| |
|

This overlay will guide you through the buttons:

॥ श्रीगणेशाय नमः ॥
॥ श्री-गणेशाय नमः ॥
.. śrī-gaṇeśāya namaḥ ..
॥ श्रीगौरीशंकराभ्यां नमः ॥
॥ श्री-गौरी-शंकराभ्याम् नमः ॥
.. śrī-gaurī-śaṃkarābhyām namaḥ ..
अथ रुद्रसंहितांतर्गतश्चतुर्थः कुमारखण्डः प्रारभ्यते ॥
अथ रुद्रसंहिता-अंतर्गतः चतुर्थः कुमारखण्डः प्रारभ्यते ॥
atha rudrasaṃhitā-aṃtargataḥ caturthaḥ kumārakhaṇḍaḥ prārabhyate ..
वन्दे नन्दनतुष्टमान समति प्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम्॥ सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥ १ ॥
वन्दे नन्दन-तुष्ट-मान समति प्रेम-प्रियम् प्रेम-दम् पूर्णम् पूर्ण-करम् प्रपूर्ण-निखिल-ऐश्वर्य-एक-वासम् शिवम्॥ सत्यम् सत्य-मयम् त्रि-सत्य-विभवम् सत्य-प्रियम् सत्य-दम् विष्णु-ब्रह्म-नुतम् स्वकीय-कृपया उपात्त-आकृतिम् शंकरम् ॥ १ ॥
vande nandana-tuṣṭa-māna samati prema-priyam prema-dam pūrṇam pūrṇa-karam prapūrṇa-nikhila-aiśvarya-eka-vāsam śivam.. satyam satya-mayam tri-satya-vibhavam satya-priyam satya-dam viṣṇu-brahma-nutam svakīya-kṛpayā upātta-ākṛtim śaṃkaram .. 1 ..
।। नारद उवाच ।।
विवाहयित्वा गिरिजां शंकरो लोकशंकरः ॥ गत्वा स्वपर्वतं ब्रह्मन् किमकार्षिद्धि तद्वद ॥ २ ॥
विवाहयित्वा गिरिजाम् शंकरः लोक-शंकरः ॥ गत्वा स्व-पर्वतम् ब्रह्मन् किम् अकार्षित् हि तत् वद ॥ २ ॥
vivāhayitvā girijām śaṃkaraḥ loka-śaṃkaraḥ .. gatvā sva-parvatam brahman kim akārṣit hi tat vada .. 2 ..
कथं हि तनयो जज्ञे शिवस्य परमात्मनः ॥ यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥ ३ ॥
कथम् हि तनयः जज्ञे शिवस्य परमात्मनः ॥ यद्-अर्थम् आत्म-आरामः अपि समुवाह शिवाम् प्रभुः ॥ ३ ॥
katham hi tanayaḥ jajñe śivasya paramātmanaḥ .. yad-artham ātma-ārāmaḥ api samuvāha śivām prabhuḥ .. 3 ..
तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशंकरः ॥ एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥ ४ ॥
तारकस्य कथम् ब्रह्मन् वधः अभूत् देव-शंकरः ॥ एतत् सर्वम् अशेषेण वद कृत्वा दयाम् मयि ॥ ४ ॥
tārakasya katham brahman vadhaḥ abhūt deva-śaṃkaraḥ .. etat sarvam aśeṣeṇa vada kṛtvā dayām mayi .. 4 ..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ॥ सुप्रसन्नमनाः स्मृत्वा शंकरं प्रत्युवाच ह ॥ ५ ॥
इति आकर्ण्य वचः तस्य नारदस्य प्रजापतिः ॥ सु प्रसन्न-मनाः स्मृत्वा शंकरम् प्रत्युवाच ह ॥ ५ ॥
iti ākarṇya vacaḥ tasya nāradasya prajāpatiḥ .. su prasanna-manāḥ smṛtvā śaṃkaram pratyuvāca ha .. 5 ..
ब्रह्मोवाच ।।
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ॥ गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥ ६॥
चरितम् शृणु वक्ष्यामि शशिमौलेः तु नारद ॥ गुह-जन्म-कथाम् दिव्याम् तारक-असुर-सत्-वधम् ॥ ६॥
caritam śṛṇu vakṣyāmi śaśimauleḥ tu nārada .. guha-janma-kathām divyām tāraka-asura-sat-vadham .. 6..
श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ॥ यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥ ७॥
श्रूयताम् कथयामि अद्य कथाम् पाप-प्रणाशिनीम् ॥ याम् श्रुत्वा सर्व-पापेभ्यः मुच्यते मानवः ध्रुवम् ॥ ७॥
śrūyatām kathayāmi adya kathām pāpa-praṇāśinīm .. yām śrutvā sarva-pāpebhyaḥ mucyate mānavaḥ dhruvam .. 7..
