| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
इत्युक्ता विभुना तेन निश्चयं परमं गताः ॥ सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ॥ १ ॥
इति उक्ताः विभुना तेन निश्चयम् परमम् गताः ॥ सन्नद्धाः तु तदा तत्र जग्मुः च शिव-मन्दिरम् ॥ १ ॥
iti uktāḥ vibhunā tena niścayam paramam gatāḥ .. sannaddhāḥ tu tadā tatra jagmuḥ ca śiva-mandiram .. 1 ..
गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ॥ युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ॥ २ ॥
गणेशः अपि तथा दृष्ट्वा हि आयातान् गण-सत्तमान् ॥ युद्ध-आटोपम् विधाय एव स्थितान् च एव ब्रवीत् इदम् ॥ २ ॥
gaṇeśaḥ api tathā dṛṣṭvā hi āyātān gaṇa-sattamān .. yuddha-āṭopam vidhāya eva sthitān ca eva bravīt idam .. 2 ..
गणेश उवाच ।।
आयांतु गणपास्सर्वे शिवाज्ञाप रिपालकाः ॥ अहमेकश्च बालश्च शिवाज्ञापरिपालकः॥ ३॥
आयांतु गणपाः सर्वे शिव-आज्ञा-प-रिपालकाः ॥ अहम् एकः च बालः च शिव-आज्ञा-परिपालकः॥ ३॥
āyāṃtu gaṇapāḥ sarve śiva-ājñā-pa-ripālakāḥ .. aham ekaḥ ca bālaḥ ca śiva-ājñā-paripālakaḥ.. 3..
तथापि पश्यतां देवी पार्वती सूनुजं बलम् ॥ शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ॥ ४ ॥
तथा अपि पश्यताम् देवी पार्वती सूनु-जम् बलम् ॥ शिवः च स्व-गणानाम् तु बलम् पश्यतु वै पुनर् ॥ ४ ॥
tathā api paśyatām devī pārvatī sūnu-jam balam .. śivaḥ ca sva-gaṇānām tu balam paśyatu vai punar .. 4 ..
बलवद्बालयुद्धं च भवानीशिव पक्षयोः ॥ भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ॥ ५॥
बलवत् बाल-युद्धम् च भवानीशिव पक्षयोः ॥ भवद्भिः च कृतम् युद्धम् पूर्वम् युद्ध-विशारदैः ॥ ५॥
balavat bāla-yuddham ca bhavānīśiva pakṣayoḥ .. bhavadbhiḥ ca kṛtam yuddham pūrvam yuddha-viśāradaiḥ .. 5..
मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना ॥ तथापि भवतां लज्जा गिरिजाशिवयोरिह ॥ ६॥
मया पूर्वम् कृतम् ना एव बालः अस्मि क्रियते अधुना ॥ तथा अपि भवताम् लज्जा गिरिजा-शिवयोः इह ॥ ६॥
mayā pūrvam kṛtam nā eva bālaḥ asmi kriyate adhunā .. tathā api bhavatām lajjā girijā-śivayoḥ iha .. 6..
ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ॥ ममैव भवतां लज्जा गिरिजाशिवयोरिह ॥ ७ ॥
मम एवम् तु भवेत् न एव वैपरीत्यम् भविष्यति ॥ मम एव भवताम् लज्जा गिरिजा-शिवयोः इह ॥ ७ ॥
mama evam tu bhavet na eva vaiparītyam bhaviṣyati .. mama eva bhavatām lajjā girijā-śivayoḥ iha .. 7 ..
एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ॥ भवद्भिस्स्वामिनं दृष्ट्वा मया च मातरं तदा ॥ ८ ॥
एवम् ज्ञात्वा च कर्त्तव्यः समरः च गणेश्वराः ॥ भवद्भिः स्वामिनम् दृष्ट्वा मया च मातरम् तदा ॥ ८ ॥
evam jñātvā ca karttavyaḥ samaraḥ ca gaṇeśvarāḥ .. bhavadbhiḥ svāminam dṛṣṭvā mayā ca mātaram tadā .. 8 ..
क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ॥ तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ॥ ९॥
क्रियते कीदृशम् युद्धम् भवितव्यम् भवतु इति ॥ तस्य वै वारणे कः अपि न समर्थः त्रिलोकके ॥ ९॥
kriyate kīdṛśam yuddham bhavitavyam bhavatu iti .. tasya vai vāraṇe kaḥ api na samarthaḥ trilokake .. 9..
