| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
जीविते गिरिजापुत्रे देव्या दृष्टे प्रजेश्वर ॥ ततः किमभवत्तत्र कृपया तद्वदाधुना ॥ १ ॥
जीविते गिरिजा-पुत्रे देव्या दृष्टे प्रजेश्वर ॥ ततस् किम् अभवत् तत्र कृपया तत् वद अधुना ॥ १ ॥
jīvite girijā-putre devyā dṛṣṭe prajeśvara .. tatas kim abhavat tatra kṛpayā tat vada adhunā .. 1 ..
जीविते गिरिजापुत्रे देव्या दृष्टे मुनीश्वर ॥ यज्जातं तच्छृणुष्वाद्य वच्मि ते महदुत्सवम् ॥ २॥
जीविते गिरिजा-पुत्रे देव्या दृष्टे मुनि-ईश्वर ॥ यत् जातम् तत् शृणुष्व अद्य वच्मि ते महत् उत्सवम् ॥ २॥
jīvite girijā-putre devyā dṛṣṭe muni-īśvara .. yat jātam tat śṛṇuṣva adya vacmi te mahat utsavam .. 2..
जीवितस्स शिवापुत्रो निर्व्यग्रो विकृतो मुने॥ अभिषिक्तस्तदा देवैर्गणाध्यक्षैर्गजाननः ॥ ३॥
जीवितः स शिवा-पुत्रः निर्व्यग्रः विकृतः मुने॥ अभिषिक्तः तदा देवैः गणाध्यक्षैः गजाननः ॥ ३॥
jīvitaḥ sa śivā-putraḥ nirvyagraḥ vikṛtaḥ mune.. abhiṣiktaḥ tadā devaiḥ gaṇādhyakṣaiḥ gajānanaḥ .. 3..
दृष्ट्वा स्वतनयं देवी शिवा हर्षसमन्विता ॥ गृहीत्वा बालकं दोर्भ्यां प्रमुदा परिषस्वजे॥ ४ ॥
दृष्ट्वा स्व-तनयम् देवी शिवा हर्ष-समन्विता ॥ गृहीत्वा बालकम् दोर्भ्याम् प्रमुदा परिषस्वजे॥ ४ ॥
dṛṣṭvā sva-tanayam devī śivā harṣa-samanvitā .. gṛhītvā bālakam dorbhyām pramudā pariṣasvaje.. 4 ..
वस्त्राणि विविधानीह नानालंकरणानि च ॥ ददौ प्रीत्या गणेशाय स्वपुत्राय मुदांबिका ॥ ५ ॥
वस्त्राणि विविधानि इह नाना अलंकरणानि च ॥ ददौ प्रीत्या गणेशाय स्व-पुत्राय मुदा अंबिका ॥ ५ ॥
vastrāṇi vividhāni iha nānā alaṃkaraṇāni ca .. dadau prītyā gaṇeśāya sva-putrāya mudā aṃbikā .. 5 ..
पूजयित्वा तया देव्या सिद्धिभिश्चाप्यनेकशः ॥ करेण स्पर्शितस्सोथ सर्वदुःखहरेण वै ॥ ६॥
पूजयित्वा तया देव्या सिद्धिभिः च अपि अनेकशस् ॥ करेण स्पर्शितः सः उथ सर्व-दुःख-हरेण वै ॥ ६॥
pūjayitvā tayā devyā siddhibhiḥ ca api anekaśas .. kareṇa sparśitaḥ saḥ utha sarva-duḥkha-hareṇa vai .. 6..
पूजयित्वा सुतं देवी मुखमाचुम्ब्य शांकरी ॥ वरान्ददौ तदा प्रीत्या जातस्त्वं दुःखितोऽधुना ॥ ७ ॥
पूजयित्वा सुतम् देवी मुखम् आचुम्ब्य शांकरी ॥ वरान् ददौ तदा प्रीत्या जातः त्वम् दुःखितः अधुना ॥ ७ ॥
pūjayitvā sutam devī mukham ācumbya śāṃkarī .. varān dadau tadā prītyā jātaḥ tvam duḥkhitaḥ adhunā .. 7 ..
धन्योसि कृतकृत्योसि पूर्वपूज्यो भवाधुना ॥ सर्वेषाममराणां वै सर्वदा दुःखवर्जितः ॥ ८ ॥
धन्यः असि कृतकृत्यः असि पूर्व-पूज्यः भव अधुना ॥ सर्वेषाम् अमराणाम् वै सर्वदा दुःख-वर्जितः ॥ ८ ॥
dhanyaḥ asi kṛtakṛtyaḥ asi pūrva-pūjyaḥ bhava adhunā .. sarveṣām amarāṇām vai sarvadā duḥkha-varjitaḥ .. 8 ..
आनने तव सिन्दूरं दृश्यते सांप्रतं यदि ॥ तस्मात्त्वं पूजनीयोसि सिन्दूरेण सदा नरैः ॥ ९ ॥
आनने तव सिन्दूरम् दृश्यते सांप्रतम् यदि ॥ तस्मात् त्वम् पूजनीयः असि सिन्दूरेण सदा नरैः ॥ ९ ॥
ānane tava sindūram dṛśyate sāṃpratam yadi .. tasmāt tvam pūjanīyaḥ asi sindūreṇa sadā naraiḥ .. 9 ..
पुष्पैर्वा चन्दनैर्वापि गन्धेनैव शुभेन च ॥ नैवेद्ये सुरम्येण नीराजेन विधानतः ॥ 2.4.18.१० ॥
पुष्पैः वा चन्दनैः वा अपि गन्धेन एव शुभेन च ॥ नैवेद्ये सु रम्येण नीराजेन विधानतः ॥ २।४।१८।१० ॥
puṣpaiḥ vā candanaiḥ vā api gandhena eva śubhena ca .. naivedye su ramyeṇa nīrājena vidhānataḥ .. 2.4.18.10 ..
