| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
गणास्ते क्रोधसंपन्नास्तत्र गत्वा शिवाज्ञया ॥ पप्रच्छुर्गिरिजापुत्रं तं तदा द्वारपालकम् ॥ १ ॥
गणाः ते क्रोध-संपन्नाः तत्र गत्वा शिव-आज्ञया ॥ पप्रच्छुः गिरिजा-पुत्रम् तम् तदा द्वारपालकम् ॥ १ ॥
gaṇāḥ te krodha-saṃpannāḥ tatra gatvā śiva-ājñayā .. papracchuḥ girijā-putram tam tadā dvārapālakam .. 1 ..
।। शिवगणा ऊचुः ।।
कोऽसि त्वं कुत आयातः किं वा त्वं च चिकीर्षसि ॥ इतोऽद्य गच्छ दूरं वै यदि जीवितुमिच्छसि ॥ २ ॥
कः असि त्वम् कुतस् आयातः किम् वा त्वम् च चिकीर्षसि ॥ इतस् अद्य गच्छ दूरम् वै यदि जीवितुम् इच्छसि ॥ २ ॥
kaḥ asi tvam kutas āyātaḥ kim vā tvam ca cikīrṣasi .. itas adya gaccha dūram vai yadi jīvitum icchasi .. 2 ..
ब्रह्मोवाच ।।
तदीयं तद्वचः श्रुत्वा गिरिजातनयस्स वै ॥ निर्भयो दण्डपाणिश्च द्वारपानब्रवीदिदम् ॥ ३ ॥
तदीयम् तत् वचः श्रुत्वा गिरिजा-तनयः स वै ॥ निर्भयः दण्डपाणिः च द्वारपान् अब्रवीत् इदम् ॥ ३ ॥
tadīyam tat vacaḥ śrutvā girijā-tanayaḥ sa vai .. nirbhayaḥ daṇḍapāṇiḥ ca dvārapān abravīt idam .. 3 ..
गणेश उवाच ।।
यूयं के कुत आयाता भवंतस्सुन्दरा इमे ॥ यात दूरं किमर्थं वै स्थिता अत्र विरोधिनः ॥ ४॥
यूयम् के कुतस् आयाताः भवन्तः सुन्दराः इमे ॥ यात दूरम् किमर्थम् वै स्थिताः अत्र विरोधिनः ॥ ४॥
yūyam ke kutas āyātāḥ bhavantaḥ sundarāḥ ime .. yāta dūram kimartham vai sthitāḥ atra virodhinaḥ .. 4..
ब्रह्मोवाच ।।
एवं श्रुत्वा वचस्तस्य हास्यं कृत्वा परस्परम्॥ ऊचुस्सर्वे शिवगणा महावीरा गतस्मयाः ॥ ५ ॥
एवम् श्रुत्वा वचः तस्य हास्यम् कृत्वा परस्परम्॥ ऊचुः सर्वे शिव-गणाः महावीराः गत-स्मयाः ॥ ५ ॥
evam śrutvā vacaḥ tasya hāsyam kṛtvā parasparam.. ūcuḥ sarve śiva-gaṇāḥ mahāvīrāḥ gata-smayāḥ .. 5 ..
परस्परमिति प्रोच्य सर्वे ते शिवपार्षदाः ॥ द्वारपालं गणेशं तं प्रत्यूचुः कुद्धमानसाः ॥ ६॥
परस्परम् इति प्रोच्य सर्वे ते शिव-पार्षदाः ॥ द्वारपालम् गणेशम् तम् प्रत्यूचुः कुद्ध-मानसाः ॥ ६॥
parasparam iti procya sarve te śiva-pārṣadāḥ .. dvārapālam gaṇeśam tam pratyūcuḥ kuddha-mānasāḥ .. 6..
शिवगणा ऊचुः ।।
श्रूयतां द्वारपाला हि वयं शिवगणा वराः ॥ त्वां निवारयितुं प्राप्ताश्शंकरस्याज्ञया विभोः ॥ ७ ॥
श्रूयताम् द्वारपालाः हि वयम् शिव-गणाः वराः ॥ त्वाम् निवारयितुम् प्राप्ताः शंकरस्य आज्ञया विभोः ॥ ७ ॥
śrūyatām dvārapālāḥ hi vayam śiva-gaṇāḥ varāḥ .. tvām nivārayitum prāptāḥ śaṃkarasya ājñayā vibhoḥ .. 7 ..
त्वामपीह गणं मत्वा न हन्यामीन्यथा हतः ॥ तिष्ठ दूरे स्वतस्त्वं च किमर्थं मृत्युमीहसे ॥ ८ ॥
त्वाम् अपि इह गणम् मत्वा न हन्यामि इन् यथा हतः ॥ तिष्ठ दूरे स्वतस् त्वम् च किमर्थम् मृत्युम् ईहसे ॥ ८ ॥
tvām api iha gaṇam matvā na hanyāmi in yathā hataḥ .. tiṣṭha dūre svatas tvam ca kimartham mṛtyum īhase .. 8 ..