इदमाख्यानमनघं रहस्यं परमाद्भुतम् ॥ पापसंतापहरणं सर्वविघ्नविनाशनम् ॥ ८ ॥
इदम् आख्यानम् अनघम् रहस्यम् परम-अद्भुतम् ॥ पाप-संताप-हरणम् सर्व-विघ्न-विनाशनम् ॥ ८ ॥
idam ākhyānam anagham rahasyam parama-adbhutam .. pāpa-saṃtāpa-haraṇam sarva-vighna-vināśanam .. 8 ..
सर्वमंगलदं सारं सर्वश्रुतिमनोहरम् ॥ सुखदं मोक्षबीजं च कर्ममूलनिकृंतनम् ॥ ९ ॥
सर्व-मंगल-दम् सारम् सर्व-श्रुति-मनोहरम् ॥ च ॥ ९ ॥
sarva-maṃgala-dam sāram sarva-śruti-manoharam .. ca .. 9 ..
कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि ॥ विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये ॥ 2.4.1.१०॥
कैलासम् आगत्य शिवाम् विवाह्य शोभाम् प्रपेदे नितराम् शिवः अपि ॥ विचारयामास च देव-कृत्यम् पीडाम् जनस्य अपि च देव-कृत्ये ॥ २।४।१।१०॥
kailāsam āgatya śivām vivāhya śobhām prapede nitarām śivaḥ api .. vicārayāmāsa ca deva-kṛtyam pīḍām janasya api ca deva-kṛtye .. 2.4.1.10..
शिवस्स भगवान् साक्षात्कैलासमगमद्यदा ॥ सौख्यं च विविधं चक्रुर्गणास्सर्वे सुहर्षिताः ॥ ॥ ११ ॥
शिवः स भगवान् साक्षात् कैलासम् अगमत् यदा ॥ सौख्यम् च विविधम् चक्रुः गणाः सर्वे सु हर्षिताः ॥ ॥ ११ ॥
śivaḥ sa bhagavān sākṣāt kailāsam agamat yadā .. saukhyam ca vividham cakruḥ gaṇāḥ sarve su harṣitāḥ .. .. 11 ..
महोत्सवो महानासीच्छिवे कैलासमागते ॥ देवास्स्वविषयं प्राप्ता हर्षनिर्भरमानसाः॥ १२ ॥
महा-उत्सवः महान् आसीत् शिवे कैलासम् आगते ॥ देवाः स्व-विषयम् प्राप्ताः हर्ष-निर्भर-मानसाः॥ १२ ॥
mahā-utsavaḥ mahān āsīt śive kailāsam āgate .. devāḥ sva-viṣayam prāptāḥ harṣa-nirbhara-mānasāḥ.. 12 ..
अथ शंभुर्महादेवो गृहीत्वा गिरिजां शिवाम् ॥ जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥ १३॥
अथ शंभुः महादेवः गृहीत्वा गिरिजाम् शिवाम् ॥ जगाम निर्जनम् स्थानम् महा-दिव्यम् मनोहरम् ॥ १३॥
atha śaṃbhuḥ mahādevaḥ gṛhītvā girijām śivām .. jagāma nirjanam sthānam mahā-divyam manoharam .. 13..
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ॥ अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥ १४ ॥
शय्याम् रतिकरीम् कृत्वा पुष्प-चन्दन-चर्चिताम् ॥ अद्भुताम् तत्र परमाम् भोग-वस्तु-अन्विताम् शुभाम् ॥ १४ ॥
śayyām ratikarīm kṛtvā puṣpa-candana-carcitām .. adbhutām tatra paramām bhoga-vastu-anvitām śubhām .. 14 ..
स रेमे तत्र भगवाञ्शंभुगिरिजया सह ॥ सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥ १५ ॥
स रेमे तत्र भगवान् शंभु-गिरिजया सह ॥ सहस्र-वर्ष-पर्यन्तम् देव-मानेन मानदः ॥ १५ ॥
sa reme tatra bhagavān śaṃbhu-girijayā saha .. sahasra-varṣa-paryantam deva-mānena mānadaḥ .. 15 ..
दुर्गांगस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ॥ मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १६॥
दुर्गा-अंग-स्पर्श-मात्रेण लीलया मूर्च्छितः शिवः ॥ मूर्च्छिता सा शिव-स्पर्शात् बुबुधे न दिवानिशम् ॥ १६॥
durgā-aṃga-sparśa-mātreṇa līlayā mūrcchitaḥ śivaḥ .. mūrcchitā sā śiva-sparśāt bubudhe na divāniśam .. 16..