ब्रह्मोवाच ।।
इत्येवं भर्त्सितास्ते तु दंडभूषितबाहवः ॥ विविधान्यायुधान्येवं धृत्वा ते च समाययुः ॥ 2.4.15.१०॥
इति एवम् भर्त्सिताः ते तु दंड-भूषित-बाहवः ॥ विविधानि आयुधानि एवम् धृत्वा ते च समाययुः ॥ २।४।१५।१०॥
iti evam bhartsitāḥ te tu daṃḍa-bhūṣita-bāhavaḥ .. vividhāni āyudhāni evam dhṛtvā te ca samāyayuḥ .. 2.4.15.10..
घर्षयन्तस्तथा दंतान् हुंकृत्य च पुनःपुनः॥ पश्य पश्य ब्रुवंतश्च गणास्ते समुपागताः ॥ ११॥
घर्षयन्तः तथा दन्तान् हुंकृत्य च पुनर् पुनर्॥ पश्य पश्य ब्रुवन्तः च गणाः ते समुपागताः ॥ ११॥
gharṣayantaḥ tathā dantān huṃkṛtya ca punar punar.. paśya paśya bruvantaḥ ca gaṇāḥ te samupāgatāḥ .. 11..
नंदी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ॥ धावन्भृंगी द्वितीयं च पादं धृत्वा गणस्य च ॥ १२ ॥
नंदी प्रथमम् आगत्य धृत्वा पादम् व्यकर्षयत् ॥ धावन् भृंगी द्वितीयम् च पादम् धृत्वा गणस्य च ॥ १२ ॥
naṃdī prathamam āgatya dhṛtvā pādam vyakarṣayat .. dhāvan bhṛṃgī dvitīyam ca pādam dhṛtvā gaṇasya ca .. 12 ..
यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ॥ आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ॥ १३ ॥
यावत् पादे विकर्षन्तौ तावत् हस्तेन वै गणः ॥ आहत्य हस्तयोः ताभ्याम् उत्क्षिप्तौ पादकौ स्वयम् ॥ १३ ॥
yāvat pāde vikarṣantau tāvat hastena vai gaṇaḥ .. āhatya hastayoḥ tābhyām utkṣiptau pādakau svayam .. 13 ..
अथ देवीसुतो वीरस्सगृह्य परिघं बृहत्॥ द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ॥ १४ ॥
अथ देवी-सुतः वीरः सगृह्य परिघम् बृहत्॥ द्वार-स्थितः गणपतिः सर्वान् आपोथयत् तदा ॥ १४ ॥
atha devī-sutaḥ vīraḥ sagṛhya parigham bṛhat.. dvāra-sthitaḥ gaṇapatiḥ sarvān āpothayat tadā .. 14 ..
केषांचित्पाणयो भिन्नाः केषांचित्पृष्ठ कानि च ॥ केषांचिच्च शिरांस्येव केषांचिन्मस्तकानि च ॥ १५॥
केषांचिद् पाणयः भिन्नाः केषांचिद् पृष्ठ कानि च ॥ केषांचिद् च शिरांसि एव केषांचिद् मस्तकानि च ॥ १५॥
keṣāṃcid pāṇayaḥ bhinnāḥ keṣāṃcid pṛṣṭha kāni ca .. keṣāṃcid ca śirāṃsi eva keṣāṃcid mastakāni ca .. 15..
केषांचिजानुनी तत्र केषांचित्स्कंधकास्तथा ॥ सम्मुखे चागता ये वै ते सर्वे हृदये हताः ॥ १६॥
केषांचिद् जानुनी तत्र केषांचिद् स्कंधकाः तथा ॥ सम्मुखे च आगताः ये वै ते सर्वे हृदये हताः ॥ १६॥
keṣāṃcid jānunī tatra keṣāṃcid skaṃdhakāḥ tathā .. sammukhe ca āgatāḥ ye vai te sarve hṛdaye hatāḥ .. 16..
केचिच्च पतिताभूमौ केचिच्च विदिशो गताः ॥ केषांचिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ॥ १७॥
केचिद् च पतिताः अभूमौ केचिद् च विदिशः गताः ॥ केषांचिद् चरणौ छिन्नौ केचिद् शर्व-अन्तिकम् गताः ॥ १७॥
kecid ca patitāḥ abhūmau kecid ca vidiśaḥ gatāḥ .. keṣāṃcid caraṇau chinnau kecid śarva-antikam gatāḥ .. 17..
तेषां मध्ये तु कश्चिद्वै संग्रामे सम्मुखो न हि ॥ सिंहं दृष्ट्वा यथा यांति मृगाश्चैव दिशो दश ॥ १८ ॥
तेषाम् मध्ये तु कश्चिद् वै संग्रामे सम्मुखः न हि ॥ सिंहम् दृष्ट्वा यथा यान्ति मृगाः च एव दिशः दश ॥ १८ ॥
teṣām madhye tu kaścid vai saṃgrāme sammukhaḥ na hi .. siṃham dṛṣṭvā yathā yānti mṛgāḥ ca eva diśaḥ daśa .. 18 ..
