| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ॥ तुष्टुवुश्शांकरिं भक्त्या सर्वेऽन्ये मुदिताननाः ॥ १॥
निहतम् तारकम् दृष्ट्वा देवाः विष्णु-पुरोगमाः ॥ तुष्टुवुः शांकरिम् भक्त्या सर्वे अन्ये मुदित-आननाः ॥ १॥
nihatam tārakam dṛṣṭvā devāḥ viṣṇu-purogamāḥ .. tuṣṭuvuḥ śāṃkarim bhaktyā sarve anye mudita-ānanāḥ .. 1..
देवा ऊचुः ।।
नमः कल्याणरूपाय नमस्ते विश्वमंगल॥ विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २॥
नमः कल्याण-रूपाय नमः ते विश्व-मंगल॥ विश्वबंधो नमः ते अस्तु नमः ते विश्वभावन ॥ २॥
namaḥ kalyāṇa-rūpāya namaḥ te viśva-maṃgala.. viśvabaṃdho namaḥ te astu namaḥ te viśvabhāvana .. 2..
नमोस्तु ते दानववर्यहंत्रे बाणासुरप्राणहराय देव ॥ प्रलंबनाशाय पवित्ररूपिणे नमोनमश्शंकरतात तुभ्यम् ॥ ३॥
नमः अस्तु ते दानव-वर्य-हंत्रे बाण-असुर-प्राण-हराय देव ॥ प्रलंब-नाशाय पवित्र-रूपिणे नमः नमः शंकर-तात तुभ्यम् ॥ ३॥
namaḥ astu te dānava-varya-haṃtre bāṇa-asura-prāṇa-harāya deva .. pralaṃba-nāśāya pavitra-rūpiṇe namaḥ namaḥ śaṃkara-tāta tubhyam .. 3..
त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद ॥ प्रपञ्चभूतस्तव लोकबिंबः प्रसीद शम्भ्वात्मज दीनबंधो॥ ४॥
त्वम् एव कर्त्ता जगताम् च भर्त्ता त्वम् एव हर्त्ता शुचि-ज प्रसीद ॥ प्रपञ्च-भूतः तव लोक-बिंबः प्रसीद शम्भ्वात्मज दीन-बंधो॥ ४॥
tvam eva karttā jagatām ca bharttā tvam eva harttā śuci-ja prasīda .. prapañca-bhūtaḥ tava loka-biṃbaḥ prasīda śambhvātmaja dīna-baṃdho.. 4..
देवरक्षाकर स्वामिन्रक्ष नस्सर्वदा प्रभो॥ देवप्राणावन कर प्रसीद करुणाकर ॥ ५॥
देव-रक्षा-कर स्वामिन् रक्ष नः सर्वदा प्रभो॥ देव-प्राण-अवन कर प्रसीद करुणा-कर ॥ ५॥
deva-rakṣā-kara svāmin rakṣa naḥ sarvadā prabho.. deva-prāṇa-avana kara prasīda karuṇā-kara .. 5..
हत्वा ते तारकं दैत्यं परिवारयुतं विभो ॥ मोचितास्सकला देवा विपद्भ्यः परमेश्वर॥ ६॥
हत्वा ते तारकम् दैत्यम् परिवार-युतम् विभो ॥ मोचिताः सकलाः देवाः विपद्भ्यः परमेश्वर॥ ६॥
hatvā te tārakam daityam parivāra-yutam vibho .. mocitāḥ sakalāḥ devāḥ vipadbhyaḥ parameśvara.. 6..
ब्रह्मोवाच।।
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ॥ वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ॥ ७॥
एवम् स्तुतः कुमारः असौ देवैः विष्णु-मुखैः प्रभुः ॥ वरान् ददौ अभिनवान् सर्वेभ्यः क्रमशस् मुने ॥ ७॥
evam stutaḥ kumāraḥ asau devaiḥ viṣṇu-mukhaiḥ prabhuḥ .. varān dadau abhinavān sarvebhyaḥ kramaśas mune .. 7..
शैलान्निरीक्ष्य स्तुवतस्ततस्स गिरिशात्मजः ॥ सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ॥ ८॥
शैलान् निरीक्ष्य स्तुवतः ततस् स गिरिश-आत्मजः ॥ सु प्रसन्नतरः भूत्वा प्रोवाच प्रददत् वरान् ॥ ८॥
śailān nirīkṣya stuvataḥ tatas sa giriśa-ātmajaḥ .. su prasannataraḥ bhūtvā provāca pradadat varān .. 8..