हरे भोगप्रवृत्ते तु लोकधर्म प्रवर्तिनि ॥ महान् कालो व्यतीयाय तयोः क्षण इवानघ॥ १७॥
हरे भोग-प्रवृत्ते तु लोक-धर्म प्रवर्तिनि ॥ महान् कालः व्यतीयाय तयोः क्षणः इव अनघ॥ १७॥
hare bhoga-pravṛtte tu loka-dharma pravartini .. mahān kālaḥ vyatīyāya tayoḥ kṣaṇaḥ iva anagha.. 17..
अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ॥ मंत्रयांचक्रुरागत्य मेरौ शक्रपुरोगमाः ॥ १८॥
अथ सर्वे सुराः तात एकत्रीभूय च एकदा ॥ मंत्रयांचक्रुः आगत्य मेरौ शक्र-पुरोगमाः ॥ १८॥
atha sarve surāḥ tāta ekatrībhūya ca ekadā .. maṃtrayāṃcakruḥ āgatya merau śakra-purogamāḥ .. 18..
सुरा ऊचुः ।।
विवाहं कृतवाञ्छंभुरस्मत्कार्यार्थमीश्वरः॥ योगीश्वरो निर्विकारो स्वात्मारामो निरंजनः॥ १९॥
विवाहम् कृतवान् शंभुः अस्मद्-कार्य-अर्थम् ईश्वरः॥ ॥ १९॥
vivāham kṛtavān śaṃbhuḥ asmad-kārya-artham īśvaraḥ.. .. 19..
नोत्पन्नस्तनयस्तस्य न जानामोऽत्र कारणम्॥ विलंबः क्रियते तेन कथं देवेश्वरेण ह॥ 2.4.1.२०॥
न उत्पन्नः तनयः तस्य न जानामः अत्र कारणम्॥ विलंबः क्रियते तेन कथम् देवेश्वरेण ह॥ २।४।१।२०॥
na utpannaḥ tanayaḥ tasya na jānāmaḥ atra kāraṇam.. vilaṃbaḥ kriyate tena katham deveśvareṇa ha.. 2.4.1.20..
एतस्मिन्नंतरे देवा नारदाद्देवदर्शनात् ॥ बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥ २१ ॥
एतस्मिन् अन्तरे देवाः नारदात् देवदर्शनात् ॥ बुबुधुः तद्-मितम् भोगम् तयोः च रममाणयोः ॥ २१ ॥
etasmin antare devāḥ nāradāt devadarśanāt .. bubudhuḥ tad-mitam bhogam tayoḥ ca ramamāṇayoḥ .. 21 ..
चिरं ज्ञात्वा तयोर्भोगं चिंतामापुस्सुराश्च ते॥ ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणांतिकम्॥ २२॥
चिरम् ज्ञात्वा तयोः भोगम् चिंताम् आपुः सुराः च ते॥ ब्रह्माणम् माम् पुरस्कृत्य ययुः नारायण-अंतिकम्॥ २२॥
ciram jñātvā tayoḥ bhogam ciṃtām āpuḥ surāḥ ca te.. brahmāṇam mām puraskṛtya yayuḥ nārāyaṇa-aṃtikam.. 22..
तं नत्वा कथितं सर्वं मया वृत्तांतमीप्सितम् ॥ सन्तस्थिरे सर्वदेवा चित्रे पुत्तलिका यथा ॥ २३॥
तम् नत्वा कथितम् सर्वम् मया वृत्तांतम् ईप्सितम् ॥ सन्तस्थिरे सर्व-देवा चित्रे पुत्तलिकाः यथा ॥ २३॥
tam natvā kathitam sarvam mayā vṛttāṃtam īpsitam .. santasthire sarva-devā citre puttalikāḥ yathā .. 23..
ब्रह्मोवाच।।
सहस्रवर्ष पर्य्यन्तं देवमानेन शंकरः ॥ रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥ २४॥ ॥
सहस्र-वर्ष-पर्य्यन्तम् देव-मानेन शंकरः ॥ रतौ रतः च निश्चेष्टः योगी विरमते न हि ॥ २४॥ ॥
sahasra-varṣa-paryyantam deva-mānena śaṃkaraḥ .. ratau rataḥ ca niśceṣṭaḥ yogī viramate na hi .. 24.. ..
भगवानुवाच ।।
चिन्ता नास्ति जगद्धातस्सर्वं भद्रं भविष्यति ॥ शरणं व्रज देवेश शंकरस्य महाप्रभोः ॥ २५ ॥
चिन्ता ना अस्ति जगत्-धातः सर्वम् भद्रम् भविष्यति ॥ शरणम् व्रज देवेश शंकरस्य महा-प्रभोः ॥ २५ ॥
cintā nā asti jagat-dhātaḥ sarvam bhadram bhaviṣyati .. śaraṇam vraja deveśa śaṃkarasya mahā-prabhoḥ .. 25 ..