तथा ते च गणास्सर्वे गताश्चैव सहस्रशः॥ परावृत्य तथा सोपि सुद्वारि समुपस्थितः ॥ १९॥
तथा ते च गणाः सर्वे गताः च एव सहस्रशस्॥ परावृत्य तथा सः अपि सु द्वारि समुपस्थितः ॥ १९॥
tathā te ca gaṇāḥ sarve gatāḥ ca eva sahasraśas.. parāvṛtya tathā saḥ api su dvāri samupasthitaḥ .. 19..
कल्पांतकरणे कालो दृश्यते च भयंकरः ॥ यथा तथैव दृष्टस्स सर्वेषां प्रलयंकरः ॥ 2.4.15.२०॥
कल्प-अंत-करणे कालः दृश्यते च भयंकरः ॥ यथा तथा एव दृष्टः स सर्वेषाम् प्रलयंकरः ॥ २।४।१५।२०॥
kalpa-aṃta-karaṇe kālaḥ dṛśyate ca bhayaṃkaraḥ .. yathā tathā eva dṛṣṭaḥ sa sarveṣām pralayaṃkaraḥ .. 2.4.15.20..
एतस्मिन्समये चैव सरमेशसुरेश्वराः ॥ प्रेरिता नारदेनेह देवास्सर्वे समागमन् ॥ २१॥
एतस्मिन् समये च एव सरमेश-सुरेश्वराः ॥ प्रेरिताः नारदेन इह देवाः सर्वे समागमन् ॥ २१॥
etasmin samaye ca eva sarameśa-sureśvarāḥ .. preritāḥ nāradena iha devāḥ sarve samāgaman .. 21..
समब्रुवंस्तदा सर्वे शिव स्य हितकाम्यया ॥ पुरःस्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ॥ २२॥
समब्रुवन् तदा सर्वे हित-काम्यया ॥ पुरस् स्थित्वा शिवम् नत्वा हि आज्ञाम् देहि प्रभो इति ॥ २२॥
samabruvan tadā sarve hita-kāmyayā .. puras sthitvā śivam natvā hi ājñām dehi prabho iti .. 22..
त्वं परब्रह्म सर्वेशस्सर्वे च तव सेवकाः ॥ सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥
त्वम् पर-ब्रह्म सर्व-ईशः सर्वे च तव सेवकाः ॥ सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ॥ २३॥
tvam para-brahma sarva-īśaḥ sarve ca tava sevakāḥ .. sṛṣṭeḥ kartā sadā bhartā saṃhartā parameśvaraḥ .. 23..
रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ॥ का लीला रचिता चाद्य तामिदानीं वद प्रभो॥ २४॥
रजः-सत्त्व-तमः-रूपः लीलया निर्गुणः स्वतस् ॥ का लीला रचिता च अद्य ताम् इदानीम् वद प्रभो॥ २४॥
rajaḥ-sattva-tamaḥ-rūpaḥ līlayā nirguṇaḥ svatas .. kā līlā racitā ca adya tām idānīm vada prabho.. 24..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ॥ गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ॥ २५॥
इति आकर्ण्य वचः तेषाम् मुनि-श्रेष्ठ महेश्वरः ॥ गणान् भिन्नान् तदा दृष्ट्वा तेभ्यः सर्वम् न्यवेदयत् ॥ २५॥
iti ākarṇya vacaḥ teṣām muni-śreṣṭha maheśvaraḥ .. gaṇān bhinnān tadā dṛṣṭvā tebhyaḥ sarvam nyavedayat .. 25..
अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम ॥ विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह॥ २६॥
अथ सर्वेश्वरः तत्र शंकरः मुनि-सत्तम ॥ विहस्य गिरिज-नाथः ब्रह्माणम् माम् उवाच ह॥ २६॥
atha sarveśvaraḥ tatra śaṃkaraḥ muni-sattama .. vihasya girija-nāthaḥ brahmāṇam mām uvāca ha.. 26..
शिव उवाच ।।
ब्रह्मञ्छृणु मम द्वारि बाल एकस्समास्थितः ॥ महाबलो यष्टिपाणिर्गेहावेशनिवारकः ॥ २७ ॥
ब्रह्मन् शृणु मम द्वारि बालः एकः समास्थितः ॥ महाबलः यष्टिपाणिः गेह-आवेश-निवारकः ॥ २७ ॥
brahman śṛṇu mama dvāri bālaḥ ekaḥ samāsthitaḥ .. mahābalaḥ yaṣṭipāṇiḥ geha-āveśa-nivārakaḥ .. 27 ..
महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ॥ पराजयः कृतस्तेन मद्गणानां बलादिह ॥ २८॥
महा-प्रहार-कर्ता असौ मद्-पार्षद-विघातकः ॥ पराजयः कृतः तेन मद्-गणानाम् बलात् इह ॥ २८॥
mahā-prahāra-kartā asau mad-pārṣada-vighātakaḥ .. parājayaḥ kṛtaḥ tena mad-gaṇānām balāt iha .. 28..
ब्रह्मन् त्वयैव गंतव्यं प्रसाद्योऽयं महाबलः ॥ यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ॥ २९॥
ब्रह्मन् त्वया एव गंतव्यम् प्रसाद्यः अयम् महा-बलः ॥ यथा ब्रह्मन् नयः स्यात् वै तथा कार्यम् त्वया विधे ॥ २९॥
brahman tvayā eva gaṃtavyam prasādyaḥ ayam mahā-balaḥ .. yathā brahman nayaḥ syāt vai tathā kāryam tvayā vidhe .. 29..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ॥ तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम्॥ 2.4.15.३०॥
इति आकर्ण्य प्रभोः वाक्यम् अ ज्ञात्वा अज्ञान-मोहितः ॥ तदीय-निकटम् तात सर्वैः ऋषि-वरैः अयाम्॥ २।४।१५।३०॥
iti ākarṇya prabhoḥ vākyam a jñātvā ajñāna-mohitaḥ .. tadīya-nikaṭam tāta sarvaiḥ ṛṣi-varaiḥ ayām.. 2.4.15.30..
समायान्तं च मां दृष्ट्वा स गणेशो महाबली॥ क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ॥ ३१ ॥
समायान्तम् च माम् दृष्ट्वा स गणेशः महा-बली॥ क्रोधम् कृत्वा समभ्येत्य मम श्मश्रूणि अवाकिरत् ॥ ३१ ॥
samāyāntam ca mām dṛṣṭvā sa gaṇeśaḥ mahā-balī.. krodham kṛtvā samabhyetya mama śmaśrūṇi avākirat .. 31 ..
क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ॥ ब्राह्मणोहमनुग्राह्यः शांतिकर्तानुपद्रवः ॥ ३२ ॥
क्षम्यताम् क्षम्यताम् देव न युद्ध-अर्थम् समागतः ॥ ब्राह्मण-ऊहम् अनुग्राह्यः शांति-कर्ता अनुपद्रवः ॥ ३२ ॥
kṣamyatām kṣamyatām deva na yuddha-artham samāgataḥ .. brāhmaṇa-ūham anugrāhyaḥ śāṃti-kartā anupadravaḥ .. 32 ..
इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ॥ स गणेशो महावीरो बालोऽबालपराक्रमः ॥ ३३ ॥
इति एवम् ब्रुवति ब्रह्मन् तावत् परिघम् आददे ॥ स गणेशः महा-वीरः बालः अबाल-पराक्रमः ॥ ३३ ॥
iti evam bruvati brahman tāvat parigham ādade .. sa gaṇeśaḥ mahā-vīraḥ bālaḥ abāla-parākramaḥ .. 33 ..
गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ॥ पलायनपरो यातस्त्वहं द्रुततरं तदा ॥ ३४॥
गृहीत-परिघम् दृष्ट्वा तम् गणेशम् महा-बलम् ॥ पलायन-परः यातः तु अहम् द्रुततरम् तदा ॥ ३४॥
gṛhīta-parigham dṛṣṭvā tam gaṇeśam mahā-balam .. palāyana-paraḥ yātaḥ tu aham drutataram tadā .. 34..
यात यात ब्रुवंतस्ते परिघेन हतास्तदा ॥ स्वयं च पतिताः केचित्केचित्तेन निपातिताः ॥ ३५॥
यात यात ब्रुवंतः ते परिघेन हताः तदा ॥ स्वयम् च पतिताः केचिद् केचिद् तेन निपातिताः ॥ ३५॥
yāta yāta bruvaṃtaḥ te parighena hatāḥ tadā .. svayam ca patitāḥ kecid kecid tena nipātitāḥ .. 35..
केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ॥ शिवं विज्ञापयांचक्रुस्तद्वृत्तां तमशेषतः ॥ ३६॥
केचिद् च शिव-सामीप्यम् गत्वा तद्-क्षण-मात्रतः ॥ शिवम् विज्ञापयांचक्रुः तद्-वृत्ताम् तम् अशेषतस् ॥ ३६॥
kecid ca śiva-sāmīpyam gatvā tad-kṣaṇa-mātrataḥ .. śivam vijñāpayāṃcakruḥ tad-vṛttām tam aśeṣatas .. 36..
