| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रूयतामृषयः सर्वे शिवज्ञानं यथा श्रुतम्॥कथयामि महागुह्यं पर मुक्तिस्वरूपकम् ॥ १ ॥
श्रूयताम् ऋषयः सर्वे शिव-ज्ञानम् यथा श्रुतम्॥कथयामि महा-गुह्यम् पर मुक्ति-स्वरूपकम् ॥ १ ॥
śrūyatām ṛṣayaḥ sarve śiva-jñānam yathā śrutam..kathayāmi mahā-guhyam para mukti-svarūpakam .. 1 ..
कनारदकुमाराणां व्यासस्य कपिलस्य च ॥ एतेषां च समाजे तैर्निश्चित्य समुदाहृतम्॥२॥
क-नारद-कुमाराणाम् व्यासस्य कपिलस्य च ॥ एतेषाम् च समाजे तैः निश्चित्य समुदाहृतम्॥२॥
ka-nārada-kumārāṇām vyāsasya kapilasya ca .. eteṣām ca samāje taiḥ niścitya samudāhṛtam..2..
इति ज्ञानं सदा ज्ञेयं सर्वं शिवमयं जगत् ॥ शिवः सर्वमयो ज्ञेयस्सर्वज्ञेन विपश्चिता ॥ ३॥
इति ज्ञानम् सदा ज्ञेयम् सर्वम् शिव-मयम् जगत् ॥ शिवः सर्व-मयः ज्ञेयः सर्वज्ञेन विपश्चिता ॥ ३॥
iti jñānam sadā jñeyam sarvam śiva-mayam jagat .. śivaḥ sarva-mayaḥ jñeyaḥ sarvajñena vipaścitā .. 3..
आब्रह्मतृणपर्यन्तं यत्किंचिद्दृश्यते जगत् ॥ तत्सर्वं शिव एवास्ति स देवः शिव उच्यते॥४॥
आब्रह्मतृण पर्यन्तम् यत् किंचिद् दृश्यते जगत् ॥ तत् सर्वम् शिवः एव अस्ति स देवः शिवः उच्यते॥४॥
ābrahmatṛṇa paryantam yat kiṃcid dṛśyate jagat .. tat sarvam śivaḥ eva asti sa devaḥ śivaḥ ucyate..4..
यदेच्छा तस्य जायेत तदा च क्रियते त्विदम् ॥ सर्वं स एव जानाति तं न जानाति कश्चन ॥ ५॥
यदा इच्छा तस्य जायेत तदा च क्रियते तु इदम् ॥ सर्वम् सः एव जानाति तम् न जानाति कश्चन ॥ ५॥
yadā icchā tasya jāyeta tadā ca kriyate tu idam .. sarvam saḥ eva jānāti tam na jānāti kaścana .. 5..
रचयित्वा स्वयं तच्च प्रविश्य दूरतः स्थितः॥न तत्र च प्रविष्टोसौ निर्लिप्तश्चित्स्वरूपवान् ॥ ६॥
रचयित्वा स्वयम् तत् च प्रविश्य दूरतस् स्थितः॥न तत्र च प्रविष्टः असौ निर्लिप्तः चित्-स्व-रूपवान् ॥ ६॥
racayitvā svayam tat ca praviśya dūratas sthitaḥ..na tatra ca praviṣṭaḥ asau nirliptaḥ cit-sva-rūpavān .. 6..
यथा च ज्योतिषश्चैव जलादौ प्रतिबिंबता ॥ वस्तुतो न प्रवेशो वै तथैव च शिवः स्वयम्॥७॥
यथा च ज्योतिषः च एव जल-आदौ प्रतिबिंब-ता ॥ वस्तुतस् न प्रवेशः वै तथा एव च शिवः स्वयम्॥७॥
yathā ca jyotiṣaḥ ca eva jala-ādau pratibiṃba-tā .. vastutas na praveśaḥ vai tathā eva ca śivaḥ svayam..7..
वस्तुतस्तु स्वयं सर्वं क्रमो हि भासते शुभः॥अज्ञानं च मतेर्भेदो नास्त्यन्यच्च द्वयम्पुनः॥८॥
वस्तुतस् तु स्वयम् सर्वम् क्रमः हि भासते शुभः॥अज्ञानम् च मतेः भेदः न अस्ति अन्यत् च द्वयम् पुनर्॥८॥
vastutas tu svayam sarvam kramaḥ hi bhāsate śubhaḥ..ajñānam ca mateḥ bhedaḥ na asti anyat ca dvayam punar..8..