तांम्बूलैरथ दानैश्च तथा प्रक्रमणैरपि ॥ नमस्कारविधानेन पूजां यस्ते विधास्यति ॥ ११ ॥
तांम्बूलैः अथ दानैः च तथा प्रक्रमणैः अपि ॥ नमस्कार-विधानेन पूजाम् यः ते विधास्यति ॥ ११ ॥
tāṃmbūlaiḥ atha dānaiḥ ca tathā prakramaṇaiḥ api .. namaskāra-vidhānena pūjām yaḥ te vidhāsyati .. 11 ..
तस्य वै सकला सिद्धिर्भविष्यति न संशयः ॥ विघ्नान्यनेकरूपाणि क्षयं यास्यंत्यसंशयम् ॥ १२ ॥
तस्य वै सकला सिद्धिः भविष्यति न संशयः ॥ विघ्नानि अनेक-रूपाणि क्षयम् यास्यंति असंशयम् ॥ १२ ॥
tasya vai sakalā siddhiḥ bhaviṣyati na saṃśayaḥ .. vighnāni aneka-rūpāṇi kṣayam yāsyaṃti asaṃśayam .. 12 ..
ब्रह्मोवाच ।।
इत्युक्त्वा च तदा देवी स्वपुत्रं तं महेश्वरो ॥ नानावस्तुभिरुत्कृष्टं पुनरप्यर्चयत्तथा ॥ १३ ॥
इति उक्त्वा च तदा देवी स्व-पुत्रम् तम् महेश्वरः ॥ नाना वस्तुभिः उत्कृष्टम् पुनर् अपि अर्चयत् तथा ॥ १३ ॥
iti uktvā ca tadā devī sva-putram tam maheśvaraḥ .. nānā vastubhiḥ utkṛṣṭam punar api arcayat tathā .. 13 ..
ततस्स्वास्थ्यं च देवानां गणानां च विशेषतः ॥ गिरिजाकृपया विप्र जातं तत्क्षणमात्रतः ॥ १४ ॥
ततस् स्वास्थ्यम् च देवानाम् गणानाम् च विशेषतः ॥ गिरिजा-कृपया विप्र जातम् तद्-क्षण-मात्रतः ॥ १४ ॥
tatas svāsthyam ca devānām gaṇānām ca viśeṣataḥ .. girijā-kṛpayā vipra jātam tad-kṣaṇa-mātrataḥ .. 14 ..
एतस्मिंश्च क्षणे देवा वासवाद्याः शिवं मुदा॥ स्तुत्वा प्रसाद्य तं देवं भक्ता निन्युः शिवांतिकम् ॥ १५॥
एतस्मिन् च क्षणे देवाः वासव-आद्याः शिवम् मुदा॥ स्तुत्वा प्रसाद्य तम् देवम् भक्ताः निन्युः शिव-अंतिकम् ॥ १५॥
etasmin ca kṣaṇe devāḥ vāsava-ādyāḥ śivam mudā.. stutvā prasādya tam devam bhaktāḥ ninyuḥ śiva-aṃtikam .. 15..
संसाद्य गिरिशं पश्चादुत्संगे सन्न्यवेशयन् ॥ बालकं तं महेशान्यास्त्रिजगत्सुखहेतवे ॥ १६॥
संसाद्य गिरिशम् पश्चात् उत्संगे सन् न्यवेशयन् ॥ बालकम् तम् महेशान्याः त्रिजगत्-सुख-हेतवे ॥ १६॥
saṃsādya giriśam paścāt utsaṃge san nyaveśayan .. bālakam tam maheśānyāḥ trijagat-sukha-hetave .. 16..
शिवोपि तस्य शिरसि दत्त्वा स्वकरपंकजम् ॥ उवाच वचनं देवान् पुत्रोऽयमिति मेऽपरः ॥ १७॥
शिवः अपि तस्य शिरसि दत्त्वा स्व-कर-पंकजम् ॥ उवाच वचनम् देवान् पुत्रः अयम् इति मे अपरः ॥ १७॥
śivaḥ api tasya śirasi dattvā sva-kara-paṃkajam .. uvāca vacanam devān putraḥ ayam iti me aparaḥ .. 17..
गणेशोपि तदोत्थाय नमस्कृत्य शिवाय वै ॥ पार्वत्यै च नमस्कृत्य मह्यं वै विष्णवे तथा ॥ १८॥
गणेशः अपि तदा उत्थाय नमस्कृत्य शिवाय वै ॥ पार्वत्यै च नमस्कृत्य मह्यम् वै विष्णवे तथा ॥ १८॥
gaṇeśaḥ api tadā utthāya namaskṛtya śivāya vai .. pārvatyai ca namaskṛtya mahyam vai viṣṇave tathā .. 18..
नारादाद्यानृषीन्सर्वान्सत्वास्थाय पुरोऽब्रवीत्॥ क्षंतव्यश्चापराधो मे मानश्चैवेदृशो नृणाम्॥ १९॥
नारात् आद्यान् ऋषीन् सर्वान् सत्वा आस्थाय पुरस् अब्रवीत्॥ क्षंतव्यः च अपराधः मे मानः च एव ईदृशः नृणाम्॥ १९॥
nārāt ādyān ṛṣīn sarvān satvā āsthāya puras abravīt.. kṣaṃtavyaḥ ca aparādhaḥ me mānaḥ ca eva īdṛśaḥ nṛṇām.. 19..
अहं च शंकरश्चैव विष्णुश्चैते त्रयस्सुराः॥ प्रत्यूचुर्युगपत्प्रीत्या ददतो वरमुत्तमम् ॥ 2.4.18.२०॥
अहम् च शंकरः च एव विष्णुः च एते त्रयः सुराः॥ प्रत्यूचुः युगपद् प्रीत्या ददतः वरम् उत्तमम् ॥ २।४।१८।२०॥
aham ca śaṃkaraḥ ca eva viṣṇuḥ ca ete trayaḥ surāḥ.. pratyūcuḥ yugapad prītyā dadataḥ varam uttamam .. 2.4.18.20..
