| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
गौश्चैकाप्यभवत्तत्र ह्यंगणे बंधिता शुभा ॥ तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः ॥ १ ॥
गौः च एका अपि अभवत् तत्र हि अंगणे बंधिता शुभा ॥ तदा एव ब्राह्मणः रात्रौ आजगाम बहिस् गतः ॥ १ ॥
gauḥ ca ekā api abhavat tatra hi aṃgaṇe baṃdhitā śubhā .. tadā eva brāhmaṇaḥ rātrau ājagāma bahis gataḥ .. 1 ..
स उवाच प्रियां स्वीयां दृष्ट्वा गामंगणे स्थिताम् ॥ अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः ॥ २ ॥
सः उवाच प्रियाम् स्वीयाम् दृष्ट्वा गाम् अंगणे स्थिताम् ॥ अदुग्धाम् खेद-निर्विण्णः दोग्धु-कामः मुनि-ईश्वराः ॥ २ ॥
saḥ uvāca priyām svīyām dṛṣṭvā gām aṃgaṇe sthitām .. adugdhām kheda-nirviṇṇaḥ dogdhu-kāmaḥ muni-īśvarāḥ .. 2 ..
गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ॥ दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा ॥ ३॥
गौः प्रिये ना एव दुग्धा ते सा इति उक्ता वत्सम् आनयत् ॥ दोहन-अर्थम् समाहूय स्त्रियम् शीघ्रतरम् तदा ॥ ३॥
gauḥ priye nā eva dugdhā te sā iti uktā vatsam ānayat .. dohana-artham samāhūya striyam śīghrataram tadā .. 3..
वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा॥ब्राह्मणस्स गृहस्वामी मुनयो दुग्धलालसः ॥ ४ ॥
वत्सम् कीले स्वयम् बद्धुम् यत्नम् च एव अकरोत् तदा॥ब्राह्मणः स गृह-स्वामी मुनयः दुग्ध-लालसः ॥ ४ ॥
vatsam kīle svayam baddhum yatnam ca eva akarot tadā..brāhmaṇaḥ sa gṛha-svāmī munayaḥ dugdha-lālasaḥ .. 4 ..
वत्सोपि कर्षमाणश्च पादे वै पादपीडनम् ॥ चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः ॥ ५ ॥
वत्सः अपि कर्षमाणः च पादे वै पाद-पीडनम् ॥ चकार ब्राह्मणः च एव कष्टम् प्राप्तः च सुव्रताः ॥ ५ ॥
vatsaḥ api karṣamāṇaḥ ca pāde vai pāda-pīḍanam .. cakāra brāhmaṇaḥ ca eva kaṣṭam prāptaḥ ca suvratāḥ .. 5 ..
तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ॥ वत्सं च ताडयामास कूपैर्दृढतरं तदा ॥ ६॥
तेन पाद-प्रहारेण स द्विजः क्रोध-मूर्छितः ॥ वत्सम् च ताडयामास कूपैः दृढतरम् तदा ॥ ६॥
tena pāda-prahāreṇa sa dvijaḥ krodha-mūrchitaḥ .. vatsam ca tāḍayāmāsa kūpaiḥ dṛḍhataram tadā .. 6..
वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ॥ दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना ॥ ७ ॥
वत्सः अपि पीडितः तेन श्रांतः च एव भवत् तदा ॥ दुग्धा गौः मोचितः वत्सः न क्रोधेन द्विजन्मना ॥ ७ ॥
vatsaḥ api pīḍitaḥ tena śrāṃtaḥ ca eva bhavat tadā .. dugdhā gauḥ mocitaḥ vatsaḥ na krodhena dvijanmanā .. 7 ..
गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ॥ दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत् ॥ ८ ॥
गौः दोग्धुम् महत्-प्रीत्या रोदनम् च अकरोत् तदा ॥ दृष्ट्वा च रोदनम् तस्याः वत्सः वाक्यम् अथा अब्रवीत् ॥ ८ ॥
gauḥ dogdhum mahat-prītyā rodanam ca akarot tadā .. dṛṣṭvā ca rodanam tasyāḥ vatsaḥ vākyam athā abravīt .. 8 ..