तथाविधांश्च तान् दृष्ट्वा तद्वृत्तांतं निशम्य सः ॥ अपारमादधे कोपं हरो लीलाविशारदः ॥ ३७॥
तथाविधान् च तान् दृष्ट्वा तद्-वृत्तांतम् निशम्य सः ॥ अपारम् आदधे कोपम् हरः लीला-विशारदः ॥ ३७॥
tathāvidhān ca tān dṛṣṭvā tad-vṛttāṃtam niśamya saḥ .. apāram ādadhe kopam haraḥ līlā-viśāradaḥ .. 37..
इंद्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ॥ भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ॥ ३८॥
इंद्र-आदिकान् देव-गणान् षण्मुख-प्रवरान् गणान् ॥ भूत-प्रेत-पिशाचान् च सर्वान् आदेशयत् तदा ॥ ३८॥
iṃdra-ādikān deva-gaṇān ṣaṇmukha-pravarān gaṇān .. bhūta-preta-piśācān ca sarvān ādeśayat tadā .. 38..
ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ॥ तं गणं हंतुकामा हि शिवाज्ञाता उदायुधाः॥ ३९॥
ते सर्वे च यथायोग्यम् गताः ते सर्वतस् दिशम् ॥ तम् गणम् हंतु-कामाः हि शिव-अज्ञाताः उदायुधाः॥ ३९॥
te sarve ca yathāyogyam gatāḥ te sarvatas diśam .. tam gaṇam haṃtu-kāmāḥ hi śiva-ajñātāḥ udāyudhāḥ.. 39..
यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः॥ तद्गणेशोपरि बलात्समागत्य विमोचितम्॥ 2.4.15.४०॥
यस्य यस्य आयुधम् यत् च तत् तत् सर्वम् विशेषतः॥ तत् गणेश-उपरि बलात् समागत्य विमोचितम्॥ २।४।१५।४०॥
yasya yasya āyudham yat ca tat tat sarvam viśeṣataḥ.. tat gaṇeśa-upari balāt samāgatya vimocitam.. 2.4.15.40..
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ॥ त्रिलोकस्था जनास्सर्वे संशयं परमं गताः ॥ ४१॥
हाहाकारः महान् आसीत् त्रैलोक्ये स चराचरे ॥ त्रिलोक-स्थाः जनाः सर्वे संशयम् परमम् गताः ॥ ४१॥
hāhākāraḥ mahān āsīt trailokye sa carācare .. triloka-sthāḥ janāḥ sarve saṃśayam paramam gatāḥ .. 41..
न यातं ब्रह्मणोऽप्यायुर्ब्रह्मांड क्षयमेति हि ॥ अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ॥ ४२॥
न यातम् ब्रह्मणः अपि आयुः ब्रह्मांड क्षयम् एति हि ॥ अकाले च तथा नूनम् शिव-इच्छा-वशतः स्वयम् ॥ ४२॥
na yātam brahmaṇaḥ api āyuḥ brahmāṃḍa kṣayam eti hi .. akāle ca tathā nūnam śiva-icchā-vaśataḥ svayam .. 42..
ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ॥ देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ॥ ४३ ॥
ते सर्वे च आगताः तत्र षण्मुख-आद्याः च ये पुनर् ॥ देवाः व्यर्थ-आयुधाः जाताः आश्चर्यम् परमम् गताः ॥ ४३ ॥
te sarve ca āgatāḥ tatra ṣaṇmukha-ādyāḥ ca ye punar .. devāḥ vyartha-āyudhāḥ jātāḥ āścaryam paramam gatāḥ .. 43 ..
एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ॥ ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ॥ ४४ ॥
एतस्मिन् अन्तरे देवी जगदम्बा विबोधना ॥ ज्ञात्वा तद्-चरितम् सर्वम् अपारम् क्रोधम् आदधे ॥ ४४ ॥
etasmin antare devī jagadambā vibodhanā .. jñātvā tad-caritam sarvam apāram krodham ādadhe .. 44 ..
शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ॥ निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ॥ ४५॥
शक्ति-द्वयम् तदा तत्र तया देव्या मुनि-ईश्वर ॥ निर्मितम् स्व-गणस्य एव सर्व-साहाय्य-हेतवे ॥ ४५॥
śakti-dvayam tadā tatra tayā devyā muni-īśvara .. nirmitam sva-gaṇasya eva sarva-sāhāyya-hetave .. 45..
