| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति श्रुत्वा महेशानो भक्तानुग्रहकारकः ॥ त्वद्वाचा युदकामोभूत्तेन बालेन नारद ॥ १॥
इति श्रुत्वा महेशानः भक्त-अनुग्रह-कारकः ॥ त्वद्-वाचा बालेन नारद ॥ १॥
iti śrutvā maheśānaḥ bhakta-anugraha-kārakaḥ .. tvad-vācā bālena nārada .. 1..
विष्णुमाहूय संमंत्र्य बलेन महता युतः ॥ सामरस्सम्मुखस्तस्याप्यभूद्देवस्त्रिलोचनः ॥ २ ॥
विष्णुम् आहूय संमंत्र्य बलेन महता युतः ॥ स अमरः सम्मुखः तस्य अपि अभूत् देवः त्रिलोचनः ॥ २ ॥
viṣṇum āhūya saṃmaṃtrya balena mahatā yutaḥ .. sa amaraḥ sammukhaḥ tasya api abhūt devaḥ trilocanaḥ .. 2 ..
देवाश्च युयुधुस्तेन स्मृत्वा शिवपदाम्बुजम् ॥ महाबला महोत्साहाश्शिवसद्दृष्टिलोकिताः॥ ३॥
देवाः च युयुधुः तेन स्मृत्वा शिव-पद-अम्बुजम् ॥ महा-बलाः महा-उत्साहाः शिव-सत्-दृष्टि-लोकिताः॥ ३॥
devāḥ ca yuyudhuḥ tena smṛtvā śiva-pada-ambujam .. mahā-balāḥ mahā-utsāhāḥ śiva-sat-dṛṣṭi-lokitāḥ.. 3..
युयुधेऽथ हरिस्तेन महाबलपराक्रमः॥ महादेव्यायुधो वीरः प्रवणः शिवरूपकः ॥ ४॥
युयुधे अथ हरिः तेन महा-बल-पराक्रमः॥ ॥ ४॥
yuyudhe atha hariḥ tena mahā-bala-parākramaḥ.. .. 4..
यष्ट्या गणाधिपस्सोथ जघानामरपुङ्गवान्॥ हरिं च सहसा वीरश्शक्तिदत्तमहाबलः ॥ ५ ॥
यष्ट्या गणाधिपः सः उथ जघान अमर-पुङ्गवान्॥ हरिम् च सहसा वीरः शक्तिदत्त-महा-बलः ॥ ५ ॥
yaṣṭyā gaṇādhipaḥ saḥ utha jaghāna amara-puṅgavān.. harim ca sahasā vīraḥ śaktidatta-mahā-balaḥ .. 5 ..
सर्वेऽमरगणास्तत्र विकुंठितबला मुने ॥ अभूवन् विष्णुना तेन हता यष्ट्या पराङ्मुखाः ॥ ६ ॥
सर्वे अमर-गणाः तत्र विकुंठित-बलाः मुने ॥ अभूवन् विष्णुना तेन हताः यष्ट्या पराङ्मुखाः ॥ ६ ॥
sarve amara-gaṇāḥ tatra vikuṃṭhita-balāḥ mune .. abhūvan viṣṇunā tena hatāḥ yaṣṭyā parāṅmukhāḥ .. 6 ..
शिवोपि सह सैन्येन युद्धं कृत्वा चिरं मुने ॥ विकरालं च तं दृष्ट्वा विस्मयं परमं गतः ॥ ७॥
शिवः अपि सह सैन्येन युद्धम् कृत्वा चिरम् मुने ॥ विकरालम् च तम् दृष्ट्वा विस्मयम् परमम् गतः ॥ ७॥
śivaḥ api saha sainyena yuddham kṛtvā ciram mune .. vikarālam ca tam dṛṣṭvā vismayam paramam gataḥ .. 7..
छलेनैव च हंतव्यो नान्यथा हन्यते पुनः ॥ इति बुद्धिं समास्थाय सैन्यमध्ये व्यवस्थितः॥ ८॥
छलेन एव च हंतव्यः न अन्यथा हन्यते पुनर् ॥ इति बुद्धिम् समास्थाय सैन्य-मध्ये व्यवस्थितः॥ ८॥
chalena eva ca haṃtavyaḥ na anyathā hanyate punar .. iti buddhim samāsthāya sainya-madhye vyavasthitaḥ.. 8..