त्रयो वयं सुरवरा यथापूज्या जगत्त्रये॥ तथायं गणनाथश्च सकलैः प्रतिपूज्यताम्॥ २१॥
त्रयः वयम् सुर-वराः यथा पूज्याः जगत्त्रये॥ तथा अयम् गणनाथः च सकलैः प्रतिपूज्यताम्॥ २१॥
trayaḥ vayam sura-varāḥ yathā pūjyāḥ jagattraye.. tathā ayam gaṇanāthaḥ ca sakalaiḥ pratipūjyatām.. 21..
वयं च प्राकृताश्चायं प्राकृतः पूज्य एव च ॥ गणेशो विघ्नहर्ता हि सर्वकामफलप्रदः ॥ २२॥
वयम् च प्राकृताः च अयम् प्राकृतः पूज्यः एव च ॥ हि सर्व ॥ २२॥
vayam ca prākṛtāḥ ca ayam prākṛtaḥ pūjyaḥ eva ca .. hi sarva .. 22..
एतत्पूजां पुरा कृत्वा पश्चात्पूज्या वयं नरैः ॥ वयं च पूजितास्सर्वे नायं चापूजितो यदा॥ २३॥
एतद्-पूजाम् पुरा कृत्वा पश्चात् पूज्याः वयम् नरैः ॥ वयम् च पूजिताः सर्वे न अयम् च अपूजितः यदा॥ २३॥
etad-pūjām purā kṛtvā paścāt pūjyāḥ vayam naraiḥ .. vayam ca pūjitāḥ sarve na ayam ca apūjitaḥ yadā.. 23..
अस्मिन्नपूजिते देवाः परपूजाकृता यदि ॥ तदा तत्फलहानिः स्यान्नात्र कार्या विचारणा ॥ २४ ॥
अस्मिन् अ पूजिते देवाः पर-पूजा-कृताः यदि ॥ तदा तद्-फल-हानिः स्यात् न अत्र कार्या विचारणा ॥ २४ ॥
asmin a pūjite devāḥ para-pūjā-kṛtāḥ yadi .. tadā tad-phala-hāniḥ syāt na atra kāryā vicāraṇā .. 24 ..
ब्रह्मोवाच ।।
इत्युक्त्वा स गणेशानो नानावस्तुभिरादरात् ॥ शिवेन पूजितः पूर्वं विष्णुनानु प्रपूजितः ॥ २५॥
इति उक्त्वा स गणेशानः नाना वस्तुभिः आदरात् ॥ शिवेन पूजितः पूर्वम् विष्णुना अनु प्रपूजितः ॥ २५॥
iti uktvā sa gaṇeśānaḥ nānā vastubhiḥ ādarāt .. śivena pūjitaḥ pūrvam viṣṇunā anu prapūjitaḥ .. 25..
ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ॥ सर्वैर्देवैर्गणैश्चैव पूजितः परया मुदा ॥ २६॥
ब्रह्मणा च मया तत्र पार्वत्या च प्रपूजितः ॥ सर्वैः देवैः गणैः च एव पूजितः परया मुदा ॥ २६॥
brahmaṇā ca mayā tatra pārvatyā ca prapūjitaḥ .. sarvaiḥ devaiḥ gaṇaiḥ ca eva pūjitaḥ parayā mudā .. 26..
सवैर्मिलित्वा तत्रैव ब्रह्मविष्णुहरादिभिः ॥ सगणेशश्शिवातुष्ट्यै सर्वाध्यक्षो निवेदितः ॥ २७ ॥
सवैः मिलित्वा तत्र एव ब्रह्म-विष्णु-हर-आदिभिः ॥ स गणेशः शिवा-तुष्ट्यै सर्वाध्यक्षः निवेदितः ॥ २७ ॥
savaiḥ militvā tatra eva brahma-viṣṇu-hara-ādibhiḥ .. sa gaṇeśaḥ śivā-tuṣṭyai sarvādhyakṣaḥ niveditaḥ .. 27 ..
पुनश्चैव शिवेनास्मै सुप्रसन्नेन चेतसा ॥ सर्वदा सुखदा लोके वरा दत्ता ह्यनेकशः ॥ २८॥
पुनर् च एव शिवेन अस्मै सु प्रसन्नेन चेतसा ॥ सर्वदा सुख-दाः लोके वराः दत्ताः हि अनेकशस् ॥ २८॥
punar ca eva śivena asmai su prasannena cetasā .. sarvadā sukha-dāḥ loke varāḥ dattāḥ hi anekaśas .. 28..
शिव उवाच ।।
हे गिरीन्द्रसुतापुत्र संतुष्टोहं न संशयः ॥ मयि तुष्टे जगत्तुष्टं विरुद्धः कोपि नो भवेत् ॥ २९ ॥
हे गिरीन्द्रसुता-पुत्र संतुष्टः हम् न संशयः ॥ मयि तुष्टे जगत् तुष्टम् विरुद्धः कः अपि नो भवेत् ॥ २९ ॥
he girīndrasutā-putra saṃtuṣṭaḥ ham na saṃśayaḥ .. mayi tuṣṭe jagat tuṣṭam viruddhaḥ kaḥ api no bhavet .. 29 ..
बालरूपोपि यस्मात्त्वं महाविक्रमकारकः ॥ शक्तिपुत्रस्सुतेजस्वी तस्माद्भव सदा सुखी ॥ 2.4.18.३०॥
बाल-रूपः उपि यस्मात् त्वम् महा-विक्रम-कारकः ॥ शक्ति-पुत्रः सु तेजस्वी तस्मात् भव सदा सुखी ॥ २।४।१८।३०॥
bāla-rūpaḥ upi yasmāt tvam mahā-vikrama-kārakaḥ .. śakti-putraḥ su tejasvī tasmāt bhava sadā sukhī .. 2.4.18.30..
