| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् वद महाप्राज्ञ तद्वृत्तान्तेखिले श्रुते ॥ किमकार्षीन्महादेवी श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
ब्रह्मन् वद महा-प्राज्ञ तद्-वृत्तान्ते इखिले श्रुते ॥ किम् अकार्षीत् महादेवी श्रोतुम् इच्छामि तत्त्वतः ॥ १ ॥
brahman vada mahā-prājña tad-vṛttānte ikhile śrute .. kim akārṣīt mahādevī śrotum icchāmi tattvataḥ .. 1 ..
ब्रह्मोवाच ।।
श्रूयतां मुनिशार्दूल कथयाम्यद्य तद्ध्रुवम् ॥ चरितं जगदंबाया यज्जातं तदनंतरम् ॥ २॥
श्रूयताम् मुनि-शार्दूल कथयामि अद्य तत् ध्रुवम् ॥ चरितम् जगत्-अंबायाः यत् जातम् तत् अनंतरम् ॥ २॥
śrūyatām muni-śārdūla kathayāmi adya tat dhruvam .. caritam jagat-aṃbāyāḥ yat jātam tat anaṃtaram .. 2..
मृदंगान्पटहांश्चैव गणाश्चावादयंस्तथा ॥ महोत्सवं तदा चक्रुर्हते तस्मिन्गणाधिपे ॥ ३॥
मृदंगान् पटहान् च एव गणाः च अवादयन् तथा ॥ महा-उत्सवम् तदा चक्रुः हते तस्मिन् गणाधिपे ॥ ३॥
mṛdaṃgān paṭahān ca eva gaṇāḥ ca avādayan tathā .. mahā-utsavam tadā cakruḥ hate tasmin gaṇādhipe .. 3..
शिवोपि तच्छिरश्छित्वा यावद्दुःखमुपाददे ॥ तावच्च गिरिजा देवी चुक्रोधाति मुनीश्वर ॥ ४ ॥
शिवः अपि तत् शिरः छित्वा यावत् दुःखम् उपाददे ॥ तावत् च गिरिजा देवी चुक्रोध अति मुनि-ईश्वर ॥ ४ ॥
śivaḥ api tat śiraḥ chitvā yāvat duḥkham upādade .. tāvat ca girijā devī cukrodha ati muni-īśvara .. 4 ..
किं करोमि क्व गच्छामि हाहादुःखमुपागतम् ॥ कथं दुःखं विनश्येतास्याऽतिदुखं ममाधुना ॥ ५ ॥
किम् करोमि क्व गच्छामि हाहा-दुःखम् उपागतम् ॥ कथम् दुःखम् विनश्येत अस्य अति दुखम् मम अधुना ॥ ५ ॥
kim karomi kva gacchāmi hāhā-duḥkham upāgatam .. katham duḥkham vinaśyeta asya ati dukham mama adhunā .. 5 ..
मत्सुतो नाशितश्चाद्य देवेस्सर्वैर्गणैस्तथा ॥ सर्वांस्तान्नाशयिष्यामि प्रलयं वा करोम्यहम् ॥ ६ ॥
मद्-सुतः नाशितः च अद्य ॥ सर्वान् तान् नाशयिष्यामि प्रलयम् वा करोमि अहम् ॥ ६ ॥
mad-sutaḥ nāśitaḥ ca adya .. sarvān tān nāśayiṣyāmi pralayam vā karomi aham .. 6 ..
इत्येवं दुःखिता सा च शक्तीश्शतसहस्रशः ॥ निर्ममे तत्क्षणं क्रुद्धा सर्वलोकमहेश्वरी ॥ ७॥
इति एवम् दुःखिता सा च शक्तीः शत-सहस्रशस् ॥ निर्ममे तद्-क्षणम् क्रुद्धा सर्व-लोक-महेश्वरी ॥ ७॥
iti evam duḥkhitā sā ca śaktīḥ śata-sahasraśas .. nirmame tad-kṣaṇam kruddhā sarva-loka-maheśvarī .. 7..
निर्मितास्ता नमस्कृत्य जगदंबां शिवां तदा ॥ जाज्वल्यमाना ह्यवदन्मातरादिश्यतामिति ॥ ८ ॥
निर्मिताः ताः नमस्कृत्य जगत्-अंबाम् शिवाम् तदा ॥ जाज्वल्यमाना हि अवदत् मातर् आदिश्यताम् इति ॥ ८ ॥
nirmitāḥ tāḥ namaskṛtya jagat-aṃbām śivām tadā .. jājvalyamānā hi avadat mātar ādiśyatām iti .. 8 ..