दर्शनेषु च सर्वेषु मतिभेदः प्रदर्श्यते॥परं वेदान्तिनो नित्यमद्वैतं प्रतिचक्षते॥९॥
दर्शनेषु च सर्वेषु मति-भेदः प्रदर्श्यते॥परम् वेदान्तिनः नित्यम् अद्वैतम् प्रतिचक्षते॥९॥
darśaneṣu ca sarveṣu mati-bhedaḥ pradarśyate..param vedāntinaḥ nityam advaitam praticakṣate..9..
स्वस्याप्यंशस्य जीवांशो ह्यविद्यामोहितो वशः॥अन्योऽहमिति जानाति तया मुक्तो भवेच्छिवः॥4.43.१०॥
स्वस्य अपि अंशस्य जीवांशः हि अविद्या-मोहितः वशः॥अन्यः अहम् इति जानाति तया मुक्तः भवेत् शिवः॥४।४३।१०॥
svasya api aṃśasya jīvāṃśaḥ hi avidyā-mohitaḥ vaśaḥ..anyaḥ aham iti jānāti tayā muktaḥ bhavet śivaḥ..4.43.10..
सर्वं व्याप्य शिवः साक्षाद् व्यापकः सर्वजन्तुषु॥चेतनाचेतनेशोपि सर्वत्र शंकरस्स्वयम् ॥ ११॥
सर्वम् व्याप्य शिवः साक्षात् व्यापकः सर्व-जन्तुषु॥चेतन-अचेतन-ईशः अपि सर्वत्र शंकरः स्वयम् ॥ ११॥
sarvam vyāpya śivaḥ sākṣāt vyāpakaḥ sarva-jantuṣu..cetana-acetana-īśaḥ api sarvatra śaṃkaraḥ svayam .. 11..
उपायं यः करोत्यस्य दर्शनार्थं विचक्षणः॥वेदान्तमार्गमाश्रित्य तद्दर्शनफलं लभेत्॥१२॥
उपायम् यः करोति अस्य दर्शन-अर्थम् विचक्षणः॥वेदान्त-मार्गम् आश्रित्य तद्-दर्शन-फलम् लभेत्॥१२॥
upāyam yaḥ karoti asya darśana-artham vicakṣaṇaḥ..vedānta-mārgam āśritya tad-darśana-phalam labhet..12..
यथाग्निर्व्यापकश्चैव काष्ठेकाष्ठे च तिष्ठति॥यो वै मंथति तत्काष्ठं स वै पश्यत्यसंशयम्॥१३॥
यथा अग्निः व्यापकः च एव काष्ठे काष्ठे च तिष्ठति॥यः वै मंथति तत् काष्ठम् स वै पश्यति असंशयम्॥१३॥
yathā agniḥ vyāpakaḥ ca eva kāṣṭhe kāṣṭhe ca tiṣṭhati..yaḥ vai maṃthati tat kāṣṭham sa vai paśyati asaṃśayam..13..
भक्त्यादिसाधनानीह यः करोति विचक्षणः॥स वै पश्यत्यवश्यं हि तं शिवं नात्र संशयः ॥ १४॥
भक्ति-आदि-साधनानि इह यः करोति विचक्षणः॥स वै पश्यति अवश्यम् हि तम् शिवम् न अत्र संशयः ॥ १४॥
bhakti-ādi-sādhanāni iha yaḥ karoti vicakṣaṇaḥ..sa vai paśyati avaśyam hi tam śivam na atra saṃśayaḥ .. 14..
शिवःशिवःशिवश्चैव नान्यदस्तीति किंचन॥भ्रान्त्या नानास्वरूपो हि भासते शङ्करस्सदा ॥ १५॥
शिवः शिवः शिवः च एव न अन्यत् अस्ति इति किंचन॥भ्रान्त्या नाना स्वरूपः हि भासते शङ्करः सदा ॥ १५॥
śivaḥ śivaḥ śivaḥ ca eva na anyat asti iti kiṃcana..bhrāntyā nānā svarūpaḥ hi bhāsate śaṅkaraḥ sadā .. 15..
यथा समुद्रो मृच्चैव सुवर्णमथवा पुनः ॥ उपाधितो हि नानात्वं लभते शंकरस्तथा ॥ १६ ॥
यथा समुद्रः मृद् च एव सुवर्णम् अथवा पुनर् ॥ उपाधितः हि नानात्वम् लभते शंकरः तथा ॥ १६ ॥
yathā samudraḥ mṛd ca eva suvarṇam athavā punar .. upādhitaḥ hi nānātvam labhate śaṃkaraḥ tathā .. 16 ..
