| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
निवार्य वीरभद्रं तं कुमारः परवीरहा॥ समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ॥ १॥
निवार्य वीरभद्रम् तम् कुमारः पर-वीर-हा॥ समैच्छत् तारक-वधम् स्मृत्वा शिव-पद-अम्बुजौ॥ १॥
nivārya vīrabhadram tam kumāraḥ para-vīra-hā.. samaicchat tāraka-vadham smṛtvā śiva-pada-ambujau.. 1..
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ॥ सन्नद्धः सोऽभवत्क्रुद्ध सैन्येन महता वृतः ॥ २॥
जगर्ज अथ महा-तेजाः कार्तिकेयः महा-बलः ॥ सन्नद्धः सः अभवत् क्रुद्ध सैन्येन महता वृतः ॥ २॥
jagarja atha mahā-tejāḥ kārtikeyaḥ mahā-balaḥ .. sannaddhaḥ saḥ abhavat kruddha sainyena mahatā vṛtaḥ .. 2..
तदा जयजयेत्युक्तं सर्वैर्देर्वेर्गणै स्तथा ॥ संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३॥
तदा जय जय इति उक्तम् सर्वैः देर्वेः गणैः स्तथा ॥ संस्तुतः वाग्भिः इष्टाभिः तदा एव च सुर-ऋषिभिः ॥ ३॥
tadā jaya jaya iti uktam sarvaiḥ derveḥ gaṇaiḥ stathā .. saṃstutaḥ vāgbhiḥ iṣṭābhiḥ tadā eva ca sura-ṛṣibhiḥ .. 3..
तारकस्य कुमारस्य संग्रामोऽतीव दुस्सहः॥ जातस्तदा महाघोरस्सर्वभूत भयंकरः ॥ ४ ॥
तारकस्य कुमारस्य संग्रामः अतीव दुस्सहः॥ जातः तदा महा-घोरः सर्व-भूत भयंकरः ॥ ४ ॥
tārakasya kumārasya saṃgrāmaḥ atīva dussahaḥ.. jātaḥ tadā mahā-ghoraḥ sarva-bhūta bhayaṃkaraḥ .. 4 ..
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ॥ सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५ ॥
शक्ति-हस्तौ च तौ वीरौ युयुधाते परस्परम् ॥ सर्वेषाम् पश्यताम् तत्र महा-आश्चर्यवताम् मुने ॥ ५ ॥
śakti-hastau ca tau vīrau yuyudhāte parasparam .. sarveṣām paśyatām tatra mahā-āścaryavatām mune .. 5 ..
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ॥ परस्परं वंचयंतौ सिंहाविव महाबलौ ॥ ६॥
शक्ति-निर्भिन्न-देहौ तौ महासाधन-संयुतौ॥ परस्परम् वंचयंतौ सिंहौ इव महा-बलौ ॥ ६॥
śakti-nirbhinna-dehau tau mahāsādhana-saṃyutau.. parasparam vaṃcayaṃtau siṃhau iva mahā-balau .. 6..
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ॥ पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७॥
वैतालिकम् समाश्रित्य तथा खेचरकम् मतम् ॥ पापम् तम् च समाश्रित्य शक्त्या शक्तिम् विजघ्नतुः ॥ ७॥
vaitālikam samāśritya tathā khecarakam matam .. pāpam tam ca samāśritya śaktyā śaktim vijaghnatuḥ .. 7..
एभिर्मंत्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ॥ अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८॥
एभिः मंत्रैः महा-वीरौ चक्रतुः युद्धम् अद्भुतम् ॥ अन्योन्यम् साधकौ भूत्वा महा-बल-पराक्रमौ ॥ ८॥
ebhiḥ maṃtraiḥ mahā-vīrau cakratuḥ yuddham adbhutam .. anyonyam sādhakau bhūtvā mahā-bala-parākramau .. 8..