।। ब्रह्मोवाच ।।
इत्युक्तोऽपि गणेशश्च गिरिजातनयोऽभयः ॥ निर्भर्त्स्य शंकरगणान्न द्वारं मुक्तवांस्तदा ॥ ९॥
इति उक्तः अपि गणेशः च गिरिजा-तनयः अभयः ॥ निर्भर्त्स्य शंकर-गणान् न द्वारम् मुक्तवान् तदा ॥ ९॥
iti uktaḥ api gaṇeśaḥ ca girijā-tanayaḥ abhayaḥ .. nirbhartsya śaṃkara-gaṇān na dvāram muktavān tadā .. 9..
ते सर्वेपि गणाश्शैवास्तत्रत्या वचनं तदा ॥ श्रुत्वा तत्र शिवं गत्वा तद्वृत्तांतमथाब्रुवन्॥ 2.4.14.१०॥
ते सर्वे अपि गणाः शैवाः तत्रत्याः वचनम् तदा ॥ श्रुत्वा तत्र शिवम् गत्वा तद्-वृत्तांतम् अथ अब्रुवन्॥ २।४।१४।१०॥
te sarve api gaṇāḥ śaivāḥ tatratyāḥ vacanam tadā .. śrutvā tatra śivam gatvā tad-vṛttāṃtam atha abruvan.. 2.4.14.10..
ततश्च तद्वचः श्रुत्वाद्भुतलीलो महेश्वरः ॥ विनिर्भर्त्स्य गणानूचे निजाँल्लोकगतिर्मुने ॥ ११ ॥
ततस् च तत् वचः श्रुत्वा अद्भुत-लीलः महेश्वरः ॥ विनिर्भर्त्स्य गणान् ऊचे निजान् लोक-गतिः मुने ॥ ११ ॥
tatas ca tat vacaḥ śrutvā adbhuta-līlaḥ maheśvaraḥ .. vinirbhartsya gaṇān ūce nijān loka-gatiḥ mune .. 11 ..
महेश्वर उवाच ।।
कश्चायं वर्तते किं च ब्रवीत्यरिवदुच्छ्रितः ॥ किं करिष्यत्यसद्बुद्धिः स्वमृत्युं वांछति ध्रुवम् ॥ १२॥
कः च अयम् वर्तते किम् च ब्रवीति अरि-वत् उच्छ्रितः ॥ किम् करिष्यति असत्-बुद्धिः स्व-मृत्युम् वांछति ध्रुवम् ॥ १२॥
kaḥ ca ayam vartate kim ca bravīti ari-vat ucchritaḥ .. kim kariṣyati asat-buddhiḥ sva-mṛtyum vāṃchati dhruvam .. 12..
दूरतः क्रियतां ह्येष द्रारपालो नवीनकः॥ क्लीबा इव स्थितास्तस्य वृत्तं वदथ मे कथम् ॥ १३॥
दूरतस् क्रियताम् हि एष द्रारपालः नवीनकः॥ क्लीबाः इव स्थिताः तस्य वृत्तम् वदथ मे कथम् ॥ १३॥
dūratas kriyatām hi eṣa drārapālaḥ navīnakaḥ.. klībāḥ iva sthitāḥ tasya vṛttam vadatha me katham .. 13..
स्वामिनोक्ता गणास्ते चाद्भुतलीलेन शंभुना ॥ पुनरागत्य तत्रैव तमूचुर्द्वारपालकम् ॥ १४ ॥
स्वामिना उक्ताः गणाः ते च अद्भुत-लीलेन शंभुना ॥ पुनर् आगत्य तत्र एव तम् ऊचुः द्वारपालकम् ॥ १४ ॥
svāminā uktāḥ gaṇāḥ te ca adbhuta-līlena śaṃbhunā .. punar āgatya tatra eva tam ūcuḥ dvārapālakam .. 14 ..
।। शिवगणा ऊचुः ।।
रे रे द्वारप कस्त्वं हि स्थितश्च स्थापितः कुतः ॥ नैवास्मान्गाणयस्येवं कथं जीवितुमिच्छसि ॥ १५॥
रे रे द्वारप कः त्वम् हि स्थितः च स्थापितः कुतस् ॥ न एव अस्मान् गाणयसि एवम् कथम् जीवितुम् इच्छसि ॥ १५॥
re re dvārapa kaḥ tvam hi sthitaḥ ca sthāpitaḥ kutas .. na eva asmān gāṇayasi evam katham jīvitum icchasi .. 15..
