| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
कालंजरे गिरौ दिव्ये नीलकण्ठो महेश्वरः ॥ लिंगरूपस्सदा चैव भक्तानन्दप्रदः सदा ॥ १ ॥
कालंजरे गिरौ दिव्ये नीलकण्ठः महेश्वरः ॥ लिंग-रूपः सदा च एव भक्त-आनन्द-प्रदः सदा ॥ १ ॥
kālaṃjare girau divye nīlakaṇṭhaḥ maheśvaraḥ .. liṃga-rūpaḥ sadā ca eva bhakta-ānanda-pradaḥ sadā .. 1 ..
महिमा तस्य दिव्योस्ति श्रुतिस्मृतिप्रकीतितः ॥ तीर्थं तदाख्यया तत्र स्नानात्पातकनाशकृत् ॥ २ ॥
महिमा तस्य दिव्यः अस्ति श्रुति-स्मृति-प्रकीतितः ॥ तीर्थम् तद्-आख्यया तत्र स्नानात् पातक-नाश-कृत् ॥ २ ॥
mahimā tasya divyaḥ asti śruti-smṛti-prakītitaḥ .. tīrtham tad-ākhyayā tatra snānāt pātaka-nāśa-kṛt .. 2 ..
रेवातीरे यानि सन्ति शिवलिंगानि सुव्रताः ॥ सर्वसौख्यकराणीह तेषां संख्या न विद्यते ॥ ३॥
रेवा-तीरे यानि सन्ति शिव-लिंगानि सुव्रताः ॥ सर्व-सौख्य-कराणि इह तेषाम् संख्या न विद्यते ॥ ३॥
revā-tīre yāni santi śiva-liṃgāni suvratāḥ .. sarva-saukhya-karāṇi iha teṣām saṃkhyā na vidyate .. 3..
सा च रुद्रस्वरूपा हि दर्शनात्पापहारिका ॥ तस्यां स्थिताश्च ये केचित्पाषाणाः शिवरूपिणः ॥ ४ ॥
सा च रुद्र-स्वरूपा हि दर्शनात् पाप-हारिका ॥ तस्याम् स्थिताः च ये केचिद् पाषाणाः शिव-रूपिणः ॥ ४ ॥
sā ca rudra-svarūpā hi darśanāt pāpa-hārikā .. tasyām sthitāḥ ca ye kecid pāṣāṇāḥ śiva-rūpiṇaḥ .. 4 ..
तथापि च प्रवक्ष्यामि यथान्यानि मुनीश्वराः ॥ प्रधानशिवलिंगानि भुक्तिमुक्तिप्रदानि च ॥ ५॥
तथा अपि च प्रवक्ष्यामि यथा अन्यानि मुनि-ईश्वराः ॥ प्रधान-शिव-लिंगानि भुक्ति-मुक्ति-प्रदानि च ॥ ५॥
tathā api ca pravakṣyāmi yathā anyāni muni-īśvarāḥ .. pradhāna-śiva-liṃgāni bhukti-mukti-pradāni ca .. 5..
आर्तेश्वरसुनामा हि वर्तते पापहारकः ॥ परमेश्वर इति ख्यातः सिंहेश्वर इति स्मृतः ॥ ६॥
हि वर्तते पाप-हारकः ॥ परमेश्वरः इति ख्यातः सिंहेश्वरः इति स्मृतः ॥ ६॥
hi vartate pāpa-hārakaḥ .. parameśvaraḥ iti khyātaḥ siṃheśvaraḥ iti smṛtaḥ .. 6..
शर्मेशश्च तथा चात्र कुमारेश्वर एव च ॥ पुण्डरीकेश्वरः ख्यातो मण्डपेश्वर एव च ॥ ७॥
शर्मेशः च तथा च अत्र कुमारेश्वरः एव च ॥ पुण्डरीकेश्वरः ख्यातः मण्डपेश्वरः एव च ॥ ७॥
śarmeśaḥ ca tathā ca atra kumāreśvaraḥ eva ca .. puṇḍarīkeśvaraḥ khyātaḥ maṇḍapeśvaraḥ eva ca .. 7..