त्वन्नाम विघ्नहंतृत्वे श्रेष्ठं चैव भवत्विति॥ मम सर्वगणाध्यक्षः संपूज्यस्त्वं भवाधुना ॥ ३१ ॥
त्वद्-नाम विघ्न-हंतृ-त्वे श्रेष्ठम् च एव भवतु इति॥ मम सर्व-गणाध्यक्षः संपूज्यः त्वम् भव अधुना ॥ ३१ ॥
tvad-nāma vighna-haṃtṛ-tve śreṣṭham ca eva bhavatu iti.. mama sarva-gaṇādhyakṣaḥ saṃpūjyaḥ tvam bhava adhunā .. 31 ..
एवमुक्त्वा शंकरेण पूजाविधिरनेकशः ॥ आशिषश्चाप्यनेका हि कृतास्तस्मिंस्तु तत्क्षणात् ॥ ३२॥
एवम् उक्त्वा शंकरेण पूजा-विधिः अनेकशस् ॥ आशिषः च अपि अनेकाः हि कृताः तस्मिन् तु तद्-क्षणात् ॥ ३२॥
evam uktvā śaṃkareṇa pūjā-vidhiḥ anekaśas .. āśiṣaḥ ca api anekāḥ hi kṛtāḥ tasmin tu tad-kṣaṇāt .. 32..
ततो देवगणाश्चैव गीत वाद्यं च नृत्यकम् ॥ मुदा ते कारयामासुस्तथैवप्सरसां गणाः ॥ ३३॥
ततस् देव-गणाः च एव वाद्यम् च नृत्यकम् ॥ मुदा ते कारयामासुः तथा एव अप्सरसाम् गणाः ॥ ३३॥
tatas deva-gaṇāḥ ca eva vādyam ca nṛtyakam .. mudā te kārayāmāsuḥ tathā eva apsarasām gaṇāḥ .. 33..
पुनश्चैव वरो दत्तस्सुप्रसन्नेन शंभुना ॥ तस्मै च गणनाथाय शिवेनैव महात्मना ॥ ३४॥
पुनर् च एव वरः दत्तः सु प्रसन्नेन शंभुना ॥ तस्मै च गणनाथाय शिवेन एव महात्मना ॥ ३४॥
punar ca eva varaḥ dattaḥ su prasannena śaṃbhunā .. tasmai ca gaṇanāthāya śivena eva mahātmanā .. 34..
चतुर्थ्यां त्वं समुत्पन्नो भाद्रे मासि गणेश्वर ॥ असिते च तथा पक्षे चंद्रस्योदयने शुभे ॥ ३५ ॥
चतुर्थ्याम् त्वम् समुत्पन्नः भाद्रे मासि गणेश्वर ॥ असिते च तथा पक्षे चंद्रस्य उदयने शुभे ॥ ३५ ॥
caturthyām tvam samutpannaḥ bhādre māsi gaṇeśvara .. asite ca tathā pakṣe caṃdrasya udayane śubhe .. 35 ..
प्रथमे च तथा यामे गिरिजायास्सुचेतसः ॥ आविर्बभूव ते रूपं यस्मात्ते व्रतमुत्तमम् ।३६॥
प्रथमे च तथा यामे गिरिजायाः सु चेतसः ॥ आविर्बभूव ते रूपम् यस्मात् ते व्रतम् उत्तमम् ।३६॥
prathame ca tathā yāme girijāyāḥ su cetasaḥ .. āvirbabhūva te rūpam yasmāt te vratam uttamam .36..
तस्मात्तद्दिनमारभ्य तस्यामेव तिथौ मुदा ॥ व्रतं कार्यं विशेषेण सर्वसिद्ध्यै सुशोभनम् ॥ ३७ ॥
तस्मात् तत् दिनम् आरभ्य तस्याम् एव तिथौ मुदा ॥ व्रतम् कार्यम् विशेषेण सर्व-सिद्ध्यै सु शोभनम् ॥ ३७ ॥
tasmāt tat dinam ārabhya tasyām eva tithau mudā .. vratam kāryam viśeṣeṇa sarva-siddhyai su śobhanam .. 37 ..
यावत्पुनस्समायाति वर्षान्ते च चतुर्थिका ॥ तावद्व्रतं च कर्तव्यं तव चैव ममाज्ञया ॥ ३८॥
यावत् पुनर् समायाति वर्ष-अन्ते च चतुर्थिका ॥ तावत् व्रतम् च कर्तव्यम् तव च एव मम आज्ञया ॥ ३८॥
yāvat punar samāyāti varṣa-ante ca caturthikā .. tāvat vratam ca kartavyam tava ca eva mama ājñayā .. 38..
संसारे सुखमिच्छन्ति येऽतुलं चाप्यनेकशः ॥ त्वां पूजयन्तु ते भक्त्या चतुर्थ्यां विधिपूर्वकम् ॥ ३९॥
संसारे सुखम् इच्छन्ति ये अतुलम् च अपि अनेकशस् ॥ त्वाम् पूजयन्तु ते भक्त्या चतुर्थ्याम् विधि-पूर्वकम् ॥ ३९॥
saṃsāre sukham icchanti ye atulam ca api anekaśas .. tvām pūjayantu te bhaktyā caturthyām vidhi-pūrvakam .. 39..
मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ॥ प्रातःस्नानं तदा कृत्वा व्रतं विप्रान्निवेदयेत ॥ 2.4.18.४०॥
मार्गशीर्षे तथा मासे रमा या वै चतुर्थिका ॥ प्रातःस्नानम् तदा कृत्वा व्रतम् विप्रान् निवेदयेत ॥ २।४।१८।४०॥
mārgaśīrṣe tathā māse ramā yā vai caturthikā .. prātaḥsnānam tadā kṛtvā vratam viprān nivedayeta .. 2.4.18.40..