तच्छुत्वा शंभुशक्तिस्सा प्रकृतिः क्रोधतत्परा ॥ प्रत्युवाच तु तास्सर्वा महामाया मुनीश्वर ॥ ९ ॥
तत् शुत्वा शंभुशक्तिः सा प्रकृतिः क्रोध-तत्परा ॥ प्रत्युवाच तु ताः सर्वाः महामायाः मुनि-ईश्वर ॥ ९ ॥
tat śutvā śaṃbhuśaktiḥ sā prakṛtiḥ krodha-tatparā .. pratyuvāca tu tāḥ sarvāḥ mahāmāyāḥ muni-īśvara .. 9 ..
देव्युवाच ।।
हे शक्तयोऽधुना देव्यो युष्माभिर्मन्निदेशतः ॥ प्रलयश्चात्र कर्त्तव्यो नात्र कार्या विचारणा ॥ 2.4.17.१० ॥
हे शक्तयः अधुना देव्यः युष्माभिः मद्-निदेशतः ॥ प्रलयः च अत्र कर्त्तव्यः न अत्र कार्या विचारणा ॥ २।४।१७।१० ॥
he śaktayaḥ adhunā devyaḥ yuṣmābhiḥ mad-nideśataḥ .. pralayaḥ ca atra karttavyaḥ na atra kāryā vicāraṇā .. 2.4.17.10 ..
देवांश्चैव ऋषींश्चैव यक्षराक्षसकांस्तथा ॥ अस्मदीयान्परांश्चैव सख्यो भक्षत वै हठात् ॥ ११॥
देवान् च एव ऋषीन् च एव यक्ष-राक्षसकान् तथा ॥ अस्मदीयान् परान् च एव सख्यः भक्षत वै हठात् ॥ ११॥
devān ca eva ṛṣīn ca eva yakṣa-rākṣasakān tathā .. asmadīyān parān ca eva sakhyaḥ bhakṣata vai haṭhāt .. 11..
ब्रह्मोवाच ।।
तदाज्ञप्ताश्च तास्सर्वाश्शक्तयः क्रोधतत्पराः ॥ देवादीनां च सर्वेषां संहारं कर्तुमुद्यताः ॥ १२ ॥
तद्-आज्ञप्ताः च ताः सर्वाः शक्तयः क्रोध-तत्पराः ॥ देव-आदीनाम् च सर्वेषाम् संहारम् कर्तुम् उद्यताः ॥ १२ ॥
tad-ājñaptāḥ ca tāḥ sarvāḥ śaktayaḥ krodha-tatparāḥ .. deva-ādīnām ca sarveṣām saṃhāram kartum udyatāḥ .. 12 ..
यथा च तृणसंहारमनलः कुरुते तथा ॥ एवं ताश्शक्तयस्सर्वास्संहारं कर्तुमुद्यताः ॥ १३॥
यथा च तृण-संहारम् अनलः कुरुते तथा ॥ एवम् ताः शक्तयः सर्वाः संहारम् कर्तुम् उद्यताः ॥ १३॥
yathā ca tṛṇa-saṃhāram analaḥ kurute tathā .. evam tāḥ śaktayaḥ sarvāḥ saṃhāram kartum udyatāḥ .. 13..
गणपो वाथ विष्णुर्वा ब्रह्मा वा शंकरस्तथा ॥ इन्द्रो वा यक्षराजो वा स्कंदो वा सूर्य एव वा ॥ १४॥
गणपः वा अथ विष्णुः वा ब्रह्मा वा शंकरः तथा ॥ इन्द्रः वा यक्षराजः वा स्कंदः वा सूर्यः एव वा ॥ १४॥
gaṇapaḥ vā atha viṣṇuḥ vā brahmā vā śaṃkaraḥ tathā .. indraḥ vā yakṣarājaḥ vā skaṃdaḥ vā sūryaḥ eva vā .. 14..
सर्वेषां चैव संहारं कुर्वंति स्म निरंतरम् ॥ यत्रयत्र तु दृश्येत तत्रतत्रापि शक्तयः ॥ १५॥
सर्वेषाम् च एव संहारम् कुर्वंति स्म निरंतरम् ॥ यत्र यत्र तु दृश्येत तत्र तत्र अपि शक्तयः ॥ १५॥
sarveṣām ca eva saṃhāram kurvaṃti sma niraṃtaram .. yatra yatra tu dṛśyeta tatra tatra api śaktayaḥ .. 15..