एका प्रचंडरूपं च धृत्वातिष्ठन्महामुने ॥ श्यामपर्वतसंकांशं विस्तीर्य मुखगह्वरम् ॥ ४६॥
एका प्रचंड-रूपम् च धृत्वा अतिष्ठत् महा-मुने ॥ श्याम-पर्वत-संक-अंशम् विस्तीर्य मुख-गह्वरम् ॥ ४६॥
ekā pracaṃḍa-rūpam ca dhṛtvā atiṣṭhat mahā-mune .. śyāma-parvata-saṃka-aṃśam vistīrya mukha-gahvaram .. 46..
एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ॥ भयंकरा महादेवी दुष्टदंडविधायिनी ॥ ४७॥
एका विद्युत्-स्वरूपा च बहु-हस्त-समन्विता ॥ भयंकरा महादेवी दुष्ट-दंड-विधायिनी ॥ ४७॥
ekā vidyut-svarūpā ca bahu-hasta-samanvitā .. bhayaṃkarā mahādevī duṣṭa-daṃḍa-vidhāyinī .. 47..
आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ॥ गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ॥ ४८॥
आयुधानि च सर्वाणि मोचितानि सुरैः गणैः ॥ गृहीत्वा स्व-मुखे तानि ताभ्याम् शीघ्रम् च चिक्षिपे ॥ ४८॥
āyudhāni ca sarvāṇi mocitāni suraiḥ gaṇaiḥ .. gṛhītvā sva-mukhe tāni tābhyām śīghram ca cikṣipe .. 48..
देवायुधं न दृश्येत परिघः परितः पुनः ॥ एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ॥ ४९ ॥
देव-आयुधम् न दृश्येत परिघः परितस् पुनर् ॥ एवम् ताभ्याम् कृतम् तत्र चरितम् परम-अद्भुतम् ॥ ४९ ॥
deva-āyudham na dṛśyeta parighaḥ paritas punar .. evam tābhyām kṛtam tatra caritam parama-adbhutam .. 49 ..
एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ॥ यथा गिरिवरेणैव लोडितस्सागरः पुरा ॥ 2.4.15.५०॥
एकः बालः अखिलम् सैन्यम् लोडयामास दुस्तरम् ॥ यथा गिरि-वरेण एव लोडितः सागरः पुरा ॥ २।४।१५।५०॥
ekaḥ bālaḥ akhilam sainyam loḍayāmāsa dustaram .. yathā giri-vareṇa eva loḍitaḥ sāgaraḥ purā .. 2.4.15.50..
एकेन निहतास्सर्वे शक्राद्या निर्जरास्तथा ॥ शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा ॥ ५१॥
एकेन निहताः सर्वे शक्र-आद्याः निर्जराः तथा ॥ शंकरस्य गणाः च एव व्याकुलाः अभवन् तदा ॥ ५१॥
ekena nihatāḥ sarve śakra-ādyāḥ nirjarāḥ tathā .. śaṃkarasya gaṇāḥ ca eva vyākulāḥ abhavan tadā .. 51..
अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर्मुहुः ॥ परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ॥ ५२ ॥
अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर् मुहुर् ॥ परस्परम् समूचुः ते तद्-प्रहार-समाकुलाः ॥ ५२ ॥
atha sarve militvā te niśśvasya ca muhur muhur .. parasparam samūcuḥ te tad-prahāra-samākulāḥ .. 52 ..
देवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं न ज्ञायंते दिशो दश ॥ परिघं भ्रामयत्येष सव्यापसव्यमेव च ॥ ५३ ॥
किम् कर्तव्यम् क्व गंतव्यम् न ज्ञायंते दिशः दश ॥ परिघम् भ्रामयति एष सव्य-अपसव्यम् एव च ॥ ५३ ॥
kim kartavyam kva gaṃtavyam na jñāyaṃte diśaḥ daśa .. parigham bhrāmayati eṣa savya-apasavyam eva ca .. 53 ..
ब्रह्मोवाच ।।
एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः ॥ ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः ॥ ५४॥
एतद्-काले अप्सरः-श्रेष्ठाः पुष्प-चन्दन-पाणयः ॥ ऋषयः च त्वद्-आद्याः हि ये अति युद्ध-इति लालसाः ॥ ५४॥
etad-kāle apsaraḥ-śreṣṭhāḥ puṣpa-candana-pāṇayaḥ .. ṛṣayaḥ ca tvad-ādyāḥ hi ye ati yuddha-iti lālasāḥ .. 54..
ते सर्वे च समाजग्मुर्युद्धसंदर्शनाय वै ॥ पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ॥ ५५ ॥
ते सर्वे च समाजग्मुः युद्ध-संदर्शनाय वै ॥ पूरितः व्योम सत्-मार्गः तैः तदा मुनि-सत्तम ॥ ५५ ॥
te sarve ca samājagmuḥ yuddha-saṃdarśanāya vai .. pūritaḥ vyoma sat-mārgaḥ taiḥ tadā muni-sattama .. 55 ..
तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ॥ ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ॥ ५६॥
ताः ते दृष्ट्वा रणम् तम् वै महा-विस्मयम् आगताः ॥ ईदृशम् परमम् युद्धम् न दृष्टम् च एकदा अपि हि ॥ ५६॥
tāḥ te dṛṣṭvā raṇam tam vai mahā-vismayam āgatāḥ .. īdṛśam paramam yuddham na dṛṣṭam ca ekadā api hi .. 56..
पृथिवी कंपिता तत्र समुद्रसहिता तदा॥ पर्वताः पतिताश्चैव चक्रुः संग्रामसंभवम् ॥ ५७॥
पृथिवी कंपिता तत्र समुद्र-सहिता तदा॥ पर्वताः पतिताः च एव चक्रुः संग्राम-संभवम् ॥ ५७॥
pṛthivī kaṃpitā tatra samudra-sahitā tadā.. parvatāḥ patitāḥ ca eva cakruḥ saṃgrāma-saṃbhavam .. 57..
द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ॥ देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ॥ ५८ ॥
द्यौः ग्रह-ऋक्ष-गणैः घूर्ण्णा सर्वे व्याकुलताम् गताः ॥ देवाः पलायिताः सर्वे गणाः च सकलाः तदा ॥ ५८ ॥
dyauḥ graha-ṛkṣa-gaṇaiḥ ghūrṇṇā sarve vyākulatām gatāḥ .. devāḥ palāyitāḥ sarve gaṇāḥ ca sakalāḥ tadā .. 58 ..
केवलं षण्मुखस्तत्र नापलायत विक्रमी ॥ महावीरस्तदा सर्वानावार्य पुरतः स्थितः ॥ ५९ ॥
केवलम् षण्मुखः तत्र न अपलायत विक्रमी ॥ महावीरः तदा सर्वान् आवार्य पुरतस् स्थितः ॥ ५९ ॥
kevalam ṣaṇmukhaḥ tatra na apalāyata vikramī .. mahāvīraḥ tadā sarvān āvārya puratas sthitaḥ .. 59 ..
शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ॥ सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः 2.4.15.६० ॥
शक्ति-द्वयेन तद्-युद्धे सर्वे च निष्फलीकृताः ॥ सर्व-अस्त्राणि निकृत्तानि संक्षिप्तानि अमरैः गणैः।४।१५।६० ॥
śakti-dvayena tad-yuddhe sarve ca niṣphalīkṛtāḥ .. sarva-astrāṇi nikṛttāni saṃkṣiptāni amaraiḥ gaṇaiḥ.4.15.60 ..
येऽव स्थिताश्च ते सर्वे शिवस्यांतिकमागताः ॥ देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ॥ ६१॥
ये अव स्थिताः च ते सर्वे शिवस्य अंतिकम् आगताः ॥ देवाः पलायिताः सर्वे गणाः च सकलाः तदा ॥ ६१॥
ye ava sthitāḥ ca te sarve śivasya aṃtikam āgatāḥ .. devāḥ palāyitāḥ sarve gaṇāḥ ca sakalāḥ tadā .. 61..
ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ॥ अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ॥ ६२॥
ते सर्वे मिलिताः च एव मुहुर् नत्वा शिवम् तदा ॥ अब्रुवन् वचनम् क्षिप्रम् कः अयम् गण-वरः प्रभो ॥ ६२॥
te sarve militāḥ ca eva muhur natvā śivam tadā .. abruvan vacanam kṣipram kaḥ ayam gaṇa-varaḥ prabho .. 62..
पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ॥ दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ॥ ६३ ॥
पुरा च एव श्रुतम् युद्धम् इदानीम् बहुधा पुनर् ॥ दृश्यते न श्रुतम् दृष्टम् ईदृशम् तु कदाचन ॥ ६३ ॥
purā ca eva śrutam yuddham idānīm bahudhā punar .. dṛśyate na śrutam dṛṣṭam īdṛśam tu kadācana .. 63 ..
किंचिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ॥ त्वमेव रक्षकस्स्वामिन्ब्रह्मांडस्य न संशयः ॥ ६४॥
किंचिद् विचार्यताम् देव तु अन्यथा न जयः भवेत् ॥ त्वम् एव रक्षकः स्वामिन् ब्रह्मांडस्य न संशयः ॥ ६४॥
kiṃcid vicāryatām deva tu anyathā na jayaḥ bhavet .. tvam eva rakṣakaḥ svāmin brahmāṃḍasya na saṃśayaḥ .. 64..