कार्यकारणयोर्भेदो वस्तुतो न प्रवर्तते ॥ केवलं भ्रान्तिबुद्ध्यैव तदाभावे स नश्यति ॥ १७ ॥
कार्य-कारणयोः भेदः वस्तुतस् न प्रवर्तते ॥ केवलम् भ्रान्ति-बुद्ध्या एव तद्-अभावे स नश्यति ॥ १७ ॥
kārya-kāraṇayoḥ bhedaḥ vastutas na pravartate .. kevalam bhrānti-buddhyā eva tad-abhāve sa naśyati .. 17 ..
तदा बीजात्प्ररोहश्च नानात्वं हि प्रकाशयेत् ॥ अन्ते च बीजमेव स्यात्तत्प्ररोहश्च नश्यति ॥ १८ ॥
तदा बीजात् प्ररोहः च नानात्वम् हि प्रकाशयेत् ॥ अन्ते च बीजम् एव स्यात् तद्-प्ररोहः च नश्यति ॥ १८ ॥
tadā bījāt prarohaḥ ca nānātvam hi prakāśayet .. ante ca bījam eva syāt tad-prarohaḥ ca naśyati .. 18 ..
ज्ञानी च बीजमेव स्यात्प्ररोहो विकृतीर्मता ॥ तन्निवृत्तौ पुनर्ज्ञानी नात्र कार्या विचारणा ॥ १९ ॥
ज्ञानी च बीजम् एव स्यात् प्ररोहः विकृतीः मता ॥ तद्-निवृत्तौ पुनर् ज्ञानी न अत्र कार्या विचारणा ॥ १९ ॥
jñānī ca bījam eva syāt prarohaḥ vikṛtīḥ matā .. tad-nivṛttau punar jñānī na atra kāryā vicāraṇā .. 19 ..
सर्वं शिवः शिवं सर्वं नास्ति भेदश्च कश्चन ॥ कथं च विविधं पश्यत्येकत्वं च कथं पुनः ॥ 4.43.२० ॥
सर्वम् शिवः शिवम् सर्वम् न अस्ति भेदः च कश्चन ॥ कथम् च विविधम् पश्यति एकत्वम् च कथम् पुनर् ॥ ४।४३।२० ॥
sarvam śivaḥ śivam sarvam na asti bhedaḥ ca kaścana .. katham ca vividham paśyati ekatvam ca katham punar .. 4.43.20 ..
यथैकं चैव सूर्याख्यं ज्योतिर्नानाविधं जनैः ॥ जलादौ च विशेषेण दृश्यते तत्तथैव सः ॥ २१ ॥
यथा एकम् च एव सूर्य-आख्यम् ज्योतिः नानाविधम् जनैः ॥ जल-आदौ च विशेषेण दृश्यते तत् तथा एव सः ॥ २१ ॥
yathā ekam ca eva sūrya-ākhyam jyotiḥ nānāvidham janaiḥ .. jala-ādau ca viśeṣeṇa dṛśyate tat tathā eva saḥ .. 21 ..
सर्वत्र व्यापकश्चैव स्पर्शत्वं न विबध्यते ॥ तथैव व्यापको देवो बध्यते न क्वचित्स वै ॥ २२ ॥
सर्वत्र व्यापकः च एव स्पर्श-त्वम् न विबध्यते ॥ तथा एव व्यापकः देवः बध्यते न क्वचिद् स वै ॥ २२ ॥
sarvatra vyāpakaḥ ca eva sparśa-tvam na vibadhyate .. tathā eva vyāpakaḥ devaḥ badhyate na kvacid sa vai .. 22 ..
साहंकारस्तथा जीवस्तन्मुक्तः शंकरः स्वयम् ॥ जीवस्तुच्छः कर्मभोगो निर्लिप्तः शंकरो महान् ॥ २३ ॥
स अहंकारः तथा जीवः तन्मुक्तः शंकरः स्वयम् ॥ जीवः तुच्छः कर्म-भोगः निर्लिप्तः शंकरः महान् ॥ २३ ॥
sa ahaṃkāraḥ tathā jīvaḥ tanmuktaḥ śaṃkaraḥ svayam .. jīvaḥ tucchaḥ karma-bhogaḥ nirliptaḥ śaṃkaraḥ mahān .. 23 ..
यथैकं च सुवर्णादि मिलितं रजतादिना ॥ ।४अल्पमूल्यं प्रजायेत तथा जीवोऽप्यहंयुतः ॥ २४ ॥
यथा एकम् च सुवर्ण-आदि मिलितम् रजत-आदिना ॥ ।४अल्प-मूल्यम् प्रजायेत तथा जीवः अपि अहंयुतः ॥ २४ ॥
yathā ekam ca suvarṇa-ādi militam rajata-ādinā .. .4alpa-mūlyam prajāyeta tathā jīvaḥ api ahaṃyutaḥ .. 24 ..