कराली कुब्जका खंजा लंबशीर्षा ह्यनेकशः ॥ हस्ते धृत्वा तु देवांश्च मुखे चैवाक्षिपंस्तदा ॥ १६॥
कराली कुब्जका खंजा लंबशीर्षा हि अनेकशस् ॥ हस्ते धृत्वा तु देवान् च मुखे च एव आक्षिपन् तदा ॥ १६॥
karālī kubjakā khaṃjā laṃbaśīrṣā hi anekaśas .. haste dhṛtvā tu devān ca mukhe ca eva ākṣipan tadā .. 16..
तं संहारं तदा दृष्ट्वा हरो ब्रह्मा तथा हरिः ॥ इन्द्रादयोऽखिलाः देवा गणाश्च ऋषयस्तथा ॥ १७ ॥
तम् संहारम् तदा दृष्ट्वा हरः ब्रह्मा तथा हरिः ॥ इन्द्र-आदयः अखिलाः देवाः गणाः च ऋषयः तथा ॥ १७ ॥
tam saṃhāram tadā dṛṣṭvā haraḥ brahmā tathā hariḥ .. indra-ādayaḥ akhilāḥ devāḥ gaṇāḥ ca ṛṣayaḥ tathā .. 17 ..
किं करिष्यति सा देवी संहारं वाप्यकालतः ॥ इति संशयमापन्ना जीवनाशा हताऽभवत् ॥ १८ ॥
किम् करिष्यति सा देवी संहारम् वा अपि अकालतः ॥ इति संशयम् आपन्ना जीवनाशा हता अभवत् ॥ १८ ॥
kim kariṣyati sā devī saṃhāram vā api akālataḥ .. iti saṃśayam āpannā jīvanāśā hatā abhavat .. 18 ..
सर्वे च मिलिताश्चेमे कि कर्त्तव्यं विचिंत्यताम् ॥ एवं विचारयन्तस्ते तूर्णमूचुः परस्परम् ॥ १९॥
सर्वे च मिलिताः च इमे कि कर्त्तव्यम् विचिंत्यताम् ॥ एवम् विचारयन्तः ते तूर्णम् ऊचुः परस्परम् ॥ १९॥
sarve ca militāḥ ca ime ki karttavyam viciṃtyatām .. evam vicārayantaḥ te tūrṇam ūcuḥ parasparam .. 19..
यदा च गिरिजा देवी प्रसन्ना हि भवेदिह ॥ तदा चैव भवेत्स्वास्थ्यं नान्यथा कोटियत्नतः ॥ 2.4.17.२० ॥
यदा च गिरिजा देवी प्रसन्ना हि भवेत् इह ॥ तदा च एव भवेत् स्वास्थ्यम् न अन्यथा कोटि-यत्नतः ॥ २।४।१७।२० ॥
yadā ca girijā devī prasannā hi bhavet iha .. tadā ca eva bhavet svāsthyam na anyathā koṭi-yatnataḥ .. 2.4.17.20 ..
शिवोपि दुःखमापन्नो लौकिकीं गतिमाश्रितः ॥ मोहयन्सकलांस्तत्र नानालीलाविशारदः ॥ २१॥
शिवः अपि दुःखम् आपन्नः लौकिकीम् गतिम् आश्रितः ॥ मोहयन् सकलान् तत्र नाना लीला-विशारदः ॥ २१॥
śivaḥ api duḥkham āpannaḥ laukikīm gatim āśritaḥ .. mohayan sakalān tatra nānā līlā-viśāradaḥ .. 21..
सर्वेषां चैव देवानां कटिर्भग्ना यदा तदा ॥ शिवा क्रोधमयी साक्षाद्गंतुं न पुर उत्सहेत् ॥ । २२ ॥
सर्वेषाम् च एव देवानाम् कटिः भग्ना यदा तदा ॥ शिवा क्रोध-मयी साक्षात् गंतुम् न पुरस् उत्सहेत् ॥ । २२ ॥
sarveṣām ca eva devānām kaṭiḥ bhagnā yadā tadā .. śivā krodha-mayī sākṣāt gaṃtum na puras utsahet .. . 22 ..
स्वीयो वा परकीयो वा देवो वा दानवोपि वा ॥ गणो वापि च दिक्पालो यक्षो वा किन्नरो मुनिः ॥ २३ ॥
स्वीयः वा परकीयः वा देवः वा दानवः अपि वा ॥ गणः वा अपि च दिक्पालः यक्षः वा किन्नरः मुनिः ॥ २३ ॥
svīyaḥ vā parakīyaḥ vā devaḥ vā dānavaḥ api vā .. gaṇaḥ vā api ca dikpālaḥ yakṣaḥ vā kinnaraḥ muniḥ .. 23 ..
