| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र ददर्श रथमुत्तमम् ॥ अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १॥
एतस्मिन् अंतरे तत्र ददर्श रथम् उत्तमम् ॥ अद्भुतम् शोभितम् शश्वत् विश्वकर्म-विनिर्मितम् ॥ १॥
etasmin aṃtare tatra dadarśa ratham uttamam .. adbhutam śobhitam śaśvat viśvakarma-vinirmitam .. 1..
शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् ॥ प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २॥
शत-चक्रम् सु विस्तीर्णम् मनः-यायि मनोहरम् ॥ प्रस्थापितम् च पार्वत्या वेष्टितम् पार्षदैः वरैः ॥ २॥
śata-cakram su vistīrṇam manaḥ-yāyi manoharam .. prasthāpitam ca pārvatyā veṣṭitam pārṣadaiḥ varaiḥ .. 2..
समारोहत्ततोऽनंतो हृदयेन विदूयता ॥ कार्त्तिकः परम ज्ञानी परमेशानवीर्यजः ॥ ३॥
समारोहत् ततस् अनन्तः हृदयेन विदूयता ॥ कार्त्तिकः परम-ज्ञानी परमेशान-वीर्य-जः ॥ ३॥
samārohat tatas anantaḥ hṛdayena vidūyatā .. kārttikaḥ parama-jñānī parameśāna-vīrya-jaḥ .. 3..
तदैव कृत्तिकाः प्राप्य मुक्तकेश्यश्शुचाऽऽतुराः ॥ उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४॥
तदा एव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचा आतुराः ॥ उन्मत्ताः इव तत्र एव वक्तुम् आरेभिरे वचः ॥ ४॥
tadā eva kṛttikāḥ prāpya muktakeśyaḥ śucā āturāḥ .. unmattāḥ iva tatra eva vaktum ārebhire vacaḥ .. 4..
कृत्तिका ऊचुः ।।
विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः ॥ नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५ ॥
विहाय अस्मान् कृपा-सिन्धो गच्छसि त्वम् हि निर्दयः ॥ न अयम् धर्मः मातृ-वर्गान् पालितः यत् सुतः त्यजेत् ॥ ५ ॥
vihāya asmān kṛpā-sindho gacchasi tvam hi nirdayaḥ .. na ayam dharmaḥ mātṛ-vargān pālitaḥ yat sutaḥ tyajet .. 5 ..
स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः ॥ किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६॥
स्नेहेन वर्द्धितः अस्माभिः पुत्रः अस्माकम् च धर्मतः ॥ किम् कुर्मः क्व च यास्यामः वयम् किम् करवाम ह ॥ ६॥
snehena varddhitaḥ asmābhiḥ putraḥ asmākam ca dharmataḥ .. kim kurmaḥ kva ca yāsyāmaḥ vayam kim karavāma ha .. 6..
इत्युक्त्वा कृत्तिकास्सर्वाः कृत्वा वक्षसि कार्त्तिकम्॥ द्रुतं मूर्च्छामवापुस्तास्सुतविच्छेदकारणात्॥ ७॥
इति उक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम्॥ द्रुतम् मूर्च्छाम् अवापुः ताः सुत-विच्छेद-कारणात्॥ ७॥
iti uktvā kṛttikāḥ sarvāḥ kṛtvā vakṣasi kārttikam.. drutam mūrcchām avāpuḥ tāḥ suta-viccheda-kāraṇāt.. 7..
ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै ॥ ताभिश्च पार्षदैस्सार्द्धमारुरोह रथं मुने ॥ ८॥
ताः कुमारः बोधयित्वा अध्यात्म-वचनेन वै ॥ ताभिः च पार्षदैः सार्द्धम् आरुरोह रथम् मुने ॥ ८॥
tāḥ kumāraḥ bodhayitvā adhyātma-vacanena vai .. tābhiḥ ca pārṣadaiḥ sārddham āruroha ratham mune .. 8..
दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै ॥ कुमारः पार्षदैस्सार्द्धं जगाम पितृमन्दिरम् ॥ ९॥
दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुख-दानि वै ॥ कुमारः पार्षदैः सार्द्धम् जगाम पितृ-मन्दिरम् ॥ ९॥
dṛṣṭvā śrutvā maṃgalāni bahūni sukha-dāni vai .. kumāraḥ pārṣadaiḥ sārddham jagāma pitṛ-mandiram .. 9..
