| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
कथं गंगा समायाता वैशाखे सप्तमीदिने ॥ नर्मदायां विशेषेण सूतैतद्वर्णय प्रभो॥१॥
कथम् गंगा समायाता वैशाखे सप्तमी-दिने ॥ नर्मदायाम् विशेषेण सूत एतत् वर्णय प्रभो॥१॥
katham gaṃgā samāyātā vaiśākhe saptamī-dine .. narmadāyām viśeṣeṇa sūta etat varṇaya prabho..1..
ईश्वरश्च कथं जातो नन्दिकेशो हि नामतः ॥ वृत्तं तदपि सुप्रीत्या कथय त्वं महामते ॥ २॥
ईश्वरः च कथम् जातः नन्दिकेशः हि नामतः ॥ वृत्तम् तत् अपि सु प्रीत्या कथय त्वम् महामते ॥ २॥
īśvaraḥ ca katham jātaḥ nandikeśaḥ hi nāmataḥ .. vṛttam tat api su prītyā kathaya tvam mahāmate .. 2..
सूत उवाच ।।
साधु पृष्टमृषिश्रेष्ठा नन्दिकेशाश्रितं वचः ॥ तदहं कथयाम्यद्य श्रवणात्पुण्यवर्द्धनम् ॥ ३ ॥
साधु पृष्टम् ऋषि-श्रेष्ठाः नन्दिकेश-आश्रितम् वचः ॥ तत् अहम् कथयामि अद्य श्रवणात् पुण्य-वर्द्धनम् ॥ ३ ॥
sādhu pṛṣṭam ṛṣi-śreṣṭhāḥ nandikeśa-āśritam vacaḥ .. tat aham kathayāmi adya śravaṇāt puṇya-varddhanam .. 3 ..
ब्राह्मणी ऋषिका नाम्ना कस्यचिच्च द्विजन्मनः ॥ सुता विवाहिता कस्मैचिद्द्विजाय विधानतः ॥ ४ ॥
ब्राह्मणी ऋषिका नाम्ना कस्यचिद् च द्विजन्मनः ॥ सुता विवाहिता कस्मैचिद् द्विजाय विधानतः ॥ ४ ॥
brāhmaṇī ṛṣikā nāmnā kasyacid ca dvijanmanaḥ .. sutā vivāhitā kasmaicid dvijāya vidhānataḥ .. 4 ..
पूर्वकर्मप्रभावेन पत्नी सा हि द्विजन्मनः ॥ सुव्रतापि च विप्रेन्द्रा बालवैधव्यमागता ॥ ५ ॥
पूर्व-कर्म-प्रभावेन पत्नी सा हि द्विजन्मनः ॥ सुव्रता अपि च विप्र-इन्द्राः बाल-वैधव्यम् आगता ॥ ५ ॥
pūrva-karma-prabhāvena patnī sā hi dvijanmanaḥ .. suvratā api ca vipra-indrāḥ bāla-vaidhavyam āgatā .. 5 ..
अथ सा द्विजपत्नी हि ब्रह्मचर्य्यव्रतान्विता ॥ पार्थिवार्चनपूर्वं हि तपस्तेपे सुदारुणम् ॥ ६ ॥
अथ सा द्विज-पत्नी हि ब्रह्मचर्य्य-व्रत-अन्विता ॥ पार्थिव-अर्चन-पूर्वम् हि तपः तेपे सु दारुणम् ॥ ६ ॥
atha sā dvija-patnī hi brahmacaryya-vrata-anvitā .. pārthiva-arcana-pūrvam hi tapaḥ tepe su dāruṇam .. 6 ..
तस्मिन्नवसरे दुष्टो मूढनामाऽसुरो बली ॥ ययौ तत्र महामायी कामबाणेन ताडितः ॥ ७॥
तस्मिन् अवसरे दुष्टः मूढ-नामा असुरः बली ॥ ययौ तत्र महा-मायी काम-बाणेन ताडितः ॥ ७॥
tasmin avasare duṣṭaḥ mūḍha-nāmā asuraḥ balī .. yayau tatra mahā-māyī kāma-bāṇena tāḍitaḥ .. 7..