विष्णुर्वापि तथा ब्रह्मा शंकरश्च तथा प्रभुः ॥ न कश्चिद्गिरिजाग्रे च स्थातुं शक्तोऽभवन्मुने ॥ २४॥
विष्णुः वा अपि तथा ब्रह्मा शंकरः च तथा प्रभुः ॥ न कश्चिद् गिरिजा-अग्रे च स्थातुम् शक्तः अभवत् मुने ॥ २४॥
viṣṇuḥ vā api tathā brahmā śaṃkaraḥ ca tathā prabhuḥ .. na kaścid girijā-agre ca sthātum śaktaḥ abhavat mune .. 24..
जाज्वल्यमानं तत्तेजस्सर्वतोदाहि तेऽखिलाः ॥ दृष्ट्वा भीततरा आसन् सर्वे दूरतरं स्थिताः ॥ २५॥
जाज्वल्यमानम् तत् तेजः सर्वतोदाहि ते अखिलाः ॥ दृष्ट्वा भीततराः आसन् सर्वे दूरतरम् स्थिताः ॥ २५॥
jājvalyamānam tat tejaḥ sarvatodāhi te akhilāḥ .. dṛṣṭvā bhītatarāḥ āsan sarve dūrataram sthitāḥ .. 25..
एतस्मिन्समये तत्र नारदो दिव्यदर्शनः ॥ आगतस्त्वं मुने देवगणानां सुखहेतवे ॥ २६॥
एतस्मिन् समये तत्र नारदः दिव्य-दर्शनः ॥ आगतः त्वम् मुने देव-गणानाम् सुख-हेतवे ॥ २६॥
etasmin samaye tatra nāradaḥ divya-darśanaḥ .. āgataḥ tvam mune deva-gaṇānām sukha-hetave .. 26..
ब्रह्माणं मां भवं विष्णुं शंकरं च प्रणम्य साः ॥ समागत्य मिलित्वोचे विचार्य कार्यमेव वा ॥ २७॥
ब्रह्माणम् माम् भवम् विष्णुम् शंकरम् च प्रणम्य साः ॥ समागत्य मिलित्वा ऊचे विचार्य कार्यम् एव वा ॥ २७॥
brahmāṇam mām bhavam viṣṇum śaṃkaram ca praṇamya sāḥ .. samāgatya militvā ūce vicārya kāryam eva vā .. 27..
सर्वे संमंत्रयां चक्रुस्त्वया देवा महात्मना ॥ दुःखशांतिः कथं स्याद्वै समूचुस्तत एव ते ॥ २८॥
सर्वे संमंत्रयाम् चक्रुः त्वया देवाः महात्मना ॥ दुःख-शांतिः कथम् स्यात् वै समूचुः ततस् एव ते ॥ २८॥
sarve saṃmaṃtrayām cakruḥ tvayā devāḥ mahātmanā .. duḥkha-śāṃtiḥ katham syāt vai samūcuḥ tatas eva te .. 28..
यावच्च गिरिजा देवी कृपां नैव करिष्यति॥ तावन्नैव सुखं स्याद्वै नात्र कार्या विचारणा॥ २९॥
यावत् च गिरिजा देवी कृपाम् ना एव करिष्यति॥ तावत् ना एव सुखम् स्यात् वै ना अत्र कार्या विचारणा॥ २९॥
yāvat ca girijā devī kṛpām nā eva kariṣyati.. tāvat nā eva sukham syāt vai nā atra kāryā vicāraṇā.. 29..
ऋषयो हि त्वदाद्याश्च गतास्ते वै शिवान्तिकम्॥ सर्वे प्रसादयामासुः क्रोधशान्त्यै तदा शिवाम् ॥ 2.4.17.३०॥
ऋषयः हि त्वद्-आद्याः च गताः ते वै शिव-अन्तिकम्॥ सर्वे प्रसादयामासुः क्रोध-शान्त्यै तदा शिवाम् ॥ २।४।१७।३०॥
ṛṣayaḥ hi tvad-ādyāḥ ca gatāḥ te vai śiva-antikam.. sarve prasādayāmāsuḥ krodha-śāntyai tadā śivām .. 2.4.17.30..
पुनः पुनः प्रणेमुश्च स्तुत्वा स्तोत्रैरनेकशः ॥ सर्वे प्रसादयन्प्रीत्या प्रोचुर्देवगणाज्ञया॥ ३१॥
पुनर् पुनर् प्रणेमुः च स्तुत्वा स्तोत्रैः अनेकशस् ॥ सर्वे प्रसादयन् प्रीत्या प्रोचुः देव-गण-आज्ञया॥ ३१॥
punar punar praṇemuḥ ca stutvā stotraiḥ anekaśas .. sarve prasādayan prītyā procuḥ deva-gaṇa-ājñayā.. 31..