महेशशरणापन्ना ये जना मनसा मुदा ॥ तेषां प्रजेशभक्तानां न कुतश्चिद्भयं क्वचित् ॥ २६॥
महेश-शरण-आपन्नाः ये जनाः मनसा मुदा ॥ तेषाम् प्रजा-ईश-भक्तानाम् न कुतश्चिद् भयम् क्वचिद् ॥ २६॥
maheśa-śaraṇa-āpannāḥ ye janāḥ manasā mudā .. teṣām prajā-īśa-bhaktānām na kutaścid bhayam kvacid .. 26..
शृंगारभंगस्समये भविता नाधुना विधे ॥ कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥ २७ ॥
शृंगार-भंगः समये भविता न अधुना विधे ॥ काल-प्रयुक्तम् कार्यम् च सिद्धिम् प्राप्नोति न अन्यथा ॥ २७ ॥
śṛṃgāra-bhaṃgaḥ samaye bhavitā na adhunā vidhe .. kāla-prayuktam kāryam ca siddhim prāpnoti na anyathā .. 27 ..
शम्भोस्सम्भोगमिष्टं को भेदं कर्तुमिहेश्वरः ॥ पूर्णे वर्षसहस्रे च स्वेच्छया हि विरंस्यति ॥ २८ ॥
शम्भोः सम्भोगम् इष्टम् कः भेदम् कर्तुम् इह ईश्वरः ॥ पूर्णे वर्ष-सहस्रे च स्व-इच्छया हि विरंस्यति ॥ २८ ॥
śambhoḥ sambhogam iṣṭam kaḥ bhedam kartum iha īśvaraḥ .. pūrṇe varṣa-sahasre ca sva-icchayā hi viraṃsyati .. 28 ..
स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः ॥ तस्य स्त्रीपुत्रयोर्भेदो भवेज्जन्मनि जन्मनि ॥ २९ ॥
स्त्री-पुंसः रति-विच्छेदम् उपायेन करोति यः ॥ तस्य स्त्री-पुत्रयोः भेदः भवेत् जन्मनि जन्मनि ॥ २९ ॥
strī-puṃsaḥ rati-vicchedam upāyena karoti yaḥ .. tasya strī-putrayoḥ bhedaḥ bhavet janmani janmani .. 29 ..
भ्रष्टज्ञानो नष्टकीर्त्तिरलक्ष्मीको भवेदिह ॥ प्रयात्यंते कालसूत्र वर्षलक्षं स पातकी ॥ 2.4.1.३० ॥
भ्रष्ट-ज्ञानः नष्ट-कीर्त्तिः अलक्ष्मीकः भवेत् इह ॥ प्रयाति-अन्ते कालसूत्र वर्ष-लक्षम् स पातकी ॥ २।४।१।३० ॥
bhraṣṭa-jñānaḥ naṣṭa-kīrttiḥ alakṣmīkaḥ bhavet iha .. prayāti-ante kālasūtra varṣa-lakṣam sa pātakī .. 2.4.1.30 ..
रंभायुक्तं शक्रमिमं चकार विरतं रतौ ॥ महामुनीन्द्रो दुर्वासास्तत्स्त्रीभेदो बभूव ह ॥ ३१ ॥
रंभा-युक्तम् शक्रम् इमम् चकार विरतम् रतौ ॥ महा-मुनि-इन्द्रः दुर्वासाः तद्-स्त्री-भेदः बभूव ह ॥ ३१ ॥
raṃbhā-yuktam śakram imam cakāra viratam ratau .. mahā-muni-indraḥ durvāsāḥ tad-strī-bhedaḥ babhūva ha .. 31 ..
पुनरन्यां स संप्राप्य विषेव्य शुभपाणिकाम् ॥ दिव्यं वर्षसहस्रं च विजहौ विरहज्वरम् ॥ ३२ ॥
पुनर् अन्याम् स संप्राप्य विषेव्य शुभ-पाणिकाम् ॥ दिव्यम् वर्ष-सहस्रम् च विजहौ विरह-ज्वरम् ॥ ३२ ॥
punar anyām sa saṃprāpya viṣevya śubha-pāṇikām .. divyam varṣa-sahasram ca vijahau viraha-jvaram .. 32 ..
घृताच्या सह संश्लिष्टं कामं वारितवान् गुरुः ॥ षण्मासाभ्यंतरे चन्द्रस्तस्य पत्नीं जहार ह ॥ ३३ ॥
घृताच्या सह संश्लिष्टम् कामम् वारितवान् गुरुः ॥ षष्-मास-अभ्यंतरे चन्द्रः तस्य पत्नीम् जहार ह ॥ ३३ ॥
ghṛtācyā saha saṃśliṣṭam kāmam vāritavān guruḥ .. ṣaṣ-māsa-abhyaṃtare candraḥ tasya patnīm jahāra ha .. 33 ..
