| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ॥ चाण्डाली का समाख्याता तत्कथां कथय प्रभो॥१॥
सूत-सूत महाभाग धन्यः त्वम् शैव-सत्तमः ॥ चाण्डाली का समाख्याता तद्-कथाम् कथय प्रभो॥१॥
sūta-sūta mahābhāga dhanyaḥ tvam śaiva-sattamaḥ .. cāṇḍālī kā samākhyātā tad-kathām kathaya prabho..1..
सूत उवाच ।।
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम्॥शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम् ॥ २ ॥
द्विजाः शृणुत सत्-भक्त्या ताम् कथाम् परम-अद्भुताम्॥शिव-प्रभाव-संमिश्राम् शृण्वताम् भक्ति-वर्द्धिनीम् ॥ २ ॥
dvijāḥ śṛṇuta sat-bhaktyā tām kathām parama-adbhutām..śiva-prabhāva-saṃmiśrām śṛṇvatām bhakti-varddhinīm .. 2 ..
चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ॥ सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता ॥ ३॥
चांडाली सा पूर्व-भरे अभवत् ब्राह्मण-कन्यका ॥ सौमिनी नाम चन्द्र-आस्या सर्व-लक्षण-संयुता ॥ ३॥
cāṃḍālī sā pūrva-bhare abhavat brāhmaṇa-kanyakā .. sauminī nāma candra-āsyā sarva-lakṣaṇa-saṃyutā .. 3..
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ॥ पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे ॥ ४ ॥
अथ सा समये कन्या युवतिः सौमिनी द्विजाः ॥ पित्रा दत्ता च कस्मैचिद् विधिना द्विज-सूनवे ॥ ४ ॥
atha sā samaye kanyā yuvatiḥ sauminī dvijāḥ .. pitrā dattā ca kasmaicid vidhinā dvija-sūnave .. 4 ..
सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ॥ रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी ॥ ५ ॥
सा भर्तारम् अनुप्राप्य किंचिद् कालम् शुभ-व्रता ॥ रेमे तेन द्विजश्रेष्ठाः नव-यौवन-शालिनी ॥ ५ ॥
sā bhartāram anuprāpya kiṃcid kālam śubha-vratā .. reme tena dvijaśreṣṭhāḥ nava-yauvana-śālinī .. 5 ..
अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ॥ सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः ॥ ६॥
अथ तस्याः पतिः विप्रः तरुणः सु रुजा-अर्दितः ॥ सौमिन्याः काल-योगात् तु पञ्चत्वम् अगमत् द्विजाः ॥ ६॥
atha tasyāḥ patiḥ vipraḥ taruṇaḥ su rujā-arditaḥ .. sauminyāḥ kāla-yogāt tu pañcatvam agamat dvijāḥ .. 6..
मृते भर्तरि सा नारी दुखितातिविषण्णधीः॥किंचित्कालं शुभाचारा सुशीलोवास सद्मनि ॥ ७॥
मृते भर्तरि सा नारी दुखिता अति विषण्ण-धीः॥किंचिद् कालम् शुभ-आचारा सु शीला उवास सद्मनि ॥ ७॥
mṛte bhartari sā nārī dukhitā ati viṣaṇṇa-dhīḥ..kiṃcid kālam śubha-ācārā su śīlā uvāsa sadmani .. 7..
ततस्सा मन्मथाविष्टहृदया विधवापि च॥युवावस्थाविशेषेण बभूव व्यभिचारिणी ॥ ८॥
ततस् सा मन्मथ-आविष्ट-हृदया विधवा अपि च॥युवा अवस्था-विशेषेण बभूव व्यभिचारिणी ॥ ८॥
tatas sā manmatha-āviṣṭa-hṛdayā vidhavā api ca..yuvā avasthā-viśeṣeṇa babhūva vyabhicāriṇī .. 8..
तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ॥ समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्।९॥
तत् ज्ञात्वा गोत्रिणः तस्याः दुष्कर्म कुल-दूषणम् ॥ समेताः तत्यजु दूरम् नीत्वा ताम् स कच-ग्रहाम्।९॥
tat jñātvā gotriṇaḥ tasyāḥ duṣkarma kula-dūṣaṇam .. sametāḥ tatyaju dūram nītvā tām sa kaca-grahām.9..
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया॥दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत॥4.9.१०॥
कश्चिद् शूद्र-वरः ताम् वै विचरन्तीम् निज-इच्छया॥दृष्ट्वा वने स्त्रियम् चक्रे निनाय स्व-गृहम् तत॥४।९।१०॥
kaścid śūdra-varaḥ tām vai vicarantīm nija-icchayā..dṛṣṭvā vane striyam cakre nināya sva-gṛham tata..4.9.10..