शिवे दृष्टे तदा देवे निर्गुणे गुणरूपिणि॥ विष्णौ चैवाथ संग्रामे आयाते सर्वदेवताः॥ ९॥
शिवे दृष्टे तदा देवे निर्गुणे गुण-रूपिणि॥ विष्णौ च एव अथ संग्रामे आयाते सर्व-देवताः॥ ९॥
śive dṛṣṭe tadā deve nirguṇe guṇa-rūpiṇi.. viṣṇau ca eva atha saṃgrāme āyāte sarva-devatāḥ.. 9..
गणाश्चैव महेशस्य महाहर्षं तदा ययुः॥ सर्वे परस्परं प्रीत्या मिलित्वा चक्रुरुत्सवम्॥ 2.4.16.१०॥
गणाः च एव महेशस्य महा-हर्षम् तदा ययुः॥ सर्वे परस्परम् प्रीत्या मिलित्वा चक्रुः उत्सवम्॥ २।४।१६।१०॥
gaṇāḥ ca eva maheśasya mahā-harṣam tadā yayuḥ.. sarve parasparam prītyā militvā cakruḥ utsavam.. 2.4.16.10..
अथ शक्तिसुतो वीरो वीरगत्या स्वयष्टितः ॥ प्रथम पूजयामास विष्णुं सर्वसुखावहम् ॥ ११ ॥
अथ शक्ति-सुतः वीरः वीरगत्या स्व-यष्टितः ॥ पूजयामास विष्णुम् सर्व-सुख-आवहम् ॥ ११ ॥
atha śakti-sutaḥ vīraḥ vīragatyā sva-yaṣṭitaḥ .. pūjayāmāsa viṣṇum sarva-sukha-āvaham .. 11 ..
अहं च मोहयिष्यामि हन्यतां च त्वया विभो ॥ छलं विना न वध्योऽयं तामसोयं दुरासदः ॥ १२॥
अहम् च मोहयिष्यामि हन्यताम् च त्वया विभो ॥ छलम् विना न वध्यः अयम् तामसः यम् दुरासदः ॥ १२॥
aham ca mohayiṣyāmi hanyatām ca tvayā vibho .. chalam vinā na vadhyaḥ ayam tāmasaḥ yam durāsadaḥ .. 12..
इति कृत्वा मतिं तत्र सुसंमंत्र्य च शंभुना ॥ आज्ञां प्राप्याऽभवच्छैवी विष्णुर्मोहपरायणः॥ १३॥
इति कृत्वा मतिम् तत्र सु संमंत्र्य च शंभुना ॥ आज्ञाम् प्राप्य अभवत् शैवी विष्णुः मोह-परायणः॥ १३॥
iti kṛtvā matim tatra su saṃmaṃtrya ca śaṃbhunā .. ājñām prāpya abhavat śaivī viṣṇuḥ moha-parāyaṇaḥ.. 13..
शक्तिद्वयं तथा लीनं हरिं दृष्ट्वा तथाविधम् ॥ दत्त्वा शक्तिबलं तस्मै गणेशायाभवन्मुने॥ १४॥
शक्ति-द्वयम् तथा लीनम् हरिम् दृष्ट्वा तथाविधम् ॥ दत्त्वा शक्ति-बलम् तस्मै गणेशाय अभवत् मुने॥ १४॥
śakti-dvayam tathā līnam harim dṛṣṭvā tathāvidham .. dattvā śakti-balam tasmai gaṇeśāya abhavat mune.. 14..
शक्तिद्वयेऽथ संलीने यत्र विष्णुः स्थितस्स्वयम् ॥ परिघं क्षिप्तवांस्तत्र गणेशो बलवत्तरः॥ १५॥
शक्ति-द्वये अथ संलीने यत्र विष्णुः स्थितः स्वयम् ॥ परिघम् क्षिप्तवान् तत्र गणेशः बलवत्तरः॥ १५॥
śakti-dvaye atha saṃlīne yatra viṣṇuḥ sthitaḥ svayam .. parigham kṣiptavān tatra gaṇeśaḥ balavattaraḥ.. 15..