पुनश्शिवं समाराध्य कृत्वा तारामयं रणम् ॥ तारां सगर्भां संप्राप्य विजहौ विरहज्वरम् ॥ ३४
पुनर् शिवम् समाराध्य कृत्वा तारा-मयम् रणम् ॥ ताराम् सगर्भाम् संप्राप्य विजहौ विरह-ज्वरम् ॥ ३४
punar śivam samārādhya kṛtvā tārā-mayam raṇam .. tārām sagarbhām saṃprāpya vijahau viraha-jvaram .. 34
मोहिनीसहितं चन्द्रं चकार विरतं रतौ ॥ महर्षिर्गौतमस्तस्य स्त्रीविच्छेदो बभूव ह ॥ ३५ ॥
मोहिनी-सहितम् चन्द्रम् चकार विरतम् रतौ ॥ महा-ऋषिः गौतमः तस्य स्त्री-विच्छेदः बभूव ह ॥ ३५ ॥
mohinī-sahitam candram cakāra viratam ratau .. mahā-ṛṣiḥ gautamaḥ tasya strī-vicchedaḥ babhūva ha .. 35 ..
हरिश्चन्द्रो हालिकं च वृषल्यासह संयुतम् ॥ चारयामास निश्चेष्टं निर्जनं तत्फलं शृणु ॥ ३६॥
हरिश्चन्द्रः हालिकम् च वृषल्या सह संयुतम् ॥ चारयामास निश्चेष्टम् निर्जनम् तद्-फलम् शृणु ॥ ३६॥
hariścandraḥ hālikam ca vṛṣalyā saha saṃyutam .. cārayāmāsa niśceṣṭam nirjanam tad-phalam śṛṇu .. 36..
भ्रष्टः स्त्रीपुत्रराज्येभ्यो विश्वामित्रेण ताडितः ॥ ततश्शिवं समाराध्य मुक्तो भूतो हि कश्मलात् ॥ ३७ ॥
भ्रष्टः स्त्री-पुत्र-राज्येभ्यः विश्वामित्रेण ताडितः ॥ ततस् शिवम् समाराध्य मुक्तः भूतः हि कश्मलात् ॥ ३७ ॥
bhraṣṭaḥ strī-putra-rājyebhyaḥ viśvāmitreṇa tāḍitaḥ .. tatas śivam samārādhya muktaḥ bhūtaḥ hi kaśmalāt .. 37 ..
अजामिलं द्विजश्रेष्ठं वृषल्या सह संयुतम् ॥ न भिया वारयामासुस्सुरास्तां चापि केचन ॥ ३८ ॥
अजामिलम् द्विजश्रेष्ठम् वृषल्या सह संयुतम् ॥ न भिया वारयामासुः सुराः ताम् च अपि केचन ॥ ३८ ॥
ajāmilam dvijaśreṣṭham vṛṣalyā saha saṃyutam .. na bhiyā vārayāmāsuḥ surāḥ tām ca api kecana .. 38 ..
सर्वं निषेकसाध्यं च निषेको बलवान् विधे ॥ निषेकफलदो वै स निषेकः केन वार्य्यते ॥ ३९ ॥
सर्वम् निषेक-साध्यम् च निषेकः बलवान् विधे ॥ निषेक-फल-दः वै स निषेकः केन वार्य्यते ॥ ३९ ॥
sarvam niṣeka-sādhyam ca niṣekaḥ balavān vidhe .. niṣeka-phala-daḥ vai sa niṣekaḥ kena vāryyate .. 39 ..
दिव्यं वर्षसहस्रं च शंभोः संभोगकर्म तत् ॥ पूर्णे वर्षसहस्रे च गत्वा तत्र सुरेश्वराः ॥ 2.4.1.४०॥
दिव्यम् वर्ष-सहस्रम् च शंभोः संभोग-कर्म तत् ॥ पूर्णे वर्ष-सहस्रे च गत्वा तत्र सुर-ईश्वराः ॥ २।४।१।४०॥
divyam varṣa-sahasram ca śaṃbhoḥ saṃbhoga-karma tat .. pūrṇe varṣa-sahasre ca gatvā tatra sura-īśvarāḥ .. 2.4.1.40..