दक्षेण नंदियुक्तश्च मनोयायिरथेन च ॥ कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके॥ 2.4.5.१०॥
दक्षेण नंदि-युक्तः च मनः-यायि-रथेन च ॥ कुमारः प्राप कैलासम् न्यग्रोध-अक्षय-मूलके॥ २।४।५।१०॥
dakṣeṇa naṃdi-yuktaḥ ca manaḥ-yāyi-rathena ca .. kumāraḥ prāpa kailāsam nyagrodha-akṣaya-mūlake.. 2.4.5.10..
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह॥ कुमारश्शांकरिः प्रीतो नानालीलाविशारदः ॥ ११॥
तत्र तस्थौ कृत्तिकाभिः पार्षद-प्रवरैः सह॥ कुमारः शांकरिः प्रीतः नाना लीला-विशारदः ॥ ११॥
tatra tasthau kṛttikābhiḥ pārṣada-pravaraiḥ saha.. kumāraḥ śāṃkariḥ prītaḥ nānā līlā-viśāradaḥ .. 11..
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ॥ विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम्॥ १२॥
तदा सर्वे सुर-गणाः ऋषयः सिद्ध-चारणाः ॥ विष्णुना ब्रह्मणा सार्द्धम् समाचख्युः तद्-आगमम्॥ १२॥
tadā sarve sura-gaṇāḥ ṛṣayaḥ siddha-cāraṇāḥ .. viṣṇunā brahmaṇā sārddham samācakhyuḥ tad-āgamam.. 12..
तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः ।अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः ॥ १३॥
तदा दृष्ट्वा च गांगेयम् ययौ प्रमुदितः शिवः ।अन्यैः समेतः हरिणा ब्रह्मणा च सुर-ऋषिभिः ॥ १३॥
tadā dṛṣṭvā ca gāṃgeyam yayau pramuditaḥ śivaḥ .anyaiḥ sametaḥ hariṇā brahmaṇā ca sura-ṛṣibhiḥ .. 13..
शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ॥ उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ॥ १४॥
शंखाः च बहवः नेदुः भेरी तूर्याणि अनेकशस् ॥ उत्सवः तु महान् आसीत् देवानाम् तुष्ट-चेतसाम् ॥ १४॥
śaṃkhāḥ ca bahavaḥ neduḥ bherī tūryāṇi anekaśas .. utsavaḥ tu mahān āsīt devānām tuṣṭa-cetasām .. 14..
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ॥ कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५ ॥
तदानीम् एव तम् सर्वे वीरभद्र-आदयः गणाः ॥ कुर्वन्तः सु अन्वयुः केलिम् नाना तालधर-स्वराः ॥ १५ ॥
tadānīm eva tam sarve vīrabhadra-ādayaḥ gaṇāḥ .. kurvantaḥ su anvayuḥ kelim nānā tāladhara-svarāḥ .. 15 ..
स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् ॥ जयशब्दं नमश्शब्दं कुर्वाणाः प्रीतमानसाः॥ १६ ॥
स्तावकाः स्तूयमानाः च चक्रुः ते गुण-कीर्त्तनम् ॥ जय-शब्दम् नमः-शब्दम् कुर्वाणाः प्रीत-मानसाः॥ १६ ॥
stāvakāḥ stūyamānāḥ ca cakruḥ te guṇa-kīrttanam .. jaya-śabdam namaḥ-śabdam kurvāṇāḥ prīta-mānasāḥ.. 16 ..
द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् ॥ १७॥
द्रष्टुम् ययुः तम् शरजम् शिव-आत्मजम् अनुत्तमम् ॥ १७॥
draṣṭum yayuḥ tam śarajam śiva-ātmajam anuttamam .. 17..
पार्वती मंगलं चक्रे राजमार्गं मनोहरम् ॥ पद्मरागादिमणिभिस्संस्कृतं परितः पुरम् ॥ १८॥
पार्वती मंगलम् चक्रे राजमार्गम् मनोहरम् ॥ पद्मराग-आदि-मणिभिः संस्कृतम् परितस् पुरम् ॥ १८॥
pārvatī maṃgalam cakre rājamārgam manoharam .. padmarāga-ādi-maṇibhiḥ saṃskṛtam paritas puram .. 18..
पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विता ॥ लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ॥ १९॥
पति-पुत्रवतीभिः च साध्वीभिः स्त्रीभिः अन्विता ॥ लक्ष्मी-आदि-त्रिंशत्-देवीः च पुरस् कृत्वा समाययौ॥ १९॥
pati-putravatībhiḥ ca sādhvībhiḥ strībhiḥ anvitā .. lakṣmī-ādi-triṃśat-devīḥ ca puras kṛtvā samāyayau.. 19..
रम्भाद्यप्सरसो दिव्यास्स स्मिता वेषसंयुताः ॥ संगीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ 2.4.5.२०॥
रम्भा-आदि-अप्सरसः दिव्याः स स्मिताः वेष-संयुताः ॥ संगीत-नर्तन-पराः बभूवुः च शिव-आज्ञया ॥ २।४।५।२०॥
rambhā-ādi-apsarasaḥ divyāḥ sa smitāḥ veṣa-saṃyutāḥ .. saṃgīta-nartana-parāḥ babhūvuḥ ca śiva-ājñayā .. 2.4.5.20..
ये तं समीक्षयामासुर्गागेयं शंकरोपमम् ॥ ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१॥
ये तम् समीक्षयामासुः गागेयम् शंकर-उपमम् ॥ ददृशुः ते महत् तेजः व्याप्तम् आसीत् जगत्त्रये ॥ २१॥
ye tam samīkṣayāmāsuḥ gāgeyam śaṃkara-upamam .. dadṛśuḥ te mahat tejaḥ vyāptam āsīt jagattraye .. 21..
तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् ॥ ववंदिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२ ॥
तद्-तेजसा वृतम् बालम् तप्त-चामीकर-प्रभम् ॥ ववंदिरे द्रुतम् सर्वे कुमारम् सूर्य-वर्चसम् ॥ २२ ॥
tad-tejasā vṛtam bālam tapta-cāmīkara-prabham .. vavaṃdire drutam sarve kumāram sūrya-varcasam .. 22 ..
जहुर्षुर्विनतस्कंधा नमश्शब्दरतास्तदा ॥ परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३॥
जहुर्षुः विनत-स्कंधाः नमः-शब्द-रताः तदा ॥ परिवार्य उपतस्थुः ते वाम-दक्षिणम् आगताः ॥ २३॥
jahurṣuḥ vinata-skaṃdhāḥ namaḥ-śabda-ratāḥ tadā .. parivārya upatasthuḥ te vāma-dakṣiṇam āgatāḥ .. 23..
अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः ॥ दण्डवत्पतिता भूमौ परिवार्य्य कुमारकम् ॥ २४॥
अहम् विष्णुः च शक्रः च तथा देव-आदयः अखिलाः ॥ दण्ड-वत् पतिता भूमौ परिवार्य कुमारकम् ॥ २४॥
aham viṣṇuḥ ca śakraḥ ca tathā deva-ādayaḥ akhilāḥ .. daṇḍa-vat patitā bhūmau parivārya kumārakam .. 24..
एतस्मिन्नन्तरे शंभुर्गिरिजा च मुदान्विता ॥ महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५॥
एतस्मिन् अन्तरे शंभुः गिरिजा च मुदा अन्विता ॥ महा-उत्सवम् समागम्य ददर्श तनयम् मुदा ॥ २५॥
etasmin antare śaṃbhuḥ girijā ca mudā anvitā .. mahā-utsavam samāgamya dadarśa tanayam mudā .. 25..
पुत्रं निरीक्ष्य च तदा जगदेकबंधुः प्रीत्यान्वितः परमया परया भवान्या ॥ स्नेहान्वितो भुजगभोगयुतो हि साक्षात्सर्वेश्वरः परिवृतः प्रमथैः परेशः २६॥
पुत्रम् निरीक्ष्य च तदा जगत्-एकबंधुः प्रीत्या अन्वितः परमया परया भवान्या ॥ स्नेह-अन्वितः भुजग-भोग-युतः हि साक्षात् सर्व-ईश्वरः परिवृतः प्रमथैः पर-ईशः॥
putram nirīkṣya ca tadā jagat-ekabaṃdhuḥ prītyā anvitaḥ paramayā parayā bhavānyā .. sneha-anvitaḥ bhujaga-bhoga-yutaḥ hi sākṣāt sarva-īśvaraḥ parivṛtaḥ pramathaiḥ para-īśaḥ..