द्वारपाला वयं सर्वे स्थितः किं परिभाषसे ॥ सिंहासनगृहीतश्च शृगालः शिवमीहते ॥ १६॥
द्वारपालाः वयम् सर्वे स्थितः किम् परिभाषसे ॥ सिंहासन-गृहीतः च शृगालः शिवम् ईहते ॥ १६॥
dvārapālāḥ vayam sarve sthitaḥ kim paribhāṣase .. siṃhāsana-gṛhītaḥ ca śṛgālaḥ śivam īhate .. 16..
तावद्गर्जसि मूर्ख त्वं यावद्गण पराक्रमः ॥ नानुभूतस्त्वयात्रैव ह्यनुभूतः पतिष्यसि ॥ १७॥
तावत् गर्जसि मूर्ख त्वम् यावत् गण पराक्रमः ॥ न अनुभूतः त्वया अत्रा एव हि अनुभूतः पतिष्यसि ॥ १७॥
tāvat garjasi mūrkha tvam yāvat gaṇa parākramaḥ .. na anubhūtaḥ tvayā atrā eva hi anubhūtaḥ patiṣyasi .. 17..
इत्युक्तस्तैस्सुसंकुद्धो हस्ताभ्यां यष्टिकां तदा ॥ गृहीत्वा ताडयामास गणांस्तान्परिभाषिणः ॥ १८ ॥
इति उक्तः तैः सु संकुद्धः हस्ताभ्याम् यष्टिकाम् तदा ॥ गृहीत्वा ताडयामास गणान् तान् परिभाषिणः ॥ १८ ॥
iti uktaḥ taiḥ su saṃkuddhaḥ hastābhyām yaṣṭikām tadā .. gṛhītvā tāḍayāmāsa gaṇān tān paribhāṣiṇaḥ .. 18 ..
उवाचाथ शिवापुत्रः परिभर्त्स्य गणेश्वरान् ॥ शंकरस्य महावीरान्निर्भयस्तान्गणेश्वरः ॥ १९॥
उवाच अथ शिवा-पुत्रः परिभर्त्स्य गणेश्वरान् ॥ शंकरस्य महा-वीरान् निर्भयः तान् गणेश्वरः ॥ १९॥
uvāca atha śivā-putraḥ paribhartsya gaṇeśvarān .. śaṃkarasya mahā-vīrān nirbhayaḥ tān gaṇeśvaraḥ .. 19..
शिवापुत्र उवाच ।।
यात यात ततो दूरे नो चेद्वो दर्शयामि ह ॥ स्वपराक्रममत्युग्रं यास्यथात्युपहास्यताम् ॥ 2.4.14.२० ॥
यात यात ततस् दूरे नो चेद् वः दर्शयामि ह ॥ स्व-पराक्रमम् अति उग्रम् यास्यथ अति उपहास्य-ताम् ॥ २।४।१४।२० ॥
yāta yāta tatas dūre no ced vaḥ darśayāmi ha .. sva-parākramam ati ugram yāsyatha ati upahāsya-tām .. 2.4.14.20 ..
इत्याकर्ण्य वचस्तस्य गिरिजातनयस्य हि ॥ परस्परमथोचुस्ते शंकरस्य गणास्तदा ॥ २१ ॥
इति आकर्ण्य वचः तस्य गिरिजा-तनयस्य हि ॥ परस्परम् अथा ऊचुः ते शंकरस्य गणाः तदा ॥ २१ ॥
iti ākarṇya vacaḥ tasya girijā-tanayasya hi .. parasparam athā ūcuḥ te śaṃkarasya gaṇāḥ tadā .. 21 ..
शिवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं माक्रियते स न किं पुनः ॥ मर्यादा रक्ष्यतेऽस्माभिरन्यथा किं ब्रवीति च ॥ २२ ॥
किम् कर्तव्यम् क्व गंतव्यम् मा अ क्रियते स न किम् पुनर् ॥ मर्यादा रक्ष्यते अस्माभिः अन्यथा किम् ब्रवीति च ॥ २२ ॥
kim kartavyam kva gaṃtavyam mā a kriyate sa na kim punar .. maryādā rakṣyate asmābhiḥ anyathā kim bravīti ca .. 22 ..
ब्रह्मोवाच ।।
ततश्शंभुगणास्सर्वे शिवं दूरे व्यवस्थितम् ॥ क्रोशमात्रं तु कैलासाद्गत्वा ते च तथाब्रुवन् ॥ २३ ॥
ततस् शंभु-गणाः सर्वे शिवम् दूरे व्यवस्थितम् ॥ क्रोश-मात्रम् तु कैलासात् गत्वा ते च तथा ब्रुवन् ॥ २३ ॥
tatas śaṃbhu-gaṇāḥ sarve śivam dūre vyavasthitam .. krośa-mātram tu kailāsāt gatvā te ca tathā bruvan .. 23 ..
