदाहृतः ॥ ६।
tad-nābhi-kamale yaḥ vai jātaḥ sa ca pitāmahaḥ .. tena eva tapasā dṛṣṭaḥ sa vai viṣṇuḥ udāhṛtaḥ .. 6.
उभयोर्वादशमने यद्रूपं स दर्शितं बुधाः ॥ महादेवेति विख्यातं निर्गुणेन शिवेन हि ॥ ७ ॥
उभयोः वाद-शमने यत् रूपम् स दर्शितम् बुधाः ॥ महादेव-इति विख्यातम् निर्गुणेन शिवेन हि ॥ ७ ॥
ubhayoḥ vāda-śamane yat rūpam sa darśitam budhāḥ .. mahādeva-iti vikhyātam nirguṇena śivena hi .. 7 ..
तेन प्रोक्तमहं शम्भुर्भविष्यामि कभालतः ॥ रुद्रो नाम स विख्यातो लोकानुग्रहकारकः ॥ ८ ॥
तेन प्रोक्तम् अहम् शम्भुः भविष्यामि कभालतः ॥ रुद्रः नाम स विख्यातः लोक-अनुग्रह-कारकः ॥ ८ ॥
tena proktam aham śambhuḥ bhaviṣyāmi kabhālataḥ .. rudraḥ nāma sa vikhyātaḥ loka-anugraha-kārakaḥ .. 8 ..
ध्यानार्थं चैव सर्वेषामरूपो रूपवानभूत् ॥ स एव च शिवस्साक्षाद्भक्तवात्सल्यकारकः ॥ ९ ॥
ध्यान-अर्थम् च एव सर्वेषाम् अरूपः रूपवान् अभूत् ॥ सः एव च शिवः साक्षात् भक्त-वात्सल्य-कारकः ॥ ९ ॥
dhyāna-artham ca eva sarveṣām arūpaḥ rūpavān abhūt .. saḥ eva ca śivaḥ sākṣāt bhakta-vātsalya-kārakaḥ .. 9 ..
शिवे त्रिगुणसम्भिन्ने रुद्रे तु गुणधामनि ॥ वस्तुतो न हि भेदोऽस्ति स्वर्णे तद्भूषणे यथा ॥ 4.42.१० ॥
शिवे त्रिगुण-सम्भिन्ने रुद्रे तु गुण-धामनि ॥ वस्तुतस् न हि भेदः अस्ति स्वर्णे तद्-भूषणे यथा ॥ ४।४२।१० ॥
śive triguṇa-sambhinne rudre tu guṇa-dhāmani .. vastutas na hi bhedaḥ asti svarṇe tad-bhūṣaṇe yathā .. 4.42.10 ..
समानरूपकर्माणौ समभक्तगतिप्रदौ ॥ समानाखिलसंसेव्यौ नानालीलाविहारिणौ ॥ ११॥
समान-रूप-कर्माणौ सम-भक्त-गति-प्रदौ ॥ समान-अखिल-संसेव्यौ नाना लीला-विहारिणौ ॥ ११॥
samāna-rūpa-karmāṇau sama-bhakta-gati-pradau .. samāna-akhila-saṃsevyau nānā līlā-vihāriṇau .. 11..
सर्वथा शिवरूपो हि रुद्रो रौद्रपराक्रमः॥उत्पन्नो भक्तकार्यार्थं हरिब्रह्मसहायकृत् ॥ १२॥
सर्वथा शिव-रूपः हि रुद्रः रौद्र-पराक्रमः॥उत्पन्नः भक्त-कार्य-अर्थम् हरि-ब्रह्म-सहाय-कृत् ॥ १२॥
sarvathā śiva-rūpaḥ hi rudraḥ raudra-parākramaḥ..utpannaḥ bhakta-kārya-artham hari-brahma-sahāya-kṛt .. 12..