दूर्वाभिः पूजनं कार्यमुपवासस्तथाविधः ॥ रात्रेश्च प्रहरे जाते स्नात्वा संपूजयेन्नरः ॥ ४१ ॥
दूर्वाभिः पूजनम् कार्यम् उपवासः तथाविधः ॥ रात्रेः च प्रहरे जाते स्नात्वा संपूजयेत् नरः ॥ ४१ ॥
dūrvābhiḥ pūjanam kāryam upavāsaḥ tathāvidhaḥ .. rātreḥ ca prahare jāte snātvā saṃpūjayet naraḥ .. 41 ..
मूर्तिं धातुमयीं कृत्वा प्रवालसंभवां तथा ॥ श्वेतार्कसंभवां चापि मार्द्दिकां निर्मितां तथा॥ ४२॥
मूर्तिम् धातु-मयीम् कृत्वा प्रवाल-संभवाम् तथा ॥ श्वेत-अर्क-संभवाम् च अपि मार्द्दिकाम् निर्मिताम् तथा॥ ४२॥
mūrtim dhātu-mayīm kṛtvā pravāla-saṃbhavām tathā .. śveta-arka-saṃbhavām ca api mārddikām nirmitām tathā.. 42..
प्रतिष्ठाप्य तदा तत्र पूजयेत्प्रयतः पुमान् ॥ गंधैर्नानाविधैर्दिव्यैश्चन्दनैः पुष्पकैरिह ॥ ४३॥
प्रतिष्ठाप्य तदा तत्र पूजयेत् प्रयतः पुमान् ॥ गंधैः नानाविधैः दिव्यैः चन्दनैः पुष्पकैः इह ॥ ४३॥
pratiṣṭhāpya tadā tatra pūjayet prayataḥ pumān .. gaṃdhaiḥ nānāvidhaiḥ divyaiḥ candanaiḥ puṣpakaiḥ iha .. 43..
वितस्तिमात्रा दूर्वा च व्यंगा वै मूलवर्जिता ॥ ईदृशानां तद्बलानां शतेनैकोत्तरेण ह ॥ ४४ ॥
वितस्ति-मात्रा दूर्वा च व्यंगा वै मूल-वर्जिता ॥ ईदृशानाम् तद्-बलानाम् शतेन एक-उत्तरेण ह ॥ ४४ ॥
vitasti-mātrā dūrvā ca vyaṃgā vai mūla-varjitā .. īdṛśānām tad-balānām śatena eka-uttareṇa ha .. 44 ..
एकविंशतिकेनैव पूजयेत्प्रतिमां स्थिताम् ॥ धूपैर्दीपैश्च नैवेद्यैर्विविधैर्गणनायकम् ॥ ४५ ॥
एकविंशतिकेन एव पूजयेत् प्रतिमाम् स्थिताम् ॥ धूपैः दीपैः च नैवेद्यैः विविधैः गणनायकम् ॥ ४५ ॥
ekaviṃśatikena eva pūjayet pratimām sthitām .. dhūpaiḥ dīpaiḥ ca naivedyaiḥ vividhaiḥ gaṇanāyakam .. 45 ..
ताम्बूलाद्यर्घसद्द्रव्यैः प्रणिपत्य स्तवैस्तथा ॥ त्वां तत्र पूजयित्वेत्थं बालचंद्रं च पूजयेत् ॥ ४६ ॥
ताम्बूल-आदि-अर्घ-सत्-द्रव्यैः प्रणिपत्य स्तवैः तथा ॥ त्वाम् तत्र पूजयित्वा इत्थम् बालचंद्रम् च पूजयेत् ॥ ४६ ॥
tāmbūla-ādi-argha-sat-dravyaiḥ praṇipatya stavaiḥ tathā .. tvām tatra pūjayitvā ittham bālacaṃdram ca pūjayet .. 46 ..
पश्चाद्विप्रांश्च संपूज्य भोजयेन्मधुरैर्मुदा ॥ स्वयं चैव ततो भुंज्यान्मधुरं लवणं विना ॥ ४७॥
पश्चात् विप्रान् च संपूज्य भोजयेत् मधुरैः मुदा ॥ स्वयम् च एव ततस् भुंज्यात् मधुरम् लवणम् विना ॥ ४७॥
paścāt viprān ca saṃpūjya bhojayet madhuraiḥ mudā .. svayam ca eva tatas bhuṃjyāt madhuram lavaṇam vinā .. 47..
विसर्जयेत्ततः पश्चान्नियमं सर्वमात्मनः ॥ गणेशस्मरणं कुर्य्यात्संपूर्णं स्याद्व्रतं शुभम् ॥ ४८॥
विसर्जयेत् ततस् पश्चात् नियमम् सर्वम् आत्मनः ॥ गणेश-स्मरणम् कुर्य्यात् संपूर्णम् स्यात् व्रतम् शुभम् ॥ ४८॥
visarjayet tatas paścāt niyamam sarvam ātmanaḥ .. gaṇeśa-smaraṇam kuryyāt saṃpūrṇam syāt vratam śubham .. 48..
एवं व्रतेन संपूर्णे वर्षे जाते नरस्तदा ॥ उद्यापनविधिं कुर्याद्व्रतसम्पूर्त्तिहेतवे ॥ ४९॥
एवम् व्रतेन संपूर्णे वर्षे जाते नरः तदा ॥ उद्यापन-विधिम् कुर्यात् व्रत-सम्पूर्त्ति-हेतवे ॥ ४९॥
evam vratena saṃpūrṇe varṣe jāte naraḥ tadā .. udyāpana-vidhim kuryāt vrata-sampūrtti-hetave .. 49..
द्वादश ब्राह्मणास्तत्र भोजनीया मदाज्ञया ॥ कुंभमेकं च संस्थाप्य पूज्या मूर्तिस्त्वदीयिका ॥ 2.4.18.५०॥
द्वादश ब्राह्मणाः तत्र भोजनीयाः मद्-आज्ञया ॥ कुंभम् एकम् च संस्थाप्य पूज्या मूर्तिः त्वदीयिका ॥ २।४।१८।५०॥
dvādaśa brāhmaṇāḥ tatra bhojanīyāḥ mad-ājñayā .. kuṃbham ekam ca saṃsthāpya pūjyā mūrtiḥ tvadīyikā .. 2.4.18.50..