कृत्वा यत्नं किमप्यत्र वंचयामास तद्गतिम्॥ शिवं स्मृत्वा महेशानं स्वप्रभुं भक्तवत्सलम् ॥ १६॥
कृत्वा यत्नम् किम् अपि अत्र वंचयामास तद्-गतिम्॥ शिवम् स्मृत्वा महेशानम् स्व-प्रभुम् भक्त-वत्सलम् ॥ १६॥
kṛtvā yatnam kim api atra vaṃcayāmāsa tad-gatim.. śivam smṛtvā maheśānam sva-prabhum bhakta-vatsalam .. 16..
एकतस्तन्मुखं दृष्ट्वा शंकरोप्याजगाम ह ॥ स्वत्रिशूलं समादाय सुक्रुद्धो युद्धकाम्यया ॥ १७ ॥
एकतस् तद्-मुखम् दृष्ट्वा शंकरः उपि आजगाम ह ॥ स्व-त्रिशूलम् समादाय सु क्रुद्धः युद्ध-काम्यया ॥ १७ ॥
ekatas tad-mukham dṛṣṭvā śaṃkaraḥ upi ājagāma ha .. sva-triśūlam samādāya su kruddhaḥ yuddha-kāmyayā .. 17 ..
स ददर्शागतं शंभुं शूलह्स्तं महेश्वरम् ॥ हंतुकामं निजं वीरश्शिवापुत्रो महाबलः ॥ १८ ॥
स ददर्श आगतम् शंभुम् शूलह्स्तम् महेश्वरम् ॥ हंतु-कामम् निजम् वीरः शिवा-पुत्रः महा-बलः ॥ १८ ॥
sa dadarśa āgatam śaṃbhum śūlahstam maheśvaram .. haṃtu-kāmam nijam vīraḥ śivā-putraḥ mahā-balaḥ .. 18 ..
शक्त्या जघान तं हस्ते स्मृत्वा मातृपदांबुजम् ॥ स गणशो महावीरश्शिवशक्तिप्रवर्द्धितः ॥ १९॥
शक्त्या जघान तम् हस्ते स्मृत्वा मातृ-पद-अंबुजम् ॥ स गणशस् महा-वीरः शिव-शक्ति-प्रवर्द्धितः ॥ १९॥
śaktyā jaghāna tam haste smṛtvā mātṛ-pada-aṃbujam .. sa gaṇaśas mahā-vīraḥ śiva-śakti-pravarddhitaḥ .. 19..
त्रिशूलं पतितं हस्ताच्छिवस्य परमात्मनः ॥ दृष्ट्वा सदूतिकस्तं वै पिनाकं धनुराददे ॥ 2.4.16.२० ॥
त्रिशूलम् पतितम् हस्तात् शिवस्य परमात्मनः ॥ दृष्ट्वा स दूतिकः तम् वै पिनाकम् धनुः आददे ॥ २।४।१६।२० ॥
triśūlam patitam hastāt śivasya paramātmanaḥ .. dṛṣṭvā sa dūtikaḥ tam vai pinākam dhanuḥ ādade .. 2.4.16.20 ..
तमप्यपातयद्भूमौ परिघेण गणेश्वरः ॥ हताः पंच तथा हस्ताः पञ्चभिश्शूलमाददे ॥ २१ ॥
तम् अपि अपातयत् भूमौ परिघेण गणेश्वरः ॥ हताः पंच तथा हस्ताः पञ्चभिः शूलम् आददे ॥ २१ ॥
tam api apātayat bhūmau parigheṇa gaṇeśvaraḥ .. hatāḥ paṃca tathā hastāḥ pañcabhiḥ śūlam ādade .. 21 ..
अहो दुःखतरं नूनं संजातमधुना मम ॥ भवेत्पुनर्गणानां किं भवाचारी जगाविति ॥ २२॥
अहो दुःखतरम् नूनम् संजातम् अधुना मम ॥ भवेत् पुनर् गणानाम् किम् भव-आचारी जगौ इति ॥ २२॥
aho duḥkhataram nūnam saṃjātam adhunā mama .. bhavet punar gaṇānām kim bhava-ācārī jagau iti .. 22..