तपन्तीं तां समालोक्य सुन्दरीमतिकामिनीम् ॥ तया भोगं ययाचे स नानालोभं प्रदर्शयन् ॥ ८ ॥
तपन्तीम् ताम् समालोक्य सुन्दरीम् अति कामिनीम् ॥ तया भोगम् ययाचे स नाना लोभम् प्रदर्शयन् ॥ ८ ॥
tapantīm tām samālokya sundarīm ati kāminīm .. tayā bhogam yayāce sa nānā lobham pradarśayan .. 8 ..
अथ सा सुव्रता नारी शिवध्यानपरायणा ॥ तस्मिन्दृष्टिं दधौ नैव कामदृष्ट्या मुनीश्वराः ॥ ९ ॥
अथ सा सुव्रता नारी शिव-ध्यान-परायणा ॥ तस्मिन् दृष्टिम् न एव काम-दृष्ट्याः मुनि-ईश्वराः ॥ ९ ॥
atha sā suvratā nārī śiva-dhyāna-parāyaṇā .. tasmin dṛṣṭim na eva kāma-dṛṣṭyāḥ muni-īśvarāḥ .. 9 ..
न मानितवती तं च ब्राह्मणी सा तपोरता ॥ अतीव हि तपोनिष्ठासीच्छिवध्यानमाश्रिता ॥ 4.7.१० ॥
न मानितवती तम् च ब्राह्मणी सा तपः-रता ॥ अतीव हि तपः-निष्ठा आसीत् शिव-ध्यानम् आश्रिता ॥ ४।७।१० ॥
na mānitavatī tam ca brāhmaṇī sā tapaḥ-ratā .. atīva hi tapaḥ-niṣṭhā āsīt śiva-dhyānam āśritā .. 4.7.10 ..
अथ मूढः स दैत्येन्द्रः तया तन्व्या तिरस्कृतः ॥ चुक्रोध विकटं तस्यै पश्चाद्रूपमदर्शयत् ॥ ११॥
अथ मूढः स दैत्य-इन्द्रः तया तन्व्या तिरस्कृतः ॥ चुक्रोध विकटम् तस्यै पश्चात् रूपम् अदर्शयत् ॥ ११॥
atha mūḍhaḥ sa daitya-indraḥ tayā tanvyā tiraskṛtaḥ .. cukrodha vikaṭam tasyai paścāt rūpam adarśayat .. 11..
अथ प्रोवाच दुष्टात्मा दुर्वचो भयकारकम् ॥ त्रासयामास बहुशस्तां च पत्नीं द्विजन्मनः ॥ १२ ॥
अथ प्रोवाच दुष्ट-आत्मा दुर्वचः भय-कारकम् ॥ त्रासयामास बहुशस् ताम् च पत्नीम् द्विजन्मनः ॥ १२ ॥
atha provāca duṣṭa-ātmā durvacaḥ bhaya-kārakam .. trāsayāmāsa bahuśas tām ca patnīm dvijanmanaḥ .. 12 ..
तदा सा भयसंत्रस्ता बहुवारं शिवेति च ॥ बभाषे स्नेहतस्तन्वी द्विजपत्नी शिवाश्रया ॥ १३ ॥
तदा सा भय-संत्रस्ता बहु-वारम् शिवा इति च ॥ बभाषे स्नेहतः तन्वी द्विज-पत्नी शिव-आश्रया ॥ १३ ॥
tadā sā bhaya-saṃtrastā bahu-vāram śivā iti ca .. babhāṣe snehataḥ tanvī dvija-patnī śiva-āśrayā .. 13 ..
विह्वलातीव सा नारी शिवनामप्रभाषिणी ॥ जगाम शरणं शम्भोः स्वधर्मावनहेतवे ॥ १४ ॥
विह्वला अतीव सा नारी शिव-नाम-प्रभाषिणी ॥ जगाम शरणम् शम्भोः स्वधर्म-अवन-हेतवे ॥ १४ ॥
vihvalā atīva sā nārī śiva-nāma-prabhāṣiṇī .. jagāma śaraṇam śambhoḥ svadharma-avana-hetave .. 14 ..