महाबलं प्रकुर्वतौ परस्परवधैषिणौ॥ जघ्नतुश्शक्तिधाराभी रणे रणविशारदौ॥ ९॥
महा-बलम् प्रकुर्वतौ परस्पर-वध-एषिणौ॥ जघ्नतुः शक्ति-धाराभिः रणे रण-विशारदौ॥ ९॥
mahā-balam prakurvatau paraspara-vadha-eṣiṇau.. jaghnatuḥ śakti-dhārābhiḥ raṇe raṇa-viśāradau.. 9..
मूर्ध्नि कंठे तथा चोर्वोर्जान्वोश्चैव कटीतटे॥ वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥ 2.4.10.१०॥
मूर्ध्नि कंठे तथा च ऊर्वोः जान्वोः च एव कटी-तटे॥ वक्षसि उरसि पृष्ठे च चिच्छिदुः च परस्परम् ॥ २।४।१०।१०॥
mūrdhni kaṃṭhe tathā ca ūrvoḥ jānvoḥ ca eva kaṭī-taṭe.. vakṣasi urasi pṛṣṭhe ca cicchiduḥ ca parasparam .. 2.4.10.10..
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ॥ वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥ ११ ॥ ।
तदा तौ युध्यमानौ च हन्तु-कामौ महा-बलौ ॥ वल्गन्तौ वीर-शब्दैः च नाना युद्ध-विशारदौ ॥ ११ ॥ ।
tadā tau yudhyamānau ca hantu-kāmau mahā-balau .. valgantau vīra-śabdaiḥ ca nānā yuddha-viśāradau .. 11 .. .
अभवन्प्रेक्षकास्सर्वे देवा गंधर्वकिन्नराः ॥ ऊचुः परस्परं तत्र कोस्मिन्युद्धे विजेष्यते ॥ १२ ॥
अभवन् प्रेक्षकाः सर्वे देवाः गंधर्व-किन्नराः ॥ ऊचुः परस्परम् तत्र कः स्मिन् युद्धे विजेष्यते ॥ १२ ॥
abhavan prekṣakāḥ sarve devāḥ gaṃdharva-kinnarāḥ .. ūcuḥ parasparam tatra kaḥ smin yuddhe vijeṣyate .. 12 ..
तदा नभोगता वाणी जगौ देवांश्च सांत्वयन् ॥ असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥ १३॥
तदा नभः-गता वाणी जगौ देवान् च सांत्वयन् ॥ असुरम् तारकम् च अत्र कुमारः अयम् हनिष्यति ॥ १३॥
tadā nabhaḥ-gatā vāṇī jagau devān ca sāṃtvayan .. asuram tārakam ca atra kumāraḥ ayam haniṣyati .. 13..
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति॥ युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ॥ १४॥
मा शोच्यताम् सुरैः सर्वैः सुखेन स्थीयताम् इति॥ युष्मद्-अर्थम् शंकरः हि पुत्र-रूपेण संस्थितः ॥ १४॥
mā śocyatām suraiḥ sarvaiḥ sukhena sthīyatām iti.. yuṣmad-artham śaṃkaraḥ hi putra-rūpeṇa saṃsthitaḥ .. 14..
श्रुत्वा तदा तां गगने समीरितां वाचं शुभां सप्रमथेस्समावृतः ॥ निहंतुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ॥ १५॥
श्रुत्वा तदा ताम् गगने समीरिताम् वाचम् शुभाम् स प्रमथेः समावृतः ॥ निहंतु-कामः सुखितः कुमारकः दैत्य-अधिपम् तारकम् आशु अभूत् तदा ॥ १५॥
śrutvā tadā tām gagane samīritām vācam śubhām sa pramatheḥ samāvṛtaḥ .. nihaṃtu-kāmaḥ sukhitaḥ kumārakaḥ daitya-adhipam tārakam āśu abhūt tadā .. 15..