एतस्मिन्नंतरे वीरः परिघेण गणेश्वरः ॥ जघान सगणान् देवान्शक्तिदत्तबलान्वितः ॥ २३॥
एतस्मिन् अंतरे वीरः परिघेण गणेश्वरः ॥ जघान स गणान् देवान् शक्ति-दत्त-बल-अन्वितः ॥ २३॥
etasmin aṃtare vīraḥ parigheṇa gaṇeśvaraḥ .. jaghāna sa gaṇān devān śakti-datta-bala-anvitaḥ .. 23..
गता दशदिशो देवास्सगणा. परिघार्द्दिताः॥ न तस्थुस्समरे केपि तेनाद्भुतप्रहा रिणा॥ २४॥
गताः दश-दिशः देवाः स गणा। परिघ-अर्द्दिताः॥ न तस्थुः समरे के पि तेन अद्भुत-प्रहा॥ २४॥
gatāḥ daśa-diśaḥ devāḥ sa gaṇā. parigha-ardditāḥ.. na tasthuḥ samare ke pi tena adbhuta-prahā.. 24..
विष्णुस्तं च गणं दृष्ट्वा धन्योयमिति चाब्रवीत्॥ महाबलो महावीरो महाशूरो रणप्रियः ॥ २५॥
विष्णुः तम् च गणम् दृष्ट्वा धन्यः यम् इति च अब्रवीत्॥ ॥ २५॥
viṣṇuḥ tam ca gaṇam dṛṣṭvā dhanyaḥ yam iti ca abravīt.. .. 25..
बहवो देवताश्चैव मया दृष्टास्तथा पुनः ॥ दानवा बहवो दैत्या यक्षगंधर्वराक्षसाः ॥ २६॥
बहवः देवताः च एव मया दृष्टाः तथा पुनर् ॥ दानवाः बहवः दैत्याः यक्ष-गंधर्व-राक्षसाः ॥ २६॥
bahavaḥ devatāḥ ca eva mayā dṛṣṭāḥ tathā punar .. dānavāḥ bahavaḥ daityāḥ yakṣa-gaṃdharva-rākṣasāḥ .. 26..
नैतेन गणनाथेन समतां यांति केपि च ॥ त्रैलोक्येऽप्यखिले तेजो रूपशौर्यगुणादिभिः॥ २७॥
ना एतेन गणनाथेन सम-ताम् यांति के अपि च ॥ त्रैलोक्ये अपि अखिले तेजः रूप-शौर्य-गुण-आदिभिः॥ २७॥
nā etena gaṇanāthena sama-tām yāṃti ke api ca .. trailokye api akhile tejaḥ rūpa-śaurya-guṇa-ādibhiḥ.. 27..
एवं संब्रुवतेऽमुष्मै परिघं भ्रामयन् स च ॥ चिक्षेप विष्णवे तत्र शक्तिपुत्रो गणेश्वरः॥ २८॥
एवम् संब्रुवते अमुष्मै परिघम् भ्रामयन् स च ॥ चिक्षेप विष्णवे तत्र शक्ति-पुत्रः गणेश्वरः॥ २८॥
evam saṃbruvate amuṣmai parigham bhrāmayan sa ca .. cikṣepa viṣṇave tatra śakti-putraḥ gaṇeśvaraḥ.. 28..
चक्रं गृहीत्वा हरिणा स्मृत्वा शिवपदाम्बुजम् ॥ तेन चक्रेण परिघो द्रुतं खंडीकृतस्तदा ॥ २९॥
चक्रम् गृहीत्वा हरिणा स्मृत्वा शिव-पद-अम्बुजम् ॥ तेन चक्रेण परिघः द्रुतम् खंडीकृतः तदा ॥ २९॥
cakram gṛhītvā hariṇā smṛtvā śiva-pada-ambujam .. tena cakreṇa parighaḥ drutam khaṃḍīkṛtaḥ tadā .. 29..
खंडं तु परिघस्यापि हरये प्राक्षिपद्गणः॥ गृहीत्वा गरुडेनापि पक्षिणा विफलीकृतः ॥ 2.4.16.३०॥
खंडम् तु परिघस्य अपि हरये प्राक्षिपत् गणः॥ गृहीत्वा गरुडेन अपि पक्षिणा विफलीकृतः ॥ २।४।१६।३०॥
khaṃḍam tu parighasya api haraye prākṣipat gaṇaḥ.. gṛhītvā garuḍena api pakṣiṇā viphalīkṛtaḥ .. 2.4.16.30..