यथैव हि सुर्वणादि क्षारादेः शोधितं शुभम्॥पूर्ववन्मूल्यतां याति तथा जीवोऽपि संस्कृतेः ॥ २५॥
यथा एव हि सुर्वण-आदि क्षार-आदेः शोधितम् शुभम्॥पूर्ववत् मूल्य-ताम् याति तथा जीवः अपि संस्कृतेः ॥ २५॥
yathā eva hi survaṇa-ādi kṣāra-ādeḥ śodhitam śubham..pūrvavat mūlya-tām yāti tathā jīvaḥ api saṃskṛteḥ .. 25..
प्रथमं सद्गुरुं प्राप्य भक्तिभाव समन्वितः ॥ शिवबुद्ध्या करोत्युच्चैः पूजनं स्मरणादिकम् ॥ २६ ॥
प्रथमम् सत्-गुरुम् प्राप्य भक्ति-भाव-समन्वितः ॥ शिव-बुद्ध्या करोति उच्चैस् पूजनम् स्मरण-आदिकम् ॥ २६ ॥
prathamam sat-gurum prāpya bhakti-bhāva-samanvitaḥ .. śiva-buddhyā karoti uccais pūjanam smaraṇa-ādikam .. 26 ..
तद्बुध्या देहतो याति सर्वपापादिको मलः ॥ तदाऽज्ञानं च नश्येत ज्ञानवाञ्जायते यदा ॥ २७ ॥
तद्-बुध्या देहतः याति सर्व-पाप-आदिकः मलः ॥ तदा अज्ञानम् च नश्येत ज्ञानवान् जायते यदा ॥ २७ ॥
tad-budhyā dehataḥ yāti sarva-pāpa-ādikaḥ malaḥ .. tadā ajñānam ca naśyeta jñānavān jāyate yadā .. 27 ..
तदाहंकारनिर्मुक्तो जीवो निर्मलबुद्धिमान् ॥ शङ्करस्य प्रसादेन प्रयाति शङ्करताम्पुनः ॥ २८॥
तदा अहंकार-निर्मुक्तः जीवः निर्मल-बुद्धिमान् ॥ शङ्करस्य प्रसादेन प्रयाति शङ्कर-ताम् पुनर् ॥ २८॥
tadā ahaṃkāra-nirmuktaḥ jīvaḥ nirmala-buddhimān .. śaṅkarasya prasādena prayāti śaṅkara-tām punar .. 28..
यथाऽऽदर्शस्वरूपे च स्वीयरूपं प्रदृश्यते ॥ तथा सर्वत्रगं शम्भु पश्यतीति सुनिश्चितम् ॥ २९॥
यथा आदर्श-स्वरूपे च स्वीय-रूपम् प्रदृश्यते ॥ तथा सर्वत्रगम् शम्भु पश्यति इति सु निश्चितम् ॥ २९॥
yathā ādarśa-svarūpe ca svīya-rūpam pradṛśyate .. tathā sarvatragam śambhu paśyati iti su niścitam .. 29..
जीवन्मुक्तस्य एवासौ देहः शीर्ण शिवे मिलेत् ॥ प्रारब्धवशगो देहस्तद्भिन्नो ज्ञानवान् मतः ॥ 4.43.३० ॥
जीवन्मुक्तस्य एव असौ देहः शीर्ण-शिवे मिलेत् ॥ प्रारब्ध-वश-गः देहः तद्-भिन्नः ज्ञानवान् मतः ॥ ४।४३।३० ॥
jīvanmuktasya eva asau dehaḥ śīrṇa-śive milet .. prārabdha-vaśa-gaḥ dehaḥ tad-bhinnaḥ jñānavān mataḥ .. 4.43.30 ..
शुभं लब्ध्वा न हृष्येत कुप्येल्लब्ध्वाऽशुभं न हि ॥ द्वंद्वेषु समता यस्य ज्ञानवानुच्यते हि सः ॥ ३१ ॥
शुभम् लब्ध्वा न हृष्येत कुप्येत् लब्ध्वा अशुभम् न हि ॥ द्वंद्वेषु सम-ता यस्य ज्ञानवान् उच्यते हि सः ॥ ३१ ॥
śubham labdhvā na hṛṣyeta kupyet labdhvā aśubham na hi .. dvaṃdveṣu sama-tā yasya jñānavān ucyate hi saḥ .. 31 ..