शक्त्या तया महाबाहुराजघानस्तनांतरे ॥ कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥ १६ ॥
शक्त्या तया महा-बाहुः आजघान स्तनांतरे ॥ कुमारः स्म रुषा आविष्टः तारक-असुरम् ओजसा ॥ १६ ॥
śaktyā tayā mahā-bāhuḥ ājaghāna stanāṃtare .. kumāraḥ sma ruṣā āviṣṭaḥ tāraka-asuram ojasā .. 16 ..
तं प्रहारमनादृत्य तारको दैत्यपुंगवः ॥ कुमारं चापि संक्रुद्धस्स्वशक्त्या संजघान सः ॥ १७ ॥
तम् प्रहारम् अन् आदृत्य तारकः दैत्य-पुंगवः ॥ कुमारम् च अपि संक्रुद्धः स्व-शक्त्या संजघान सः ॥ १७ ॥
tam prahāram an ādṛtya tārakaḥ daitya-puṃgavaḥ .. kumāram ca api saṃkruddhaḥ sva-śaktyā saṃjaghāna saḥ .. 17 ..
तेन शक्तिप्रहारेण शांकरिर्मूच्छि तोऽभवत् ॥ मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥ १८॥
तेन शक्ति-प्रहारेण शांकरिः मूच्छितः अभवत् ॥ मुहूर्तात् चेतनाम् प्राप स्तूयमानः महा-ऋषिभिः ॥ १८॥
tena śakti-prahāreṇa śāṃkariḥ mūcchitaḥ abhavat .. muhūrtāt cetanām prāpa stūyamānaḥ mahā-ṛṣibhiḥ .. 18..
यथा सिंहो मदोन्मत्तो हंतुकामस्तथासुरम्॥ कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥ १९ ॥
यथा सिंहः मद-उन्मत्तः हंतु-कामः तथा असुरम्॥ कुमारः तारकम् शक्त्या स जघान प्रतापवान् ॥ १९ ॥
yathā siṃhaḥ mada-unmattaḥ haṃtu-kāmaḥ tathā asuram.. kumāraḥ tārakam śaktyā sa jaghāna pratāpavān .. 19 ..
एवं परस्परं तौ हि कुमारश्चापि तारकः ॥ युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥ 2.4.10.२० ॥
एवम् परस्परम् तौ हि कुमारः च अपि तारकः ॥ युयुधाते अति संरब्धौ शक्ति-युद्ध-विशारदौ ॥ २।४।१०।२० ॥
evam parasparam tau hi kumāraḥ ca api tārakaḥ .. yuyudhāte ati saṃrabdhau śakti-yuddha-viśāradau .. 2.4.10.20 ..
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ॥ पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ॥ २१॥
अभ्यास-परमौ आस्ताम् अन्योन्यम् विजिगीषया ॥ पदातिनौ चित्र-रूपौ तरस्विनौ ॥ २१॥
abhyāsa-paramau āstām anyonyam vijigīṣayā .. padātinau citra-rūpau tarasvinau .. 21..
विविधैर्घातपुंजैस्तावन्योन्यं विनि जघ्नतुः ॥ नानामार्गान्प्रकुर्वन्तौ गर्जंतौ सुपराक्रमौ ॥ २२॥
विविधैः घात-पुंजैः तौ अन्योन्यम् विनि जघ्नतुः ॥ नाना मार्गान् प्रकुर्वन्तौ गर्जंतौ सु पराक्रमौ ॥ २२॥
vividhaiḥ ghāta-puṃjaiḥ tau anyonyam vini jaghnatuḥ .. nānā mārgān prakurvantau garjaṃtau su parākramau .. 22..
अवलोकपरास्सर्वे देवगंधर्वकिन्नराः॥ विस्मयं परमं जग्मुर्नोचुः किंचन तत्र ते ॥ २३॥
अवलोक-पराः सर्वे देव-गंधर्व-किन्नराः॥ विस्मयम् परमम् जग्मुः न ऊचुः किंचन तत्र ते ॥ २३॥
avaloka-parāḥ sarve deva-gaṃdharva-kinnarāḥ.. vismayam paramam jagmuḥ na ūcuḥ kiṃcana tatra te .. 23..