शिवो विहस्य तान्सर्वांस्त्रिशूलकर उग्रधीः ॥ उवाच परमेशो हि स्वगणान् वीरसंमतान् ॥ २४ ॥
शिवः विहस्य तान् सर्वान् त्रिशूल-करः उग्र-धीः ॥ उवाच परमेशः हि स्व-गणान् वीर-संमतान् ॥ २४ ॥
śivaḥ vihasya tān sarvān triśūla-karaḥ ugra-dhīḥ .. uvāca parameśaḥ hi sva-gaṇān vīra-saṃmatān .. 24 ..
शिव उवाच ।।
रेरे गणाः क्लीबमता न वीरा वीरमानिनः ॥ मदग्रे नोदितुं योग्या भर्त्सितः किं पुनर्वदेत् ॥ २५ ॥
रे रे गणाः क्लीब-मताः न वीराः वीर-मानिनः ॥ मद्-अग्रे न उदितुम् योग्या भर्त्सितः किम् पुनर् वदेत् ॥ २५ ॥
re re gaṇāḥ klība-matāḥ na vīrāḥ vīra-māninaḥ .. mad-agre na uditum yogyā bhartsitaḥ kim punar vadet .. 25 ..
गम्यतां ताड्यतां चैष यः कश्चित्प्रभवेदिह ॥ बहुनोक्तेन किं चात्र दूरीकर्तव्य एव सः ॥ २६॥
गम्यताम् ताड्यताम् च एष यः कश्चिद् प्रभवेत् इह ॥ बहुना उक्तेन किम् च अत्र दूरीकर्तव्यः एव सः ॥ २६॥
gamyatām tāḍyatām ca eṣa yaḥ kaścid prabhavet iha .. bahunā uktena kim ca atra dūrīkartavyaḥ eva saḥ .. 26..
।। ब्रह्मोवाच ।। ।।
इति सर्वे महेशेन जग्मुस्तत्र मुनीश्वर ॥ भर्त्सितास्तेन देवेन प्रोचुश्च गणसत्तमाः ॥ २७ ॥
इति सर्वे महेशेन जग्मुः तत्र मुनि-ईश्वर ॥ भर्त्सिताः तेन देवेन प्रोचुः च गण-सत्तमाः ॥ २७ ॥
iti sarve maheśena jagmuḥ tatra muni-īśvara .. bhartsitāḥ tena devena procuḥ ca gaṇa-sattamāḥ .. 27 ..
शिवगणा ऊचुः ।
रेरे त्वं शृणु वै बाल बलात्किं परिभाषसे ॥ इतस्त्वं दूरतो याहि नो चेन्मृत्युर्भविष्यति ॥ २८ ॥
रे रे त्वम् शृणु वै बाल बलात् किम् परिभाषसे ॥ इतस् त्वम् दूरतस् याहि नो चेद् मृत्युः भविष्यति ॥ २८ ॥
re re tvam śṛṇu vai bāla balāt kim paribhāṣase .. itas tvam dūratas yāhi no ced mṛtyuḥ bhaviṣyati .. 28 ..
।। ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तेषां शिवाज्ञाकारिणां ध्रुवम् ॥ शिवासुतस्तदाभूत्स किं करोमीति दुःखितः ॥ २९॥
इति श्रुत्वा वचः तेषाम् शिव-आज्ञा-कारिणाम् ध्रुवम् ॥ शिवासुतः तदा अभूत् स किम् करोमि इति दुःखितः ॥ २९॥
iti śrutvā vacaḥ teṣām śiva-ājñā-kāriṇām dhruvam .. śivāsutaḥ tadā abhūt sa kim karomi iti duḥkhitaḥ .. 29..
एतस्मिन्नंतरे देवी तेषां तस्य च वै पुनः ॥ श्रुत्वा तु कलहं द्वारि सखीं पश्येति साब्रवीत् ॥ 2.4.14.३० ॥
एतस्मिन् अंतरे देवी तेषाम् तस्य च वै पुनर् ॥ श्रुत्वा तु कलहम् द्वारि सखीम् पश्य इति सा ब्रवीत् ॥ २।४।१४।३० ॥
etasmin aṃtare devī teṣām tasya ca vai punar .. śrutvā tu kalaham dvāri sakhīm paśya iti sā bravīt .. 2.4.14.30 ..
समागत्य सखी तत्र वृत्तांतं समबुध्यत ॥ क्षणमात्रं तदा दृष्ट्वा गता हृष्टा शिवांतिकम् ॥ ३१॥
समागत्य सखी तत्र वृत्तांतम् समबुध्यत ॥ क्षण-मात्रम् तदा दृष्ट्वा गता हृष्टा शिव-अंतिकम् ॥ ३१॥
samāgatya sakhī tatra vṛttāṃtam samabudhyata .. kṣaṇa-mātram tadā dṛṣṭvā gatā hṛṣṭā śiva-aṃtikam .. 31..