तीक्ष्णेशनामा तत्रासीद्दर्शनात्पापहारकः ॥ धुंधुरेश्वरनामासीत्पापहा नर्मदातटे॥८॥
तीक्ष्णेश-नामा तत्र आसीत् दर्शनात् पाप-हारकः ॥ धुंधुरेश्वर-नामा आसीत् पाप-हा नर्मदा-तटे॥८॥
tīkṣṇeśa-nāmā tatra āsīt darśanāt pāpa-hārakaḥ .. dhuṃdhureśvara-nāmā āsīt pāpa-hā narmadā-taṭe..8..
शूलेश्वर इति ख्यातस्तथा कुंभेश्वरः स्मृतः ॥ कुबेरेश्वरनामापि तथा सोमेश्वरः स्मृतः ॥ ९ ॥
शूलेश्वरः इति ख्यातः तथा कुंभेश्वरः स्मृतः ॥ कुबेरेश्वर-नामा अपि तथा सोमेश्वरः स्मृतः ॥ ९ ॥
śūleśvaraḥ iti khyātaḥ tathā kuṃbheśvaraḥ smṛtaḥ .. kubereśvara-nāmā api tathā someśvaraḥ smṛtaḥ .. 9 ..
नीलकण्ठो मंगलेशो मंगलायतनो महान् ॥ महाकपीश्वरो देवः स्थापितो हि हनूमता॥4.5.१०॥
॥ महा-कपि-ईश्वरः देवः स्थापितः हि हनूमता॥४।५।१०॥
.. mahā-kapi-īśvaraḥ devaḥ sthāpitaḥ hi hanūmatā..4.5.10..
ततश्च नंदिको देवो हत्याकोटिनिवारकः ॥ सर्वकामार्थदश्चैव मोक्षदो हि प्रकीर्तित.॥११॥
ततस् च नंदिकः देवः हत्या-कोटि-निवारकः ॥ सर्व-काम-अर्थ-दः च एव मोक्ष-दः हि प्रकीर्तित।॥११॥
tatas ca naṃdikaḥ devaḥ hatyā-koṭi-nivārakaḥ .. sarva-kāma-artha-daḥ ca eva mokṣa-daḥ hi prakīrtita...11..
नन्दीकेशं च यश्चैव पूजयेत्परया मुदा ॥ नित्यं तस्याखिला सिद्धिर्भविष्यति न संशयः ॥ १२॥
नन्दीकेशम् च यः च एव पूजयेत् परया मुदा ॥ नित्यम् तस्य अखिला सिद्धिः भविष्यति न संशयः ॥ १२॥
nandīkeśam ca yaḥ ca eva pūjayet parayā mudā .. nityam tasya akhilā siddhiḥ bhaviṣyati na saṃśayaḥ .. 12..
तत्र तीरे च यः स्नाति रेवायां मुनिसत्तमाः ॥ तस्य कामाश्च सिध्यन्ति सर्वं पापं विनश्यति ॥ १३॥
तत्र तीरे च यः स्नाति रेवायाम् मुनि-सत्तमाः ॥ तस्य कामाः च सिध्यन्ति सर्वम् पापम् विनश्यति ॥ १३॥
tatra tīre ca yaḥ snāti revāyām muni-sattamāḥ .. tasya kāmāḥ ca sidhyanti sarvam pāpam vinaśyati .. 13..
ऋषय ऊचुः।।
एवं तस्य च माहात्म्यं कथं तत्र महामते ॥ नन्दिकेशस्य कृपया कथ्यतां च त्वयाधुना॥१४॥
एवम् तस्य च माहात्म्यम् कथम् तत्र महामते ॥ नन्दिकेशस्य कृपया कथ्यताम् च त्वया अधुना॥१४॥
evam tasya ca māhātmyam katham tatra mahāmate .. nandikeśasya kṛpayā kathyatām ca tvayā adhunā..14..