वत्स उवाच ।।
कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम्॥तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत॥९॥
कथम् च रुद्यते मातर् किम् ते दुःखम् उपस्थितम्॥तत् निवेदय मे प्रीत्या तत् श्रुत्वा गौः अवोचत॥९॥
katham ca rudyate mātar kim te duḥkham upasthitam..tat nivedaya me prītyā tat śrutvā gauḥ avocata..9..
श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि॥दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत् ॥ 4.6.१० ॥
श्रूयताम् पुत्र मे दुःखम् वक्तुम् शक्नोमि अहम् न हि॥दुष्टेन ताडित-त्वम् च तेन दुःखम् मम अपि अभूत् ॥ ४।६।१० ॥
śrūyatām putra me duḥkham vaktum śaknomi aham na hi..duṣṭena tāḍita-tvam ca tena duḥkham mama api abhūt .. 4.6.10 ..
सूत उवाच ।।
स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ॥ प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः॥११॥
स्व-मातुः वचनम् श्रुत्वा स वत्सः प्रत्यबोधयत् ॥ प्रत्युवाच स्व-जननीम् प्रारब्ध-परिनिष्ठितः॥११॥
sva-mātuḥ vacanam śrutvā sa vatsaḥ pratyabodhayat .. pratyuvāca sva-jananīm prārabdha-pariniṣṭhitaḥ..11..
किं कर्त्तव्यं क्व गंतव्यं कर्मबद्धा वयं यतः॥कृतं चैव यथापूर्वं भुज्यते च तथाधुना॥१२॥
किम् कर्त्तव्यम् क्व गंतव्यम् कर्म-बद्धाः वयम् यतस्॥कृतम् च एव यथापूर्वम् भुज्यते च तथा अधुना॥१२॥
kim karttavyam kva gaṃtavyam karma-baddhāḥ vayam yatas..kṛtam ca eva yathāpūrvam bhujyate ca tathā adhunā..12..
हसता क्रियते कर्म रुदता परिभुज्यते॥दुःखदाता न कोप्यस्ति सुखदाता न कश्चन ॥ १३॥
हसता क्रियते कर्म रुदता परिभुज्यते॥दुःख-दाता न कः उपि अस्ति सुख-दाता न कश्चन ॥ १३॥
hasatā kriyate karma rudatā paribhujyate..duḥkha-dātā na kaḥ upi asti sukha-dātā na kaścana .. 13..
सुखदुःखे परो दत्त इत्येषा कुमतिर्मता॥अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते॥१४॥
सुख-दुःखे परः दत्तः इति एषा कुमतिः मता॥अहम् च अपि करोमि अत्र मिथ्याज्ञानम् तदा उच्यते॥१४॥
sukha-duḥkhe paraḥ dattaḥ iti eṣā kumatiḥ matā..aham ca api karomi atra mithyājñānam tadā ucyate..14..
स्वकर्मणा भवेद्दुखं सुखं तेनैव कर्मणा॥तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम॥१५॥
स्व-कर्मणा भवेत् दुखम् सुखम् तेन एव कर्मणा॥तस्मात् च पूज्यते कर्म सर्वम् कर्मणि संस्थितम्॥१५॥
sva-karmaṇā bhavet dukham sukham tena eva karmaṇā..tasmāt ca pūjyate karma sarvam karmaṇi saṃsthitam..15..
त्वं चैवाहं च जननी इमे जीवादयश्च ये ॥ ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया ॥ १६ ॥
त्वम् च एव अहम् च जननी इमे जीव-आदयः च ये ॥ ते सर्वे कर्मणा बद्धाः न शोच्याः कर्हिचित् त्वया ॥ १६ ॥
tvam ca eva aham ca jananī ime jīva-ādayaḥ ca ye .. te sarve karmaṇā baddhāḥ na śocyāḥ karhicit tvayā .. 16 ..
सूत उवाच ।।
एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ॥ पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम् ॥ १७॥
एवम् श्रुत्वा स्व-पुत्रस्य वचनम् ज्ञान-गर्भितम् ॥ पुत्र-शोक-अन्विता दीना सा च गौः अब्रवीत् इदम् ॥ १७॥
evam śrutvā sva-putrasya vacanam jñāna-garbhitam .. putra-śoka-anvitā dīnā sā ca gauḥ abravīt idam .. 17..