सुरर्षय ऊचुः ।।
जगदम्ब नमस्तुभ्यं शिवायै ते नमोस्तु ते ॥ चंडिकायै नमस्तुभ्यं कल्याण्यै ते नमोस्तु ते ॥ ३२॥
जगत्-अम्ब नमः तुभ्यम् शिवायै ते नमः अस्तु ते ॥ चंडिकायै नमः तुभ्यम् कल्याण्यै ते नमः अस्तु ते ॥ ३२॥
jagat-amba namaḥ tubhyam śivāyai te namaḥ astu te .. caṃḍikāyai namaḥ tubhyam kalyāṇyai te namaḥ astu te .. 32..
आदिशक्तिस्त्वमेवांब सर्वसृष्टिकरी सदा॥ त्वमेव पालिनी शक्तिस्त्वमेव प्रलयंकरी ॥ ३३॥
आदिशक्तिः त्वम् एव अंब सर्व-सृष्टि-करी सदा॥ त्वम् एव पालिनी शक्तिः त्वम् एव प्रलयंकरी ॥ ३३॥
ādiśaktiḥ tvam eva aṃba sarva-sṛṣṭi-karī sadā.. tvam eva pālinī śaktiḥ tvam eva pralayaṃkarī .. 33..
प्रसन्ना भव देवेशि शांतिं कुरु नमोस्तु ते॥ सर्वं हि विकलं देवि त्रिजगत्तव कोपतः॥ ३४॥
प्रसन्ना भव देवेशि शांतिम् कुरु नमः अस्तु ते॥ सर्वम् हि विकलम् देवि त्रिजगत् तव कोपतः॥ ३४॥
prasannā bhava deveśi śāṃtim kuru namaḥ astu te.. sarvam hi vikalam devi trijagat tava kopataḥ.. 34..
ब्रह्मोवाच ।।
एवं स्तुता परा देवी ऋषिभिश्च त्वदादिभिः ॥ क्रुद्धदृष्ट्या तदा ताश्च किंचिन्नोवाच सा शिवा ॥ ३५॥
एवम् स्तुता परा देवी ऋषिभिः च त्वद्-आदिभिः ॥ क्रुद्ध-दृष्ट्या तदा ताः च किंचिद् ना उवाच सा शिवा ॥ ३५॥
evam stutā parā devī ṛṣibhiḥ ca tvad-ādibhiḥ .. kruddha-dṛṣṭyā tadā tāḥ ca kiṃcid nā uvāca sā śivā .. 35..
तदा च ऋषयस्सर्वे नत्वा तच्चरणांबुजम् ॥ पुनरूचुश्शिवां भक्त्या कृतांजलिपुटाश्शनैः ॥ ३६ ॥
तदा च ऋषयः सर्वे नत्वा तद्-चरण-अंबुजम् ॥ पुनर् ऊचुः शिवाम् भक्त्या कृत-अंजलि-पुटाः शनैस् ॥ ३६ ॥
tadā ca ṛṣayaḥ sarve natvā tad-caraṇa-aṃbujam .. punar ūcuḥ śivām bhaktyā kṛta-aṃjali-puṭāḥ śanais .. 36 ..
ऋषय ऊचुः ॥ क्षम्यतां देवि संहारो जाय तेऽधुना ॥ तव स्वामी स्थितश्चात्र पश्य पश्य तमंबिके ॥ ३७॥
ऋषयः ऊचुः ॥ क्षम्यताम् देवि संहारः ते अधुना ॥ तव स्वामी स्थितः च अत्र पश्य पश्य तम् अंबिके ॥ ३७॥
ṛṣayaḥ ūcuḥ .. kṣamyatām devi saṃhāraḥ te adhunā .. tava svāmī sthitaḥ ca atra paśya paśya tam aṃbike .. 37..
वयं के च इमे देवा विष्णुब्रह्मादयस्तथा ॥ प्रजाश्च भवदीयाश्च कृतांजलिपुटाः स्थिताः ॥ ३८॥
वयम् के च इमे देवाः विष्णु-ब्रह्म-आदयः तथा ॥ प्रजाः च भवदीयाः च कृत-अंजलि-पुटाः स्थिताः ॥ ३८॥
vayam ke ca ime devāḥ viṣṇu-brahma-ādayaḥ tathā .. prajāḥ ca bhavadīyāḥ ca kṛta-aṃjali-puṭāḥ sthitāḥ .. 38..