आत्मयोगेन तत्त्वानामथवा च विवेकतः ॥ यथा शरीरतो यायाच्छरीरं मुक्तिमिच्छतः ॥ ३२ ॥
आत्म-योगेन तत्त्वानाम् अथवा च विवेकतः ॥ यथा शरीरतः यायात् शरीरम् मुक्तिम् इच्छतः ॥ ३२ ॥
ātma-yogena tattvānām athavā ca vivekataḥ .. yathā śarīrataḥ yāyāt śarīram muktim icchataḥ .. 32 ..
सदाशिवो विलीयेत मुक्तो विरहमेव च ॥ ज्ञानमूलन्तथाध्यात्म्यं तस्य भक्तिश्शिवस्य च ॥ ३३ ॥
सदाशिवः विलीयेत मुक्तः विरहम् एव च ॥ ज्ञान-मूलम् तथा अध्यात्म्यम् तस्य भक्तिः शिवस्य च ॥ ३३ ॥
sadāśivaḥ vilīyeta muktaḥ viraham eva ca .. jñāna-mūlam tathā adhyātmyam tasya bhaktiḥ śivasya ca .. 33 ..
भक्तेश्च प्रेम संप्रोक्तं प्रेम्णश्च श्रवणन्तथा ॥ श्रवणाच्चापि सत्संगस्सत्संगाच्च गुरुर्बुधः ॥ ३४॥
भक्तेः च प्रेम संप्रोक्तम् प्रेम्णः च श्रवणम् तथा ॥ श्रवणात् च अपि सत्-संगः सत्-संगात् च गुरुः बुधः ॥ ३४॥
bhakteḥ ca prema saṃproktam premṇaḥ ca śravaṇam tathā .. śravaṇāt ca api sat-saṃgaḥ sat-saṃgāt ca guruḥ budhaḥ .. 34..
सम्पन्ने च तथा ज्ञाने मुक्तो भवति निश्चितम् ॥ इति चेज्ज्ञानवान्यो वै शंभुमेव सदा भजेत् ॥ ३५॥
सम्पन्ने च तथा ज्ञाने मुक्तः भवति निश्चितम् ॥ इति चेद् ज्ञानवान् यः वै शंभुम् एव सदा भजेत् ॥ ३५॥
sampanne ca tathā jñāne muktaḥ bhavati niścitam .. iti ced jñānavān yaḥ vai śaṃbhum eva sadā bhajet .. 35..
अनन्यया च भक्त्या वै युक्तः शम्भुं भजेत्पुनः ॥ अन्ते च मुक्तिमायाति नात्र कार्या विचारणा ॥ ३६॥
अनन्यया च भक्त्या वै युक्तः शम्भुम् भजेत् पुनर् ॥ अन्ते च मुक्तिम् आयाति न अत्र कार्या विचारणा ॥ ३६॥
ananyayā ca bhaktyā vai yuktaḥ śambhum bhajet punar .. ante ca muktim āyāti na atra kāryā vicāraṇā .. 36..
अतोऽधिको न देवोऽस्ति मुक्तिप्राप्त्यै च शंकरात्॥शरणं प्राप्य यश्चैव संसाराद्विनिवर्तते ॥ ३७ ॥
अतस् अधिकः न देवः अस्ति मुक्ति-प्राप्त्यै च शंकरात्॥शरणम् प्राप्य यः च एव संसारात् विनिवर्तते ॥ ३७ ॥
atas adhikaḥ na devaḥ asti mukti-prāptyai ca śaṃkarāt..śaraṇam prāpya yaḥ ca eva saṃsārāt vinivartate .. 37 ..
इति मे विविधं वाक्यमृषीणां च समागतैः ॥ निश्चित्य कथितं विप्रा धिया धार्यं प्रयत्नतः ॥ ३८ ॥
इति मे विविधम् वाक्यम् ऋषीणाम् च समागतैः ॥ निश्चित्य कथितम् विप्राः धिया धार्यम् प्रयत्नतः ॥ ३८ ॥
iti me vividham vākyam ṛṣīṇām ca samāgataiḥ .. niścitya kathitam viprāḥ dhiyā dhāryam prayatnataḥ .. 38 ..
प्रथमं विष्णवे दत्तं शंभुना लिंगसन्मुखे ॥ विष्णुना ब्रह्मणे दत्तं ब्रह्मणा सनकादिषु ॥ ३९ ॥
प्रथमम् विष्णवे दत्तम् शंभुना लिंग-सत्-मुखे ॥ विष्णुना ब्रह्मणे दत्तम् ब्रह्मणा सनक-आदिषु ॥ ३९ ॥
prathamam viṣṇave dattam śaṃbhunā liṃga-sat-mukhe .. viṣṇunā brahmaṇe dattam brahmaṇā sanaka-ādiṣu .. 39 ..