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ॥ चचाल वसुधा सर्वा सशैलवनकानना ॥ २४॥
न ववौ पवमानः च निष्प्रभः अभूत् दिवाकरः ॥ चचाल वसुधा सर्वा स शैल-वन-कानना ॥ २४॥
na vavau pavamānaḥ ca niṣprabhaḥ abhūt divākaraḥ .. cacāla vasudhā sarvā sa śaila-vana-kānanā .. 24..
एतस्मिन्नंतरे तत्र हिमालयमुखा धराः ॥ स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥ २५॥
एतस्मिन् अन्तरे तत्र हिमालय-मुखाः धराः ॥ स्नेह-अर्दिताः तदा जग्मुः कुमारम् च परीप्सवः ॥ २५॥
etasmin antare tatra himālaya-mukhāḥ dharāḥ .. sneha-arditāḥ tadā jagmuḥ kumāram ca parīpsavaḥ .. 25..
ततस्स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः॥ पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥ २६॥
ततस् स दृष्ट्वा तान् सर्वान् भय-भीतान् च शांकरिः॥ पर्वतान् गिरिजा-पुत्रः बभाषे परिबोधयन् ॥ २६॥
tatas sa dṛṣṭvā tān sarvān bhaya-bhītān ca śāṃkariḥ.. parvatān girijā-putraḥ babhāṣe paribodhayan .. 26..
कुमार उवाच।।
मा खिद्यतां महाभागा मा चिंतां कुर्वतां नगाः ॥ घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्य ताम् ॥ २७॥
मा खिद्यताम् महाभागाः मा चिंताम् कुर्वताम् नगाः ॥ घातयामि अद्य पापिष्ठम् सर्वेषाम् वः प्रपश्य ताम् ॥ २७॥
mā khidyatām mahābhāgāḥ mā ciṃtām kurvatām nagāḥ .. ghātayāmi adya pāpiṣṭham sarveṣām vaḥ prapaśya tām .. 27..
एवं समाश्वास्य तदा पर्वतान्निर्जरान्गणान् ॥ प्रणम्य गिरिजां शंभुमाददे शक्तिमुत्प्रभाम्॥ २८॥
एवम् समाश्वास्य तदा पर्वतान् निर्जरान् गणान् ॥ प्रणम्य गिरिजाम् शंभुम् आददे शक्तिम् उत्प्रभाम्॥ २८॥
evam samāśvāsya tadā parvatān nirjarān gaṇān .. praṇamya girijām śaṃbhum ādade śaktim utprabhām.. 28..
तं तारकं हंतुमनाः करशक्तिर्महाप्रभुः ॥ विरराज महावीरः कुमारश्शंभुबालकः ॥ २९ ॥
तम् तारकम् हंतु-मनाः करशक्तिः महा-प्रभुः ॥ विरराज महा-वीरः कुमारः शंभु-बालकः ॥ २९ ॥
tam tārakam haṃtu-manāḥ karaśaktiḥ mahā-prabhuḥ .. virarāja mahā-vīraḥ kumāraḥ śaṃbhu-bālakaḥ .. 29 ..
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ॥ तेजसाढ्यश्शंकरस्य लोकक्लेशकरं च तम् ॥ 2.4.10.३०॥
शक्त्या तया जघान अथ कुमारः तारक-असुरम् ॥ तेजसा आढ्यः शंकरस्य लोक-क्लेश-करम् च तम् ॥ २।४।१०।३०॥
śaktyā tayā jaghāna atha kumāraḥ tāraka-asuram .. tejasā āḍhyaḥ śaṃkarasya loka-kleśa-karam ca tam .. 2.4.10.30..