क्षंतव्यश्चापराधो वै सर्वेषां परमेश्वरि ॥ सर्वे हि विकलाश्चाद्य शांतिं तेषां शिवे कुरु ॥ ३९ ॥
क्षंतव्यः च अपराधः वै सर्वेषाम् परमेश्वरि ॥ सर्वे हि विकलाः च अद्य शांतिम् तेषाम् शिवे कुरु ॥ ३९ ॥
kṣaṃtavyaḥ ca aparādhaḥ vai sarveṣām parameśvari .. sarve hi vikalāḥ ca adya śāṃtim teṣām śive kuru .. 39 ..
ब्रह्मोवाच ।।
इत्युक्त्वा ऋषयस्सर्वे सुदीनतरमाकुलाः ॥ संतस्थिरे चंडिकाग्रे कृतांजलिपुटास्तदा ॥ 2.4.17.४०॥
इति उक्त्वा ऋषयः सर्वे सु दीनतरम् आकुलाः ॥ संतस्थिरे चंडिका-अग्रे कृत-अंजलि-पुटाः तदा ॥ २।४।१७।४०॥
iti uktvā ṛṣayaḥ sarve su dīnataram ākulāḥ .. saṃtasthire caṃḍikā-agre kṛta-aṃjali-puṭāḥ tadā .. 2.4.17.40..
एवं श्रुत्वा वचस्तेषां प्रसन्ना चंडिकाऽभवत् ॥ प्रत्युवाच ऋषींस्तान्वै करुणाविष्टमानसा ॥ ४१॥
एवम् श्रुत्वा वचः तेषाम् प्रसन्ना चंडिका अभवत् ॥ प्रत्युवाच ऋषीन् तान् वै करुणा-आविष्ट-मानसा ॥ ४१॥
evam śrutvā vacaḥ teṣām prasannā caṃḍikā abhavat .. pratyuvāca ṛṣīn tān vai karuṇā-āviṣṭa-mānasā .. 41..
देव्युवाच ।।
मत्पुत्रो यदि जीवेत तदा संहरणं नहि ॥ यथा हि भवतां मध्ये पूज्योऽयं च भविष्यति ॥ ४२॥
मद्-पुत्रः यदि जीवेत तदा संहरणम् नहि ॥ यथा हि भवताम् मध्ये पूज्यः अयम् च भविष्यति ॥ ४२॥
mad-putraḥ yadi jīveta tadā saṃharaṇam nahi .. yathā hi bhavatām madhye pūjyaḥ ayam ca bhaviṣyati .. 42..
सर्वाध्यक्षो भवेदद्य यूयं कुरुत तद्यदि ॥ तदा शांतिर्भवेल्लोके नान्यथा सुखमाप्स्यथ ॥ ४३॥
सर्व-अध्यक्षः भवेत् अद्य यूयम् कुरुत तत् यदि ॥ तदा शांतिः भवेत् लोके न अन्यथा सुखम् आप्स्यथ ॥ ४३॥
sarva-adhyakṣaḥ bhavet adya yūyam kuruta tat yadi .. tadā śāṃtiḥ bhavet loke na anyathā sukham āpsyatha .. 43..
।। ब्रह्मोवाच ।।
इत्युक्तास्ते तदा सर्वे ऋषयो युष्मदादयः ॥ तेभ्यो देवेभ्य आगत्य सर्वं वृत्तं न्यवेदयन् ॥ ४४॥
इति उक्ताः ते तदा सर्वे ऋषयः युष्मद्-आदयः ॥ तेभ्यः देवेभ्यः आगत्य सर्वम् वृत्तम् न्यवेदयन् ॥ ४४॥
iti uktāḥ te tadā sarve ṛṣayaḥ yuṣmad-ādayaḥ .. tebhyaḥ devebhyaḥ āgatya sarvam vṛttam nyavedayan .. 44..
ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ॥ नत्वा प्रांजलयो दीनाः शक्रप्रभृतयस्सुराः ॥ ४५॥
ते च सर्वे तथा श्रुत्वा शंकराय न्यवेदयन् ॥ नत्वा प्रांजलयः दीनाः शक्र-प्रभृतयः सुराः ॥ ४५॥
te ca sarve tathā śrutvā śaṃkarāya nyavedayan .. natvā prāṃjalayaḥ dīnāḥ śakra-prabhṛtayaḥ surāḥ .. 45..