अथ शक्तिधरः स्कन्दौ दृष्ट्वा तौ पार्वतीशिवौ ॥ अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७॥
अथ शक्ति-धरः स्कन्दौ दृष्ट्वा तौ पार्वती-शिवौ ॥ अवरुह्य रथात् तूर्णम् शिरसा प्रणनाम ह ॥ २७॥
atha śakti-dharaḥ skandau dṛṣṭvā tau pārvatī-śivau .. avaruhya rathāt tūrṇam śirasā praṇanāma ha .. 27..
उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः ॥ जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८॥
उपगुह्य शिवः प्रीत्या कुमारम् मूर्ध्नि शंकरः ॥ जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेह-कर्तृकः ॥ २८॥
upaguhya śivaḥ prītyā kumāram mūrdhni śaṃkaraḥ .. jaghrau premṇā parameśānaḥ prasannaḥ sneha-kartṛkaḥ .. 28..
उपगुह्य गुहं तत्र पार्वती जातसंभ्रमा ॥ प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९॥
उपगुह्य गुहम् तत्र पार्वती जात-संभ्रमा ॥ प्रस्नुतम् पाययामास स्तनम् स्नेह-परिप्लुता ॥ २९॥
upaguhya guham tatra pārvatī jāta-saṃbhramā .. prasnutam pāyayāmāsa stanam sneha-pariplutā .. 29..
तदा नीराजितो देवैस्सकलत्रैर्मुदान्वितैः ॥ जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ 2.4.5.३० ॥
तदा नीराजितः देवैः स कलत्रैः मुदा अन्वितैः ॥ जय-शब्देन महता व्याप्तम् आसीत् नभस्तलम् ॥ २।४।५।३० ॥
tadā nīrājitaḥ devaiḥ sa kalatraiḥ mudā anvitaiḥ .. jaya-śabdena mahatā vyāptam āsīt nabhastalam .. 2.4.5.30 ..
ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः ॥ वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१॥
ऋषयः ब्रह्मघोषेण गीतेन एव च गायकाः ॥ वाद्यैः च बहवः तत्र उपतस्थुः च कुमारकम् ॥ ३१॥
ṛṣayaḥ brahmaghoṣeṇa gītena eva ca gāyakāḥ .. vādyaiḥ ca bahavaḥ tatra upatasthuḥ ca kumārakam .. 31..
स्वमंकमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् ॥ बभौ भवानीपतिरेव साक्षाच्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२॥
स्वम् अंकम् आरोप्य तदा महेशः कुमारकम् तम् प्रभया समुज्ज्वलम् ॥ बभौ भवानी-पतिः एव साक्षात् श्रिया अन्वितः पुत्रवताम् वरिष्ठः ॥ ३२॥
svam aṃkam āropya tadā maheśaḥ kumārakam tam prabhayā samujjvalam .. babhau bhavānī-patiḥ eva sākṣāt śriyā anvitaḥ putravatām variṣṭhaḥ .. 32..
कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् ॥ शिवाज्ञया महोत्साहैस्सह देवैर्महासुखी ॥ ३३ ॥
कुमारः स्व-गणैः सार्द्धम् आजगाम शिव-आलयम् ॥ शिव-आज्ञया महा-उत्साहैः सह देवैः महा-सुखी ॥ ३३ ॥
kumāraḥ sva-gaṇaiḥ sārddham ājagāma śiva-ālayam .. śiva-ājñayā mahā-utsāhaiḥ saha devaiḥ mahā-sukhī .. 33 ..
दंपती तौ तदा तत्रैकपद्येन विरेजतुः ॥ विवंद्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४ ॥
दंपती तौ तदा तत्र ऐकपद्येन विरेजतुः ॥ विवंद्यमानौ ऋषिभिः आवृतौ सुर-सत्तमैः ॥ ३४ ॥
daṃpatī tau tadā tatra aikapadyena virejatuḥ .. vivaṃdyamānau ṛṣibhiḥ āvṛtau sura-sattamaiḥ .. 34 ..