शरणागतरक्षार्थं कर्तुं सद्वृत्तमाहितम् ॥ आनन्दार्थं हि तस्यास्तु शिव आविर्बभूव ह ॥ १५ ॥
शरण-आगत-रक्षा-अर्थम् कर्तुम् सत्-वृत्तम् आहितम् ॥ आनन्द-अर्थम् हि तस्याः तु शिवः आविर्बभूव ह ॥ १५ ॥
śaraṇa-āgata-rakṣā-artham kartum sat-vṛttam āhitam .. ānanda-artham hi tasyāḥ tu śivaḥ āvirbabhūva ha .. 15 ..
अथ तं मूढनामानं दैत्येन्द्रं काम विह्वलम् ॥ चकार भस्मसात्सद्यः शंकरो भक्तवत्सलः ॥ १६॥
अथ तम् मूढ-नामानम् दैत्य-इन्द्रम् काम विह्वलम् ॥ चकार भस्मसात् सद्यस् शंकरः भक्त-वत्सलः ॥ १६॥
atha tam mūḍha-nāmānam daitya-indram kāma vihvalam .. cakāra bhasmasāt sadyas śaṃkaraḥ bhakta-vatsalaḥ .. 16..
ततश्च परमेशानो कृपादृष्ट्या विलोक्य ताम् ॥ वरं ब्रूहीति चोवाच भक्तरक्षणदक्षधीः ॥ १७ ॥
ततस् च परमेशानो कृपा-दृष्ट्या विलोक्य ताम् ॥ वरम् ब्रूहि इति च उवाच भक्त-रक्षण-दक्ष-धीः ॥ १७ ॥
tatas ca parameśāno kṛpā-dṛṣṭyā vilokya tām .. varam brūhi iti ca uvāca bhakta-rakṣaṇa-dakṣa-dhīḥ .. 17 ..
श्रुत्वा महेशवचनं सा साध्वी द्विजकामिनी ॥ ददर्श शांकरं रूपमानन्दजनकं शुभम् ॥ १८ ॥
श्रुत्वा महेश-वचनम् सा साध्वी द्विज-कामिनी ॥ ददर्श शांकरम् रूपम् आनन्द-जनकम् शुभम् ॥ १८ ॥
śrutvā maheśa-vacanam sā sādhvī dvija-kāminī .. dadarśa śāṃkaram rūpam ānanda-janakam śubham .. 18 ..
ततः प्रणम्य तं शंभुं परमेशसुखावहम् ॥ तुष्टाव साञ्जलिः साध्वी नतस्कन्धा शुभाशया ॥ १९ ॥
ततस् प्रणम्य तम् शंभुम् परमेश-सुख-आवहम् ॥ तुष्टाव स अञ्जलिः साध्वी नत-स्कन्धा शुभ-आशया ॥ १९ ॥
tatas praṇamya tam śaṃbhum parameśa-sukha-āvaham .. tuṣṭāva sa añjaliḥ sādhvī nata-skandhā śubha-āśayā .. 19 ..
ऋषिकोवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ दीनबन्धुस्त्वमीशानो भक्तरक्षाकरः सदा ॥ 4.7.२०॥
देवदेव महादेव शरण-आगत-वत्सल ॥ दीन-बन्धुः त्वम् ईशानः भक्त-रक्षा-करः सदा ॥ ४।७।२०॥
devadeva mahādeva śaraṇa-āgata-vatsala .. dīna-bandhuḥ tvam īśānaḥ bhakta-rakṣā-karaḥ sadā .. 4.7.20..
त्वया मे रक्षितो धर्मो मूढनाम्नोऽसुरादिह ॥ यदयं निहतो दुष्टो जगद्रक्षा कृता त्वया ॥ २१ ॥
त्वया मे रक्षितः धर्मः मूढ-नाम्नः असुरात् इह ॥ यत् अयम् निहतः दुष्टः जगत्-रक्षा कृता त्वया ॥ २१ ॥
tvayā me rakṣitaḥ dharmaḥ mūḍha-nāmnaḥ asurāt iha .. yat ayam nihataḥ duṣṭaḥ jagat-rakṣā kṛtā tvayā .. 21 ..