प्रोवाचेति सुराञ्छ्रुत्वा शिवश्चापि तथा पुनः ॥ कर्त्तव्यं च तथा सर्वलोकस्वास्थ्यं भवेदिह॥ ४६॥
प्रोवाच इति सुरान् श्रुत्वा शिवः च अपि तथा पुनर् ॥ कर्त्तव्यम् च तथा सर्व-लोक-स्वास्थ्यम् भवेत् इह॥ ४६॥
provāca iti surān śrutvā śivaḥ ca api tathā punar .. karttavyam ca tathā sarva-loka-svāsthyam bhavet iha.. 46..
उत्तरस्यां पुनर्यात प्रथमं यो मिलेदिह॥ तच्छिरश्च समाहृत्य योजनीयं कलेवरे ॥ ॥ ४७ ॥
उत्तरस्याम् पुनर् यात प्रथमम् यः मिलेत् इह॥ तत् शिरः च समाहृत्य योजनीयम् कलेवरे ॥ ॥ ४७ ॥
uttarasyām punar yāta prathamam yaḥ milet iha.. tat śiraḥ ca samāhṛtya yojanīyam kalevare .. .. 47 ..
।। ब्रह्मोवाच ।।
ततस्तैस्तत्कृतं सर्वं शिवाज्ञाप्रतिपालकैः ॥ कलेवरं समानीय प्रक्षाल्य विधिवच्च तत् ॥ ४८॥
ततस् तैः तत् कृतम् सर्वम् शिव-आज्ञा-प्रतिपालकैः ॥ कलेवरम् समानीय प्रक्षाल्य विधिवत् च तत् ॥ ४८॥
tatas taiḥ tat kṛtam sarvam śiva-ājñā-pratipālakaiḥ .. kalevaram samānīya prakṣālya vidhivat ca tat .. 48..
पूजयित्वा पुनस्ते वै गताश्चोदङ्मुखास्तदा ॥ प्रथमं मिलितस्तत्र हस्ती चाप्येकदंतकः ॥ ४९ ॥
पूजयित्वा पुनर् ते वै गताः च उदक्-मुखाः तदा ॥ प्रथमम् मिलितः तत्र हस्ती च अपि एक-दंतकः ॥ ४९ ॥
pūjayitvā punar te vai gatāḥ ca udak-mukhāḥ tadā .. prathamam militaḥ tatra hastī ca api eka-daṃtakaḥ .. 49 ..
तच्छिरश्च तदा नीत्वा तत्र तेऽयोजयन् ध्रुवम् ॥ संयोज्य देवतास्सर्वाः शिवं विष्णुं विधिं तदा ॥ 2.4.17.५० ॥
तत् शिरः च तदा नीत्वा तत्र ते अयोजयन् ध्रुवम् ॥ संयोज्य देवताः सर्वाः शिवम् विष्णुम् विधिम् तदा ॥ २।४।१७।५० ॥
tat śiraḥ ca tadā nītvā tatra te ayojayan dhruvam .. saṃyojya devatāḥ sarvāḥ śivam viṣṇum vidhim tadā .. 2.4.17.50 ..
प्रणम्य वचनं प्रोचुर्भवदुक्तं कृतं च नः ॥ अनंतरं च तत्कार्यं भवताद्भवशेषितम् ॥ ५१ ॥
प्रणम्य वचनम् प्रोचुः भवत्-उक्तम् कृतम् च नः ॥ अनंतरम् च तत् कार्यम् भवतात् भव-शेषितम् ॥ ५१ ॥
praṇamya vacanam procuḥ bhavat-uktam kṛtam ca naḥ .. anaṃtaram ca tat kāryam bhavatāt bhava-śeṣitam .. 51 ..
ब्रह्मोवाच ।।
ततस्ते तु विरेजुश्च पार्षदाश्च सुराः सुखम् ॥ अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२ ॥
ततस् ते तु विरेजुः च पार्षदाः च सुराः सुखम् ॥ अथ तत् वचनम् श्रुत्वा शिव-उक्तम् पर्यपालयन् ॥ ५२ ॥
tatas te tu virejuḥ ca pārṣadāḥ ca surāḥ sukham .. atha tat vacanam śrutvā śiva-uktam paryapālayan .. 52 ..
अथ तद्वचनं श्रुत्वा शिवोक्तं पर्यपालयन् ॥ ५२ ॥ ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ॥
अथ तत् वचनम् श्रुत्वा शिव-उक्तम् पर्यपालयन् ॥ ५२ ॥ ऊचुः ते च तदा तत्र ब्रह्म-विष्णु-सुराः तथा ॥
atha tat vacanam śrutvā śiva-uktam paryapālayan .. 52 .. ūcuḥ te ca tadā tatra brahma-viṣṇu-surāḥ tathā ..