कुमारः क्रीडयामास शिवोत्संगे मुदान्वितः ॥ वासुकिं शिवकंठस्थं पाणिभ्यां समपीडयत् ॥ ३५ ॥
कुमारः क्रीडयामास शिव-उत्संगे मुदा अन्वितः ॥ वासुकिम् शिव-कंठ-स्थम् पाणिभ्याम् समपीडयत् ॥ ३५ ॥
kumāraḥ krīḍayāmāsa śiva-utsaṃge mudā anvitaḥ .. vāsukim śiva-kaṃṭha-stham pāṇibhyām samapīḍayat .. 35 ..
प्रहस्य भगवाञ् शंभुश्शशंस गिरिजां तदा ॥ निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६॥
प्रहस्य भगवान् शंभुः शशंस गिरिजाम् तदा ॥ निरीक्ष्य कृपया दृष्ट्या कृपालुः लीलया आकृतिम् ॥ ३६॥
prahasya bhagavān śaṃbhuḥ śaśaṃsa girijām tadā .. nirīkṣya kṛpayā dṛṣṭyā kṛpāluḥ līlayā ākṛtim .. 36..
मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः ॥ प्रेम्णा स गद्गदगिरो जगदेकबंधुर्नोवाच किंचन विभुर्भुवनैकभर्त्ता॥ ३७ ॥
मद-स्मितेन च तदा भगवान् महेशः प्राप्तः मुदम् च परमाम् गिरिजा-समेतः ॥ प्रेम्णा स गद्गद-गिरः जगत्-एकबंधुः ना उवाच किंचन विभुः भुवन-एक-भर्त्ता॥ ३७ ॥
mada-smitena ca tadā bhagavān maheśaḥ prāptaḥ mudam ca paramām girijā-sametaḥ .. premṇā sa gadgada-giraḥ jagat-ekabaṃdhuḥ nā uvāca kiṃcana vibhuḥ bhuvana-eka-bharttā.. 37 ..
अथ शंभुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् ॥ रत्नसिंहासने रम्ये वासयामास कार्त्तिकम्॥ ३८॥
अथ शंभुः जगन्नाथः हृष्टः लौकिक-वृत्तवान् ॥ रत्न-सिंहासने रम्ये वासयामास कार्त्तिकम्॥ ३८॥
atha śaṃbhuḥ jagannāthaḥ hṛṣṭaḥ laukika-vṛttavān .. ratna-siṃhāsane ramye vāsayāmāsa kārttikam.. 38..
वेदमंत्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः ॥ सद्रत्नकुंभशतकैः स्नापया मास तं मुदा ॥ ३९ ॥
वेद-मंत्र-अभिपूतैः च सर्व-तीर्थ-उद-पूर्णकैः ॥ सत्-रत्न-कुंभ-शतकैः स्नापया मास तम् मुदा ॥ ३९ ॥
veda-maṃtra-abhipūtaiḥ ca sarva-tīrtha-uda-pūrṇakaiḥ .. sat-ratna-kuṃbha-śatakaiḥ snāpayā māsa tam mudā .. 39 ..
सद्रत्नसाररचितकिरीटमुकुटांगदम्॥ वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ॥ 2.4.5.४०॥
सत्-रत्न-सार-रचित-किरीट-मुकुट-अंगदम्॥ वैजयन्ती स्व-मालाम् च तस्मै चक्रम् ददौ हरिः ॥ २।४।५।४०॥
sat-ratna-sāra-racita-kirīṭa-mukuṭa-aṃgadam.. vaijayantī sva-mālām ca tasmai cakram dadau hariḥ .. 2.4.5.40..
शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् ॥ संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१॥
शूलम् पिनाकम् परशुम् शक्ति पाशुपतम् शरम् ॥ संहार-अस्त्रम् च परमाम् विद्याम् तस्मै ददौ शिवः ॥ ४१॥
śūlam pinākam paraśum śakti pāśupatam śaram .. saṃhāra-astram ca paramām vidyām tasmai dadau śivaḥ .. 41..
अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् ॥ कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२ ॥
अदाम् अहम् यज्ञ-सूत्रम् वेदान् च वेदमातरम् ॥ कमण्डलुम् च ब्रह्मास्त्रम् विद्याम् च एव अरि-मर्दिनीम् ॥ ४२ ॥
adām aham yajña-sūtram vedān ca vedamātaram .. kamaṇḍalum ca brahmāstram vidyām ca eva ari-mardinīm .. 42 ..
गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः ॥ श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ॥ ४३॥
गज-इन्द्रम् च एव वज्रम् च ददौ तस्मै सुरेश्वरः ॥ श्वेत-छत्रम् रत्न-मालाम् ददौ वस्तुम् जलेश्वरः ॥ ४३॥
gaja-indram ca eva vajram ca dadau tasmai sureśvaraḥ .. śveta-chatram ratna-mālām dadau vastum jaleśvaraḥ .. 43..
मनोयायिरथं सूर्यस्सन्नाहं च महाचयम् ॥ यमदंडं यमश्चैव सुधाकुंभं सुधानिधिः ॥ ४४॥
मनः-यायि-रथम् सूर्यः सन्नाहम् च महा-चयम् ॥ यमदंडम् यमः च एव सुधा-कुंभम् सुधानिधिः ॥ ४४॥
manaḥ-yāyi-ratham sūryaḥ sannāham ca mahā-cayam .. yamadaṃḍam yamaḥ ca eva sudhā-kuṃbham sudhānidhiḥ .. 44..
हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे ॥ ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ॥ ४५॥
हुताशनः ददौ प्रीत्या महा-शक्तिम् स्व-सूनवे ॥ ददौ स्व-शस्त्रम् निरृतिः वायव्य-अस्त्रम् समीरणः ॥ ४५॥
hutāśanaḥ dadau prītyā mahā-śaktim sva-sūnave .. dadau sva-śastram nirṛtiḥ vāyavya-astram samīraṇaḥ .. 45..
गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा ॥ नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६॥
गदाम् ददौ कुबेरः च शूलम् ईशः ददौ मुदा ॥ नाना शस्त्राणि उपायान् च सर्वे देवाः ददुः मुदा ॥ ४६॥
gadām dadau kuberaḥ ca śūlam īśaḥ dadau mudā .. nānā śastrāṇi upāyān ca sarve devāḥ daduḥ mudā .. 46..
कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः ॥ गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७॥
काम-अस्त्रम् कामदेवः अथ ददौ तस्मै मुदा अन्वितः ॥ गदाम् ददौ स्व-विद्याः च तस्मै च परया मुदा ॥ ४७॥
kāma-astram kāmadevaḥ atha dadau tasmai mudā anvitaḥ .. gadām dadau sva-vidyāḥ ca tasmai ca parayā mudā .. 47..
क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम्॥ हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८ ॥
क्षीरोदः अमूल्य-रत्नानि विशिष्टम् रत्ननूपुरम्॥ हिमालयः हि दिव्यानि भूषणानि अंशुकानि च ॥ ४८ ॥
kṣīrodaḥ amūlya-ratnāni viśiṣṭam ratnanūpuram.. himālayaḥ hi divyāni bhūṣaṇāni aṃśukāni ca .. 48 ..
चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ ॥ अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम्॥ ४९॥
चित्रबर्हण-नामानम् स्व-पुत्रम् गरुडः ददौ ॥ अरुणः ताम्रचूड-आख्यम् बलिनम् चरण-आयुधम्॥ ४९॥
citrabarhaṇa-nāmānam sva-putram garuḍaḥ dadau .. aruṇaḥ tāmracūḍa-ākhyam balinam caraṇa-āyudham.. 49..
पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् ॥ ददौ तस्मै महाप्रीत्या चिरंजीवित्वमेव च ॥ 2.4.5.५०॥
पार्वती स स्मिता हृष्टा परम-ऐश्वर्यम् उत्तमम् ॥ ददौ तस्मै महा-प्रीत्या चिरंजीवि-त्वम् एव च ॥ २।४।५।५०॥
pārvatī sa smitā hṛṣṭā parama-aiśvaryam uttamam .. dadau tasmai mahā-prītyā ciraṃjīvi-tvam eva ca .. 2.4.5.50..
लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् ॥ सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१॥
लक्ष्मीः च संपदम् दिव्याम् महा-आहारम् मनोहरम् ॥ सावित्री सिद्धविद्याम् च समस्ताम् प्रददौ मुदा ॥ ५१॥
lakṣmīḥ ca saṃpadam divyām mahā-āhāram manoharam .. sāvitrī siddhavidyām ca samastām pradadau mudā .. 51..