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च कथयामि यथाश्रुतम्॥शौनकाद्याश्च मुनयः सर्वे हि शृणुतादरात् ॥ १५॥
सम्यक् पृष्टम् भवद्भिः च कथयामि यथाश्रुतम्॥शौनक-आद्याः च मुनयः सर्वे हि शृणुत आदरात् ॥ १५॥
samyak pṛṣṭam bhavadbhiḥ ca kathayāmi yathāśrutam..śaunaka-ādyāḥ ca munayaḥ sarve hi śṛṇuta ādarāt .. 15..
पुरा युधिष्ठिरेणैव पृष्टश्च ऋषिसत्तमः ॥ यथोवाच तथा वच्मि भवत्स्नेहानुसारतः॥१६॥
पुरा युधिष्ठिरेण एव पृष्टः च ऋषि-सत्तमः ॥ यथा उवाच तथा वच्मि भवत्-स्नेह-अनुसारतः॥१६॥
purā yudhiṣṭhireṇa eva pṛṣṭaḥ ca ṛṣi-sattamaḥ .. yathā uvāca tathā vacmi bhavat-sneha-anusārataḥ..16..
रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ॥ विराजते सुशोभाढ्या चतुर्वर्णसमाकुला ॥ १७ ॥
रेवायाः पश्चिमे तीरे कर्णिकी नाम वै पुरी ॥ विराजते सु शोभा-आढ्या चतुर्-वर्ण-समाकुला ॥ १७ ॥
revāyāḥ paścime tīre karṇikī nāma vai purī .. virājate su śobhā-āḍhyā catur-varṇa-samākulā .. 17 ..
तत्र द्विजवरः कश्चिदुत्तस्य? कुलसम्भवः ॥ काश्यां गतश्च पुत्राभ्यामर्पयित्वा स्वपत्निकाम्॥१८॥
तत्र द्विजवरः कश्चिद् उत्तस्य? कुल-सम्भवः ॥ काश्याम् गतः च पुत्राभ्याम् अर्पयित्वा स्व-पत्निकाम्॥१८॥
tatra dvijavaraḥ kaścid uttasya? kula-sambhavaḥ .. kāśyām gataḥ ca putrābhyām arpayitvā sva-patnikām..18..
तत्रैव स मृतो विप्रः पुत्राभ्यां च श्रुतन्तदा॥तदीयं चैव तत्कृत्यं चक्राते पुत्रकावुभौ ॥ १९ ॥
तत्र एव स मृतः विप्रः पुत्राभ्याम् च श्रुतम् तदा॥तदीयम् च एव तद्-कृत्यम् चक्राते पुत्रकौ उभौ ॥ १९ ॥
tatra eva sa mṛtaḥ vipraḥ putrābhyām ca śrutam tadā..tadīyam ca eva tad-kṛtyam cakrāte putrakau ubhau .. 19 ..
पत्नी च पालयामास पुत्रौ पुत्रहितैषिणी ॥ पुत्रौ च वर्जयित्वा च विभक्तं वै धनं तया ॥ 4.5.२० ॥
पत्नी च पालयामास पुत्रौ पुत्र-हित-एषिणी ॥ पुत्रौ च वर्जयित्वा च विभक्तम् वै धनम् तया ॥ ४।५।२० ॥
patnī ca pālayāmāsa putrau putra-hita-eṣiṇī .. putrau ca varjayitvā ca vibhaktam vai dhanam tayā .. 4.5.20 ..