ब्रह्मोवाच ।।
इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः॥ कोपं कृत्वा च तत्रैव जगाम स्वगणैस्सह॥ ६५॥
इति एवम् तत् वचः श्रुत्वा रुद्रः परम-कोपनः॥ कोपम् कृत्वा च तत्र एव जगाम स्व-गणैः सह॥ ६५॥
iti evam tat vacaḥ śrutvā rudraḥ parama-kopanaḥ.. kopam kṛtvā ca tatra eva jagāma sva-gaṇaiḥ saha.. 65..
देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ॥ समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ॥ ६६ ॥
देव-सैन्यम् च तत् सर्वम् विष्णुना चक्रिणा सह ॥ समुत्सवम् महत् कृत्वा शिवस्य अनुजगाम ह ॥ ६६ ॥
deva-sainyam ca tat sarvam viṣṇunā cakriṇā saha .. samutsavam mahat kṛtvā śivasya anujagāma ha .. 66 ..
एतस्मिन्नंतरे भक्त्या नमस्कृत्य महेश्वरम् ॥ अब्रवीन्नारद त्वं वै देवदेवं कृतांजलिः॥ ६७॥ ॥
एतस्मिन् अन्तरे भक्त्या नमस्कृत्य महेश्वरम् ॥ अब्रवीत् नारद त्वम् वै देवदेवम् कृतांजलिः॥ ६७॥ ॥
etasmin antare bhaktyā namaskṛtya maheśvaram .. abravīt nārada tvam vai devadevam kṛtāṃjaliḥ.. 67.. ..
नारद उवाच ।।
देवदेव महादेव शृणु मद्वचनं विभो॥ त्वमेव सर्वगस्स्वामी नानालीलाविशारदः॥ ।६८॥
देवदेव महादेव शृणु मद्-वचनम् विभो॥ त्वम् एव सर्वगः स्वामी नाना लीला-विशारदः॥ ।६८॥
devadeva mahādeva śṛṇu mad-vacanam vibho.. tvam eva sarvagaḥ svāmī nānā līlā-viśāradaḥ.. .68..
त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ॥ अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर॥ ६९॥
त्वया कृत्वा महा-लीलाम् गण-गर्वः अपहारितः ॥ अस्मै दत्त्वा बलम् भूरि देव-गर्वः च शंकर॥ ६९॥
tvayā kṛtvā mahā-līlām gaṇa-garvaḥ apahāritaḥ .. asmai dattvā balam bhūri deva-garvaḥ ca śaṃkara.. 69..
दर्शितं भुवने नाथ स्वमेव बलमद्भुतम्॥ स्वतंत्रेण त्वया शंभो सर्वगर्वप्रहारिणा ॥ 2.4.15.७० ॥
दर्शितम् भुवने नाथ स्वम् एव बलम् अद्भुतम्॥ स्वतंत्रेण त्वया शंभो सर्व-गर्व-प्रहारिणा ॥ २।४।१५।७० ॥
darśitam bhuvane nātha svam eva balam adbhutam.. svataṃtreṇa tvayā śaṃbho sarva-garva-prahāriṇā .. 2.4.15.70 ..
इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ॥ स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ॥ ७१॥ ४।
इदानीम् न कुरुष्व ईश ताम् लीलाम् भक्त-वत्सलः ॥ स्व-गणान् अमरान् च अपि सु सन्मान्य अभिवर्द्धय ॥ ७१॥ ४।
idānīm na kuruṣva īśa tām līlām bhakta-vatsalaḥ .. sva-gaṇān amarān ca api su sanmānya abhivarddhaya .. 71.. 4.
न खेलयेदानीं जहि ब्रह्मपदप्रद ॥ इत्युक्त्वा नारद त्वं वै ह्यंतर्द्धानं गतस्तदा ॥ ७२॥
न खेलया इदानीम् जहि ब्रह्म-पद-प्रद ॥ इति उक्त्वा नारद त्वम् वै हि अंतर्द्धानम् गतः तदा ॥ ७२॥
na khelayā idānīm jahi brahma-pada-prada .. iti uktvā nārada tvam vai hi aṃtarddhānam gataḥ tadā .. 72..
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां च कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५॥
इति श्री-शिवमहापुराणे रुद्रसंहितायाम् च कुमारखण्डे गणेशयुद्धवर्णनम् नाम पञ्चदशः अध्यायः ॥ १५॥
iti śrī-śivamahāpurāṇe rudrasaṃhitāyām ca kumārakhaṇḍe gaṇeśayuddhavarṇanam nāma pañcadaśaḥ adhyāyaḥ .. 15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In