नारदाय ततः प्रोक्तं तज्ज्ञानं सनकादिभिः ॥ व्यासाय नारदेनोक्तं तेन मह्यं कृपालुना ॥ 4.43.४० ॥
नारदाय ततस् प्रोक्तम् तत् ज्ञानम् सनक-आदिभिः ॥ व्यासाय नारदेन उक्तम् तेन मह्यम् कृपालुना ॥ ४।४३।४० ॥
nāradāya tatas proktam tat jñānam sanaka-ādibhiḥ .. vyāsāya nāradena uktam tena mahyam kṛpālunā .. 4.43.40 ..
मया चैव भवद्भ्यश्च भवद्भिर्लोकहेतवे ॥ स्थापनीयं प्रयत्नेन शिवप्राप्तिकरं च तत् ॥ ४१ ॥
मया च एव भवद्भ्यः च भवद्भिः लोक-हेतवे ॥ स्थापनीयम् प्रयत्नेन शिव-प्राप्ति-करम् च तत् ॥ ४१ ॥
mayā ca eva bhavadbhyaḥ ca bhavadbhiḥ loka-hetave .. sthāpanīyam prayatnena śiva-prāpti-karam ca tat .. 41 ..
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ॥ गोपनीयं प्रयत्नेन किमन्यच्छ्रोतुमिच्छथ ॥ ४२ ॥
इति वः च समाख्यातम् यत् पृष्टः अहम् मुनि-ईश्वराः ॥ गोपनीयम् प्रयत्नेन किम् अन्यत् श्रोतुम् इच्छथ ॥ ४२ ॥
iti vaḥ ca samākhyātam yat pṛṣṭaḥ aham muni-īśvarāḥ .. gopanīyam prayatnena kim anyat śrotum icchatha .. 42 ..
व्यास उवाच ।।
एतच्छुत्वा तु ऋषय आनन्दं परमं गताः ॥ हर्षगद्गदया वाचा नत्वा ते तुष्टुवुर्मुहुः ॥ ४३॥
एतत् शुत्वा तु ऋषयः आनन्दम् परमम् गताः ॥ हर्ष-गद्गदया वाचा नत्वा ते तुष्टुवुः मुहुर् ॥ ४३॥
etat śutvā tu ṛṣayaḥ ānandam paramam gatāḥ .. harṣa-gadgadayā vācā natvā te tuṣṭuvuḥ muhur .. 43..
ऋषय ऊचुः
व्यासशिष्य नमस्तेऽस्तु धन्यस्त्वं शैवसत्तमः ॥ श्रावितं नः परं वस्तु शैवं ज्ञानमनुत्तमम् ॥ ४४॥
व्यास-शिष्य नमः ते अस्तु धन्यः त्वम् शैव-सत्तमः ॥ श्रावितम् नः परम् वस्तु शैवम् ज्ञानम् अनुत्तमम् ॥ ४४॥
vyāsa-śiṣya namaḥ te astu dhanyaḥ tvam śaiva-sattamaḥ .. śrāvitam naḥ param vastu śaivam jñānam anuttamam .. 44..
अस्माकं चेतसो भ्रान्तिर्गता हि कृपया तव ॥ सन्तुष्टाश्शिवसज्ज्ञानं प्राप्य त्वत्तो विमुक्तिदम् ॥ ४५॥
अस्माकम् चेतसः भ्रान्तिः गता हि कृपया तव ॥ सन्तुष्टाः शिव-सत्-ज्ञानम् प्राप्य त्वत्तः विमुक्ति-दम् ॥ ४५॥
asmākam cetasaḥ bhrāntiḥ gatā hi kṛpayā tava .. santuṣṭāḥ śiva-sat-jñānam prāpya tvattaḥ vimukti-dam .. 45..
सूत उवाच ।।
नास्तिकाय न वक्तव्यमश्रद्धाय शठाय च॥अभक्ताय महेशस्य न चाशुश्रुषवे द्विजाः॥४६॥
नास्तिकाय न वक्तव्यम् अश्रद्धाय शठाय च॥अ भक्ताय महेशस्य न च अ शुश्रुषवे द्विजाः॥४६॥
nāstikāya na vaktavyam aśraddhāya śaṭhāya ca..a bhaktāya maheśasya na ca a śuśruṣave dvijāḥ..46..