स्वीयं च रक्षितं किंचिद्धनं मरणहेतवे ॥ ततश्च द्विजपत्नी हि कियत्कालं मृता च सा ॥ २१ ॥
स्वीयम् च रक्षितम् किंचिद् धनम् मरण-हेतवे ॥ ततस् च द्विज-पत्नी हि कियत्कालम् मृता च सा ॥ २१ ॥
svīyam ca rakṣitam kiṃcid dhanam maraṇa-hetave .. tatas ca dvija-patnī hi kiyatkālam mṛtā ca sā .. 21 ..
कदाचित्क्रियमाणा सा विविधं पुण्यमाचरत् ॥ न मृता दैवयोगेन द्विजपत्नी च सा द्विजाः ॥ २२ ॥
कदाचिद् क्रियमाणा सा विविधम् पुण्यम् आचरत् ॥ न मृता दैवयोगेन द्विज-पत्नी च सा द्विजाः ॥ २२ ॥
kadācid kriyamāṇā sā vividham puṇyam ācarat .. na mṛtā daivayogena dvija-patnī ca sā dvijāḥ .. 22 ..
यदा प्राणान्न मुमुचे माता दैवात्तयोश्च सा ॥ तद्दृष्ट्वा जननीकष्टं पुत्रकावूचतुस्तदा ॥ २३ ॥
यदा प्राणान् न मुमुचे माता दैवात् तयोः च सा ॥ तत् दृष्ट्वा जननी-कष्टम् पुत्रकौ ऊचतुः तदा ॥ २३ ॥
yadā prāṇān na mumuce mātā daivāt tayoḥ ca sā .. tat dṛṣṭvā jananī-kaṣṭam putrakau ūcatuḥ tadā .. 23 ..
पुत्रावूचतुः ।।
किं न्यूनं विद्यते मातः कष्टं यद्विद्यते महत् ॥ व्रियतां तदृतं प्रीत्या तदावां करवावहे ॥ २४ ॥
किम् न्यूनम् विद्यते मातर् कष्टम् यत् विद्यते महत् ॥ व्रियताम् तत् ऋतम् प्रीत्या तत् आवाम् करवावहे ॥ २४ ॥
kim nyūnam vidyate mātar kaṣṭam yat vidyate mahat .. vriyatām tat ṛtam prītyā tat āvām karavāvahe .. 24 ..
सूत उवाच ।।
तच्छ्रुत्वोक्तं तया तत्र न्यूनं तु विद्यते बहु ॥ तदेव क्रियते चेद्वै सुखेन मरणं भवेत् ॥ २५ ॥
तत् श्रुत्वा उक्तम् तया तत्र न्यूनम् तु विद्यते बहु ॥ तत् एव क्रियते चेद् वै सुखेन मरणम् भवेत् ॥ २५ ॥
tat śrutvā uktam tayā tatra nyūnam tu vidyate bahu .. tat eva kriyate ced vai sukhena maraṇam bhavet .. 25 ..
ज्येष्ठपुत्रश्च यस्तस्यास्तेनोक्तं कथ्यतान्त्वया ॥ करिष्यामि तदेतद्धि तया च कथितन्तदा ॥ २६ ॥
ज्येष्ठ-पुत्रः च यः तस्याः तेन उक्तम् कथ्यताम् त्वया ॥ करिष्यामि तत् एतत् हि तया च कथितम् तदा ॥ २६ ॥
jyeṣṭha-putraḥ ca yaḥ tasyāḥ tena uktam kathyatām tvayā .. kariṣyāmi tat etat hi tayā ca kathitam tadā .. 26 ..
द्विजपत्न्युवाच ।।
शृणु पुत्र वचः प्रीत्या पुरासीन्मे मनः स्पृहा ॥ काश्यां गंतुं तथा नासीदिदानीं म्रियते पुनः ॥ २७॥
शृणु पुत्र वचः प्रीत्या पुरा आसीत् मे मनः स्पृहा ॥ काश्याम् गंतुम् तथा ना आसीत् इदानीम् म्रियते पुनर् ॥ २७॥
śṛṇu putra vacaḥ prītyā purā āsīt me manaḥ spṛhā .. kāśyām gaṃtum tathā nā āsīt idānīm mriyate punar .. 27..