पपात सद्यस्सहसा विशीर्णांगोऽसुरः क्षितौ ॥ तारकाख्यो महावीरस्सर्वासुरगणाधिपः॥ ३१॥
पपात सद्यस् सहसा विशीर्ण-अंगः असुरः क्षितौ ॥ तारक-आख्यः महा-वीरः सर्व-असुर-गण-अधिपः॥ ३१॥
papāta sadyas sahasā viśīrṇa-aṃgaḥ asuraḥ kṣitau .. tāraka-ākhyaḥ mahā-vīraḥ sarva-asura-gaṇa-adhipaḥ.. 31..
कुमारेण हतस्सोतिवीरस्स खलु तारकः ॥ लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥ ३२॥
कुमारेण हतः सोतिवीरस्स खलु तारकः ॥ लयम् ययौ च तत्र एव सर्वेषाम् पश्यताम् मुने ॥ ३२॥
kumāreṇa hataḥ sotivīrassa khalu tārakaḥ .. layam yayau ca tatra eva sarveṣām paśyatām mune .. 32..
तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ॥ न जघान पुनर्वीरस्स गत्वा व्यसुमाहवे ॥ ३३॥
तथा तम् पतितम् दृष्ट्वा तारकम् बलवत्तरम् ॥ न जघान पुनर् वीरः स गत्वा व्यसुम् आहवे ॥ ३३॥
tathā tam patitam dṛṣṭvā tārakam balavattaram .. na jaghāna punar vīraḥ sa gatvā vyasum āhave .. 33..
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ॥ क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥ ३४॥
हते तस्मिन् महा-दैत्ये तारक-आख्ये महा-बले ॥ क्षयम् प्रणीताः बहवः असुराः देव-गणैः तदा ॥ ३४॥
hate tasmin mahā-daitye tāraka-ākhye mahā-bale .. kṣayam praṇītāḥ bahavaḥ asurāḥ deva-gaṇaiḥ tadā .. 34..
केचिद्भीताः प्रांजलयो बभूवुस्तत्र चाहवे॥ छिन्नभिन्नांगकाः केचिन्मृता दैत्यास्सहस्रशः॥ ३५॥
केचिद् भीताः प्रांजलयः बभूवुः तत्र च आहवे॥ छिन्न-भिन्न-अंगकाः केचिद् मृताः दैत्याः सहस्रशस्॥ ३५॥
kecid bhītāḥ prāṃjalayaḥ babhūvuḥ tatra ca āhave.. chinna-bhinna-aṃgakāḥ kecid mṛtāḥ daityāḥ sahasraśas.. 35..
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ॥ वदन्तः पाहि पाहीति दैत्याः सांजलयस्तदा ॥ ३६॥
केचिद् जाताः कुमारस्य शरणम् शरण-अर्थिनः ॥ वदन्तः पाहि पाहि इति दैत्याः स अंजलयः तदा ॥ ३६॥
kecid jātāḥ kumārasya śaraṇam śaraṇa-arthinaḥ .. vadantaḥ pāhi pāhi iti daityāḥ sa aṃjalayaḥ tadā .. 36..
कियंतश्च हतास्तत्र कियंतश्च पलायिताः ॥ पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ॥ ३७॥
कियंतः च हताः तत्र कियंतः च पलायिताः ॥ पलायमानाः व्यथिताः स्ताडिताः निर्ज्जरैः गणैः ॥ ३७॥
kiyaṃtaḥ ca hatāḥ tatra kiyaṃtaḥ ca palāyitāḥ .. palāyamānāḥ vyathitāḥ stāḍitāḥ nirjjaraiḥ gaṇaiḥ .. 37..
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः॥ पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥ ३८॥
सहस्रशस् प्रविष्टाः ते पाताले च जिजीषवः॥ पलायमानाः ते सर्वे भग्न-आशाः दैन्यम् आगताः ॥ ३८॥
sahasraśas praviṣṭāḥ te pātāle ca jijīṣavaḥ.. palāyamānāḥ te sarve bhagna-āśāḥ dainyam āgatāḥ .. 38..