स्थण्डिलेष्टपलं कृत्वा तदा वेदविधानतः ॥ होमश्चैवात्र कर्तव्यो वित्तशाठ्यविवर्जितैः ॥ ५१ ॥
स्थण्डिल-इष्ट-पलम् कृत्वा तदा वेद-विधानतः ॥ होमः च एव अत्र कर्तव्यः वित्त-शाठ्य-विवर्जितैः ॥ ५१ ॥
sthaṇḍila-iṣṭa-palam kṛtvā tadā veda-vidhānataḥ .. homaḥ ca eva atra kartavyaḥ vitta-śāṭhya-vivarjitaiḥ .. 51 ..
स्त्रीद्वयं च तथा चात्र बटुकद्वयमादरात्॥ भोजयेत्पूजयित्वा वै मूर्त्यग्रे विधिपूर्वकम् ॥ ५२॥
स्त्री-द्वयम् च तथा च अत्र बटुक-द्वयम् आदरात्॥ भोजयेत् पूजयित्वा वै मूर्ति-अग्रे विधि-पूर्वकम् ॥ ५२॥
strī-dvayam ca tathā ca atra baṭuka-dvayam ādarāt.. bhojayet pūjayitvā vai mūrti-agre vidhi-pūrvakam .. 52..
निशि जागरणं कार्यं पुनः प्रातः प्रपूजयेत्॥ विसर्जनं ततश्चैव पुनरागमनाय च ॥ ५३॥
निशि जागरणम् कार्यम् पुनर् प्रातर् प्रपूजयेत्॥ विसर्जनम् ततस् च एव पुनरागमनाय च ॥ ५३॥
niśi jāgaraṇam kāryam punar prātar prapūjayet.. visarjanam tatas ca eva punarāgamanāya ca .. 53..
बालकाच्चाशिषो ग्राह्यास्स्वस्तिवाचनमेव च ॥ पुष्पांजलिं प्रदद्याच्च व्रतसंपूर्ण हेतवे॥ ५४॥
बालकात् च आशिषः ग्राह्याः स्वस्तिवाचनम् एव च ॥ पुष्प-अंजलिम् प्रदद्यात् च व्रत-संपूर्ण हेतवे॥ ५४॥
bālakāt ca āśiṣaḥ grāhyāḥ svastivācanam eva ca .. puṣpa-aṃjalim pradadyāt ca vrata-saṃpūrṇa hetave.. 54..
नमस्कारांस्ततः कृत्वा नानाकार्यं प्रकल्पयेत् ॥ एवं व्रतं कृतं येन तस्येप्सितफलं भवेत् ॥ ५५॥
नमस्कारान् ततस् कृत्वा नाना कार्यम् प्रकल्पयेत् ॥ एवम् व्रतम् कृतम् येन तस्य ईप्सित-फलम् भवेत् ॥ ५५॥
namaskārān tatas kṛtvā nānā kāryam prakalpayet .. evam vratam kṛtam yena tasya īpsita-phalam bhavet .. 55..
यो नित्यं श्रद्धया सार्द्धं पूजां चैव स्व शक्तितः ॥ कुर्य्यात्तव गणेशान सर्वकामफलाप्तये ॥ ५६॥
यः नित्यम् श्रद्धया सार्द्धम् पूजाम् च एव शक्तितः ॥ कुर्य्यात् तव गणेशान सर्व-काम-फल-आप्तये ॥ ५६॥
yaḥ nityam śraddhayā sārddham pūjām ca eva śaktitaḥ .. kuryyāt tava gaṇeśāna sarva-kāma-phala-āptaye .. 56..
सिन्दूरैश्चन्दनैश्चैव तंडुलैः केतकैस्तथा ॥ उपचारैरनेकैश्च पूजयेत्त्वां गणे श्वरम् ॥ ५७॥
सिन्दूरैः चन्दनैः च एव तंडुलैः केतकैः तथा ॥ उपचारैः अनेकैः च पूजयेत् त्वाम् गणे श्वरम् ॥ ५७॥
sindūraiḥ candanaiḥ ca eva taṃḍulaiḥ ketakaiḥ tathā .. upacāraiḥ anekaiḥ ca pūjayet tvām gaṇe śvaram .. 57..
एवं त्वां पूजयेयुर्ये भक्त्या नानोपचारतः ॥ तेषां सिद्धिर्भवेन्नित्यं विघ्ननाशो भवेदिह ॥ ५८॥
एवम् त्वाम् पूजयेयुः ये भक्त्या नाना उपचारतः ॥ तेषाम् सिद्धिः भवेत् नित्यम् विघ्न-नाशः भवेत् इह ॥ ५८॥
evam tvām pūjayeyuḥ ye bhaktyā nānā upacārataḥ .. teṣām siddhiḥ bhavet nityam vighna-nāśaḥ bhavet iha .. 58..
सर्वैर्वर्णैः प्रकर्त्तव्या स्त्रीभिश्चैव विशेषतः ॥ उदयाभिमुखैश्चैव राजभिश्च विशेषतः ॥ ५९॥
सर्वैः वर्णैः प्रकर्त्तव्या स्त्रीभिः च एव विशेषतः ॥ उदय-अभिमुखैः च एव राजभिः च विशेषतः ॥ ५९॥
sarvaiḥ varṇaiḥ prakarttavyā strībhiḥ ca eva viśeṣataḥ .. udaya-abhimukhaiḥ ca eva rājabhiḥ ca viśeṣataḥ .. 59..
यं यं कामयते यो वै तंतमाप्नोति निश्चितम् ॥ अतः कामयमानेन तेन सेव्यस्सदा भवान् ॥ 2.4.18.६० ॥
यम् यम् कामयते यः वै तं तम् आप्नोति निश्चितम् ॥ अतस् कामयमानेन तेन सेव्यः सदा भवान् ॥ २।४।१८।६० ॥
yam yam kāmayate yaḥ vai taṃ tam āpnoti niścitam .. atas kāmayamānena tena sevyaḥ sadā bhavān .. 2.4.18.60 ..
