| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ॥ नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ॥ १ ॥
तारकारेः इति श्रुत्वा वृत्तम् अद्भुतम् उत्तमम् ॥ नारदः सु प्रसन्नः उथ पप्रच्छ प्रीतितः विधिम् ॥ १ ॥
tārakāreḥ iti śrutvā vṛttam adbhutam uttamam .. nāradaḥ su prasannaḥ utha papraccha prītitaḥ vidhim .. 1 ..
नारद उवाच ।।
देवदेव प्रजानाथ शिवज्ञाननिधे मया ॥ श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ॥ २ ।
देवदेव प्रजानाथ शिव-ज्ञान-निधे मया ॥ श्रुतम् कार्तिक-सत्-वृत्तम् अमृतात् अपि च उत्तमम् ॥ २ ।
devadeva prajānātha śiva-jñāna-nidhe mayā .. śrutam kārtika-sat-vṛttam amṛtāt api ca uttamam .. 2 .
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ॥ तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ॥ ३॥
अधुना श्रोतुम् इच्छामि गाणेशम् वृत्तम् उत्तमम् ॥ तद्-जन्म-चरितम् दिव्यम् सर्व-मंगल-मंगलम् ॥ ३॥
adhunā śrotum icchāmi gāṇeśam vṛttam uttamam .. tad-janma-caritam divyam sarva-maṃgala-maṃgalam .. 3..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ॥ प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ॥ ४ ॥
इति आकर्ण्य वचः तस्य नारदस्य महा-मुने ॥ प्रसन्न-मानसः ब्रह्मा प्रत्युवाच शिवम् स्मरन् ॥ ४ ॥
iti ākarṇya vacaḥ tasya nāradasya mahā-mune .. prasanna-mānasaḥ brahmā pratyuvāca śivam smaran .. 4 ..
ब्रह्मोवाच ।।
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात्॥ शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्॥ ५॥
कल्प-भेदात् गणेशस्य जनिः प्रोक्ता विधेः परात्॥ शनि-दृष्टम् शिरः छिन्नम् संचितम् गजम् आननम्॥ ५॥
kalpa-bhedāt gaṇeśasya janiḥ proktā vidheḥ parāt.. śani-dṛṣṭam śiraḥ chinnam saṃcitam gajam ānanam.. 5..
इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ॥ यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ॥ ६॥
इदानीम् श्वेतकल्प-उक्ता गणेश-उत्पत्तिः उच्यते ॥ यत्र छिन्नम् शिरः तस्य शिवेन च कृपालुना ॥ ६॥
idānīm śvetakalpa-uktā gaṇeśa-utpattiḥ ucyate .. yatra chinnam śiraḥ tasya śivena ca kṛpālunā .. 6..
संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ॥ स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि ॥ ७॥
संदेहः न अत्र कर्तव्यः शंकरः सूतिकृत् मुने ॥ स हि सर्व-अधिपः शंभुः निर्गुणः स गुणः अपि हि ॥ ७॥
saṃdehaḥ na atra kartavyaḥ śaṃkaraḥ sūtikṛt mune .. sa hi sarva-adhipaḥ śaṃbhuḥ nirguṇaḥ sa guṇaḥ api hi .. 7..
तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ॥ विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ॥ ८॥
तद्-लीलया अखिलम् विश्वम् सृज्यते पाल्यते तथा ॥ विनाश्यते मुनि-श्रेष्ठ प्रस्तुतम् शृणु च आदरात् ॥ ८॥
tad-līlayā akhilam viśvam sṛjyate pālyate tathā .. vināśyate muni-śreṣṭha prastutam śṛṇu ca ādarāt .. 8..
उद्वाहिते शिवे चात्र कैलासं च गते सति ॥ कियता चैव कालेन जातो गणपतेर्भवः ॥ ९ ॥
उद्वाहिते शिवे च अत्र कैलासम् च गते सति ॥ कियता च एव कालेन जातः गणपतेः भवः ॥ ९ ॥
udvāhite śive ca atra kailāsam ca gate sati .. kiyatā ca eva kālena jātaḥ gaṇapateḥ bhavaḥ .. 9 ..
एकस्मिन्नेव काले च जया च विजया सखी ॥ पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ॥ 2.4.13.१० ॥
एकस्मिन् एव काले च जया च विजया सखी ॥ पार्वत्या च मिलित्वा वै विचारे तत्परा अभवत् ॥ २।४।१३।१० ॥
ekasmin eva kāle ca jayā ca vijayā sakhī .. pārvatyā ca militvā vai vicāre tatparā abhavat .. 2.4.13.10 ..
रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ॥ ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः ॥ ११॥
रुद्रस्य च गणाः सर्वे शिवस्य आज्ञा-परायणाः ॥ ते सर्वे अपि अस्मदीयाः च नन्दि-भृंगि-पुरस्सराः ॥ ११॥
rudrasya ca gaṇāḥ sarve śivasya ājñā-parāyaṇāḥ .. te sarve api asmadīyāḥ ca nandi-bhṛṃgi-purassarāḥ .. 11..
प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ॥ द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ॥ १२ ॥
प्रमथाः ते हि असंख्याताः अस्मदीयः न कश्चन ॥ द्वारि तिष्ठन्ति ते सर्वे शंकर-आज्ञा-परायणाः ॥ १२ ॥
pramathāḥ te hi asaṃkhyātāḥ asmadīyaḥ na kaścana .. dvāri tiṣṭhanti te sarve śaṃkara-ājñā-parāyaṇāḥ .. 12 ..
ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ॥ एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ॥ १३ ॥
ते सर्वे इपि अस्मदीयान् च तथा अपि न मिलेत् मनः ॥ एकः च एव अस्मदीयः हि रचनीयः त्वया अनघे ॥ १३ ॥
te sarve ipi asmadīyān ca tathā api na milet manaḥ .. ekaḥ ca eva asmadīyaḥ hi racanīyaḥ tvayā anaghe .. 13 ..
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ॥ हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति॥ १४ ॥
इति उक्त्वा पार्वती देवी सखीभ्याम् सुन्दरम् वचः ॥ हितम् मेने तदा तत् च कर्तुम् स्म अपि अध्यवस्यति॥ १४ ॥
iti uktvā pārvatī devī sakhībhyām sundaram vacaḥ .. hitam mene tadā tat ca kartum sma api adhyavasyati.. 14 ..
ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ॥ नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम् ॥ १५॥
ततस् कदाचिद् मज्जत्याम् पार्वत्याम् वै सदाशिवः ॥ नंदिनम् परिभर्त्स्य अथ हि आजगाम गृह-अंतरम् ॥ १५॥
tatas kadācid majjatyām pārvatyām vai sadāśivaḥ .. naṃdinam paribhartsya atha hi ājagāma gṛha-aṃtaram .. 15..
आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ॥ उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥
आयान्तम् शंकरम् दृष्ट्वा असमये जगदंबिका ॥ उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ॥ १६॥
āyāntam śaṃkaram dṛṣṭvā asamaye jagadaṃbikā .. uttasthau majjatī sā vai lajjitā sundarī tadā .. 16..
तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ॥ तदीयं तद्वचश्चैव हितं मेने सुखावहम् ॥ १७ ॥
तस्मिन् अवसरे देवी कौतुकेन अति संयुता ॥ तदीयम् तत् वचः च एव हितम् मेने सुख-आवहम् ॥ १७ ॥
tasmin avasare devī kautukena ati saṃyutā .. tadīyam tat vacaḥ ca eva hitam mene sukha-āvaham .. 17 ..
एवं जाते सदा काले कदाचित्पार्वती शिवा ॥ विचिंत्य मनसा चेति परमाया परेश्वरी ॥ १८ ॥
एवम् जाते सदा काले कदाचिद् पार्वती शिवा ॥ विचिंत्य मनसा च इति परमाया पर-ईश्वरी ॥ १८ ॥
evam jāte sadā kāle kadācid pārvatī śivā .. viciṃtya manasā ca iti paramāyā para-īśvarī .. 18 ..
मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ॥ मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ॥ १९ ॥
मदीयः सेवकः कश्चिद् भवेत् शुभतरः कृती ॥ मद्-आज्ञया परम् न अन्यत् रेखा-मात्रम् चलेत् इह ॥ १९ ॥
madīyaḥ sevakaḥ kaścid bhavet śubhataraḥ kṛtī .. mad-ājñayā param na anyat rekhā-mātram calet iha .. 19 ..
विचार्येति च सा देवी वपुषो मलसंभवम् ॥ पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ॥ 2.4.13.२० ॥
विचार्य इति च सा देवी वपुषः मल-संभवम् ॥ पुरुषम् निर्ममौ सा तु सर्व-लक्षण-संयुतम् ॥ २।४।१३।२० ॥
vicārya iti ca sā devī vapuṣaḥ mala-saṃbhavam .. puruṣam nirmamau sā tu sarva-lakṣaṇa-saṃyutam .. 2.4.13.20 ..
सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ॥ विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ॥ २१॥
सर्व-अवयव-निर्द्दोषम् सर्व-अवयव-सुन्दरम् ॥ विशालम् सर्व-शोभा-आढ्यम् महा-बल-पराक्रमम् ॥ २१॥
sarva-avayava-nirddoṣam sarva-avayava-sundaram .. viśālam sarva-śobhā-āḍhyam mahā-bala-parākramam .. 21..
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ॥ नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ।1२२॥
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ॥ नाना अलंकरणम् च एव बहु-आशिषम् अनुत्तमाम् ।१२२॥
vastrāṇi ca tadā tasmai dattvā sā vividhāni hi .. nānā alaṃkaraṇam ca eva bahu-āśiṣam anuttamām .122..
मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ॥ एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ॥ २३ ॥
मद्-पुत्रः त्वम् मदीयः असि न अन्यः कश्चिद् इह अस्ति मे ॥ एवम् उक्तस्य पुरुषः नमस्कृत्य शिवाम् जगौ ॥ २३ ॥
mad-putraḥ tvam madīyaḥ asi na anyaḥ kaścid iha asti me .. evam uktasya puruṣaḥ namaskṛtya śivām jagau .. 23 ..
गणेश उवाच ।।
किं कार्यं विद्यते तेद्य करवाणि तवोदितम्॥ इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ॥ २४॥
किम् कार्यम् विद्यते ते इद्य करवाणि तव उदितम्॥ इति उक्ता सा तदा तेन प्रत्युवाच सुतम् शिवा ॥ २४॥
kim kāryam vidyate te idya karavāṇi tava uditam.. iti uktā sā tadā tena pratyuvāca sutam śivā .. 24..
शिवोवाच।।
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ॥ मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ॥ २५॥
हे तात शृणु मद्-वाक्यम् द्वारपालः भव अद्य मे ॥ मद्-पुत्रः त्वम् मदीयः असि न अन्यथा कश्चिद् अस्ति मे ॥ २५॥
he tāta śṛṇu mad-vākyam dvārapālaḥ bhava adya me .. mad-putraḥ tvam madīyaḥ asi na anyathā kaścid asti me .. 25..
विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ॥ कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ॥ २६ ॥
विना मद्-आज्ञाम् मद्-पुत्र ना एव अयात् म गृह-अन्तरम् ॥ कः अपि क्वापि हठात् तात सत्यम् एतत् मया उदितम् ॥ २६ ॥
vinā mad-ājñām mad-putra nā eva ayāt ma gṛha-antaram .. kaḥ api kvāpi haṭhāt tāta satyam etat mayā uditam .. 26 ..
ब्रह्मोवाच ।।
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ॥ तदीयं रूपमालोक्य सुन्दरं हर्षमागता ॥ २७ ॥
इति उक्त्वा च ददौ तस्मै यष्टिम् च अति दृढाम् मुने ॥ तदीयम् रूपम् आलोक्य सुन्दरम् हर्षम् आगता ॥ २७ ॥
iti uktvā ca dadau tasmai yaṣṭim ca ati dṛḍhām mune .. tadīyam rūpam ālokya sundaram harṣam āgatā .. 27 ..
मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ॥ स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ॥ २८॥
मुखम् आचुंब्य सु प्रीत्या आलिंग्य तम् कृपया सुतम् ॥ स्व-द्वारि स्थापयामास यष्टि-पाणिम् गणाधिपम् ॥ २८॥
mukham ācuṃbya su prītyā āliṃgya tam kṛpayā sutam .. sva-dvāri sthāpayāmāsa yaṣṭi-pāṇim gaṇādhipam .. 28..
अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ॥ यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ॥ २९ ॥
अथ देवी-सुतः तात गृह-द्वारि स्थितः गणः ॥ यष्टि-पाणिः महावीरः पार्वती-हित-काम्यया ॥ २९ ॥
atha devī-sutaḥ tāta gṛha-dvāri sthitaḥ gaṇaḥ .. yaṣṭi-pāṇiḥ mahāvīraḥ pārvatī-hita-kāmyayā .. 29 ..
स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ॥ स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ॥ 2.4.13.३० ॥
स्व-द्वारि स्थापयित्वा तम् गणेशम् स्व-सुतम् शिवा ॥ स्वयम् च मज्जती सा वै संस्थिता आसीत् सखी-युता ॥ २।४।१३।३० ॥
sva-dvāri sthāpayitvā tam gaṇeśam sva-sutam śivā .. svayam ca majjatī sā vai saṃsthitā āsīt sakhī-yutā .. 2.4.13.30 ..