स्कन्द उवाच ।।
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ॥ कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥ ९॥
यूयम् सर्वे पर्वताः हि पूजनीयाः तपस्विभिः ॥ कर्मिभिः ज्ञानिभिः च एव सेव्यमानाः भविष्यथ ॥ ९॥
yūyam sarve parvatāḥ hi pūjanīyāḥ tapasvibhiḥ .. karmibhiḥ jñānibhiḥ ca eva sevyamānāḥ bhaviṣyatha .. 9..
शंभोर्विशिष्टरूपाणि लिंगरूपाणि चैव हि ॥ भविष्यथ न संदेहः पर्वता वचनान्मम ॥ 2.4.12.१० ॥
शंभोः विशिष्ट-रूपाणि लिंग-रूपाणि च एव हि ॥ भविष्यथ न संदेहः पर्वताः वचनात् मम ॥ २।४।१२।१० ॥
śaṃbhoḥ viśiṣṭa-rūpāṇi liṃga-rūpāṇi ca eva hi .. bhaviṣyatha na saṃdehaḥ parvatāḥ vacanāt mama .. 2.4.12.10 ..
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ॥ तपस्विनां महाभागः फलदो हि भविष्यति ॥ ११॥
यः अयम् मातामहः मे अद्य हिमवान् पर्वत-उत्तमः ॥ तपस्विनाम् महाभागः फल-दः हि भविष्यति ॥ ११॥
yaḥ ayam mātāmahaḥ me adya himavān parvata-uttamaḥ .. tapasvinām mahābhāgaḥ phala-daḥ hi bhaviṣyati .. 11..
देवा ऊचुः ।।
एवं दत्त्वा वरान्हत्वा तारकं चासुराधिपम् ॥ त्वया कृताश्च सुखिनो वयं सर्वे चराचराः ॥ १२॥
एवम् दत्त्वा वरान् हत्वा तारकम् च असुर-अधिपम् ॥ त्वया कृताः च सुखिनः वयम् सर्वे चर-अचराः ॥ १२॥
evam dattvā varān hatvā tārakam ca asura-adhipam .. tvayā kṛtāḥ ca sukhinaḥ vayam sarve cara-acarāḥ .. 12..
इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ॥ जननी जनकौ द्रष्टुं शिवाशंभू त्वमर्हसि ॥ १३ ॥
इदानीम् खलु सु प्रीत्या कैलासम् गिरिश-आलयम् ॥ जननी जनकौ द्रष्टुम् शिव-अशंभू त्वम् अर्हसि ॥ १३ ॥
idānīm khalu su prītyā kailāsam giriśa-ālayam .. jananī janakau draṣṭum śiva-aśaṃbhū tvam arhasi .. 13 ..
ब्रह्मोवाच।।
इत्युक्त्वा निखिला देवा विष्ण्वाद्या प्राप्तशासनाः ॥ कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम् ॥ १४॥
इति उक्त्वा निखिलाः देवाः विष्णु-आद्या प्राप्त-शासनाः ॥ कृत्वा महा-उत्सवम् भूरि स कुमाराः ययुः गिरिम् ॥ १४॥
iti uktvā nikhilāḥ devāḥ viṣṇu-ādyā prāpta-śāsanāḥ .. kṛtvā mahā-utsavam bhūri sa kumārāḥ yayuḥ girim .. 14..
कुमारे गच्छति विभौ कैलासं शंकरालयम् ॥ महामंगलमुत्तस्थौ जयशब्दो बभूव ह ॥ १५॥
कुमारे गच्छति विभौ कैलासम् शंकर-आलयम् ॥ महा-मंगलम् उत्तस्थौ जय-शब्दः बभूव ह ॥ १५॥
kumāre gacchati vibhau kailāsam śaṃkara-ālayam .. mahā-maṃgalam uttasthau jaya-śabdaḥ babhūva ha .. 15..
आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ॥ सर्वतोलंकृतं रम्यं सर्वोपरि विराजितम् ॥ १६ ॥
आरुरोह कुमारः असौ विमानम् परम-ऋद्धिमत् ॥ सर्वतस् उलंकृतम् रम्यम् सर्व-उपरि विराजितम् ॥ १६ ॥
āruroha kumāraḥ asau vimānam parama-ṛddhimat .. sarvatas ulaṃkṛtam ramyam sarva-upari virājitam .. 16 ..