ऊचुस्ते च तदा तत्र ब्रह्मविष्णुसुरास्तथा ॥ प्रणम्येशं शिवं देवं स्वप्रभुं गुणवर्जितम् ॥ ५३ ॥
ऊचुः ते च तदा तत्र ब्रह्म-विष्णु-सुराः तथा ॥ प्रणम्य ईशम् शिवम् देवम् स्व-प्रभुम् गुण-वर्जितम् ॥ ५३ ॥
ūcuḥ te ca tadā tatra brahma-viṣṇu-surāḥ tathā .. praṇamya īśam śivam devam sva-prabhum guṇa-varjitam .. 53 ..
यस्मात्त्वत्तेजसस्सर्वे वयं जाता महात्मनः ॥ त्वत्तेजस्तत्समायातु वेदमंत्राभियोगतः ॥ ५४॥
यस्मात् त्वद्-तेजसः सर्वे वयम् जाताः महात्मनः ॥ त्वद्-तेजः तत् समायातु वेद-मंत्र-अभियोगतः ॥ ५४॥
yasmāt tvad-tejasaḥ sarve vayam jātāḥ mahātmanaḥ .. tvad-tejaḥ tat samāyātu veda-maṃtra-abhiyogataḥ .. 54..
इत्येवमभिमंत्रेण मंत्रितं जलमुत्तमम्॥ स्मृत्वा शिवं समेतास्ते चिक्षिपुस्तत्कलेवरे ॥ ९५॥
इति एवम् अभिमंत्रेण मंत्रितम् जलम् उत्तमम्॥ स्मृत्वा शिवम् समेताः ते चिक्षिपुः तद्-कलेवरे ॥ ९५॥
iti evam abhimaṃtreṇa maṃtritam jalam uttamam.. smṛtvā śivam sametāḥ te cikṣipuḥ tad-kalevare .. 95..
तज्जलस्पर्शमात्रेण चिद्युतो जीवितो द्रुतम् ॥ तदोत्तस्थौ सुप्त इव स बालश्च शिवेच्छया ॥ ५६ ॥
तद्-जल-स्पर्श-मात्रेण चिद्युतः जीवितः द्रुतम् ॥ तदा उत्तस्थौ सुप्तः इव स बालः च शिव-इच्छया ॥ ५६ ॥
tad-jala-sparśa-mātreṇa cidyutaḥ jīvitaḥ drutam .. tadā uttasthau suptaḥ iva sa bālaḥ ca śiva-icchayā .. 56 ..
सुभगस्सुन्दरतरो गजवक्त्रस्सुरक्तकः ॥ प्रसन्नवदनश्चातिसुप्रभो ललिताकृतिः ॥ ५७ ॥
सुभगः सुन्दरतरः गजवक्त्रः सु रक्तकः ॥ प्रसन्न-वदनः च अति सु प्रभः ललित-आकृतिः ॥ ५७ ॥
subhagaḥ sundarataraḥ gajavaktraḥ su raktakaḥ .. prasanna-vadanaḥ ca ati su prabhaḥ lalita-ākṛtiḥ .. 57 ..
तं दृष्ट्वा जीवितं बालं शिवापुत्रं मुनीश्वर॥ सर्वे मुमुदिरे तत्र सर्वदुःखं क्षयं गतम् ॥ ५८॥
तम् दृष्ट्वा जीवितम् बालम् शिवा-पुत्रम् मुनि-ईश्वर॥ सर्वे मुमुदिरे तत्र सर्व-दुःखम् क्षयम् गतम् ॥ ५८॥
tam dṛṣṭvā jīvitam bālam śivā-putram muni-īśvara.. sarve mumudire tatra sarva-duḥkham kṣayam gatam .. 58..
देव्यै संदर्शयामासुः सर्वे हर्षसमन्विताः ॥ जीवितं तनयं दृष्ट्वा देवी हृष्टतराभवत् ॥ ५९॥
देव्यै संदर्शयामासुः सर्वे हर्ष-समन्विताः ॥ जीवितम् तनयम् दृष्ट्वा देवी हृष्टतरा भवत् ॥ ५९॥
devyai saṃdarśayāmāsuḥ sarve harṣa-samanvitāḥ .. jīvitam tanayam dṛṣṭvā devī hṛṣṭatarā bhavat .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशजीवनवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशजीवनवर्णनम् नाम सप्तदशः अध्यायः ॥ १७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśajīvanavarṇanam nāma saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In