तत्र गत्वा तु तत्सर्वं वृत्तं तद्यदभून्मुने ॥ अशेषेण तया सख्या कथितं गिरिजाग्रतः ॥ ३२ ॥
तत्र गत्वा तु तत् सर्वम् वृत्तम् तत् यत् अभूत् मुने ॥ अशेषेण तया सख्या कथितम् गिरिजा-अग्रतः ॥ ३२ ॥
tatra gatvā tu tat sarvam vṛttam tat yat abhūt mune .. aśeṣeṇa tayā sakhyā kathitam girijā-agrataḥ .. 32 ..
सख्युवाच ।।
अस्मदीयो गणो यो हि स्थितो द्वारि महेश्वरि ॥ निर्भर्त्सयति तं वीराश्शंकरस्य गणा ध्रुवम् ॥ ३३॥
अस्मदीयः गणः यः हि स्थितः द्वारि महेश्वरि ॥ निर्भर्त्सयति तम् वीराः शंकरस्य गणाः ध्रुवम् ॥ ३३॥
asmadīyaḥ gaṇaḥ yaḥ hi sthitaḥ dvāri maheśvari .. nirbhartsayati tam vīrāḥ śaṃkarasya gaṇāḥ dhruvam .. 33..
शिवश्चैव गणास्सर्वे विना तेऽवसरं कथम् ॥ प्रविशंति हठाद्गेहे नैतच्छुभतरं तव ॥ ३४॥
शिवः च एव गणाः सर्वे विना ते अवसरम् कथम् ॥ प्रविशन्ति हठात् गेहे न एतत् शुभतरम् तव ॥ ३४॥
śivaḥ ca eva gaṇāḥ sarve vinā te avasaram katham .. praviśanti haṭhāt gehe na etat śubhataram tava .. 34..
सम्यक् कृतं ह्यनेनैव न हि कोपि प्रवेशितः ॥ दुःखं चैवानुभूयात्र तिरस्कारादिकं तथा ॥ ३५ ॥
सम्यक् कृतम् हि अनेन एव न हि कोपि प्रवेशितः ॥ दुःखम् च एव अनुभूय अत्र तिरस्कार-आदिकम् तथा ॥ ३५ ॥
samyak kṛtam hi anena eva na hi kopi praveśitaḥ .. duḥkham ca eva anubhūya atra tiraskāra-ādikam tathā .. 35 ..
अतः परन्तु वाग्वादः क्रियते च परस्परम् ॥ वाग्वादे च कृते नैव तर्ह्यायान्तु सुखेन वै ॥ ३६ ॥
अतस् परन्तु वाग्वादः क्रियते च परस्परम् ॥ वाग्वादे च कृते ना एव तर्हि आयान्तु सुखेन वै ॥ ३६ ॥
atas parantu vāgvādaḥ kriyate ca parasparam .. vāgvāde ca kṛte nā eva tarhi āyāntu sukhena vai .. 36 ..
कृतश्चैवात्र वाग्वादस्तं जित्वा विजयेन च ॥ प्रविशंतु तथा सर्वे नान्यथा कर्हिचित्प्रिये ॥ ३७ ॥
कृतः च एव अत्र वाग्वादः तम् जित्वा विजयेन च ॥ प्रविशन्तु तथा सर्वे न अन्यथा कर्हिचित् प्रिये ॥ ३७ ॥
kṛtaḥ ca eva atra vāgvādaḥ tam jitvā vijayena ca .. praviśantu tathā sarve na anyathā karhicit priye .. 37 ..
अस्मिन्नेवास्मदीये वै सर्वे संभर्त्सिता वयम् ॥ तस्माद्देवि त्वया भद्रे न त्याज्यो मान उत्तमः ॥ ३८ ॥
अस्मिन् एव अस्मदीये वै सर्वे संभर्त्सिताः वयम् ॥ तस्मात् देवि त्वया भद्रे न त्याज्यः मानः उत्तमः ॥ ३८ ॥
asmin eva asmadīye vai sarve saṃbhartsitāḥ vayam .. tasmāt devi tvayā bhadre na tyājyaḥ mānaḥ uttamaḥ .. 38 ..
शिवो मर्कटवत्तेऽद्य वर्तते सर्वदा सति ॥ किं करिष्यत्यहंकारमानुकूल्यं भविष्यति॥ ३९॥
शिवः मर्कट-वत् ते अद्य वर्तते सर्वदा सति ॥ किम् करिष्यति अहंकारम् आनुकूल्यम् भविष्यति॥ ३९॥
śivaḥ markaṭa-vat te adya vartate sarvadā sati .. kim kariṣyati ahaṃkāram ānukūlyam bhaviṣyati.. 39..