अन्ये च ये समुत्पन्ना यथानुक्रमतो लयम् ॥ यांति नैव तथा रुद्रः शिवे रुद्रो विलीयते ॥ ४३ ॥
अन्ये च ये समुत्पन्नाः यथा अनुक्रमतः लयम् ॥ यान्ति ना एव तथा रुद्रः शिवे रुद्रः विलीयते ॥ ४३ ॥
anye ca ye samutpannāḥ yathā anukramataḥ layam .. yānti nā eva tathā rudraḥ śive rudraḥ vilīyate .. 43 ..
ते वै रुद्रं मिलित्वा तु प्रयान्ति प्रकृता इमे ॥ इमान्रुद्रो मिलित्वा तु न याति श्रुतिशासनम् ॥ १४॥
ते वै रुद्रम् मिलित्वा तु प्रयान्ति प्रकृताः इमे ॥ इमान् रुद्रः मिलित्वा तु न याति श्रुति-शासनम् ॥ १४॥
te vai rudram militvā tu prayānti prakṛtāḥ ime .. imān rudraḥ militvā tu na yāti śruti-śāsanam .. 14..
सर्वे रुद्रं भजन्त्येव रुद्रः कञ्चिद्भजेन्न हि ॥ स्वात्मना भक्तवात्सल्याद्भजत्येव कदाचन ॥ १५ ॥
सर्वे रुद्रम् भजन्ति एव रुद्रः कञ्चिद् भजेत् न हि ॥ स्व-आत्मना भक्त-वात्सल्यात् भजति एव कदाचन ॥ १५ ॥
sarve rudram bhajanti eva rudraḥ kañcid bhajet na hi .. sva-ātmanā bhakta-vātsalyāt bhajati eva kadācana .. 15 ..
अन्यं भजन्ति ये नित्यं तस्मिंस्ते लीनतां गताः ॥ तेनैव रुद्रं ते प्राप्ताः कालेन महता बुधाः ॥ १६ ॥
अन्यम् भजन्ति ये नित्यम् तस्मिन् ते लीन-ताम् गताः ॥ तेन एव रुद्रम् ते प्राप्ताः कालेन महता बुधाः ॥ १६ ॥
anyam bhajanti ye nityam tasmin te līna-tām gatāḥ .. tena eva rudram te prāptāḥ kālena mahatā budhāḥ .. 16 ..
रुद्रभक्तास्तु ये केचित्तत्क्षणं शिवतां गताः ॥ अन्यापेक्षा न वै तेषां श्रुतिरेषा सनातनी ॥ १७ ॥
रुद्र-भक्ताः तु ये केचिद् तद्-क्षणम् शिवताम् गताः ॥ अन्य-अपेक्षा न वै तेषाम् श्रुतिः एषा सनातनी ॥ १७ ॥
rudra-bhaktāḥ tu ye kecid tad-kṣaṇam śivatām gatāḥ .. anya-apekṣā na vai teṣām śrutiḥ eṣā sanātanī .. 17 ..
अज्ञानं विविधं ह्येतद्विज्ञानं विविधं न हि ॥ तत्प्रकारमहं वक्ष्ये शृणुतादरतो द्विजाः ॥ १८॥
अज्ञानम् विविधम् हि एतत् विज्ञानम् विविधम् न हि ॥ तद्-प्रकारम् अहम् वक्ष्ये शृणुत आदरतः द्विजाः ॥ १८॥
ajñānam vividham hi etat vijñānam vividham na hi .. tad-prakāram aham vakṣye śṛṇuta ādarataḥ dvijāḥ .. 18..
ब्रह्मादि तृणपर्यंतं यत्किंचिद्दृश्यते त्विह ॥ तत्सर्वं शिव एवास्ति मिथ्या नानात्वकल्पना ॥ १९ ॥
ब्रह्म-आदि तृण-पर्यंतम् यत् किंचिद् दृश्यते तु इह ॥ तत् सर्वम् शिवे एव अस्ति मिथ्या नानात्व-कल्पना ॥ १९ ॥
brahma-ādi tṛṇa-paryaṃtam yat kiṃcid dṛśyate tu iha .. tat sarvam śive eva asti mithyā nānātva-kalpanā .. 19 ..