गौरुवाच ।।
वत्स सर्वं विजानामि कर्माधीनाः प्रजा इति ॥ तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः ॥ १८ ॥
वत्स सर्वम् विजानामि कर्म-अधीनाः प्रजाः इति ॥ तथा अपि मायया ग्रस्ता दुःखम् प्राप्नोमि अहम् पुनर् ॥ १८ ॥
vatsa sarvam vijānāmi karma-adhīnāḥ prajāḥ iti .. tathā api māyayā grastā duḥkham prāpnomi aham punar .. 18 ..
रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्नहि ॥ इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम् ॥ १९॥
रोदनम् च कृतम् भूरि दुःख-शान्तिः भवेत् न हि ॥ इति एतत् वचनम् श्रुत्वा प्रसूम् वत्सः अब्रवीत् इदम् ॥ १९॥
rodanam ca kṛtam bhūri duḥkha-śāntiḥ bhavet na hi .. iti etat vacanam śrutvā prasūm vatsaḥ abravīt idam .. 19..
।। वत्स उवाच ।।
यद्येवं च विजानामि पुनश्च रुदनं कुतः ॥ कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना ॥ 4.6.२०॥
यदि एवम् च विजानामि पुनर् च रुदनम् कुतस् ॥ कृत्वा च साध्यते किञ्चिद् तस्मात् दुःखम् त्यज अधुना ॥ ४।६।२०॥
yadi evam ca vijānāmi punar ca rudanam kutas .. kṛtvā ca sādhyate kiñcid tasmāt duḥkham tyaja adhunā .. 4.6.20..
।। सूत उवाच ।।
एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ॥ निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत् ॥ २१॥
एवम् पुत्र-वचः श्रुत्वा तद्-माता दुःख-संयुता ॥ निःश्वस्य अति तदा धेनुः वत्सम् वचनम् अब्रवीत् ॥ २१॥
evam putra-vacaḥ śrutvā tad-mātā duḥkha-saṃyutā .. niḥśvasya ati tadā dhenuḥ vatsam vacanam abravīt .. 21..
गौरुवाच ।।
मम दुःखं तदा गच्छेद्यथा दुखं तथाविधम् ॥ भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम् ॥ २२ ॥
मम दुःखम् तदा गच्छेत् यथा दुखम् तथाविधम् ॥ भवेत् हि ब्राह्मणस्य अपि सत्यम् एतत् ब्रवीमि अहम् ॥ २२ ॥
mama duḥkham tadā gacchet yathā dukham tathāvidham .. bhavet hi brāhmaṇasya api satyam etat bravīmi aham .. 22 ..
प्रातश्चैव मया पुत्र शृंगाभ्यां हि हनिष्यते ॥ हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः ॥ २३॥
प्रातर् च एव मया पुत्र शृंगाभ्याम् हि हनिष्यते ॥ हतस्य जीवितम् सद्यस् यास्यति अस्य न संशयः ॥ २३॥
prātar ca eva mayā putra śṛṃgābhyām hi haniṣyate .. hatasya jīvitam sadyas yāsyati asya na saṃśayaḥ .. 23..
वत्स उवाच।।
प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ॥ अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे ॥ २४ ॥
प्रथमम् यत् कृतम् कर्म तद्-फलम् भुज्यते अधुना ॥ अस्याः च ब्रह्महत्यायाः मातर् किम् फलम् आप्स्यसे ॥ २४ ॥
prathamam yat kṛtam karma tad-phalam bhujyate adhunā .. asyāḥ ca brahmahatyāyāḥ mātar kim phalam āpsyase .. 24 ..
समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ॥ तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते ॥ २५॥
समाभ्याम् पुण्य-पापाभ्याम् भवेत् जन्म च भारते ॥ तयोः क्षये च भोगेन मातर् मुक्तिः अवाप्यते ॥ २५॥
samābhyām puṇya-pāpābhyām bhavet janma ca bhārate .. tayoḥ kṣaye ca bhogena mātar muktiḥ avāpyate .. 25..