इतिहासपुराणानि वेदाच्छास्त्राणि चासकृत् ॥ विचार्य्योद्धृत्य तत्सारं मह्यं व्यासेन भाषितम् ॥ ४७ ॥
इतिहास-पुराणानि वेदात् शास्त्राणि च असकृत् ॥ विचार्य्य उद्धृत्य तद्-सारम् मह्यम् व्यासेन भाषितम् ॥ ४७ ॥
itihāsa-purāṇāni vedāt śāstrāṇi ca asakṛt .. vicāryya uddhṛtya tad-sāram mahyam vyāsena bhāṣitam .. 47 ..
एतच्छ्रुत्वा ह्येकवारं भवेत्पापं हि भस्मसात् ॥ अभक्तो भक्तिमाप्नोति भक्तस्य भक्तिवर्द्धनम्॥४८॥
एतत् श्रुत्वा हि एक-वारम् भवेत् पापम् हि भस्मसात् ॥ अभक्तः भक्तिम् आप्नोति भक्तस्य भक्ति-वर्द्धनम्॥४८॥
etat śrutvā hi eka-vāram bhavet pāpam hi bhasmasāt .. abhaktaḥ bhaktim āpnoti bhaktasya bhakti-varddhanam..48..
पुनश्श्रुते च सद्भक्तिर्मुक्तिस्स्याच्च श्रुते पुनः॥तस्मात्पुनःपुनश्श्राव्यं भुक्तिमुक्तिफलेप्सुभिः॥४९॥
पुनर् श्रुते च सत्-भक्तिः मुक्तिः स्यात् च श्रुते पुनर्॥तस्मात् पुनर् पुनर् श्राव्यम् भुक्ति-मुक्ति-फल-ईप्सुभिः॥४९॥
punar śrute ca sat-bhaktiḥ muktiḥ syāt ca śrute punar..tasmāt punar punar śrāvyam bhukti-mukti-phala-īpsubhiḥ..49..
आवृत्तयः पंच कार्याः समुद्दिश्य फलं परम्॥तत्प्राप्नोति न सन्देहो व्यासस्य वचनं त्विदम्॥4.43.५०॥
आवृत्तयः पंच कार्याः समुद्दिश्य फलम् परम्॥तत् प्राप्नोति न सन्देहः व्यासस्य वचनम् तु इदम्॥४।४३।५०॥
āvṛttayaḥ paṃca kāryāḥ samuddiśya phalam param..tat prāpnoti na sandehaḥ vyāsasya vacanam tu idam..4.43.50..
न दुर्लभं हि तस्यैव येनेदं श्रुतमुत्तमम् ॥ पंचकृत्वस्तदावृत्त्या लभ्यते शिवदर्शनम्॥५१॥
न दुर्लभम् हि तस्य एव येन इदम् श्रुतम् उत्तमम् ॥ पंच-कृत्वस् तद्-आवृत्त्या लभ्यते शिव-दर्शनम्॥५१॥
na durlabham hi tasya eva yena idam śrutam uttamam .. paṃca-kṛtvas tad-āvṛttyā labhyate śiva-darśanam..51..
पुरातनाश्च राजानो विप्रा वैश्याश्च सत्तमाः ॥ इदं श्रुत्वा पंचकृत्वो धिया सिद्धिं परां गताः ॥ ५२ ॥
पुरातनाः च राजानः विप्राः वैश्याः च सत्तमाः ॥ इदम् श्रुत्वा पंच-कृत्वस् धिया सिद्धिम् पराम् गताः ॥ ५२ ॥
purātanāḥ ca rājānaḥ viprāḥ vaiśyāḥ ca sattamāḥ .. idam śrutvā paṃca-kṛtvas dhiyā siddhim parām gatāḥ .. 52 ..
श्रोष्यत्यद्यापि यश्चेदं मानवो भक्तितत्परः ॥ विज्ञानं शिवसंज्ञं वै भुक्तिं मुक्तिं लभेच्च सः ॥ ५३ ॥
श्रोष्यति अद्य अपि यः च इदम् मानवः भक्ति-तत्परः ॥ विज्ञानम् शिव-संज्ञम् वै भुक्तिम् मुक्तिम् लभेत् च सः ॥ ५३ ॥
śroṣyati adya api yaḥ ca idam mānavaḥ bhakti-tatparaḥ .. vijñānam śiva-saṃjñam vai bhuktim muktim labhet ca saḥ .. 53 ..
व्यास उवाच ।।
इति तद्वचनं श्रुत्वा परमानन्दमागताः ॥ समानर्चुश्च ते भूतं नानावस्तुभिरादरात ॥ ५४॥
इति तत् वचनम् श्रुत्वा परम-आनन्दम् आगताः ॥ समानर्चुः च ते भूतम् नाना वस्तुभिः आदरात ॥ ५४॥
iti tat vacanam śrutvā parama-ānandam āgatāḥ .. samānarcuḥ ca te bhūtam nānā vastubhiḥ ādarāta .. 54..