ममास्थीनि त्वया पुत्र क्षेपणीयान्यतन्द्रितम् ॥ गंगाजले शुभं तेद्य भविष्यति न संशयः ॥ २८ ॥
मम अस्थीनि त्वया पुत्र क्षेपणीयानि अतन्द्रितम् ॥ गंगा-जले शुभम् भविष्यति न संशयः ॥ २८ ॥
mama asthīni tvayā putra kṣepaṇīyāni atandritam .. gaṃgā-jale śubham bhaviṣyati na saṃśayaḥ .. 28 ..
।। सूत उवाच ।।
इत्युक्ते च तया मात्रा स ज्येष्ठतनयोब्रवीत् ॥ मातरं मातृभक्तिस्तु सुव्रतां मरणोन्मुखीम् ॥ २९ ॥
इति उक्ते च तया मात्रा स ज्येष्ठ-तनयः ब्रवीत् ॥ मातरम् मातृ-भक्तिः तु सुव्रताम् मरण-उन्मुखीम् ॥ २९ ॥
iti ukte ca tayā mātrā sa jyeṣṭha-tanayaḥ bravīt .. mātaram mātṛ-bhaktiḥ tu suvratām maraṇa-unmukhīm .. 29 ..
।। पुत्र उवाच ।।
मातस्त्वया सुखेनैव प्राणास्त्याज्या न संशयः ॥ तव कार्यं पुरा कृत्वा पश्चात्कार्यं मदीयकम् ॥ 4.5.३०॥
मातर् त्वया सुखेन एव प्राणाः त्याज्याः न संशयः ॥ तव कार्यम् पुरा कृत्वा पश्चात् कार्यम् मदीयकम् ॥ ४।५।३०॥
mātar tvayā sukhena eva prāṇāḥ tyājyāḥ na saṃśayaḥ .. tava kāryam purā kṛtvā paścāt kāryam madīyakam .. 4.5.30..
इति हस्ते जलं दत्त्वा यावत्पुत्रो गृहं गतः ॥ तावत्सा च मृता तत्र हरस्मरणतत्परा ॥ ३१ ॥
इति हस्ते जलम् दत्त्वा यावत् पुत्रः गृहम् गतः ॥ तावत् सा च मृता तत्र हर-स्मरण-तत्परा ॥ ३१ ॥
iti haste jalam dattvā yāvat putraḥ gṛham gataḥ .. tāvat sā ca mṛtā tatra hara-smaraṇa-tatparā .. 31 ..
तस्याश्चैव तु यत्कृत्यं तत्सर्वं संविधाय सः ॥ मासिकं कर्म कृत्वा तु गमनाय प्रचक्रमे ॥ ३२ ॥
तस्याः च एव तु यत् कृत्यम् तत् सर्वम् संविधाय सः ॥ मासिकम् कर्म कृत्वा तु गमनाय प्रचक्रमे ॥ ३२ ॥
tasyāḥ ca eva tu yat kṛtyam tat sarvam saṃvidhāya saḥ .. māsikam karma kṛtvā tu gamanāya pracakrame .. 32 ..
द्वयोः श्रेष्ठतमो यो वै सुवादो नाम विश्रुतः ॥ तदस्थीनि समादाय निस्सृतस्तीर्थकाम्यया॥३३॥
द्वयोः श्रेष्ठतमः यः वै सुवादः नाम विश्रुतः ॥ तद्-अस्थीनि समादाय निस्सृतः तीर्थ-काम्यया॥३३॥
dvayoḥ śreṣṭhatamaḥ yaḥ vai suvādaḥ nāma viśrutaḥ .. tad-asthīni samādāya nissṛtaḥ tīrtha-kāmyayā..33..