अथ सा पिशिताहारा नित्यमापीतवारुणी ॥ अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया॥११॥
अथ सा पिशित-आहारा नित्यम् आपीत-वारुणी ॥ अजीजनत् सुत-अन्तेन शूद्रेण सुरत-प्रिया॥११॥
atha sā piśita-āhārā nityam āpīta-vāruṇī .. ajījanat suta-antena śūdreṇa surata-priyā..11..
कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ॥ इयेष पिशिताहारं सौमिनी व्यभिचारिणी ॥ १२ ॥
कदाचिद् भर्तरि क्वापि याते पीत-सुरा अथ सा ॥ इयेष पिशित-आहारम् सौमिनी व्यभिचारिणी ॥ १२ ॥
kadācid bhartari kvāpi yāte pīta-surā atha sā .. iyeṣa piśita-āhāram sauminī vyabhicāriṇī .. 12 ..
ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ॥ निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ ॥ १३ ॥
ततस् मेषेषु बद्धेषु गोभिः सह बहिस् व्रजे ॥ निशा-मुखे तमः-अन्धे हि खड्गम् आदाय सा ययौ ॥ १३ ॥
tatas meṣeṣu baddheṣu gobhiḥ saha bahis vraje .. niśā-mukhe tamaḥ-andhe hi khaḍgam ādāya sā yayau .. 13 ..
अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ॥ एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा ॥ १४ ॥
अ विमृश्य मद्-आवेशात् मेष-बुद्या आमिष प्रिया ॥ एकम् जघान गो-वत्सम् क्रोशंतम् अति दुर्भगा ॥ १४ ॥
a vimṛśya mad-āveśāt meṣa-budyā āmiṣa priyā .. ekam jaghāna go-vatsam krośaṃtam ati durbhagā .. 14 ..
हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ॥ भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥ १५॥
हतम् तम् गृहम् आनीय ज्ञात्वा गो-वत्सम् अंगना ॥ भीता शिव-शिव-इति आह केनचिद् पुण्य-कर्मणा ॥ १५॥
hatam tam gṛham ānīya jñātvā go-vatsam aṃganā .. bhītā śiva-śiva-iti āha kenacid puṇya-karmaṇā .. 15..
सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ॥ छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥ १६ ॥
सा मुहूर्तम् शिवम् ध्यात्वा आमिष-भोजन-लालसा ॥ छित्त्वा तम् एव गो-वत्सम् चकार आहारम् ईप्सितम् ॥ १६ ॥
sā muhūrtam śivam dhyātvā āmiṣa-bhojana-lālasā .. chittvā tam eva go-vatsam cakāra āhāram īpsitam .. 16 ..
एवं बहुतिथे काले गते सा सौमिनी द्विजाः ॥ कालस्य वशमापन्ना जगाम यमसंक्षयम् ॥ १७ ॥
एवम् बहुतिथे काले गते सा सौमिनी द्विजाः ॥ कालस्य वशम् आपन्ना जगाम यम-संक्षयम् ॥ १७ ॥
evam bahutithe kāle gate sā sauminī dvijāḥ .. kālasya vaśam āpannā jagāma yama-saṃkṣayam .. 17 ..
यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥ निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम् ॥ १८॥
यमः अपि धर्मम् आलोक्य तस्याः कर्म च पौर्विकम् ॥ निवर्त्य निरय-आवासात् चक्रे चाण्डाल-जातिकाम् ॥ १८॥
yamaḥ api dharmam ālokya tasyāḥ karma ca paurvikam .. nivartya niraya-āvāsāt cakre cāṇḍāla-jātikām .. 18..
साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ॥ ततो बभूव जन्मान्धा प्रशांतांगारमेचका॥१९॥
सा अथ भ्रष्टा यम-पुरात् चाण्डाली-गर्भम् आश्रिता ॥ ततस् बभूव जन्म-अन्धा प्रशांत-अंगार-मेचका॥१९॥
sā atha bhraṣṭā yama-purāt cāṇḍālī-garbham āśritā .. tatas babhūva janma-andhā praśāṃta-aṃgāra-mecakā..19..
जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ॥ ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता ॥ 4.9.२० ॥
जन्म-अन्धा सा अथ बाल्ये अपि विध्वस्त-पितृ-मातृका ॥ ऊढा न केनचिद् दुष्टा महा-कुष्ठ-रुजा-अर्दिता ॥ ४।९।२० ॥
janma-andhā sā atha bālye api vidhvasta-pitṛ-mātṛkā .. ūḍhā na kenacid duṣṭā mahā-kuṣṭha-rujā-arditā .. 4.9.20 ..
ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ॥ चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत् ॥ २१ ॥
ततस् क्षुधा अर्दिता दीना यष्टि-पाणिः गत-ईक्षणा ॥ चाण्डाल-उच्छिष्ट-पिंडेन ॥ २१ ॥
tatas kṣudhā arditā dīnā yaṣṭi-pāṇiḥ gata-īkṣaṇā .. cāṇḍāla-ucchiṣṭa-piṃḍena .. 21 ..
एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ॥ जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम् ॥ २२ ॥
एवम् कृच्छ्रेण महता नीत्वा स्व-विपुलम् वयः ॥ जरया अ ग्रस्त-स वार्ङ्गी दुःखम् आप दुरत्ययम् ॥ २२ ॥
evam kṛcchreṇa mahatā nītvā sva-vipulam vayaḥ .. jarayā a grasta-sa vārṅgī duḥkham āpa duratyayam .. 22 ..
कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ॥ आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान् ॥ २३॥
कदाचिद् सा अथ चांडाली गोकर्णम् तम् महाजनान् ॥ आयास्यंत्याम् शिव-तिथौ गच्छतः बुबुधे अन्वगान् ॥ २३॥
kadācid sā atha cāṃḍālī gokarṇam tam mahājanān .. āyāsyaṃtyām śiva-tithau gacchataḥ bubudhe anvagān .. 23..
अथासावपि चांडाली वसनासनतृष्णया ॥ महाजनान् याचयितुं संचचार शनैः शनैः ॥ २४॥
अथा असौ अपि चांडाली वसन-आसन-तृष्णया ॥ महाजनान् याचयितुम् संचचार शनैस् शनैस् ॥ २४॥
athā asau api cāṃḍālī vasana-āsana-tṛṣṇayā .. mahājanān yācayitum saṃcacāra śanais śanais .. 24..
गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान्॥यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः ॥ २५॥
गत्वा तत्र अथ चांडाली प्रार्थयन्ती महाजनान्॥यत्र तत्र चचार असौ दीन-वाच्-प्रसृत-अञ्जलिः ॥ २५॥
gatvā tatra atha cāṃḍālī prārthayantī mahājanān..yatra tatra cacāra asau dīna-vāc-prasṛta-añjaliḥ .. 25..
एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ॥ एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम् ॥ २६ ॥
एवम् अभ्यर्थयंत्याः तु चांडाल्याः प्रसृत-अञ्जलौ ॥ एकः पुण्यतमः पान्थः प्राक्षिपत् बिल्व-मंजरीम् ॥ २६ ॥
evam abhyarthayaṃtyāḥ tu cāṃḍālyāḥ prasṛta-añjalau .. ekaḥ puṇyatamaḥ pānthaḥ prākṣipat bilva-maṃjarīm .. 26 ..
तामंजलौ निपतिता सा विमृश्य पुनः पुनः ॥ अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा ॥ २७ ॥
ताम् अंजलौ निपतिता सा विमृश्य पुनर् पुनर् ॥ अभक्ष्यम् इति मत्वा अथ दूरे प्राक्षिपत् आतुरा ॥ २७ ॥
tām aṃjalau nipatitā sā vimṛśya punar punar .. abhakṣyam iti matvā atha dūre prākṣipat āturā .. 27 ..
तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ॥ पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके ॥ २८ ॥
तस्याः करात् विनिर्मुक्ता रात्रौ सा बिल्व-मंजरी ॥ पपात कस्यचिद् दिष्ट्या शिव-लिंगस्य मस्तके ॥ २८ ॥
tasyāḥ karāt vinirmuktā rātrau sā bilva-maṃjarī .. papāta kasyacid diṣṭyā śiva-liṃgasya mastake .. 28 ..
सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ॥ याचमानापि यत्किंचिन्न लेभे दैवयोगतः ॥ २९॥
सा एवम् शिवचतुर्दश्याम् रात्रौ पान्थ-जनान् मुहुर् ॥ याचमाना अपि यत् किंचिद् न लेभे दैव-योगतः ॥ २९॥
sā evam śivacaturdaśyām rātrau pāntha-janān muhur .. yācamānā api yat kiṃcid na lebhe daiva-yogataḥ .. 29..
एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ॥ अज्ञानतो जागरणं परमानन्ददायकम् ॥ 4.9.३०॥
एवम् शिवचतुर्दश्याः व्रतम् जातम् च निर्मलम् ॥ ॥ ४।९।३०॥
evam śivacaturdaśyāḥ vratam jātam ca nirmalam .. .. 4.9.30..