ब्रह्मोवाच।।
अहो क्षणं स्थिता तत्र शिवेच्छावशतस्सती ॥ 2.4.14.४०॥ मनस्युवाच सा भूत्वा मानिनी पार्वती तदा ॥ ४१ ॥
अहो क्षणम् स्थिता तत्र शिव-इच्छा-वशतः सती ॥ २।४।१४।४०॥ मनसि उवाच सा भूत्वा मानिनी पार्वती तदा ॥ ४१ ॥
aho kṣaṇam sthitā tatra śiva-icchā-vaśataḥ satī .. 2.4.14.40.. manasi uvāca sā bhūtvā māninī pārvatī tadā .. 41 ..
शिवोवाच।।
अहो क्षणं स्थितो नैव हठात्कारः कथं कृतः ॥ कथं चैवात्र कर्त्तव्यं विनयेनाथ वा पुनः ॥ ४२ ॥
अहो क्षणम् स्थितः ना एव हठात्कारः कथम् कृतः ॥ कथम् च एव अत्र कर्त्तव्यम् विनयेन अथ वा पुनर् ॥ ४२ ॥
aho kṣaṇam sthitaḥ nā eva haṭhātkāraḥ katham kṛtaḥ .. katham ca eva atra karttavyam vinayena atha vā punar .. 42 ..
भविष्यति भवत्येव कृतं नैवान्यथा पुनः ॥ इत्युक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३॥
भविष्यति भवति एव कृतम् न एव अन्यथा पुनर् ॥ इति उक्त्वा तु सखी तत्र प्रेषिता प्रियया तदा ॥ ४३॥
bhaviṣyati bhavati eva kṛtam na eva anyathā punar .. iti uktvā tu sakhī tatra preṣitā priyayā tadā .. 43..
समागत्याऽब्रवीत्सा च प्रियया कथितं हि यत्॥ तमाचष्ट गणेशं तं गिरिजातनयं तदा ॥ ४४ ॥
समागत्य अब्रवीत् सा च प्रियया कथितम् हि यत्॥ तम् आचष्ट गणेशम् तम् गिरिजा-तनयम् तदा ॥ ४४ ॥
samāgatya abravīt sā ca priyayā kathitam hi yat.. tam ācaṣṭa gaṇeśam tam girijā-tanayam tadā .. 44 ..
सख्युवाच ।।
सम्यक्कृतं त्वया भद्र बलात्ते प्रविशंतु न ॥ भवदग्रे गणा ह्येते किं जयंतु भवादृशम् ॥ ४५॥
सम्यक् कृतम् त्वया भद्र बलात् ते प्रविशंतु न ॥ भवत्-अग्रे गणाः हि एते किम् जयन्तु भवादृशम् ॥ ४५॥
samyak kṛtam tvayā bhadra balāt te praviśaṃtu na .. bhavat-agre gaṇāḥ hi ete kim jayantu bhavādṛśam .. 45..
कृतं चेद्वाकृतं चैव कर्त्तव्यं क्रियतां त्वया॥ जितो यस्तु पुनर्वापि न वैरमथ वा ध्रुवम् ॥ ४६॥
कृतम् चेद् वा अकृतम् च एव कर्त्तव्यम् क्रियताम् त्वया॥ जितः यः तु पुनर् वा अपि न वैरम् अथ वा ध्रुवम् ॥ ४६॥
kṛtam ced vā akṛtam ca eva karttavyam kriyatām tvayā.. jitaḥ yaḥ tu punar vā api na vairam atha vā dhruvam .. 46..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्या मातुश्चैव गणेश्वरः ॥ आनन्दं परमं प्राप बलं भूरि महोन्नतिम् ॥ ४७॥
इति श्रुत्वा वचः तस्याः मातुः च एव गणेश्वरः ॥ आनन्दम् परमम् प्राप बलम् भूरि महा-उन्नतिम् ॥ ४७॥
iti śrutvā vacaḥ tasyāḥ mātuḥ ca eva gaṇeśvaraḥ .. ānandam paramam prāpa balam bhūri mahā-unnatim .. 47..
बद्धकक्षस्तथोष्णीषं बद्ध्वा जंघोरु संस्पृशन् ॥ उवाच तान्गणान् सर्वान्निर्भयं वचनं मुदा ॥ ४८ ॥
बद्ध-कक्षः तथा उष्णीषम् बद्ध्वा जंघा-ऊरु संस्पृशन् ॥ उवाच तान् गणान् सर्वान् निर्भयम् वचनम् मुदा ॥ ४८ ॥
baddha-kakṣaḥ tathā uṣṇīṣam baddhvā jaṃghā-ūru saṃspṛśan .. uvāca tān gaṇān sarvān nirbhayam vacanam mudā .. 48 ..