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ॥ न केचित्तत्र संतस्थुर्गणदेवभयात्तदा ॥ ३९॥
एवम् सर्वम् दैत्य-सैन्यम् भ्रष्टम् जातम् मुनि-ईश्वर ॥ न केचिद् तत्र संतस्थुः गण-देव-भयात् तदा ॥ ३९॥
evam sarvam daitya-sainyam bhraṣṭam jātam muni-īśvara .. na kecid tatra saṃtasthuḥ gaṇa-deva-bhayāt tadā .. 39..
आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि॥ ते देवाः सुखमापन्नास्सर्वे शक्रादयस्तदा ॥ 2.4.10.४०॥
आसीत् निष्कंटकम् सर्वम् हते तस्मिन् दुरात्मनि॥ ते देवाः सुखम् आपन्नाः सर्वे शक्र-आदयः तदा ॥ २।४।१०।४०॥
āsīt niṣkaṃṭakam sarvam hate tasmin durātmani.. te devāḥ sukham āpannāḥ sarve śakra-ādayaḥ tadā .. 2.4.10.40..
एवं विजयमापन्नं कुमारं निखिलास्सुराः ॥ बभूवुर्युगपद्धृष्टास्त्रिलोकाश्च महासुखा॥ ४१॥
एवम् विजयम् आपन्नम् कुमारम् निखिलाः सुराः ॥ बभूवुः युगपद् हृष्टाः त्रि-लोकाः च महा-सुखा॥ ४१॥
evam vijayam āpannam kumāram nikhilāḥ surāḥ .. babhūvuḥ yugapad hṛṣṭāḥ tri-lokāḥ ca mahā-sukhā.. 41..
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ॥ तत्राजगाम स मुदा सगणः प्रियया सह ॥ ४२ ॥
तदा शिवः अपि तम् ज्ञात्वा विजयम् कार्तिकस्य च ॥ तत्र आजगाम स मुदा स गणः प्रियया सह ॥ ४२ ॥
tadā śivaḥ api tam jñātvā vijayam kārtikasya ca .. tatra ājagāma sa mudā sa gaṇaḥ priyayā saha .. 42 ..
स्वात्मजं स्वांकमारोप्य कुमारं सूर्यवर्चसम् ॥ लालयामास सुप्रीत्या शिवा च स्नेहसंकुला ॥ ४३ ॥
स्व-आत्मजम् स्व-अंकम् आरोप्य कुमारम् सूर्य-वर्चसम् ॥ लालयामास सु प्रीत्या शिवा च स्नेह-संकुला ॥ ४३ ॥
sva-ātmajam sva-aṃkam āropya kumāram sūrya-varcasam .. lālayāmāsa su prītyā śivā ca sneha-saṃkulā .. 43 ..
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ॥ सबंधुस्सानुगश्शंभुं तुष्टाव च शिवां गुहम् ॥ ४४ ॥
हिमालयः तदा आगत्य स्व-पुत्रैः परिवारितः ॥ स बंधुः स अनुगः शंभुम् तुष्टाव च शिवाम् गुहम् ॥ ४४ ॥
himālayaḥ tadā āgatya sva-putraiḥ parivāritaḥ .. sa baṃdhuḥ sa anugaḥ śaṃbhum tuṣṭāva ca śivām guham .. 44 ..
ततो देवगणास्सर्वे मुनयस्सिद्धचारणाः ॥ तुष्टुवुश्शांकरिं शंभुं गिरिजां तुषितां भृशम् ॥ ४५ ॥
ततस् देव-गणाः सर्वे मुनयः सिद्ध-चारणाः ॥ तुष्टुवुः शांकरिम् शंभुम् गिरिजाम् तुषिताम् भृशम् ॥ ४५ ॥
tatas deva-gaṇāḥ sarve munayaḥ siddha-cāraṇāḥ .. tuṣṭuvuḥ śāṃkarim śaṃbhum girijām tuṣitām bhṛśam .. 45 ..