अहं विष्णुश्च समुदौ तदा चामरधारिणौ॥ गुह मूर्ध्नि महाप्रीत्या मुनेऽभूव ह्यतंद्रितौ ॥ १७॥
अहम् विष्णुः च तदा चामर-धारिणौ॥ गुह मूर्ध्नि महा-प्रीत्या मुने अभूव हि अतंद्रितौ ॥ १७॥
aham viṣṇuḥ ca tadā cāmara-dhāriṇau.. guha mūrdhni mahā-prītyā mune abhūva hi ataṃdritau .. 17..
इन्द्राद्या अमरास्सर्वे कुर्वंतो गुहसेवनम् ॥ यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा ॥ १८॥
इन्द्र-आद्याः अमराः सर्वे कुर्वंतः गुह-सेवनम् ॥ यथोचितम् चतुर्-दिक्षु जग्मुः च प्रमुदाः तदा ॥ १८॥
indra-ādyāḥ amarāḥ sarve kurvaṃtaḥ guha-sevanam .. yathocitam catur-dikṣu jagmuḥ ca pramudāḥ tadā .. 18..
शंभोर्जयं प्रभाषंतः प्रापुस्ते शंभुपर्वतम् ॥ सानंदा विविशुस्तत्रोच्चरितो मंगलध्वनिः ॥ १९ ॥
शंभोः जयम् प्रभाषंतः प्रापुः ते शंभुपर्वतम् ॥ स आनंदाः विविशुः तत्र उच्चरितः मंगल-ध्वनिः ॥ १९ ॥
śaṃbhoḥ jayam prabhāṣaṃtaḥ prāpuḥ te śaṃbhuparvatam .. sa ānaṃdāḥ viviśuḥ tatra uccaritaḥ maṃgala-dhvaniḥ .. 19 ..
दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ॥ प्रणम्य शंकरं भक्त्या करौ बद्ध्वा विनम्रकाः ॥ 2.4.12.२०॥
दृष्ट्वा शिवम् शिवाम् च एव सर्वे विष्णु-आदयः द्रुतम् ॥ प्रणम्य शंकरम् भक्त्या करौ बद्ध्वा विनम्रकाः ॥ २।४।१२।२०॥
dṛṣṭvā śivam śivām ca eva sarve viṣṇu-ādayaḥ drutam .. praṇamya śaṃkaram bhaktyā karau baddhvā vinamrakāḥ .. 2.4.12.20..
कुमारोऽपि विनीतात्मा विमानादवतीर्य च ॥ प्रणनाम मुदा शंभुं शिवां सिंहासनस्थिताम् ॥ २१॥
कुमारः अपि विनीत-आत्मा विमानात् अवतीर्य च ॥ प्रणनाम मुदा शंभुम् शिवाम् सिंहासन-स्थिताम् ॥ २१॥
kumāraḥ api vinīta-ātmā vimānāt avatīrya ca .. praṇanāma mudā śaṃbhum śivām siṃhāsana-sthitām .. 21..
अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् ॥ तौ दंपती शिवौ देवौ मुमुदातेऽति नारद ॥ २२॥
अथ दृष्ट्वा कुमारम् तम् तनयम् प्राण-वल्लभम् ॥ तौ दंपती शिवौ देवौ मुमुदाते अति नारद ॥ २२॥
atha dṛṣṭvā kumāram tam tanayam prāṇa-vallabham .. tau daṃpatī śivau devau mumudāte ati nārada .. 22..
महाप्रभुस्समुत्थाप्य तमुत्संगे न्यवेशयत् ॥ मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह ॥ २३॥
महा-प्रभुः समुत्थाप्य तम् उत्संगे न्यवेशयत् ॥ मूर्ध्नि जघ्रौ मुदा स्नेहात् तम् पस्पर्श करेण ह ॥ २३॥
mahā-prabhuḥ samutthāpya tam utsaṃge nyaveśayat .. mūrdhni jaghrau mudā snehāt tam pasparśa kareṇa ha .. 23..