एवं विचरितं कालं महावीरावुभावपि ॥ विष्णुश्चापि गणश्चैव युयुधाते परस्परम् ॥ ३१॥
एवम् विचरितम् कालम् महा-वीरौ उभौ अपि ॥ विष्णुः च अपि गणः च एव युयुधाते परस्परम् ॥ ३१॥
evam vicaritam kālam mahā-vīrau ubhau api .. viṣṇuḥ ca api gaṇaḥ ca eva yuyudhāte parasparam .. 31..
पुनर्वीरवरश्शक्तिसुतस्स्मृतशिवो बली ॥ गृहीत्वा यष्टिमतुलां तया विष्णुं जघान ह ॥ ३२॥
पुनर् वीर-वरः शक्ति-सुतः स्मृत-शिवः बली ॥ गृहीत्वा यष्टिम् अतुलाम् तया विष्णुम् जघान ह ॥ ३२॥
punar vīra-varaḥ śakti-sutaḥ smṛta-śivaḥ balī .. gṛhītvā yaṣṭim atulām tayā viṣṇum jaghāna ha .. 32..
अविषह्य प्रहारं तं स भूमौ निपपात ह ॥ द्रुतमुत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३ ॥
अ विषह्य प्रहारम् तम् स भूमौ निपपात ह ॥ द्रुतम् उत्थाय युयुधे शिवापुत्रेण तेन वै ॥ ३३ ॥
a viṣahya prahāram tam sa bhūmau nipapāta ha .. drutam utthāya yuyudhe śivāputreṇa tena vai .. 33 ..
एतदंतरमासाद्य शूलपाणिस्तथोत्तरे ॥ आगत्य च त्रिशूलेन तच्छिरो निरकृंतत ॥ ३४॥
एतत् अंतरम् आसाद्य शूलपाणिः तथा उत्तरे ॥ आगत्य च त्रिशूलेन तद्-शिरः निरकृंतत ॥ ३४॥
etat aṃtaram āsādya śūlapāṇiḥ tathā uttare .. āgatya ca triśūlena tad-śiraḥ nirakṛṃtata .. 34..
छिन्ने शिरसि तस्यैव गणनाथस्य नारद ॥ गणसैन्यं देवसैन्यमभवच्च सुनिश्चलम्॥ ३५॥
छिन्ने शिरसि तस्य एव गणनाथस्य नारद ॥ गण-सैन्यम् देव-सैन्यम् अभवत् च सु निश्चलम्॥ ३५॥
chinne śirasi tasya eva gaṇanāthasya nārada .. gaṇa-sainyam deva-sainyam abhavat ca su niścalam.. 35..
नारदेन त्वयाऽऽगत्य देव्यै सर्वं निवेदितम् ॥ मानिनि श्रूयतां मानस्त्याज्यो नैव त्वयाधुना ॥ ३६॥
नारदेन त्वया आगत्य देव्यै सर्वम् निवेदितम् ॥ मानिनि श्रूयताम् मानः त्याज्यः ना एव त्वया अधुना ॥ ३६॥
nāradena tvayā āgatya devyai sarvam niveditam .. mānini śrūyatām mānaḥ tyājyaḥ nā eva tvayā adhunā .. 36..
इत्युक्त्वाऽन्तर्हितस्तत्र नारद त्वं कलिप्रियः ॥ अविकारी सदा शंभुर्मनोगतिकरो मुनिः ॥ ३७ ॥
इति उक्त्वा अन्तर्हितः तत्र नारद त्वम् कलिप्रियः ॥ अविकारी सदा शंभुः मनोगति-करः मुनिः ॥ ३७ ॥
iti uktvā antarhitaḥ tatra nārada tvam kalipriyaḥ .. avikārī sadā śaṃbhuḥ manogati-karaḥ muniḥ .. 37 ..
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदन वर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्री-शिवपुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशयुद्धगणेशशिरश्छेदनवर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrī-śivapurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśayuddhagaṇeśaśiraśchedanavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In