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ॥ जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४६ ॥
पुष्प-वृष्टिम् सु महतीम् चक्रुः च उपसुराः तदा ॥ जगुः गंधर्व-पतयः ननृतुः च अप्सरः-गणाः ॥ ४६ ॥
puṣpa-vṛṣṭim su mahatīm cakruḥ ca upasurāḥ tadā .. jaguḥ gaṃdharva-patayaḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ .. 46 ..
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ॥ जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥ ४७ ॥
वादित्राणि तथा नेदुः तदानीम् च विशेषतः ॥ जय-शब्दः नमः शब्दः बभूव उच्चैस् मुहुर् मुहुर् ॥ ४७ ॥
vāditrāṇi tathā neduḥ tadānīm ca viśeṣataḥ .. jaya-śabdaḥ namaḥ śabdaḥ babhūva uccais muhur muhur .. 47 ..
ततो मयाच्युतश्चापि संतुष्टोभूद्विशेषतः ॥ शिवं शिवां कुमारं च संतुष्टाव समादरात् ॥ ४८ ॥
ततस् मया अच्युतः च अपि संतुष्टः भूत् विशेषतः ॥ शिवम् शिवाम् कुमारम् च संतुष्टाव समादरात् ॥ ४८ ॥
tatas mayā acyutaḥ ca api saṃtuṣṭaḥ bhūt viśeṣataḥ .. śivam śivām kumāram ca saṃtuṣṭāva samādarāt .. 48 ..
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखास्सुराः ॥ चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥ ४९ ॥
कुमारम् अग्रतस् कृत्वा हरि-केन्द्र-मुखाः सुराः ॥ चक्रुः नीराजनम् प्रीत्या मुनयः च अपरे तथा ॥ ४९ ॥
kumāram agratas kṛtvā hari-kendra-mukhāḥ surāḥ .. cakruḥ nīrājanam prītyā munayaḥ ca apare tathā .. 49 ..
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥ तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥ 2.4.10.५० ॥
गीत-वादित्र-घोषेण ब्रह्मघोषेण भूयसा ॥ तदा उत्सवः महान् आसीत् कीर्तनम् च विशेषतः ॥ २।४।१०।५० ॥
gīta-vāditra-ghoṣeṇa brahmaghoṣeṇa bhūyasā .. tadā utsavaḥ mahān āsīt kīrtanam ca viśeṣataḥ .. 2.4.10.50 ..
गीतवाद्यैस्सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ॥ स्तूयमानो जगन्नाथस्सर्वैर्दैवैर्गणैरभूत ॥ ५१॥
गीत-वाद्यैः सु प्रसन्नैः तथा स अञ्जलिभिः मुने ॥ स्तूयमानः जगन्नाथः सर्वैः दैवैः गणैः अभूत ॥ ५१॥
gīta-vādyaiḥ su prasannaiḥ tathā sa añjalibhiḥ mune .. stūyamānaḥ jagannāthaḥ sarvaiḥ daivaiḥ gaṇaiḥ abhūta .. 51..
ततस्स भगवान्रुद्रो भवान्या जगदंबया ॥ सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥ ५२॥
ततस् स भगवान् रुद्रः भवान्या जगदंबया ॥ सर्वैः स्तुतः जगाम अथ स्व-गिरिम् स्व-गणैः वृतः ॥ ५२॥
tatas sa bhagavān rudraḥ bhavānyā jagadaṃbayā .. sarvaiḥ stutaḥ jagāma atha sva-girim sva-gaṇaiḥ vṛtaḥ .. 52..
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे तारकासुरवधदेवोत्सववर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe tārakāsuravadhadevotsavavarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In