महानंदभरः शंभुश्चकार मुखचुंबनम् ॥ कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः ॥ २४ ॥
महा-आनंद-भरः शंभुः चकार मुख-चुंबनम् ॥ कुमारस्य महा-स्नेहात् तारकारेः महा-प्रभोः ॥ २४ ॥
mahā-ānaṃda-bharaḥ śaṃbhuḥ cakāra mukha-cuṃbanam .. kumārasya mahā-snehāt tārakāreḥ mahā-prabhoḥ .. 24 ..
शिवापि तं समुत्थाप्य स्वोत्संगे संन्यवेशयत् ॥ कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि ॥ २५॥
शिवा अपि तम् समुत्थाप्य स्व-उत्संगे संन्यवेशयत् ॥ कृत्वा मूर्ध्नि महा-स्नेहात् तद्-मुख-अब्जम् चुचुम्ब हि ॥ २५॥
śivā api tam samutthāpya sva-utsaṃge saṃnyaveśayat .. kṛtvā mūrdhni mahā-snehāt tad-mukha-abjam cucumba hi .. 25..
तयोस्तदा महामोदो ववृधेऽतीव नारद॥ दंपत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः॥ २६॥
तयोः तदा महा-आमोदः ववृधे अतीव नारद॥ दंपत्योः शिवयोः तात भव-आचारम् प्रकुर्वतोः॥ २६॥
tayoḥ tadā mahā-āmodaḥ vavṛdhe atīva nārada.. daṃpatyoḥ śivayoḥ tāta bhava-ācāram prakurvatoḥ.. 26..
तदोत्सवो महानासीन्नानाविधिः शिवालये ॥ जयशब्दो नमश्शब्दो बभूवातीव सर्वतः ॥ २७ ॥
तदा उत्सवः महान् आसीत् नाना विधिः शिवालये ॥ जय-शब्दः नमः-शब्दः बभूव अतीव सर्वतस् ॥ २७ ॥
tadā utsavaḥ mahān āsīt nānā vidhiḥ śivālaye .. jaya-śabdaḥ namaḥ-śabdaḥ babhūva atīva sarvatas .. 27 ..
ततस्सुरगणास्सर्वे विष्ण्वाद्या मुनयस्तथा ॥ सुप्रणम्य मुदा शंभुं तुष्टुवुस्सशिवं मुने ॥ २८ ॥
ततस् सुर-गणाः सर्वे विष्णु-आद्याः मुनयः तथा ॥ सु प्रणम्य मुदा शंभुम् तुष्टुवुः स शिवम् मुने ॥ २८ ॥
tatas sura-gaṇāḥ sarve viṣṇu-ādyāḥ munayaḥ tathā .. su praṇamya mudā śaṃbhum tuṣṭuvuḥ sa śivam mune .. 28 ..
देवा ऊचुः ।।
देवदेव महादेव भक्तानामभयप्रद ॥ नमो नमस्ते बहुशः कृपाकर महेश्वर ॥ २९ ॥
देवदेव महादेव भक्तानाम् अभय-प्रद ॥ नमः नमः ते बहुशस् कृपा-कर महेश्वर ॥ २९ ॥
devadeva mahādeva bhaktānām abhaya-prada .. namaḥ namaḥ te bahuśas kṛpā-kara maheśvara .. 29 ..
अद्भुता ते महादेव महालीला सुखप्रदा ॥ सर्वेषां शंकर सतां दीनबंधो महाप्रभो ॥ 2.4.12.३० ॥
अद्भुता ते महादेव महा-लीला सुख-प्रदा ॥ सर्वेषाम् शंकर सताम् दीन-बंधो महा-प्रभो ॥ २।४।१२।३० ॥
adbhutā te mahādeva mahā-līlā sukha-pradā .. sarveṣām śaṃkara satām dīna-baṃdho mahā-prabho .. 2.4.12.30 ..
एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ॥ आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम् ॥ ३१ ॥
एवम् मूढ-धियः च अज्ञाः पूजायाम् ते सनातनम् ॥ आवाहनम् न जानीमः गतिम् ना एव प्रभा-उद्भुताम् ॥ ३१ ॥
evam mūḍha-dhiyaḥ ca ajñāḥ pūjāyām te sanātanam .. āvāhanam na jānīmaḥ gatim nā eva prabhā-udbhutām .. 31 ..