।। ब्रह्मोवाच ।।
शिवेनैव तदा प्रोक्तं गणेशाय महात्मने ॥ तदानीं दैवतैश्चैव सर्वैश्च ऋषिसत्तमैः ॥ ६१॥
शिवेन एव तदा प्रोक्तम् गणेशाय महात्मने ॥ तदानीम् दैवतैः च एव सर्वैः च ऋषि-सत्तमैः ॥ ६१॥
śivena eva tadā proktam gaṇeśāya mahātmane .. tadānīm daivataiḥ ca eva sarvaiḥ ca ṛṣi-sattamaiḥ .. 61..
तथेत्युक्त्वा तु तैस्सर्वैर्गणैश्शंभुप्रियैर्मुने ॥ पूजितो हि गणाधीशो विधिना परमेण सः॥ ६२॥
तथा इति उक्त्वा तु तैः सर्वैः गणैः शंभु-प्रियैः मुने ॥ पूजितः हि गणाधीशः विधिना परमेण सः॥ ६२॥
tathā iti uktvā tu taiḥ sarvaiḥ gaṇaiḥ śaṃbhu-priyaiḥ mune .. pūjitaḥ hi gaṇādhīśaḥ vidhinā parameṇa saḥ.. 62..
ततश्चैव गणास्सर्वे प्रणेमुस्ते गणेश्वरम् ॥ समानर्चुर्विशेषेण नानावस्तुभिरादरात् ॥ ६३ ॥
ततस् च एव गणाः सर्वे प्रणेमुः ते गणेश्वरम् ॥ समान ऋचुः विशेषेण नाना वस्तुभिः आदरात् ॥ ६३ ॥
tatas ca eva gaṇāḥ sarve praṇemuḥ te gaṇeśvaram .. samāna ṛcuḥ viśeṣeṇa nānā vastubhiḥ ādarāt .. 63 ..
गिरिजायास्समुत्पन्नो यश्च हर्षो मुनीश्वर ॥ चतुर्भिर्वदनैर्वै तमवर्ण्यं च कथं ब्रुवे ॥ ६४ ॥
गिरिजायाः समुत्पन्नः यः च हर्षः मुनि-ईश्वर ॥ चतुर्भिः वदनैः वै तम् अवर्ण्यम् च कथम् ब्रुवे ॥ ६४ ॥
girijāyāḥ samutpannaḥ yaḥ ca harṣaḥ muni-īśvara .. caturbhiḥ vadanaiḥ vai tam avarṇyam ca katham bruve .. 64 ..
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ जगुर्गंधर्वमुख्याश्च पुष्पवर्षं पपात ह ॥ ६५ ॥
देव-दुंदुभयः नेदुः ननृतुः च अप्सरः-गणाः ॥ जगुः गंधर्व-मुख्याः च पुष्प-वर्षम् पपात ह ॥ ६५ ॥
deva-duṃdubhayaḥ neduḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ .. jaguḥ gaṃdharva-mukhyāḥ ca puṣpa-varṣam papāta ha .. 65 ..
जगत्स्वास्थ्यं तदा प्राप गणाधीशे प्रतिष्ठिते॥ महोत्सवो महानासीत्सर्वं दुःखं क्षयं गणम् ॥ ६६॥
जगत्-स्वास्थ्यम् तदा प्राप गणाधीशे प्रतिष्ठिते॥ महा-उत्सवः महान् आसीत् सर्वम् दुःखम् क्षयम् गणम् ॥ ६६॥
jagat-svāsthyam tadā prāpa gaṇādhīśe pratiṣṭhite.. mahā-utsavaḥ mahān āsīt sarvam duḥkham kṣayam gaṇam .. 66..
शिवाशिवौ च मोदेतां विशेषेणाति नारद ॥ आसीत्सुमंगलं भूरि सर्वत्र सुखदायकम्॥ ६७॥
शिव-अशिवौ च मोदेताम् विशेषेण अति नारद ॥ आसीत् सु मंगलम् भूरि सर्वत्र सुख-दायकम्॥ ६७॥
śiva-aśivau ca modetām viśeṣeṇa ati nārada .. āsīt su maṃgalam bhūri sarvatra sukha-dāyakam.. 67..
ततो देवगणाः सर्वे ऋषीणां च गणास्तथा ॥ समागताश्च ये तत्र जग्मुस्ते तु शिवाज्ञया ॥ ६८॥
ततस् देव-गणाः सर्वे ऋषीणाम् च गणाः तथा ॥ समागताः च ये तत्र जग्मुः ते तु शिव-आज्ञया ॥ ६८॥
tatas deva-gaṇāḥ sarve ṛṣīṇām ca gaṇāḥ tathā .. samāgatāḥ ca ye tatra jagmuḥ te tu śiva-ājñayā .. 68..
प्रशंसंतश्शिवा तत्र गणेशं च पुनः पुनः ॥ शिवं चैव तथा स्तुत्वा कीदृशं युद्धमेव च॥ ६९॥
प्रशंसंतः शिवा तत्र गणेशम् च पुनर् पुनर् ॥ शिवम् च एव तथा स्तुत्वा कीदृशम् युद्धम् एव च॥ ६९॥
praśaṃsaṃtaḥ śivā tatra gaṇeśam ca punar punar .. śivam ca eva tathā stutvā kīdṛśam yuddham eva ca.. 69..
यदा सा गिरिजा देवी कोपहीना बभूव ह ॥ शिवोऽपि गिरिजां तत्र पूर्ववत्संप्रपद्य ताम्॥ 2.4.18.७०॥
यदा सा गिरिजा देवी कोप-हीना बभूव ह ॥ शिवः अपि गिरिजाम् तत्र पूर्ववत् संप्रपद्य ताम्॥ २।४।१८।७०॥
yadā sā girijā devī kopa-hīnā babhūva ha .. śivaḥ api girijām tatra pūrvavat saṃprapadya tām.. 2.4.18.70..