कदापि कर्मणो नाशः कदा भोगः प्रजायते॥तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता ॥ २६॥
कदापि कर्मणः नाशः कदा भोगः प्रजायते॥तस्मात् च पुनर् एवम् त्वम् कर्म मा कर्तुम् उद्यता ॥ २६॥
kadāpi karmaṇaḥ nāśaḥ kadā bhogaḥ prajāyate..tasmāt ca punar evam tvam karma mā kartum udyatā .. 26..
अहं कुतस्ते पुत्रोद्य त्वं माता कुत एव च॥वृथाभिमानः पुत्रत्वे मातृत्वे च विचार्य्यताम्॥२७॥
अहम् कुतस् ते पुत्र उद्य त्वम् माता कुतस् एव च॥वृथा अभिमानः पुत्र-त्वे मातृ-त्वे च विचार्य्यताम्॥२७॥
aham kutas te putra udya tvam mātā kutas eva ca..vṛthā abhimānaḥ putra-tve mātṛ-tve ca vicāryyatām..27..
क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ॥ न कोऽपि कस्य चास्तीह सर्वेपि स्वकृतं भुजः ॥ २८॥
क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ॥ न कः अपि कस्य च अस्ति इह सर्वे पि स्व-कृतम् भुजः ॥ २८॥
kva mātā kva pitā viddhi kva svāmī kva kalatrakam .. na kaḥ api kasya ca asti iha sarve pi sva-kṛtam bhujaḥ .. 28..
एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ॥ सुभगाचरणं कार्यं परलोकसुखेप्सया॥२९॥
एवम् ज्ञात्वा त्वया मातर् दुःखम् त्याज्यम् सु यत्नतः ॥ सुभग-आचरणम् कार्यम् पर-लोक-सुख-ईप्सया॥२९॥
evam jñātvā tvayā mātar duḥkham tyājyam su yatnataḥ .. subhaga-ācaraṇam kāryam para-loka-sukha-īpsayā..29..
गौरुवाच।।
एवं जानाम्यहं पुत्र माया मां न जहात्यसौ॥त्वद्दुःखेन सुदुःखं मे तस्मै दास्ये तदेव हि ॥ 4.6.३०॥
एवम् जानामि अहम् पुत्र माया माम् न जहाति असौ॥त्वद्-दुःखेन सु दुःखम् मे तस्मै दास्ये तत् एव हि ॥ ४।६।३०॥
evam jānāmi aham putra māyā mām na jahāti asau..tvad-duḥkhena su duḥkham me tasmai dāsye tat eva hi .. 4.6.30..
पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह॥तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति॥३१॥
पुनर् च ब्रह्महत्यायाः नाशः यत्र भवेत् इह॥तत् स्थलम् च मया दृष्टम् हत्या मे हि गमिष्यति॥३१॥
punar ca brahmahatyāyāḥ nāśaḥ yatra bhavet iha..tat sthalam ca mayā dṛṣṭam hatyā me hi gamiṣyati..31..
सूत उवाच।।
इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः॥मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन॥३२॥
इति एतत् वचनम् श्रुत्वा स्व-मातुः गोः द्विजोत्तमाः॥मौन-त्वम् स्वीकृतम् तत्र वत्सेन उक्तम् न किञ्चन॥३२॥
iti etat vacanam śrutvā sva-mātuḥ goḥ dvijottamāḥ..mauna-tvam svīkṛtam tatra vatsena uktam na kiñcana..32..
तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ॥ हृदा विचारयामास विस्मितो हि मुनीश्वराः ॥ ३३॥
तयोः तत् अद्भुतम् वृत्तम् श्रुत्वा पान्थः द्विजः तदा ॥ हृदा विचारयामास विस्मितः हि मुनि-ईश्वराः ॥ ३३॥
tayoḥ tat adbhutam vṛttam śrutvā pānthaḥ dvijaḥ tadā .. hṛdā vicārayāmāsa vismitaḥ hi muni-īśvarāḥ .. 33..
इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ॥ गंतव्यं पुनरेवातो गंतव्यं तत्स्थलं पुनः ॥ ३४ ॥
इदम् अत्यद्भुतम् वृत्तम् दृष्ट्वा प्रातर् मया खलु ॥ गंतव्यम् पुनर् एव अतस् गंतव्यम् तत् स्थलम् पुनर् ॥ ३४ ॥
idam atyadbhutam vṛttam dṛṣṭvā prātar mayā khalu .. gaṃtavyam punar eva atas gaṃtavyam tat sthalam punar .. 34 ..