संगृह्य सेवकं कंचित्तेनैव सहितस्तदा ॥ आश्वास्य भार्य्यापुत्राँश्च मातुः प्रियचिकीर्षया ॥ ३४ ॥
संगृह्य सेवकम् कंचिद् तेन एव सहितः तदा ॥ आश्वास्य भार्य्या-पुत्रान् च मातुः प्रिय-चिकीर्षया ॥ ३४ ॥
saṃgṛhya sevakam kaṃcid tena eva sahitaḥ tadā .. āśvāsya bhāryyā-putrān ca mātuḥ priya-cikīrṣayā .. 34 ..
श्राद्धदानादिकं भोज्यं कृत्वा विधिमनुत्तमम् ॥ मंगलस्मरणं कृत्वा निर्जगाम गृहाद्द्विजः॥ ३५ ॥
श्राद्ध-दान-आदिकम् भोज्यम् कृत्वा विधिम् अनुत्तमम् ॥ मंगल-स्मरणम् कृत्वा निर्जगाम गृहात् द्विजः॥ ३५ ॥
śrāddha-dāna-ādikam bhojyam kṛtvā vidhim anuttamam .. maṃgala-smaraṇam kṛtvā nirjagāma gṛhāt dvijaḥ.. 35 ..
तद्दिने योजनं गत्वा विंशति ग्रामके शुभे ॥ उवासास्तं गते भानौ गृहे विप्रस्य कस्यचित् ॥ ३६ ॥
तद्-दिने योजनम् गत्वा विंशति ग्रामके शुभे ॥ उवास अस्तम् गते भानौ गृहे विप्रस्य कस्यचिद् ॥ ३६ ॥
tad-dine yojanam gatvā viṃśati grāmake śubhe .. uvāsa astam gate bhānau gṛhe viprasya kasyacid .. 36 ..
चक्रे सन्ध्यादिसत्कर्म स द्विजो विधिपूर्वकम् ॥ स्तवादि कृतवांस्तत्र शंभोरद्भुतकर्मणः ॥ ३७॥
चक्रे सन्ध्या-आदि-सत्कर्म स द्विजः विधि-पूर्वकम् ॥ स्तव-आदि कृतवान् तत्र शंभोः अद्भुत-कर्मणः ॥ ३७॥
cakre sandhyā-ādi-satkarma sa dvijaḥ vidhi-pūrvakam .. stava-ādi kṛtavān tatra śaṃbhoḥ adbhuta-karmaṇaḥ .. 37..
सेवकेन तदा युक्तो ब्राह्मणः संस्थितस्तदा ॥ यामिनी च गता तत्र मुहूर्तद्वयसंमिता ॥ ३८ ॥
सेवकेन तदा युक्तः ब्राह्मणः संस्थितः तदा ॥ यामिनी च गता तत्र मुहूर्त-द्वय-संमिता ॥ ३८ ॥
sevakena tadā yuktaḥ brāhmaṇaḥ saṃsthitaḥ tadā .. yāminī ca gatā tatra muhūrta-dvaya-saṃmitā .. 38 ..
एतस्मिन्नंतरे तत्रैकमाश्चर्य्यमभूत्तदा ॥ शृणुतादरतस्तच्च मुनयो वो वदाम्यहम् ॥ ३९ ॥
एतस्मिन् अन्तरे तत्र एकम् आश्चर्य्यम् अभूत् तदा ॥ शृणुत आदरतः तत् च मुनयः वः वदामि अहम् ॥ ३९ ॥
etasmin antare tatra ekam āścaryyam abhūt tadā .. śṛṇuta ādarataḥ tat ca munayaḥ vaḥ vadāmi aham .. 39 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनं नाम पंचमोऽध्यायः ॥ ५ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् नन्दिकेश्वरमाहात्म्ये ब्राह्मणीमरणवर्णनम् नाम पंचमः अध्यायः ॥ ५ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām nandikeśvaramāhātmye brāhmaṇīmaraṇavarṇanam nāma paṃcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In