गणेश उवाच ।।
अहं च गिरिजासूनुर्यूयं शिवगणास्तथा ॥ उभये समतां प्राप्ताः कर्तव्यं क्रियतां पुनः ॥ ४९॥
अहम् च गिरिजा-सूनुः यूयम् शिव-गणाः तथा ॥ उभये सम-ताम् प्राप्ताः कर्तव्यम् क्रियताम् पुनर् ॥ ४९॥
aham ca girijā-sūnuḥ yūyam śiva-gaṇāḥ tathā .. ubhaye sama-tām prāptāḥ kartavyam kriyatām punar .. 49..
भवंतो द्वारपालाश्च द्वारपोहं कथं न हि ॥ भवंतश्च स्थितास्तत्राऽहं स्थितोत्रेति निश्चितम् ॥ 2.4.14.५०॥
भवन्तः द्वारपालाः च द्वार-अपोहम् कथम् न हि ॥ भवन्तः च स्थिताः तत्र अहम् स्थितः उत्र इति निश्चितम् ॥ २।४।१४।५०॥
bhavantaḥ dvārapālāḥ ca dvāra-apoham katham na hi .. bhavantaḥ ca sthitāḥ tatra aham sthitaḥ utra iti niścitam .. 2.4.14.50..
भवद्भिश्च स्थितं ह्यत्र यदा भवति निश्चितम् ॥ तदा भवद्भिः कर्त्तव्यं शिवाज्ञापरिपालनम् ॥ ५१॥
भवद्भिः च स्थितम् हि अत्र यदा भवति निश्चितम् ॥ तदा भवद्भिः कर्त्तव्यम् शिव-आज्ञा-परिपालनम् ॥ ५१॥
bhavadbhiḥ ca sthitam hi atra yadā bhavati niścitam .. tadā bhavadbhiḥ karttavyam śiva-ājñā-paripālanam .. 51..
इदानीं तु मया चात्र शिवाज्ञापरिपालनम् ॥ सत्यं च क्रियते वीरा निर्णीतं मे यथोचितम् ॥ ५२॥
इदानीम् तु मया च अत्र शिव-आज्ञा-परिपालनम् ॥ सत्यम् च क्रियते वीराः निर्णीतम् मे यथोचितम् ॥ ५२॥
idānīm tu mayā ca atra śiva-ājñā-paripālanam .. satyam ca kriyate vīrāḥ nirṇītam me yathocitam .. 52..
तस्माच्छिवगणास्सर्वे वचनं शृणुतादरात् ॥ हठाद्वा विनयाद्वा न गंतव्यं मन्दिरे पुनः ॥ ५३ ॥
तस्मात् शिव-गणाः सर्वे वचनम् शृणुत आदरात् ॥ हठात् वा विनयात् वा न गंतव्यम् मन्दिरे पुनर् ॥ ५३ ॥
tasmāt śiva-gaṇāḥ sarve vacanam śṛṇuta ādarāt .. haṭhāt vā vinayāt vā na gaṃtavyam mandire punar .. 53 ..
।। ब्रह्मोवाच ।।
इत्युक्तास्ते गणेनैव सर्वे ते लज्जिता गणाः॥ ययुश्शिवांतिकं तं वै नमस्कृत्य पुरः स्थिताः ॥ ५४॥
इति उक्ताः ते गणेन एव सर्वे ते लज्जिताः गणाः॥ ययुः शिव-अंतिकम् तम् वै नमस्कृत्य पुरस् स्थिताः ॥ ५४॥
iti uktāḥ te gaṇena eva sarve te lajjitāḥ gaṇāḥ.. yayuḥ śiva-aṃtikam tam vai namaskṛtya puras sthitāḥ .. 54..
स्थित्वा न्यवेदयन्सर्वे वृत्तांतं च तदद्भुतम् ॥ करौ बद्ध्वा नतस्कंधाश्शिवं स्तुत्वा पुरः स्थिताः ॥ ५५ ॥
स्थित्वा न्यवेदयन् सर्वे वृत्तांतम् च तत् अद्भुतम् ॥ करौ बद्ध्वा नत-स्कंधाः शिवम् स्तुत्वा पुरस् स्थिताः ॥ ५५ ॥
sthitvā nyavedayan sarve vṛttāṃtam ca tat adbhutam .. karau baddhvā nata-skaṃdhāḥ śivam stutvā puras sthitāḥ .. 55 ..
तत्सर्वं तु तदा श्रुत्वा वृत्तं तत्स्वगणोदितम्॥ लौकिकीं वृत्तिमाश्रित्य शंकरो वाक्यमब्रवीत् ॥ ५६॥
तत् सर्वम् तु तदा श्रुत्वा वृत्तम् तद्-स्व-गण-उदितम्॥ लौकिकीम् वृत्तिम् आश्रित्य शंकरः वाक्यम् अब्रवीत् ॥ ५६॥
tat sarvam tu tadā śrutvā vṛttam tad-sva-gaṇa-uditam.. laukikīm vṛttim āśritya śaṃkaraḥ vākyam abravīt .. 56..