सृष्टेः पूर्वं शिवः प्रोक्तः सृष्टेर्मध्ये शिवस्तथा॥सृष्टेरन्ते शिवः प्रोक्तस्सर्वशून्ये तदा शिवः ॥ 4.42.२०॥
सृष्टेः पूर्वम् शिवः प्रोक्तः सृष्टेः मध्ये शिवः तथा॥सृष्टेः अन्ते शिवः प्रोक्तः सर्व-शून्ये तदा शिवः ॥ ४।४२।२०॥
sṛṣṭeḥ pūrvam śivaḥ proktaḥ sṛṣṭeḥ madhye śivaḥ tathā..sṛṣṭeḥ ante śivaḥ proktaḥ sarva-śūnye tadā śivaḥ .. 4.42.20..
तस्माच्चतुर्गुणः प्रोक्तः शिव एव मुनीश्वराः॥स एव सगुणो ज्ञेयः शक्तिमत्त्वाद्द्विधापि सः ॥ २१॥
तस्मात् चतुर्गुणः प्रोक्तः शिवः एव मुनि-ईश्वराः॥सः एव स गुणः ज्ञेयः शक्तिमत्-त्वात् द्विधा अपि सः ॥ २१॥
tasmāt caturguṇaḥ proktaḥ śivaḥ eva muni-īśvarāḥ..saḥ eva sa guṇaḥ jñeyaḥ śaktimat-tvāt dvidhā api saḥ .. 21..
येनैव विष्णवे दत्तास्सर्वे वेदास्सनातनाः ॥ वर्णा मात्रा ह्यनैकाश्च ध्यानं स्वस्य च पूजनम् ॥ २२॥
येन एव विष्णवे दत्ताः सर्वे वेदाः सनातनाः ॥ वर्णाः मात्राः हि अन् ऐकाः च ध्यानम् स्वस्य च पूजनम् ॥ २२॥
yena eva viṣṇave dattāḥ sarve vedāḥ sanātanāḥ .. varṇāḥ mātrāḥ hi an aikāḥ ca dhyānam svasya ca pūjanam .. 22..
ईशानः सर्वविद्यानां श्रुतिरेषा सनातनी ॥ वेदकर्ता वेदपतिस्तस्माच्छंभुरुदाहृतः ॥ २३॥
ईशानः सर्व-विद्यानाम् श्रुतिः एषा सनातनी ॥ वेदकर्ता वेदपतिः तस्मात् शंभुः उदाहृतः ॥ २३॥
īśānaḥ sarva-vidyānām śrutiḥ eṣā sanātanī .. vedakartā vedapatiḥ tasmāt śaṃbhuḥ udāhṛtaḥ .. 23..
स एव शंकरः साक्षात्सर्वानुग्रहकारकः ॥ कर्ता भर्ता च हर्ता च साक्षी निर्गुण एव सः॥२४॥
सः एव शंकरः साक्षात् सर्व-अनुग्रह-कारकः ॥ कर्ता भर्ता च हर्ता च साक्षी निर्गुणः एव सः॥२४॥
saḥ eva śaṃkaraḥ sākṣāt sarva-anugraha-kārakaḥ .. kartā bhartā ca hartā ca sākṣī nirguṇaḥ eva saḥ..24..
अन्येषां कालमानं च कालस्य कलना न हि ॥ महाकालस्स्वयं साक्षान्महाकालीसमाश्रितः ॥ २५॥
अन्येषाम् काल-मानम् च कालस्य कलना न हि ॥ महाकालः स्वयम् साक्षात् महाकाली-समाश्रितः ॥ २५॥
anyeṣām kāla-mānam ca kālasya kalanā na hi .. mahākālaḥ svayam sākṣāt mahākālī-samāśritaḥ .. 25..
तथा च ब्राह्मणा रुद्रं तथा कालीं प्रचक्षते॥सर्वं ताभ्यान्ततः प्राप्तमिच्छया सत्यलीलया॥२६॥
तथा च ब्राह्मणाः रुद्रम् तथा कालीम् प्रचक्षते॥सर्वम् ताभ्याम् ततस् प्राप्तम् इच्छया सत्य-लीलया॥२६॥
tathā ca brāhmaṇāḥ rudram tathā kālīm pracakṣate..sarvam tābhyām tatas prāptam icchayā satya-līlayā..26..