अन्याश्चापि मुने देव्यो यायास्तत्र समागताः ॥ स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२ ॥
अन्याः च अपि मुने देव्यः यायाः तत्र समागताः ॥ स्व-आत्मवत्सु ददुः तस्मै तथा एव शिशुपालिकाः ॥ ५२ ॥
anyāḥ ca api mune devyaḥ yāyāḥ tatra samāgatāḥ .. sva-ātmavatsu daduḥ tasmai tathā eva śiśupālikāḥ .. 52 ..
महामहोत्सवस्तत्र बभूव मुनिसत्तम ॥ सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ॥ ५३ ॥
महा-महा-उत्सवः तत्र बभूव मुनि-सत्तम ॥ सर्वे प्रसन्न-ताम् याताः विशेषात् च शिव-अशिवौ॥ ५३ ॥
mahā-mahā-utsavaḥ tatra babhūva muni-sattama .. sarve prasanna-tām yātāḥ viśeṣāt ca śiva-aśivau.. 53 ..
एतस्मिन्नंतरे काले प्रोवाच प्रहसन् मुदा॥ मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान्॥ ५४ ॥
एतस्मिन् अन्तरे काले प्रोवाच प्रहसन् मुदा॥ मुने ब्रह्म-आदिकान् देवान् रुद्रः भर्गः प्रतापवान्॥ ५४ ॥
etasmin antare kāle provāca prahasan mudā.. mune brahma-ādikān devān rudraḥ bhargaḥ pratāpavān.. 54 ..
शिव उवाच ।।
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ॥ ॥ सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५ ॥
हे हरे हे विधे देवाः सर्वे शृणुत मद्-वचः ॥ ॥ सर्वथा अहम् प्रसन्नः अस्मि वरान् वृणुत ऐच्छिकान् ॥ ५५ ॥
he hare he vidhe devāḥ sarve śṛṇuta mad-vacaḥ .. .. sarvathā aham prasannaḥ asmi varān vṛṇuta aicchikān .. 55 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं शंभोर्मुनेविष्ण्वादयस्सुराः ॥ सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६ ॥
तत् श्रुत्वा वचनम् शंभोः मुने-विष्णु-आदयः सुराः ॥ सर्वे प्रोचुः प्रसन्न-आस्याः देवम् पशुपतिम् प्रभुम् ॥ ५६ ॥
tat śrutvā vacanam śaṃbhoḥ mune-viṣṇu-ādayaḥ surāḥ .. sarve procuḥ prasanna-āsyāḥ devam paśupatim prabhum .. 56 ..
कुमारेण हतो ह्येष तारको भविता प्रभो ॥ तदर्थमेव संजातमिदं चरितमुत्तमम् ॥ ५७ ॥
कुमारेण हतः हि एष तारकः भविता प्रभो ॥ तद्-अर्थम् एव संजातम् इदम् चरितम् उत्तमम् ॥ ५७ ॥
kumāreṇa hataḥ hi eṣa tārakaḥ bhavitā prabho .. tad-artham eva saṃjātam idam caritam uttamam .. 57 ..
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता ॥ आज्ञां देहि कुमाराय स तं हंतुं सुखाय नः ॥ ५८ ॥
तस्मात् अद्य एव यास्यामः तारकम् हन्तुम् उद्यता ॥ आज्ञाम् देहि कुमाराय स तम् हंतुम् सुखाय नः ॥ ५८ ॥
tasmāt adya eva yāsyāmaḥ tārakam hantum udyatā .. ājñām dehi kumārāya sa tam haṃtum sukhāya naḥ .. 58 ..
।। ब्रह्मोवाच ।।
तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा ॥ देवेभ्यस्तारकं हंतुं कृपया परिभावितः ॥ ५९ ॥
तथा इति मत्वा स विभुः दत्तवान् तनयम् तदा ॥ देवेभ्यः तारकम् हंतुम् कृपया परिभावितः ॥ ५९ ॥
tathā iti matvā sa vibhuḥ dattavān tanayam tadā .. devebhyaḥ tārakam haṃtum kṛpayā paribhāvitaḥ .. 59 ..