येन वीर्यं पतेद्भूमौ तत् करिष्यथ निश्चितम् ॥ तत्र वीर्य्ये च भविता स्कन्दनामा प्रभोस्सुतः ॥ ४१ ॥
येन वीर्यम् पतेत् भूमौ तत् करिष्यथ निश्चितम् ॥ तत्र वीर्ये च भविता स्कन्द-नामा प्रभोः सुतः ॥ ४१ ॥
yena vīryam patet bhūmau tat kariṣyatha niścitam .. tatra vīrye ca bhavitā skanda-nāmā prabhoḥ sutaḥ .. 41 ..
अधुना स्वगृहं गच्छ विधे सुरगणैस्सह ॥ करोतु शंभुस्संभोगं पार्वत्या सह निर्जने ॥ ४२ ॥
अधुना स्व-गृहम् गच्छ विधे सुर-गणैः सह ॥ करोतु शंभुः संभोगम् पार्वत्या सह निर्जने ॥ ४२ ॥
adhunā sva-gṛham gaccha vidhe sura-gaṇaiḥ saha .. karotu śaṃbhuḥ saṃbhogam pārvatyā saha nirjane .. 42 ..
इत्युक्त्वा कमलाकान्तः शीघ्रं स्वन्तः पुरं ययौ ॥ स्वालयं प्रययुर्देवा मया सह मुनीश्वर ॥ ४३ ॥
इति उक्त्वा कमला-कान्तः शीघ्रम् सु अन्तर् पुरम् ययौ ॥ स्व-आलयम् प्रययुः देवाः मया सह मुनि-ईश्वर ॥ ४३ ॥
iti uktvā kamalā-kāntaḥ śīghram su antar puram yayau .. sva-ālayam prayayuḥ devāḥ mayā saha muni-īśvara .. 43 ..
शक्तिशक्तिमतोश्चाऽथ विहारेणाऽति च क्षितिः ॥ भाराक्रांता चकंपे सा सशेषाऽपि सकच्छपा ॥ ४४॥
शक्ति-शक्तिमतोः च अथ विहारेण अति च क्षितिः ॥ भार-आक्रांता चकंपे सा स शेषा अपि स कच्छपा ॥ ४४॥
śakti-śaktimatoḥ ca atha vihāreṇa ati ca kṣitiḥ .. bhāra-ākrāṃtā cakaṃpe sā sa śeṣā api sa kacchapā .. 44..
कच्छपस्य हि भारेण सर्वाधारस्समीरणः ॥ स्तंभितोऽथ त्रिलोकाश्च बभूवुर्भयविह्वलाः ॥ ४५ ॥
कच्छपस्य हि भारेण सर्व-आधारः समीरणः ॥ स्तंभितः अथ त्रि-लोकाः च बभूवुः भय-विह्वलाः ॥ ४५ ॥
kacchapasya hi bhāreṇa sarva-ādhāraḥ samīraṇaḥ .. staṃbhitaḥ atha tri-lokāḥ ca babhūvuḥ bhaya-vihvalāḥ .. 45 ..
अथ सर्वे मया देवा हरेश्च शरणं ययुः ॥ सर्वं निवेदयांचक्रुस्तद्वृत्तं दीनमानसाः ॥ ४६॥
अथ सर्वे मया देवाः हरेः च शरणम् ययुः ॥ सर्वम् निवेदयांचक्रुः तद्-वृत्तम् दीन-मानसाः ॥ ४६॥
atha sarve mayā devāḥ hareḥ ca śaraṇam yayuḥ .. sarvam nivedayāṃcakruḥ tad-vṛttam dīna-mānasāḥ .. 46..
देवा ऊचुः ।।
देवदेव रमानाथ सर्वाऽवनकर प्रभोः ॥ रक्ष नः शरणापन्नान् भयव्याकुलमानसान् ॥ ४७ ॥
देवदेव रमानाथ सर्व-आऽवन-कर प्रभोः ॥ रक्ष नः शरण-आपन्नान् भय-व्याकुल-मानसान् ॥ ४७ ॥
devadeva ramānātha sarva-ā'vana-kara prabhoḥ .. rakṣa naḥ śaraṇa-āpannān bhaya-vyākula-mānasān .. 47 ..
स्तंभितस्त्रिजगत्प्राणो न जाने केन हेतुना ॥ व्याकुलं मुनिभिर्लेखैस्त्रैलोक्यं सचराचरम् ॥ ४८ ॥
स्तंभितः त्रिजगत्-प्राणः न जाने केन हेतुना ॥ व्याकुलम् मुनिभिः लेखैः त्रैलोक्यम् सचराचरम् ॥ ४८ ॥
staṃbhitaḥ trijagat-prāṇaḥ na jāne kena hetunā .. vyākulam munibhiḥ lekhaiḥ trailokyam sacarācaram .. 48 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा सकला देवा मया सह मुनीश्वर ॥ दीनास्तस्थुः पुरो विष्णोर्मौनीभूतास्सु दुःखिताः ॥ ४९ ॥
इति उक्त्वा सकलाः देवाः मया सह मुनि-ईश्वर ॥ दीनाः तस्थुः पुरस् विष्णोः मौनीभूताः सु दुःखिताः ॥ ४९ ॥
iti uktvā sakalāḥ devāḥ mayā saha muni-īśvara .. dīnāḥ tasthuḥ puras viṣṇoḥ maunībhūtāḥ su duḥkhitāḥ .. 49 ..