गंगासलिलधाराय ह्याधाराय गुणात्मने ॥ नमस्ते त्रिदशेशाय शंकराय नमोनमः ।३२॥
गंगा-सलिल-धाराय हि आधाराय गुण-आत्मने ॥ नमः ते त्रिदश-ईशाय शंकराय नमः नमः ।३२॥
gaṃgā-salila-dhārāya hi ādhārāya guṇa-ātmane .. namaḥ te tridaśa-īśāya śaṃkarāya namaḥ namaḥ .32..
वृषांकाय महेशाय गणानां पतये नमः ॥ सर्वेश्वराय देवाय त्रिलोकपतये नमः ॥ ३३॥
वृषांकाय महेशाय गणानाम् पतये नमः ॥ सर्वेश्वराय देवाय त्रिलोक-पतये नमः ॥ ३३॥
vṛṣāṃkāya maheśāya gaṇānām pataye namaḥ .. sarveśvarāya devāya triloka-pataye namaḥ .. 33..
संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ॥ भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ॥ ३४॥
संहर्त्रे जगताम् नाथ सर्वेषाम् ते नमः नमः ॥ भर्त्रे कर्त्रे च देवेश त्रिगुण-ईशाय शाश्वते ॥ ३४॥
saṃhartre jagatām nātha sarveṣām te namaḥ namaḥ .. bhartre kartre ca deveśa triguṇa-īśāya śāśvate .. 34..
विसंगाय परेशाय शिवाय परमात्मने ॥ निष्प्रपंचाय शुद्धाय परमायाव्ययाय च ॥ ३५॥
विसंगाय परेशाय शिवाय परमात्मने ॥ निष्प्रपंचाय शुद्धाय परमाय अव्ययाय च ॥ ३५॥
visaṃgāya pareśāya śivāya paramātmane .. niṣprapaṃcāya śuddhāya paramāya avyayāya ca .. 35..
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ॥ वेदमंत्रप्रधानाय शतजिह्वाय ते नमः ॥ ३६॥
दण्ड-हस्ताय कालाय पाश-हस्ताय ते नमः ॥ वेद-मंत्र-प्रधानाय शतजिह्वाय ते नमः ॥ ३६॥
daṇḍa-hastāya kālāya pāśa-hastāya te namaḥ .. veda-maṃtra-pradhānāya śatajihvāya te namaḥ .. 36..
भूतं भव्यं भविष्यच्च स्थावरं जंगमं च यत् ॥ तव देहात्समुत्पन्नं सर्वथा परमेश्वर ॥ ३७॥
भूतम् भव्यम् भविष्यत् च स्थावरम् जंगमम् च यत् ॥ तव देहात् समुत्पन्नम् सर्वथा परमेश्वर ॥ ३७॥
bhūtam bhavyam bhaviṣyat ca sthāvaram jaṃgamam ca yat .. tava dehāt samutpannam sarvathā parameśvara .. 37..
पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ॥ वयं ते शरणापन्नाः सर्वथा परमेश्वर ॥ ३८॥
पाहि नः सर्वदा स्वामिन् प्रसीद भगवन् प्रभो ॥ वयम् ते शरण-आपन्नाः सर्वथा परमेश्वर ॥ ३८॥
pāhi naḥ sarvadā svāmin prasīda bhagavan prabho .. vayam te śaraṇa-āpannāḥ sarvathā parameśvara .. 38..
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ॥ अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९ ॥
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ॥ अरूपाय सरूपाय विश्वरूपाय ते नमः ॥ ३९ ॥
śitikaṇṭhāya rudrāya svāhākārāya te namaḥ .. arūpāya sarūpāya viśvarūpāya te namaḥ .. 39 ..
शिवाय नीलकंठाय चिताभस्मांगधारिणे ॥ नित्यं नीलशिखंडाय श्रीकण्ठाय नमोनमः ॥ 2.4.12.४० ॥
शिवाय नीलकंठाय चिता-भस्म-अंग-धारिणे ॥ नित्यम् नीलशिखंडाय श्रीकण्ठाय नमः नमः ॥ २।४।१२।४० ॥
śivāya nīlakaṃṭhāya citā-bhasma-aṃga-dhāriṇe .. nityam nīlaśikhaṃḍāya śrīkaṇṭhāya namaḥ namaḥ .. 2.4.12.40 ..