।। सूत उवाच ।।
विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ॥ सुष्वाप तत्र जननीभक्तः परमविस्मितः ॥ ३५ ॥
विचार्य इति हृदा विप्रः स द्विजाः सेवकेन च ॥ सुष्वाप तत्र जननी-भक्तः परम-विस्मितः ॥ ३५ ॥
vicārya iti hṛdā vipraḥ sa dvijāḥ sevakena ca .. suṣvāpa tatra jananī-bhaktaḥ parama-vismitaḥ .. 35 ..
प्रातःकाले तदा जाते गृहस्वामी समुत्थितः॥बोधयामास तं पान्थं वचनं चेदमब्रवीत् ॥ ३६॥
प्रातःकाले तदा जाते गृह-स्वामी समुत्थितः॥बोधयामास तम् पान्थम् वचनम् च इदम् अब्रवीत् ॥ ३६॥
prātaḥkāle tadā jāte gṛha-svāmī samutthitaḥ..bodhayāmāsa tam pāntham vacanam ca idam abravīt .. 36..
द्विज उवाच ।।
स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम्॥स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह ॥ ३७ ॥
स्वपिषि त्वम् किमर्थम् हि प्रातःकालः भवति अलम्॥स्व-यात्राम् कुरु तम् देशम् गमन-इच्छा च यत्र ह ॥ ३७ ॥
svapiṣi tvam kimartham hi prātaḥkālaḥ bhavati alam..sva-yātrām kuru tam deśam gamana-icchā ca yatra ha .. 37 ..
तेनोक्तं श्रूयताम्ब्रह्मञ्च्छरीरे सेवकस्य मे॥वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः ॥ ३८ ॥
तेन उक्तम् श्रूयताम् ब्रह्मन् शरीरे सेवकस्य मे॥वर्तते हि व्यथा स्थित्वा मुहूर्तम् गम्यते ततस् ॥ ३८ ॥
tena uktam śrūyatām brahman śarīre sevakasya me..vartate hi vyathā sthitvā muhūrtam gamyate tatas .. 38 ..
सूत उवाच ।।
इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ॥ तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम् ॥ ३९ ॥
इति एवम् च मिषम् कृत्वा सुष्वाप पुरुषः तदा ॥ तद्-वृत्तम् अखिलम् ज्ञातुम् अद्भुतम् विस्मय-आवहम् ॥ ३९ ॥
iti evam ca miṣam kṛtvā suṣvāpa puruṣaḥ tadā .. tad-vṛttam akhilam jñātum adbhutam vismaya-āvaham .. 39 ..
दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति॥उवाच गंतुकामश्च कार्यार्थं कुत्रचिच्च सः॥4.6.४०॥
दोहनस्य तदा काले ब्राह्मणः स्व-सुतम् प्रति॥उवाच गंतु-कामः च कार्य-अर्थम् कुत्रचिद् च सः॥४।६।४०॥
dohanasya tadā kāle brāhmaṇaḥ sva-sutam prati..uvāca gaṃtu-kāmaḥ ca kārya-artham kutracid ca saḥ..4.6.40..
पितोवाच।।
मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ॥ धेनुर्दोह्या त्वया वत्स सावधानादियं निजा ॥ ४१॥
मया तु गम्यते पुत्र कार्य-अर्थम् कुत्रचिद् पुनर् ॥ धेनुः दोह्या त्वया वत्स स अवधानात् इयम् निजा ॥ ४१॥
mayā tu gamyate putra kārya-artham kutracid punar .. dhenuḥ dohyā tvayā vatsa sa avadhānāt iyam nijā .. 41..
सूत उवाच ।।
इत्युक्त्वा ब्राह्मणवरस्स जगाम च कुत्रचित् ॥ पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा ॥ ४२॥
इति उक्त्वा ब्राह्मण-वरः स जगाम च कुत्रचिद् ॥ पुत्रः समुत्थितः तत्र वत्सम् च मुक्तवान् तदा ॥ ४२॥
iti uktvā brāhmaṇa-varaḥ sa jagāma ca kutracid .. putraḥ samutthitaḥ tatra vatsam ca muktavān tadā .. 42..