शंकर उवाच ॥ श्रूयतां च गणास्सर्वे युद्धं योग्यं भवेन्नहि ॥ यूयं चात्रास्मदीया वै स च गौरीगणस्तथा ॥ ५७॥
शंकरः उवाच ॥ श्रूयताम् च गणाः सर्वे युद्धम् योग्यम् भवेत् नहि ॥ यूयम् च अत्रा अस्मदीयाः वै स च गौरी-गणः तथा ॥ ५७॥
śaṃkaraḥ uvāca .. śrūyatām ca gaṇāḥ sarve yuddham yogyam bhavet nahi .. yūyam ca atrā asmadīyāḥ vai sa ca gaurī-gaṇaḥ tathā .. 57..
विनयः क्रियते चेद्वै वश्यश्शंभुः स्त्रिया सदा ॥ इति ख्यातिर्भवेल्लोके गर्हिता मे गणा धुवम् ॥ ५८ ॥
विनयः क्रियते चेद् वै वश्यः शंभुः स्त्रिया सदा ॥ इति ख्यातिः भवेत् लोके गर्हिताः मे गणाः धुवम् ॥ ५८ ॥
vinayaḥ kriyate ced vai vaśyaḥ śaṃbhuḥ striyā sadā .. iti khyātiḥ bhavet loke garhitāḥ me gaṇāḥ dhuvam .. 58 ..
कृते चैवात्र कर्तव्यमिति नीतिर्गरीयसी ॥ एकाकी स गणो बालः किं करिष्यति विक्रमम् ॥ ५९ ॥
कृते च एव अत्र कर्तव्यम् इति नीतिः गरीयसी ॥ एकाकी स गणः बालः किम् करिष्यति विक्रमम् ॥ ५९ ॥
kṛte ca eva atra kartavyam iti nītiḥ garīyasī .. ekākī sa gaṇaḥ bālaḥ kim kariṣyati vikramam .. 59 ..
भवंतश्च गणा लोके युद्धे चाति विशारदाः ॥ मदीयाश्च कथं युद्धं हित्वा यास्यथ लाघवम् ॥ 2.4.14.६० ॥
भवन्तः च गणाः लोके युद्धे च अति विशारदाः ॥ मदीयाः च कथम् युद्धम् हित्वा यास्यथ लाघवम् ॥ २।४।१४।६० ॥
bhavantaḥ ca gaṇāḥ loke yuddhe ca ati viśāradāḥ .. madīyāḥ ca katham yuddham hitvā yāsyatha lāghavam .. 2.4.14.60 ..
स्त्रिया ग्रहः कथं कार्यो पत्युरग्रे विशेषतः ॥ कृत्वा सा गिरिजा तस्य नूनं फलमवाप्स्यति ॥ ६१ ॥
स्त्रियाः ग्रहः कथम् पत्युः अग्रे विशेषतः ॥ कृत्वा सा गिरिजा तस्य नूनम् फलम् अवाप्स्यति ॥ ६१ ॥
striyāḥ grahaḥ katham patyuḥ agre viśeṣataḥ .. kṛtvā sā girijā tasya nūnam phalam avāpsyati .. 61 ..
तस्मात्सर्वे च मद्वीराः शृणुतादरतो वचः ॥ कर्त्तव्यं सर्वथा युद्धं भावि यत्तद्भवत्विति ॥ ६२ ॥
तस्मात् सर्वे च मद्-वीराः शृणुत आदरतः वचः ॥ कर्त्तव्यम् सर्वथा युद्धम् भावि यत् तत् भवतु इति ॥ ६२ ॥
tasmāt sarve ca mad-vīrāḥ śṛṇuta ādarataḥ vacaḥ .. karttavyam sarvathā yuddham bhāvi yat tat bhavatu iti .. 62 ..
ब्रह्मोवाच ।।
इत्युक्त्वा शंकरो ब्रह्मन् नानालीलाविशारदः ॥ विरराम मुनिश्रेष्ठ दर्शयँल्लौकिकीं गतिम् ॥ ६३ ॥
इति उक्त्वा शंकरः ब्रह्मन् नाना लीला-विशारदः ॥ विरराम मुनि-श्रेष्ठ दर्शयन् लौकिकीम् गतिम् ॥ ६३ ॥
iti uktvā śaṃkaraḥ brahman nānā līlā-viśāradaḥ .. virarāma muni-śreṣṭha darśayan laukikīm gatim .. 63 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणविवादवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणविवादवर्णनम् नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇavivādavarṇanam nāma caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In