स्वपादयोः परां भक्तिं देहि मे ह्यनपायिनीम् ॥ अयमेव वरो नाथ किमन्यदधिकं ह्यतः ॥ २२ ॥
स्व-पादयोः पराम् भक्तिम् देहि मे हि अनपायिनीम् ॥ अयम् एव वरः नाथ किम् अन्यत् अधिकम् हि अतस् ॥ २२ ॥
sva-pādayoḥ parām bhaktim dehi me hi anapāyinīm .. ayam eva varaḥ nātha kim anyat adhikam hi atas .. 22 ..
अन्यदाकर्णय विभो प्रार्थनां मे महेश्वर ॥ लोकानामुपकारार्थमिह त्वं संस्थितो भव ॥ २३ ॥
अन्यत् आकर्णय विभो प्रार्थनाम् मे महेश्वर ॥ लोकानाम् उपकार-अर्थम् इह त्वम् संस्थितः भव ॥ २३ ॥
anyat ākarṇaya vibho prārthanām me maheśvara .. lokānām upakāra-artham iha tvam saṃsthitaḥ bhava .. 23 ..
सूत उवाच ।।
इति स्तुत्वा महादेवमृषिका सा शुभव्रता ॥ तूष्णीमासाथ गिरिशः प्रोवाच करुणाकरः ॥ २४ ॥
इति स्तुत्वा महादेवम् ऋषिका सा शुभ-व्रता ॥ तूष्णीम् आस अथ गिरिशः प्रोवाच करुणाकरः ॥ २४ ॥
iti stutvā mahādevam ṛṣikā sā śubha-vratā .. tūṣṇīm āsa atha giriśaḥ provāca karuṇākaraḥ .. 24 ..
गिरिश उवाच ।।
ऋषिके सुचरित्रा त्वं मम भक्ता विशेषतः ॥ दत्ता वराश्च ते सर्वे तुभ्यं येये हि याचिताः ॥ २५ ॥
ऋषिके सुचरित्रा त्वम् मम भक्ता विशेषतः ॥ दत्ताः वराः च ते सर्वे तुभ्यम् हि याचिताः ॥ २५ ॥
ṛṣike sucaritrā tvam mama bhaktā viśeṣataḥ .. dattāḥ varāḥ ca te sarve tubhyam hi yācitāḥ .. 25 ..
एतस्मिन्नंतरे तत्र हरिब्रह्मादयः सुराः ॥ शिवाविर्भावमाज्ञाय ययुर्हर्षसमन्विताः ॥ २६॥
एतस्मिन् अन्तरे तत्र हरि-ब्रह्म-आदयः सुराः ॥ शिव-आविर्भावम् आज्ञाय ययुः हर्ष-समन्विताः ॥ २६॥
etasmin antare tatra hari-brahma-ādayaḥ surāḥ .. śiva-āvirbhāvam ājñāya yayuḥ harṣa-samanvitāḥ .. 26..
शिवं प्रणम्य सुप्रीत्या समानर्चुश्च तेऽखिलाः ॥ तुष्टुवुर्नतका विप्राः करौ बद्ध्वा सुचेतसः ॥ २७ ॥
शिवम् प्रणम्य सु प्रीत्या समानर्चुः च ते अखिलाः ॥ तुष्टुवुः नतकाः विप्राः करौ बद्ध्वा सु चेतसः ॥ २७ ॥
śivam praṇamya su prītyā samānarcuḥ ca te akhilāḥ .. tuṣṭuvuḥ natakāḥ viprāḥ karau baddhvā su cetasaḥ .. 27 ..
एतस्मिन्समये गंगा साध्वी तां स्वर्धुनी जगौ॥ऋषिकां सुप्रसन्नात्मा प्रशंसन्तो च तीद्विधिम् ॥ २८॥
एतस्मिन् समये गंगा साध्वी ताम् स्वर्धुनी जगौ॥सु प्रसन्न-आत्मा च ॥ २८॥
etasmin samaye gaṃgā sādhvī tām svardhunī jagau..su prasanna-ātmā ca .. 28..
गंगोवाच।।
ममार्थे चैव वैशाखे मासि देयं त्वया वचः ॥ स्थित्यर्थं दिनमेकं मे सामीप्यं कार्य्यमेव हि॥२९॥
मम अर्थे च एव वैशाखे मासि देयम् त्वया वचः ॥ स्थिति-अर्थम् दिनम् एकम् मे सामीप्यम् कार्य्यम् एव हि॥२९॥
mama arthe ca eva vaiśākhe māsi deyam tvayā vacaḥ .. sthiti-artham dinam ekam me sāmīpyam kāryyam eva hi..29..