नमस्कारैः स्तवैश्चैव स्वस्तिवाचनपूर्वकम्॥आशीर्भिर्वर्द्धयामासुः संतुष्टाश्छिन्नसंशयाः ॥ ५५ ॥
नमस्कारैः स्तवैः च एव स्वस्तिवाचन-पूर्वकम्॥आशीर्भिः वर्द्धयामासुः संतुष्टाः छिन्न-संशयाः ॥ ५५ ॥
namaskāraiḥ stavaiḥ ca eva svastivācana-pūrvakam..āśīrbhiḥ varddhayāmāsuḥ saṃtuṣṭāḥ chinna-saṃśayāḥ .. 55 ..
परस्परं च संतुष्टाः सूतस्ते च सुबुद्धयः ॥ शंभुं देवं परं मत्वा नमंति स्म भजंति च ॥ ५६ ॥
परस्परम् च संतुष्टाः सूतः ते च सु बुद्धयः ॥ शंभुम् देवम् परम् मत्वा नमंति स्म भजंति च ॥ ५६ ॥
parasparam ca saṃtuṣṭāḥ sūtaḥ te ca su buddhayaḥ .. śaṃbhum devam param matvā namaṃti sma bhajaṃti ca .. 56 ..
एतच्छिवसुविज्ञानं शिवस्यातिप्रियं महत् ॥ भुक्तिमुक्तिप्रदं दिव्यं शिवभक्तिविवर्द्धनम् ॥ ५७॥
एतत् शिव-सु विज्ञानम् शिवस्य अति प्रियम् महत् ॥ भुक्ति-मुक्ति-प्रदम् दिव्यम् शिव-भक्ति-विवर्द्धनम् ॥ ५७॥
etat śiva-su vijñānam śivasya ati priyam mahat .. bhukti-mukti-pradam divyam śiva-bhakti-vivarddhanam .. 57..
इयं हि संहिता पुण्या कोटिरुद्राह्वया परा॥चतुर्थी शिव पुराणस्य कथिता मे मुदावहा ॥ ५८॥
इयम् हि संहिता पुण्या कोटि-रुद्र-आह्वया परा॥चतुर्थी शिव-पुराणस्य कथिता मे मुदावहा ॥ ५८॥
iyam hi saṃhitā puṇyā koṭi-rudra-āhvayā parā..caturthī śiva-purāṇasya kathitā me mudāvahā .. 58..
एतां यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ स भुक्त्वेहाखिलान्भोगानंते परगतिं लभेत् ॥ ॥ ५९ ॥
एताम् यः शृणुयात् भक्त्या श्रावयेत् वा समाहितः ॥ स भुक्त्वा इह अखिलान् भोगान् अन्ते पर-गतिम् लभेत् ॥ ॥ ५९ ॥
etām yaḥ śṛṇuyāt bhaktyā śrāvayet vā samāhitaḥ .. sa bhuktvā iha akhilān bhogān ante para-gatim labhet .. .. 59 ..
इति श्रीशिवमहापुराणे चतुर्विंशतिसाहस्र्यां वैयासिक्यां संहितायां तदन्तर्गतायां चतुर्थ्यां कोटिरुद्रसंहितायां ज्ञाननिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
इति श्री-शिव-महापुराणे चतुर्विंशति-साहस्र्याम् वैयासिक्याम् संहितायाम् तद्-अन्तर्गतायाम् चतुर्थ्याम् कोटिरुद्रसंहितायाम् ज्ञाननिरूपणम् नाम त्रिचत्वारिंशः अध्यायः ॥ ४३ ॥
iti śrī-śiva-mahāpurāṇe caturviṃśati-sāhasryām vaiyāsikyām saṃhitāyām tad-antargatāyām caturthyām koṭirudrasaṃhitāyām jñānanirūpaṇam nāma tricatvāriṃśaḥ adhyāyaḥ .. 43 ..
॥ समाप्तेयं शिवमहापुराणान्तर्गतकोटिरुद्रसंहिता चतुर्थी ॥ ॥ ॥ ॥
॥ समाप्ता इयम् शिव-महापुराण-अन्तर्गत-कोटिरुद्रसंहिता चतुर्थी ॥ ॥ ॥ ॥
.. samāptā iyam śiva-mahāpurāṇa-antargata-koṭirudrasaṃhitā caturthī .. .. .. ..
इति चतुर्थों कोटिरुद्रसंहिता ॥४॥
इति कोटिरुद्रसंहिता ॥४॥
iti koṭirudrasaṃhitā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In