चकार विविधं सौख्यं लोकानां हितकाम्यया॥ स्वात्मारामोऽपि परमो भक्तकार्योद्यतः सदा ॥ ७१॥
चकार विविधम् सौख्यम् लोकानाम् हित-काम्यया॥ स्व-आत्म-आरामः अपि परमः भक्त-कार्य-उद्यतः सदा ॥ ७१॥
cakāra vividham saukhyam lokānām hita-kāmyayā.. sva-ātma-ārāmaḥ api paramaḥ bhakta-kārya-udyataḥ sadā .. 71..
विष्णुश्च शिवमापृच्छ्य ब्रह्माहं तं तथैव हि ॥ आगच्छाव स्वधामं च शिवौ संसेव्य भक्तितः ॥ ७२ ॥
विष्णुः च शिवम् आपृच्छ्य ब्रह्मा अहम् तम् तथा एव हि ॥ आगच्छाव स्व-धामम् च शिवौ संसेव्य भक्तितः ॥ ७२ ॥
viṣṇuḥ ca śivam āpṛcchya brahmā aham tam tathā eva hi .. āgacchāva sva-dhāmam ca śivau saṃsevya bhaktitaḥ .. 72 ..
नारद त्वं च भगवन्संगीय शिवयोर्यशः ॥ आगमो भवनं स्वं च शिवौ पृष्ट्वा मुनीश्वर ॥ ७३ ॥
नारद त्वम् च भगवन् संगीय शिवयोः यशः ॥ आगमः भवनम् स्वम् च शिवौ पृष्ट्वा मुनि-ईश्वर ॥ ७३ ॥
nārada tvam ca bhagavan saṃgīya śivayoḥ yaśaḥ .. āgamaḥ bhavanam svam ca śivau pṛṣṭvā muni-īśvara .. 73 ..
एतत्ते सर्वमाख्यातं मया वै शिवयोर्यशः ॥ भवत्पृष्टेन विघ्नेश यशस्संमिश्रमादरात्॥ ७४॥
एतत् ते सर्वम् आख्यातम् मया वै शिवयोः यशः ॥ भवत्-पृष्टेन विघ्नेश यशः संमिश्रम् आदरात्॥ ७४॥
etat te sarvam ākhyātam mayā vai śivayoḥ yaśaḥ .. bhavat-pṛṣṭena vighneśa yaśaḥ saṃmiśram ādarāt.. 74..
इदं सुमंगलाख्यानं यः शृणोति सुसंयतः ॥ सर्वमंगल संयुक्तस्स भवेन्मंगलालयः ॥ ७५॥
इदम् सु मंगल-आख्यानम् यः शृणोति सु संयतः ॥ सर्व-मंगल-संयुक्तः स भवेत् मंगल-आलयः ॥ ७५॥
idam su maṃgala-ākhyānam yaḥ śṛṇoti su saṃyataḥ .. sarva-maṃgala-saṃyuktaḥ sa bhavet maṃgala-ālayaḥ .. 75..
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ॥ भायार्थी लभते भार्यां प्रजार्थी लभते प्रजाम्॥ ७६॥
अपुत्रः लभते पुत्रम् निर्धनः लभते धनम् ॥ भाया-अर्थी लभते भार्याम् प्रजा-अर्थी लभते प्रजाम्॥ ७६॥
aputraḥ labhate putram nirdhanaḥ labhate dhanam .. bhāyā-arthī labhate bhāryām prajā-arthī labhate prajām.. 76..
आरोग्यं लभते रोगी सौभाग्यं दुर्भगो लभेत् ॥ नष्टपुत्रं नष्टधनं प्रोषिता च पतिं लभेत् ॥ ७७॥
आरोग्यम् लभते रोगी सौभाग्यम् दुर्भगः लभेत् ॥ नष्ट-पुत्रम् नष्ट-धनम् प्रोषिता च पतिम् लभेत् ॥ ७७॥
ārogyam labhate rogī saubhāgyam durbhagaḥ labhet .. naṣṭa-putram naṣṭa-dhanam proṣitā ca patim labhet .. 77..
शोकाविष्टश्शोकहीनस्स भवेन्नात्र संशयः ॥ इदं गाणेशमाख्यानं यस्य गेहे च तिष्ठति ॥ ७८॥
शोक-आविष्टः शोक-हीनः स भवेत् न अत्र संशयः ॥ इदम् गाणेशम् आख्यानम् यस्य गेहे च तिष्ठति ॥ ७८॥
śoka-āviṣṭaḥ śoka-hīnaḥ sa bhavet na atra saṃśayaḥ .. idam gāṇeśam ākhyānam yasya gehe ca tiṣṭhati .. 78..
सदा मंगलसंयुक्तस्स भवेन्नात्र संशयः ॥ यात्राकाले च पुण्याहे यश्शृणोति समाहितः ॥ सर्वाभीष्टं स लभते श्रीगणेशप्रसादतः ॥ ७९ ॥
सदा मंगल-संयुक्तः स भवेत् न अत्र संशयः ॥ यात्रा-काले च पुण्य-अहे यः शृणोति समाहितः ॥ सर्व-अभीष्टम् स लभते श्री-गणेश-प्रसादतः ॥ ७९ ॥
sadā maṃgala-saṃyuktaḥ sa bhavet na atra saṃśayaḥ .. yātrā-kāle ca puṇya-ahe yaḥ śṛṇoti samāhitaḥ .. sarva-abhīṣṭam sa labhate śrī-gaṇeśa-prasādataḥ .. 79 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे गणेशगणाधिपपदवीवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशगणाधिपपदवीवर्णनम् नाम अष्टादशः अध्यायः ॥ १८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśagaṇādhipapadavīvarṇanam nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In