माता च तस्य दोहार्थमाजगाम स्वयन्तदा ॥ द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम् ॥ ४३॥
माता च तस्य दोह-अर्थम् आजगाम स्वयम् तदा ॥ द्विज-पुत्रः तदा वत्सम् खिन्नम् कीलेन ताडितम् ॥ ४३॥
mātā ca tasya doha-artham ājagāma svayam tadā .. dvija-putraḥ tadā vatsam khinnam kīlena tāḍitam .. 43..
बंधनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ॥ पुनर्गौश्च तदा क्रुद्धा शृंगेनाताडयच्च तम् ॥ ४४ ॥
बंधन-अर्थम् हि गोः पार्श्वम् अनयत् दुग्ध-लालसः ॥ पुनर् गौः च तदा क्रुद्धा शृंगेन अताडयत् च तम् ॥ ४४ ॥
baṃdhana-artham hi goḥ pārśvam anayat dugdha-lālasaḥ .. punar gauḥ ca tadā kruddhā śṛṃgena atāḍayat ca tam .. 44 ..
पपात मूर्च्छां संप्राप्य सोपि मर्मणि ताडितः ॥ लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः॥४५॥
पपात मूर्च्छाम् संप्राप्य सः अपि मर्मणि ताडितः ॥ लोकाः च मिलिताः तत्र गवा बालः विहिंसितः॥४५॥
papāta mūrcchām saṃprāpya saḥ api marmaṇi tāḍitaḥ .. lokāḥ ca militāḥ tatra gavā bālaḥ vihiṃsitaḥ..45..
जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ॥ यत्नश्च क्रियते यावत्तावद्बालो मृतस्तदा ॥ ४६ ॥
जलम् जलम् वदन्तः ते पितृ-आद्याः यत्र संस्थिताः ॥ यत्नः च क्रियते यावत् तावत् बालः मृतः तदा ॥ ४६ ॥
jalam jalam vadantaḥ te pitṛ-ādyāḥ yatra saṃsthitāḥ .. yatnaḥ ca kriyate yāvat tāvat bālaḥ mṛtaḥ tadā .. 46 ..
मृते च बालके तत्र हाहाकारो महानभूत् ॥ तन्माता दुःखिता ह्यासीद्रुरोद च पुनः पुनः ॥ ४७ ॥
मृते च बालके तत्र हाहाकारः महान् अभूत् ॥ तद्-माता दुःखिता हि आसीत् रुरोद च पुनर् पुनर् ॥ ४७ ॥
mṛte ca bālake tatra hāhākāraḥ mahān abhūt .. tad-mātā duḥkhitā hi āsīt ruroda ca punar punar .. 47 ..
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ॥ रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत् ॥ ४८॥
किम् करोमि क्व गच्छामि कः मे दुःखम् व्यपोहति ॥ रुदित्वा इति तदा गाम् च ताडयित्वा व्यमोचयत् ॥ ४८॥
kim karomi kva gacchāmi kaḥ me duḥkham vyapohati .. ruditvā iti tadā gām ca tāḍayitvā vyamocayat .. 48..
श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ॥ अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम् ॥ ४९॥
श्वेत-वर्णा तदा सा गौः द्रुतम् श्यामा व्यदृश्यत ॥ अहो च दृश्यताम् लोकाः चुक्रुशुः च परस्परम् ॥ ४९॥
śveta-varṇā tadā sā gauḥ drutam śyāmā vyadṛśyata .. aho ca dṛśyatām lokāḥ cukruśuḥ ca parasparam .. 49..
ब्राह्मणश्च तदा पान्र्थौ दृष्ट्वाश्चर्यं विनिर्गतः ॥ यत्र गौश्च गतस्तत्र तामनु ब्राह्मणो गतः ॥ 4.6.५०॥
ब्राह्मणः च तदा दृष्ट्वा आश्चर्यम् विनिर्गतः ॥ यत्र गौः च गतः तत्र ताम् अनु ब्राह्मणः गतः ॥ ४।६।५०॥
brāhmaṇaḥ ca tadā dṛṣṭvā āścaryam vinirgataḥ .. yatra gauḥ ca gataḥ tatra tām anu brāhmaṇaḥ gataḥ .. 4.6.50..
ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ॥ आगत्य नन्दिकस्यास्य समीपे नर्मदाजले ॥ ५१ ॥
ऊर्ध्व-पुच्छम् तदा कृत्वा शीघ्रम् गौः नर्मदाम् प्रति ॥ आगत्य नन्दिकस्य अस्य समीपे नर्मदा-जले ॥ ५१ ॥
ūrdhva-puccham tadā kṛtvā śīghram gauḥ narmadām prati .. āgatya nandikasya asya samīpe narmadā-jale .. 51 ..
संनिमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ॥ यथागतं गता सा च ब्राह्मणो विस्मयं गतः ॥ ५२ ॥
संनिमज्ज्य त्रि-वारम् तु श्वेत-त्वम् च गता हि सा ॥ यथागतम् गता सा च ब्राह्मणः विस्मयम् गतः ॥ ५२ ॥
saṃnimajjya tri-vāram tu śveta-tvam ca gatā hi sā .. yathāgatam gatā sā ca brāhmaṇaḥ vismayam gataḥ .. 52 ..
अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ॥ स्वयं ममज्ज तत्रासौ ब्राह्मणस्सेवकस्तथा ॥ ५३ ॥
अहो धन्यतमम् तीर्थम् ब्रह्महत्या-निवारणम् ॥ स्वयम् ममज्ज तत्र असौ ब्राह्मणः सेवकः तथा ॥ ५३ ॥
aho dhanyatamam tīrtham brahmahatyā-nivāraṇam .. svayam mamajja tatra asau brāhmaṇaḥ sevakaḥ tathā .. 53 ..
निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ॥ मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता ॥ ५४ ॥
निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ॥ मार्गे च मिलिता काचिद् सुन्दरी भूषण-अन्विता ॥ ५४ ॥
nimajjya hi gatau tau ca praśaṃsantau nadī ca tām .. mārge ca militā kācid sundarī bhūṣaṇa-anvitā .. 54 ..
तयोक्तं तं च भोः पांथ कुतो यासि सुविस्मितः ॥ सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः ॥ ५५॥
तया उक्तम् तम् च भोः पांथ कुतस् यासि सु विस्मितः ॥ सत्यम् ब्रूहि छलम् त्यक्त्वा विप्र-वर्य मम अग्रतस् ॥ ५५॥
tayā uktam tam ca bhoḥ pāṃtha kutas yāsi su vismitaḥ .. satyam brūhi chalam tyaktvā vipra-varya mama agratas .. 55..
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ॥ पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया ॥ ५६ ॥
एवम् वचः तदा श्रुत्वा द्विजेन उक्तम् यथातथम् ॥ पुनर् च अयम् द्विजः तत्र स्त्रिया उक्तः स्थीयताम् त्वया ॥ ५६ ॥
evam vacaḥ tadā śrutvā dvijena uktam yathātatham .. punar ca ayam dvijaḥ tatra striyā uktaḥ sthīyatām tvayā .. 56 ..
तयोक्तं च समाकर्ण्य स्थितस्य ब्राह्मणस्ततः॥प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च ॥ ५७॥
तया उक्तम् च समाकर्ण्य स्थितस्य ब्राह्मणः ततस्॥प्रत्युवाच विनीत-आत्मा कथ्यते किम् वद इति च ॥ ५७॥
tayā uktam ca samākarṇya sthitasya brāhmaṇaḥ tatas..pratyuvāca vinīta-ātmā kathyate kim vada iti ca .. 57..
सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ॥ तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः ॥ ५८॥
सा च आह पुनर् एव अत्र त्वया दृष्टम् स्थलम् च यत् ॥ तत्र अधुना क्षिप-अस्थीनि मातुः किम् गम्यते अन्यतस् ॥ ५८॥
sā ca āha punar eva atra tvayā dṛṣṭam sthalam ca yat .. tatra adhunā kṣipa-asthīni mātuḥ kim gamyate anyatas .. 58..
तव माता पान्थवर्य्य साक्षाद्दिव्यमयं वरम् ॥ देहं धृत्वा द्रुतं साक्षाच्छंभोर्यास्यति सद्गतिम् ॥ ५९ ॥
तव माता पान्थ-वर्य्य साक्षात् दिव्य-मयम् वरम् ॥ देहम् धृत्वा द्रुतम् साक्षात् शंभोः यास्यति सत्-गतिम् ॥ ५९ ॥
tava mātā pāntha-varyya sākṣāt divya-mayam varam .. deham dhṛtvā drutam sākṣāt śaṃbhoḥ yāsyati sat-gatim .. 59 ..
वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ॥ सितेपक्षे सदा गंगा ह्यायाति द्विजसत्तम ॥ 4.6.६०॥
वैशाखे च एव संप्राप्ते सप्तम्याः च दिने शुभे ॥ सितेपक्षे सदा गंगा हि आयाति द्विजसत्तम ॥ ४।६।६०॥
vaiśākhe ca eva saṃprāpte saptamyāḥ ca dine śubhe .. sitepakṣe sadā gaṃgā hi āyāti dvijasattama .. 4.6.60..
अद्यैव सप्तमी या सा गंगारूपास्ति तत्र वै॥इत्युक्त्वान्तर्दधे देवी सा गंगा मुनिसत्तमाः ॥ ६१ ॥
अद्य एव सप्तमी या सा गंगा-रूपा अस्ति तत्र वै॥इति उक्त्वा अन्तर्दधे देवी सा गंगा मुनि-सत्तमाः ॥ ६१ ॥
adya eva saptamī yā sā gaṃgā-rūpā asti tatra vai..iti uktvā antardadhe devī sā gaṃgā muni-sattamāḥ .. 61 ..
निवृत्तश्च द्विजः सोपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ॥ क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा ॥ ६२॥
निवृत्तः च द्विजः सः उपि मातृ-अस्थि-अर्द्धम् स्व-वस्त्रतः ॥ क्षिपेत् यावत् तत्र तीर्थे तावत् चित्रम् अभूत् तदा ॥ ६२॥
nivṛttaḥ ca dvijaḥ saḥ upi mātṛ-asthi-arddham sva-vastrataḥ .. kṣipet yāvat tatra tīrthe tāvat citram abhūt tadā .. 62..
दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ॥ धन्योसि कृतकृत्योसि पवित्रं च कुलं त्वया ॥ ६३ ॥
दिव्य-देह-त्वम् आपन्ना स्व-माता च व्यदृश्यत ॥ धन्यः असि कृतकृत्यः असि पवित्रम् च कुलम् त्वया ॥ ६३ ॥
divya-deha-tvam āpannā sva-mātā ca vyadṛśyata .. dhanyaḥ asi kṛtakṛtyaḥ asi pavitram ca kulam tvayā .. 63 ..
धनं धान्यं तथा चायुर्वंशो वै वर्द्धतां तव ॥ इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता ॥ ६४ ॥
धनम् धान्यम् तथा च आयुः-वंशः वै वर्द्धताम् तव ॥ इति आशिषम् मुहुर् दत्त्वा स्व-पुत्राय दिवम् गता ॥ ६४ ॥
dhanam dhānyam tathā ca āyuḥ-vaṃśaḥ vai varddhatām tava .. iti āśiṣam muhur dattvā sva-putrāya divam gatā .. 64 ..
तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ॥ शंकरस्य प्रसादेन गता सा ह्युत्तमां गतिम् ॥ ६५ ॥
तत्र भुक्त्वा सुखम् भूरि चिर-कालम् महा-उत्तमम् ॥ शंकरस्य प्रसादेन गता सा हि उत्तमाम् गतिम् ॥ ६५ ॥
tatra bhuktvā sukham bhūri cira-kālam mahā-uttamam .. śaṃkarasya prasādena gatā sā hi uttamām gatim .. 65 ..
ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ॥ प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः ॥ ६६ ॥
ब्राह्मणः च सुतः तस्याः क्षिप्त्वा अस्थीनि पुनर् ततस् ॥ प्रसन्न-मानसः अभूत् स शुद्ध-आत्मा स्व-गृहम् गतः ॥ ६६ ॥
brāhmaṇaḥ ca sutaḥ tasyāḥ kṣiptvā asthīni punar tatas .. prasanna-mānasaḥ abhūt sa śuddha-ātmā sva-gṛham gataḥ .. 66 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām naṃdikeśvaraliṃgamāhātmyavarṇane brāhmaṇīsvargativarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In