तदाकर्ण्य समादाय सुरान्नः सकलान् हरिः ॥ जगाम पर्वतं शीघ्रं कैलासं शिववल्लभम् ॥ 2.4.1.५० ॥
तत् आकर्ण्य समादाय सुरान् नः सकलान् हरिः ॥ जगाम पर्वतम् शीघ्रम् कैलासम् शिव-वल्लभम् ॥ २।४।१।५० ॥
tat ākarṇya samādāya surān naḥ sakalān hariḥ .. jagāma parvatam śīghram kailāsam śiva-vallabham .. 2.4.1.50 ..
तत्र गत्वा हरिर्देवैर्मया च सुरवल्लभः ॥ ययौ शिववरस्थानं शंकरं द्रष्टुकाम्यया ॥ ५१ ॥
तत्र गत्वा हरिः देवैः मया च सुरवल्लभः ॥ ययौ शिव-वर-स्थानम् शंकरम् द्रष्टु-काम्यया ॥ ५१ ॥
tatra gatvā hariḥ devaiḥ mayā ca suravallabhaḥ .. yayau śiva-vara-sthānam śaṃkaram draṣṭu-kāmyayā .. 51 ..
तत्र दृष्ट्वा शिवं विष्णुर्नसुरैर्विस्मितोऽभवत् ॥ तत्र स्थिताञ् शिवगणान् पप्रच्छ विनयान्वितः ॥ ५२ ॥
तत्र दृष्ट्वा शिवम् विष्णुः नसुरैः विस्मितः अभवत् ॥ तत्र स्थितान् शिव-गणान् पप्रच्छ विनय-अन्वितः ॥ ५२ ॥
tatra dṛṣṭvā śivam viṣṇuḥ nasuraiḥ vismitaḥ abhavat .. tatra sthitān śiva-gaṇān papraccha vinaya-anvitaḥ .. 52 ..
विष्णुरुवाच ।।
हे शंकराः शिवः कुत्र गतस्सर्वप्रभुर्गणाः ॥ निवेदयत नः प्रीत्या दुःखितान्वै कृपालवः ॥ ५३ ॥
हे शंकराः शिवः कुत्र गतः सर्व-प्रभुः गणाः ॥ निवेदयत नः प्रीत्या दुःखितान् वै कृपालवः ॥ ५३ ॥
he śaṃkarāḥ śivaḥ kutra gataḥ sarva-prabhuḥ gaṇāḥ .. nivedayata naḥ prītyā duḥkhitān vai kṛpālavaḥ .. 53 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य सामरस्य हरेर्गुणाः ॥ प्रोचुः प्रीत्या गणास्ते हि शंकरस्य रमापतिम् ॥ ५४ ॥
इति आकर्ण्य वचः तस्य स अमरस्य हरेः गुणाः ॥ प्रोचुः प्रीत्या गणाः ते हि शंकरस्य रमापतिम् ॥ ५४ ॥
iti ākarṇya vacaḥ tasya sa amarasya hareḥ guṇāḥ .. procuḥ prītyā gaṇāḥ te hi śaṃkarasya ramāpatim .. 54 ..
शिवगणा ऊचुः ।।
हरे शृणु शिवप्रीत्या यथार्थं ब्रूमहे वयम् ॥ ब्रह्मणा निर्जरैस्सार्द्धं वृत्तान्तमखिलं च यत् ॥ ५५॥
हरे शृणु शिव-प्रीत्या यथार्थम् ब्रूमहे वयम् ॥ ब्रह्मणा निर्जरैः सार्द्धम् वृत्तान्तम् अखिलम् च यत् ॥ ५५॥
hare śṛṇu śiva-prītyā yathārtham brūmahe vayam .. brahmaṇā nirjaraiḥ sārddham vṛttāntam akhilam ca yat .. 55..
सर्वेश्वरो महादेवो जगाम गिरिजालयम् ॥ संस्थाप्य नोऽत्र सुप्रीत्या रानालीलाविशारदः ॥ ५६ ॥
सर्वेश्वरः महादेवः जगाम गिरिज-आलयम् ॥ संस्थाप्य नः अत्र सु प्रीत्या राना-लीला-विशारदः ॥ ५६ ॥
sarveśvaraḥ mahādevaḥ jagāma girija-ālayam .. saṃsthāpya naḥ atra su prītyā rānā-līlā-viśāradaḥ .. 56 ..