सूत उवाच।।
गंगावचनमाकर्ण्य सा साध्वी प्राह सुव्रता॥तथास्त्विति वचः प्रीत्या लोकानां हितहेतवे ॥ 4.7.३० ॥
गंगा-वचनम् आकर्ण्य सा साध्वी प्राह सुव्रता॥तथा अस्तु इति वचः प्रीत्या लोकानाम् हित-हेतवे ॥ ४।७।३० ॥
gaṃgā-vacanam ākarṇya sā sādhvī prāha suvratā..tathā astu iti vacaḥ prītyā lokānām hita-hetave .. 4.7.30 ..
आनन्दार्थं शिवस्तस्याः सुप्रसन्नश्च पार्थिवे ॥ तस्मिँल्लिंगे लयं यातः पूर्णांशेन तया हरः ॥ ३१॥
आनन्द-अर्थम् शिवः तस्याः सु प्रसन्नः च पार्थिवे ॥ तस्मिन् लिंगे लयम् यातः पूर्ण-अंशेन तया हरः ॥ ३१॥
ānanda-artham śivaḥ tasyāḥ su prasannaḥ ca pārthive .. tasmin liṃge layam yātaḥ pūrṇa-aṃśena tayā haraḥ .. 31..
देवः सर्वे सुप्रसन्नाः प्रशंसंति शिवं च ताम्॥स्वंस्वं धाम ययुर्विष्णुब्रह्माद्या अपि स्वर्णदी ॥ ३२ ॥
देवः सर्वे सु प्रसन्नाः प्रशंसंति शिवम् च ताम्॥स्वम् स्वम् धाम ययुः विष्णु-ब्रह्म-आद्याः अपि स्वर्णदी ॥ ३२ ॥
devaḥ sarve su prasannāḥ praśaṃsaṃti śivam ca tām..svam svam dhāma yayuḥ viṣṇu-brahma-ādyāḥ api svarṇadī .. 32 ..
तद्दिनात्पावनं तीर्थमासीदीदृशमुत्तमम्॥नन्दिकेशः शिवः ख्यातः सर्वपापविनाशनः ॥ ३३॥
तद्-दिनात् पावनम् तीर्थम् आसीत् ईदृशम् उत्तमम्॥सर्व ॥ ३३॥
tad-dināt pāvanam tīrtham āsīt īdṛśam uttamam..sarva .. 33..
गंगापि प्रतिवर्षं तद्दिने याति शुभेच्छया।क्षालनार्थं स्वपापस्य यद्ग्रहीतं नृणां द्विजाः ॥ ३४ ॥
गंगा अपि प्रतिवर्षम् तद्-दिने याति शुभ-इच्छया।क्षालन-अर्थम् स्व-पापस्य नृणाम् द्विजाः ॥ ३४ ॥
gaṃgā api prativarṣam tad-dine yāti śubha-icchayā.kṣālana-artham sva-pāpasya nṛṇām dvijāḥ .. 34 ..
तत्र स्नातो नरः सम्यङ् नंदिकेशं समर्च्य च ॥ ब्रह्महत्यादिभिः पापैर्मुच्यते ह्यखिलैरपि ॥ ३५॥
तत्र स्नातः नरः सम्यक् नंदिकेशम् समर्च्य च ॥ ब्रह्महत्या-आदिभिः पापैः मुच्यते हि अखिलैः अपि ॥ ३५॥
tatra snātaḥ naraḥ samyak naṃdikeśam samarcya ca .. brahmahatyā-ādibhiḥ pāpaiḥ mucyate hi akhilaiḥ api .. 35..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः॥७॥
इति श्री-शिवमहापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् नन्दिकेश्वरशिवलिंगमाहात्म्यवर्णनम् नाम सप्तमः अध्यायः॥७॥
iti śrī-śivamahāpurāṇe caturthyām koṭirudrasaṃhitāyām nandikeśvaraśivaliṃgamāhātmyavarṇanam nāma saptamaḥ adhyāyaḥ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In