शिवाज्ञया सुरास्सर्वे ब्रह्मविष्णुमुखास्तदा ॥ पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ 2.4.5.६०॥
शिव-आज्ञया सुराः सर्वे ब्रह्म-विष्णु-मुखाः तदा ॥ पुरस्कृत्य गुहम् सद्यस् निर्जग्मुः मिलिताः गिरेः ॥ २।४।५।६०॥
śiva-ājñayā surāḥ sarve brahma-viṣṇu-mukhāḥ tadā .. puraskṛtya guham sadyas nirjagmuḥ militāḥ gireḥ .. 2.4.5.60..
बहिर्निस्सृत्य कैलासात्त्वष्टा शासनतो हरेः ॥ विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥ ६१ ॥
बहिस् निस्सृत्य कैलासात् त्वष्टा शासनतः हरेः ॥ विरेचे नगरम् रम्यम् अद्भुतम् निकटे गिरेः ॥ ६१ ॥
bahis nissṛtya kailāsāt tvaṣṭā śāsanataḥ hareḥ .. virece nagaram ramyam adbhutam nikaṭe gireḥ .. 61 ..
तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् ॥ गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२॥
तत्र रम्यम् गृहम् दिव्यम् अद्भुतम् परम-उज्ज्वलम् ॥ गुहा-अर्थम् निर्ममे त्वष्टा तत्र सिंहासनम् वरम् ॥ ६२॥
tatra ramyam gṛham divyam adbhutam parama-ujjvalam .. guhā-artham nirmame tvaṣṭā tatra siṃhāsanam varam .. 62..
तदा हरिस्सुधीर्भक्त्या कारयामास मंगलम् ॥ कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैस्सुरैः ॥ ६३ ॥
तदा हरिः सुधीः भक्त्या कारयामास मंगलम् ॥ कार्त्तिकस्य अभिषेकम् हि सर्व-तीर्थ-जलैः सुरैः ॥ ६३ ॥
tadā hariḥ sudhīḥ bhaktyā kārayāmāsa maṃgalam .. kārttikasya abhiṣekam hi sarva-tīrtha-jalaiḥ suraiḥ .. 63 ..
सर्वथा समलंकृत्य वासयामास संग्रहम् ॥ कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४ ॥ ॥
सर्वथा समलंकृत्य वासयामास संग्रहम् ॥ कार्त्तिकस्य विधिम् प्रीत्या कारयामास च उत्सवम् ॥ ६४ ॥ ॥
sarvathā samalaṃkṛtya vāsayāmāsa saṃgraham .. kārttikasya vidhim prītyā kārayāmāsa ca utsavam .. 64 .. ..
ब्राह्मांडाधिपतित्वं हि ददौ तस्मै मुदा हरिः ॥ चकार तिलकं तस्य समानर्च सुरैस्सह ॥ ६५ ॥
ब्राह्मांड-अधिपति-त्वम् हि ददौ तस्मै मुदा हरिः ॥ चकार तिलकम् तस्य समानर्च सुरैः सह ॥ ६५ ॥
brāhmāṃḍa-adhipati-tvam hi dadau tasmai mudā hariḥ .. cakāra tilakam tasya samānarca suraiḥ saha .. 65 ..
प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिस्सह ॥ तुष्टाव विविधस्स्तोत्रैः शिवरूपं सनातनम्॥ ६६॥
प्रणम्य कार्त्तिकम् प्रीत्या सर्व-देव-ऋषिभिः सह ॥ तुष्टाव विविधः स्तोत्रैः शिव-रूपम् सनातनम्॥ ६६॥
praṇamya kārttikam prītyā sarva-deva-ṛṣibhiḥ saha .. tuṣṭāva vividhaḥ stotraiḥ śiva-rūpam sanātanam.. 66..
वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः ॥ स्वामिभावं समापन्नो ब्रह्मांडस्यासि पालकः ॥ ६७ ॥
वर-सिंहासन-स्थः हि शुशुभे अतीव कार्तिकः ॥ स्वामि-भावम् समापन्नः ब्रह्मांडस्य असि पालकः ॥ ६७ ॥
vara-siṃhāsana-sthaḥ hi śuśubhe atīva kārtikaḥ .. svāmi-bhāvam samāpannaḥ brahmāṃḍasya asi pālakaḥ .. 67 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पंचमोऽध्यायः ॥ ५॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनम् नाम पंचमः अध्यायः ॥ ५॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe kumārābhiṣekavarṇanam nāma paṃcamaḥ adhyāyaḥ .. 5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In