तद्गुहाभ्यन्तरे शंभुः किं करोति महेश्वरः ॥ न जानीमो रमानाथ व्यतीयुर्बहवस्समाः ॥ ५७॥
तद्-गुहा-अभ्यन्तरे शंभुः किम् करोति महेश्वरः ॥ न जानीमः रमानाथ व्यतीयुः बहवः समाः ॥ ५७॥
tad-guhā-abhyantare śaṃbhuḥ kim karoti maheśvaraḥ .. na jānīmaḥ ramānātha vyatīyuḥ bahavaḥ samāḥ .. 57..
ब्रह्मोवाच।।
श्रुत्वेति वचनं तेषां स विष्णुस्सामरो मया ॥ विस्मितोऽति मुनिश्रेष्ठ शिवद्वारं जगाम ह ॥ ५८॥
श्रुत्वा इति वचनम् तेषाम् स विष्णुः स अमरः मया ॥ विस्मितः अति मुनि-श्रेष्ठ शिवद्वारम् जगाम ह ॥ ५८॥
śrutvā iti vacanam teṣām sa viṣṇuḥ sa amaraḥ mayā .. vismitaḥ ati muni-śreṣṭha śivadvāram jagāma ha .. 58..
तत्र गत्वा मया देवैस्स हरिर्देववल्लभः॥ आर्तवाण्या मुने प्रोचे तारस्वरतया तदा ॥ ५९॥
तत्र गत्वा मया देवैः स हरिः देव-वल्लभः॥ आर्त-वाण्या मुने प्रोचे तार-स्वर-तया तदा ॥ ५९॥
tatra gatvā mayā devaiḥ sa hariḥ deva-vallabhaḥ.. ārta-vāṇyā mune proce tāra-svara-tayā tadā .. 59..
शंभुमस्तौन्महाप्रीत्या सामरो हि मया हरिः ॥ तत्र स्थितो मुनिश्रेष्ठ सर्वलोकप्रभुं हरम् ॥ 2.4.1.६०॥
शंभुम् अस्तौत् महा-प्रीत्या स अमरः हि मया हरिः ॥ तत्र स्थितः मुनि-श्रेष्ठ सर्व-लोक-प्रभुम् हरम् ॥ २।४।१।६०॥
śaṃbhum astaut mahā-prītyā sa amaraḥ hi mayā hariḥ .. tatra sthitaḥ muni-śreṣṭha sarva-loka-prabhum haram .. 2.4.1.60..
विष्णुरुवाच ।।
किं करोषि महादेवाऽभ्यन्तरे परमेश्वर ॥ तारकार्तान्सुरान्सर्वान्पाहि नः शरणागतान्॥ ६१॥
किम् करोषि महादेव अभ्यन्तरे परमेश्वर ॥ तारक-आर्तान् सुरान् सर्वान् पाहि नः शरण-आगतान्॥ ६१॥
kim karoṣi mahādeva abhyantare parameśvara .. tāraka-ārtān surān sarvān pāhi naḥ śaraṇa-āgatān.. 61..
इत्यादि संस्तुवञ् शंभुं बहुधा सोमरैर्मया ॥ रुरोदाति हरिस्तत्र तारकार्तैर्मुनीश्वर ॥ ६२॥
इत्यादि संस्तुवन् शंभुम् बहुधा सोमरैः मया ॥ रुरोद अति हरिः तत्र तारक-आर्तैः मुनि-ईश्वर ॥ ६२॥
ityādi saṃstuvan śaṃbhum bahudhā somaraiḥ mayā .. ruroda ati hariḥ tatra tāraka-ārtaiḥ muni-īśvara .. 62..
दुःखकोलाहलस्तत्र बभूव त्रिदिवौकसाम् ॥ मिश्रितश्शिव संस्तुत्याऽसुरार्त्तानां मुनीश्वर ॥ ६३ ॥
दुःख-कोलाहलः तत्र बभूव त्रिदिवौकसाम् ॥ मिश्रितः शिव संस्तुत्या असुर-आर्त्तानाम् मुनि-ईश्वर ॥ ६३ ॥
duḥkha-kolāhalaḥ tatra babhūva tridivaukasām .. miśritaḥ śiva saṃstutyā asura-ārttānām muni-īśvara .. 63 ..
इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे शिवविहारवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्री-शिव-महापुराणे रुद्रसंहितायाम् कुमारखण्डे शिवविहारवर्णनम् नाम प्रथमः अध्यायः ॥ १ ॥
iti śrī-śiva-mahāpurāṇe rudrasaṃhitāyām kumārakhaṇḍe śivavihāravarṇanam nāma prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In