सर्वप्रणतदेहाय संयमप्रणताय च ॥ महादेवाय शर्वाय सर्वार्चितपदाय च ॥ ४१ ॥
सर्व-प्रणत-देहाय संयम-प्रणताय च ॥ महादेवाय शर्वाय सर्व-अर्चित-पदाय च ॥ ४१ ॥
sarva-praṇata-dehāya saṃyama-praṇatāya ca .. mahādevāya śarvāya sarva-arcita-padāya ca .. 41 ..
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यसे ॥ ४२॥
त्वम् ब्रह्मा सर्व-देवानाम् रुद्राणाम् नीललोहितः ॥ आत्मा च सर्व-भूतानाम् सांख्यैः पुरुषः उच्यसे ॥ ४२॥
tvam brahmā sarva-devānām rudrāṇām nīlalohitaḥ .. ātmā ca sarva-bhūtānām sāṃkhyaiḥ puruṣaḥ ucyase .. 42..
पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ॥ ऋषीणां च वशिष्ठस्त्वं देवानां वासवस्तथा ॥ ४३ ॥
पर्वतानाम् सुमेरुः त्वम् नक्षत्राणाम् च चन्द्रमाः ॥ ऋषीणाम् च वशिष्ठः त्वम् देवानाम् वासवः तथा ॥ ४३ ॥
parvatānām sumeruḥ tvam nakṣatrāṇām ca candramāḥ .. ṛṣīṇām ca vaśiṣṭhaḥ tvam devānām vāsavaḥ tathā .. 43 ..
अकारस्सर्ववेदानां त्राता भव महेश्वर ॥ त्वं च लोकहितार्थाय भूतानि परिषिंचसि ॥ ४४॥
अकारः सर्व-वेदानाम् त्राता भव महेश्वर ॥ त्वम् च लोक-हित-अर्थाय भूतानि परिषिंचसि ॥ ४४॥
akāraḥ sarva-vedānām trātā bhava maheśvara .. tvam ca loka-hita-arthāya bhūtāni pariṣiṃcasi .. 44..
महेश्वर महाभाग शुभाशुभनिरीक्षक ॥ आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ॥ ४५॥
महेश्वर महाभाग शुभ-अशुभ-निरीक्षक ॥ आप्याय अस्मान् हि देवेश कर्तॄन् वै वचनम् तव ॥ ४५॥
maheśvara mahābhāga śubha-aśubha-nirīkṣaka .. āpyāya asmān hi deveśa kartṝn vai vacanam tava .. 45..
रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ॥ अंतं गंतुं न शक्ताः स्म देवदेव नमोस्तु ते ॥ ४६ ॥
रूप-कोटि-सहस्रेषु रूप-कोटि-शतेषु ते ॥ अंतम् गंतुम् न शक्ताः स्म देवदेव नमः अस्तु ते ॥ ४६ ॥
rūpa-koṭi-sahasreṣu rūpa-koṭi-śateṣu te .. aṃtam gaṃtum na śaktāḥ sma devadeva namaḥ astu te .. 46 ..
।। ब्रह्मोवाच ।।
इति स्तुत्वाखिला देवा विष्ण्वाद्या प्रमुखस्थिताः ॥ मुहुर्मुहुस्सुप्रणम्य स्कंदं कृत्वा पुरस्सरम् ॥ ४७॥
इति स्तुत्वा अखिलाः देवाः विष्णु-आद्या प्रमुख-स्थिताः ॥ मुहुर् मुहुर् सु प्रणम्य स्कंदम् कृत्वा पुरस्सरम् ॥ ४७॥
iti stutvā akhilāḥ devāḥ viṣṇu-ādyā pramukha-sthitāḥ .. muhur muhur su praṇamya skaṃdam kṛtvā purassaram .. 47..
देवस्तुतिं समाकर्ण्य शिवस्सर्वेश्वरस्स्वराट् ॥ सुप्रसन्नो बभूवाथ विजहास दयापरः ॥ ४८ ॥
देव-स्तुतिम् समाकर्ण्य शिवः सर्व-ईश्वरः स्वराज् ॥ सु प्रसन्नः बभूव अथ विजहास दया-परः ॥ ४८ ॥
deva-stutim samākarṇya śivaḥ sarva-īśvaraḥ svarāj .. su prasannaḥ babhūva atha vijahāsa dayā-paraḥ .. 48 ..
उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ॥ शंकरः परमेशानो दीनबंधुस्सतां गतिः ॥ ४९॥
उवाच सु प्रसन्न-आत्मा विष्णु-आदीन् सुर-सत्तमान् ॥ शंकरः परमेशानः दीन-बंधुः सताम् गतिः ॥ ४९॥
uvāca su prasanna-ātmā viṣṇu-ādīn sura-sattamān .. śaṃkaraḥ parameśānaḥ dīna-baṃdhuḥ satām gatiḥ .. 49..
शिव उवाच ।।
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ॥ सर्वथाहं सतां त्राता देवानां वः कृपानिधिः ॥ 2.4.12.५० ॥
हे हरे हे विधे देवाः वाक्यम् मे शृणुत आदरात् ॥ सर्वथा अहम् सताम् त्राता देवानाम् वः कृपा-निधिः ॥ २।४।१२।५० ॥
he hare he vidhe devāḥ vākyam me śṛṇuta ādarāt .. sarvathā aham satām trātā devānām vaḥ kṛpā-nidhiḥ .. 2.4.12.50 ..
दुष्टहंता त्रिलोकेशश्शंकरो भक्तवत्सलः ॥ कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान् ॥ ५१ ॥
दुष्ट-हंता त्रिलोक-ईशः शंकरः भक्त-वत्सलः ॥ कर्ता भर्ता च हर्ता च सर्वेषाम् निर्विकारवान् ॥ ५१ ॥
duṣṭa-haṃtā triloka-īśaḥ śaṃkaraḥ bhakta-vatsalaḥ .. kartā bhartā ca hartā ca sarveṣām nirvikāravān .. 51 ..
यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ॥ तदा तदा मां यूयं वै भजंतु सुखहेतवे ॥ ५२ ॥
यदा यदा भवेत् दुःखम् युष्माकम् देव-सत्तमाः ॥ तदा तदा माम् यूयम् वै भजंतु सुख-हेतवे ॥ ५२ ॥
yadā yadā bhavet duḥkham yuṣmākam deva-sattamāḥ .. tadā tadā mām yūyam vai bhajaṃtu sukha-hetave .. 52 ..
ब्रह्मोवाच ।।
इत्याज्ञप्तस्तदा देवा विष्ण्वाद्यास्समुनीश्वराः ॥ शिवं प्रणम्य सशिवं कुमारं च मुदान्विताः ॥ ५३॥
इति आज्ञप्तः तदा देवाः विष्णु-आद्याः स मुनि-ईश्वराः ॥ शिवम् प्रणम्य स शिवम् कुमारम् च मुदा अन्विताः ॥ ५३॥
iti ājñaptaḥ tadā devāḥ viṣṇu-ādyāḥ sa muni-īśvarāḥ .. śivam praṇamya sa śivam kumāram ca mudā anvitāḥ .. 53..
कथयंतो यशो रम्यं शिवयोश्शांकरेश्च तत् ॥ आनन्दं परमं प्राप्य स्वधामानि ययु र्मुने ॥ ५४॥
कथयंतः यशः रम्यम् शिवयोः शांकरेः च तत् ॥ आनन्दम् परमम् प्राप्य स्व-धामानि ययुः मुने ॥ ५४॥
kathayaṃtaḥ yaśaḥ ramyam śivayoḥ śāṃkareḥ ca tat .. ānandam paramam prāpya sva-dhāmāni yayuḥ mune .. 54..
शिवोपि शिवया सार्द्धं सगणः परमेश्वरः ॥ कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा ॥ ५५॥
शिवः अपि शिवया सार्द्धम् स गणः परमेश्वरः ॥ कुमारेण युतः प्रीत्या उवास तस्मिन् गिरौ मुदा ॥ ५५॥
śivaḥ api śivayā sārddham sa gaṇaḥ parameśvaraḥ .. kumāreṇa yutaḥ prītyā uvāsa tasmin girau mudā .. 55..
इत्येवं कथितं सर्वं कौमारं चरितं मुने ॥ शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि ॥ ५६॥
इति एवम् कथितम् सर्वम् कौमारम् चरितम् मुने ॥ शैवम् च सुख-दम् दिव्यम् किम् अन्यत् श्रोतुम् इच्छसि ॥ ५६॥
iti evam kathitam sarvam kaumāram caritam mune .. śaivam ca sukha-dam divyam kim anyat śrotum icchasi .. 56..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखंडे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनम् नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṃḍe svāmikārtikacaritagarbhitaśivāśivacaritavarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In