एतस्मिन्नेव काले तु शिवो द्वारि समागतः ॥ कौतुकी मुनिर्शादूल नानालीलाविशारदः ॥ ३१॥
एतस्मिन् एव काले तु शिवः द्वारि समागतः ॥ कौतुकी मुनिः शादूल नाना लीला-विशारदः ॥ ३१॥
etasmin eva kāle tu śivaḥ dvāri samāgataḥ .. kautukī muniḥ śādūla nānā līlā-viśāradaḥ .. 31..
उवाच च शिवेशं तमविज्ञाय गणाधिपः ॥ मातुराज्ञां विना देव गम्यतां न त्वया धुना ॥ ३२ ॥
उवाच च शिव-ईशम् तम् अ विज्ञाय गणाधिपः ॥ मातुः आज्ञाम् विना देव गम्यताम् न त्वया धुना ॥ ३२ ॥
uvāca ca śiva-īśam tam a vijñāya gaṇādhipaḥ .. mātuḥ ājñām vinā deva gamyatām na tvayā dhunā .. 32 ..
मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ॥ इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ॥ ३३ ॥
मज्जन-अर्थम् स्थिता माता क्व यासि इतस् व्रज अधुना ॥ इति उक्त्वा यष्टिकाम् तस्य रोधनाय तदा अग्रहीत् ॥ ३३ ॥
majjana-artham sthitā mātā kva yāsi itas vraja adhunā .. iti uktvā yaṣṭikām tasya rodhanāya tadā agrahīt .. 33 ..
तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ॥ मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा ॥ ३४ ॥
तम् दृष्ट्वा तु शिवः प्राह कम् निषेधसि मूढ-धीः ॥ माम् न जानासि असत्-बुद्धे शिवः हम् इति ना अन्यथा ॥ ३४ ॥
tam dṛṣṭvā tu śivaḥ prāha kam niṣedhasi mūḍha-dhīḥ .. mām na jānāsi asat-buddhe śivaḥ ham iti nā anyathā .. 34 ..
ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ॥ प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ॥ ३५॥
ताडितः तेन यष्ट्या हि गणेशेन महेश्वरः ॥ प्रत्युवाच स तम् पुत्रम् बहुलीलः च कोपितः ॥ ३५॥
tāḍitaḥ tena yaṣṭyā hi gaṇeśena maheśvaraḥ .. pratyuvāca sa tam putram bahulīlaḥ ca kopitaḥ .. 35..
शिव उवाच ।।
मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ॥ स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ॥ ३६ ॥
मुर्खः असि त्वम् न जानासि शिवः उहम् गिरिजापतिः ॥ स्व-गृहम् यामि रे बाल निषेधसि कथम् हि माम् ॥ ३६ ॥
murkhaḥ asi tvam na jānāsi śivaḥ uham girijāpatiḥ .. sva-gṛham yāmi re bāla niṣedhasi katham hi mām .. 36 ..
इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ॥ क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः ॥ ३७ ॥
इति उक्त्वा प्रविशन्तम् तम् महेशम् गणनायकः ॥ क्रोधम् कृत्वा ततस् विप्र दंडेन अताडयत् पुनर् ॥ ३७ ॥
iti uktvā praviśantam tam maheśam gaṇanāyakaḥ .. krodham kṛtvā tatas vipra daṃḍena atāḍayat punar .. 37 ..
ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ॥ को वायं वर्तते किंच क्रियते पश्यतां गणाः ॥ ३८ ॥
ततस् शिवः च संक्रुद्धः गणान् आज्ञापयत् निजान् ॥ कः वा अयम् वर्तते किंच क्रियते पश्यताम् गणाः ॥ ३८ ॥
tatas śivaḥ ca saṃkruddhaḥ gaṇān ājñāpayat nijān .. kaḥ vā ayam vartate kiṃca kriyate paśyatām gaṇāḥ .. 38 ..
इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ॥ भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः॥ ३९ ॥
इति उक्त्वा तु शिवः तत्र स्थितः क्रुद्धः गृहात् बहिस् ॥ भव-आचार-रतः स्वामी बहु-अद्भुत-सु लीलकः॥ ३९ ॥
iti uktvā tu śivaḥ tatra sthitaḥ kruddhaḥ gṛhāt bahis .. bhava-ācāra-rataḥ svāmī bahu-adbhuta-su līlakaḥ.. 39 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनम् नाम त्रयोदशः अध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśotpattivarṇanam nāma trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In