न तस्योत्पादकः कश्चिद्भर्ता हर्ता न तस्य हि ॥ स्वयं सर्वस्य हेतुस्ते कार्यभूताच्युतादयः ॥ २७ ॥
न तस्य उत्पादकः कश्चिद् भर्ता हर्ता न तस्य हि ॥ स्वयम् सर्वस्य हेतुः ते कार्य-भूत-अच्युत-आदयः ॥ २७ ॥
na tasya utpādakaḥ kaścid bhartā hartā na tasya hi .. svayam sarvasya hetuḥ te kārya-bhūta-acyuta-ādayaḥ .. 27 ..
स्वयं च कारणं कार्यं स्वस्य नैव कदाचन ॥ एकोव्यनेकतां यातोप्यनेकोप्येकतां व्रजेत् ॥ २८॥
स्वयम् च कारणम् कार्यम् स्वस्य ना एव कदाचन ॥ एकः वि अनेकताम् यातः अपि अनेकः उपि एकताम् व्रजेत् ॥ २८॥
svayam ca kāraṇam kāryam svasya nā eva kadācana .. ekaḥ vi anekatām yātaḥ api anekaḥ upi ekatām vrajet .. 28..
एकं बीजं बहिर्भूत्वा पुनर्बीजं च जायते ॥ बहुत्वे च स्वयं सर्वं शिवरूपी महेश्वरः ॥ २९ ॥
एकम् बीजम् बहिस् भूत्वा पुनर् बीजम् च जायते ॥ बहु-त्वे च स्वयम् सर्वम् शिव-रूपी महेश्वरः ॥ २९ ॥
ekam bījam bahis bhūtvā punar bījam ca jāyate .. bahu-tve ca svayam sarvam śiva-rūpī maheśvaraḥ .. 29 ..
एतत्परं शिवज्ञानं तत्त्वतस्तदुदाहृतम् ॥ जानाति ज्ञानवानेव नान्यः कश्चिदृषीश्वराः ॥ 4.42.३० ॥
एतत् परम् शिव-ज्ञानम् तत्त्वतः तत् उदाहृतम् ॥ जानाति ज्ञानवान् एव न अन्यः कश्चिद् ऋषि-ईश्वराः ॥ ४।४२।३० ॥
etat param śiva-jñānam tattvataḥ tat udāhṛtam .. jānāti jñānavān eva na anyaḥ kaścid ṛṣi-īśvarāḥ .. 4.42.30 ..
मुनय ऊचुः ।।
ज्ञानं सलक्षणं ब्रूहि यज्ज्ञात्वा शिवताम्व्रजेत् ॥ कथं शिवश्च तत्सर्वं सर्वं वा शिव एव च ॥ ३१ ॥
ज्ञानम् स लक्षणम् ब्रूहि यत् ज्ञात्वा शिव-ताम् व्रजेत् ॥ कथम् शिवः च तत् सर्वम् सर्वम् वा शिवः एव च ॥ ३१ ॥
jñānam sa lakṣaṇam brūhi yat jñātvā śiva-tām vrajet .. katham śivaḥ ca tat sarvam sarvam vā śivaḥ eva ca .. 31 ..
व्यास उवाच ।।
एतदाकर्ण्य वचनं सूतः पौराणिकोत्तमः ॥ स्मृत्वा शिवपदाम्भोजं मुनींस्तानब्रवीद्वचः ॥ ३२॥
एतत् आकर्ण्य वचनम् सूतः पौराणिक-उत्तमः ॥ स्मृत्वा शिव-पद-अम्भोजम् मुनीन् तान् अब्रवीत् वचः ॥ ३२॥
etat ākarṇya vacanam sūtaḥ paurāṇika-uttamaḥ .. smṛtvā śiva-pada-ambhojam munīn tān abravīt vacaḥ .. 32..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सगुणनिर्गुणभेदवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् सगुणनिर्गुणभेदवर्णनम् नाम द्विचत्वारिंशः अध्यायः ॥ ४२॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām saguṇanirguṇabhedavarṇanam nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In