ततः प्रभाते सा नारी शोकेन महता वृता ॥ शनैर्निववृते दीना स्वदेशायैव केवलम् ॥ ३१ ॥
ततस् प्रभाते सा नारी शोकेन महता वृता ॥ शनैस् निववृते दीना स्व-देशाय एव केवलम् ॥ ३१ ॥
tatas prabhāte sā nārī śokena mahatā vṛtā .. śanais nivavṛte dīnā sva-deśāya eva kevalam .. 31 ..
श्रांता चिरोपवासेन निपतंती पदेपदे ॥ अतीत्य तावतीं भूमिं निपपात विचेतना ॥ ३२॥
श्रांता चिर-उपवासेन निपतंती पदे पदे ॥ अतीत्य तावतीम् भूमिम् निपपात विचेतना ॥ ३२॥
śrāṃtā cira-upavāsena nipataṃtī pade pade .. atītya tāvatīm bhūmim nipapāta vicetanā .. 32..
अथ सा शंभुकृपया जगाम परमं पदम् ॥ आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम् ॥ ३३॥
अथ सा शंभु-कृपया जगाम परमम् पदम् ॥ आरुह्य सु विमानम् च नीतम् शिव-गणैः द्रुतम् ॥ ३३॥
atha sā śaṃbhu-kṛpayā jagāma paramam padam .. āruhya su vimānam ca nītam śiva-gaṇaiḥ drutam .. 33..
आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ॥ तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम् ॥ ३४॥
आदौ यत् एषा शिव-नाम नारी प्रमादतः वा अपि असती जगाद ॥ तेन इह भूयस् सु कृतेन विप्राः महाबल-स्थानम् अवाप दिव्यम् ॥ ३४॥
ādau yat eṣā śiva-nāma nārī pramādataḥ vā api asatī jagāda .. tena iha bhūyas su kṛtena viprāḥ mahābala-sthānam avāpa divyam .. 34..
श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥ कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि ॥ ३५ ॥
श्री-गोकर्णे शिव-तिथौ उपोष्य शिव-मस्तके ॥ कृत्वा जागरणम् सा हि चक्रे बिल्व-अर्चनम् निशि ॥ ३५ ॥
śrī-gokarṇe śiva-tithau upoṣya śiva-mastake .. kṛtvā jāgaraṇam sā hi cakre bilva-arcanam niśi .. 35 ..
अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ॥ भुनक्त्यद्यापि सा चैव महाबलप्रसादतः ॥ ३६ ॥
अकामतस् कृतस्य अस्य पुण्यस्य एव च तत् फलम् ॥ भुनक्ति अद्य अपि सा च एव महाबल-प्रसादतः ॥ ३६ ॥
akāmatas kṛtasya asya puṇyasya eva ca tat phalam .. bhunakti adya api sā ca eva mahābala-prasādataḥ .. 36 ..
एवंविधं महालिंगं शंकरस्य महाबलम् ॥ सर्वपापहरं सद्यः परमानन्ददायकम् ॥ ३७ ॥
एवंविधम् महा-लिंगम् शंकरस्य महा-बलम् ॥ सर्व-पाप-हरम् सद्यस् परम-आनन्द-दायकम् ॥ ३७ ॥
evaṃvidham mahā-liṃgam śaṃkarasya mahā-balam .. sarva-pāpa-haram sadyas parama-ānanda-dāyakam .. 37 ..
एवं वः कथितं विप्रा माहात्म्यं परमं मया ॥ महाबलाभिधानस्य शिवलिंगवरस्य हि ॥ ३८ ॥
एवम् वः कथितम् विप्राः माहात्म्यम् परमम् मया ॥ महाबल-अभिधानस्य शिव-लिंग-वरस्य हि ॥ ३८ ॥
evam vaḥ kathitam viprāḥ māhātmyam paramam mayā .. mahābala-abhidhānasya śiva-liṃga-varasya hi .. 38 ..
अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ॥ श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते ॥ ३९ ॥
अथ अन्यत् अपि वक्ष्यामि माहात्म्यम् तस्य च अद्भुतम् ॥ श्रुत-मात्रेण येन आशु शिवे भक्तिः प्रजायते ॥ ३९ ॥
atha anyat api vakṣyāmi māhātmyam tasya ca adbhutam .. śruta-mātreṇa yena āśu śive bhaktiḥ prajāyate .. 39 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ॥ ९॥
इति श्री-शिव-महापुराणे चतुर्थ्याम् कोटिरुद्रसंहितायाम् चाण्डालीसद्गतिवर्णनम् नाम नवमः अध्यायः ॥ ९॥
iti śrī-śiva-mahāpurāṇe caturthyām koṭirudrasaṃhitāyām cāṇḍālīsadgativarṇanam nāma navamaḥ adhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In