| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
तदाकर्ण्य महादेवो योगज्ञानविशारदः ॥ त्यक्तकामो न तत्याज संभोगं पार्वतीभयात् ॥ १ ॥
तत् आकर्ण्य महादेवः योग-ज्ञान-विशारदः ॥ त्यक्त-कामः न तत्याज संभोगम् पार्वती-भयात् ॥ १ ॥
tat ākarṇya mahādevaḥ yoga-jñāna-viśāradaḥ .. tyakta-kāmaḥ na tatyāja saṃbhogam pārvatī-bhayāt .. 1 ..
आजगाम गृहद्वारि सुराणां निकटं शिवः ॥ दैत्येन पीडितानां च शंकरो भक्तवत्सलः ॥ २॥
आजगाम गृह-द्वारि सुराणाम् निकटम् शिवः ॥ दैत्येन पीडितानाम् च शंकरः भक्त-वत्सलः ॥ २॥
ājagāma gṛha-dvāri surāṇām nikaṭam śivaḥ .. daityena pīḍitānām ca śaṃkaraḥ bhakta-vatsalaḥ .. 2..
देवास्सर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् ॥ बभूबुस्सुखिनश्चाति तदा वै भक्तवत्सलम् ॥ ३॥
देवाः सर्वे प्रभुम् दृष्ट्वा हरिणा च मया शिवम् ॥ बभूबुः सुखिनः च अति तदा वै भक्त-वत्सलम् ॥ ३॥
devāḥ sarve prabhum dṛṣṭvā hariṇā ca mayā śivam .. babhūbuḥ sukhinaḥ ca ati tadā vai bhakta-vatsalam .. 3..
इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ॥ प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥ ४॥
इति आकर्ण्य वचः तेषाम् सुराणाम् भगवान् भवः ॥ प्रत्युवाच विषण्ण-आत्मा दूयमानेन चेतसा ॥ ४॥
iti ākarṇya vacaḥ teṣām surāṇām bhagavān bhavaḥ .. pratyuvāca viṣaṇṇa-ātmā dūyamānena cetasā .. 4..
प्रणम्य सुमहाप्रीत्या नतस्कंधाश्च निर्जराः ॥ तुष्टुवुः शंकरं सर्वे मया च हरिणा मुने ॥ ५॥
प्रणम्य सु महा-प्रीत्या नत-स्कंधाः च निर्जराः ॥ तुष्टुवुः शंकरम् सर्वे मया च हरिणा मुने ॥ ५॥
praṇamya su mahā-prītyā nata-skaṃdhāḥ ca nirjarāḥ .. tuṣṭuvuḥ śaṃkaram sarve mayā ca hariṇā mune .. 5..
देवा ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ॥ अन्तर्यामी हि सर्वेषां सर्वं जानासि शंकर ॥ ६॥
देवदेव महादेव करुणा-सागर प्रभो ॥ अन्तर्यामी हि सर्वेषाम् सर्वम् जानासि शंकर ॥ ६॥
devadeva mahādeva karuṇā-sāgara prabho .. antaryāmī hi sarveṣām sarvam jānāsi śaṃkara .. 6..
देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ॥ जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून् ॥ ७ ॥
देव-कार्यम् कुरु विभो रक्ष देवान् महेश्वर ॥ जहि दैत्यान् कृपाम् कृत्वा तारक-आदीन् महा-प्रभून् ॥ ७ ॥
deva-kāryam kuru vibho rakṣa devān maheśvara .. jahi daityān kṛpām kṛtvā tāraka-ādīn mahā-prabhūn .. 7 ..
शिव उवाच ।।
हे विष्णो हे विधे देवास्सर्वेषां वो मनोगतिः ॥ यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः ॥ ८ ॥
हे विष्णो हे विधे देवाः सर्वेषाम् वः मनोगतिः ॥ यत् भावि तत् भवति एव कः अपि नो तद्-निवारकः ॥ ८ ॥
he viṣṇo he vidhe devāḥ sarveṣām vaḥ manogatiḥ .. yat bhāvi tat bhavati eva kaḥ api no tad-nivārakaḥ .. 8 ..
यज्जातं तज्जातमेव प्रस्तुतं शृणुताऽमराः ॥ शिरस्तस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥ ९ ॥
यत् जातम् तत् जातम् एव प्रस्तुतम् शृणुत अमराः ॥ शिरः-त-स्खलितम् वीर्यम् कः ग्रहीष्यति मे अधुना ॥ ९ ॥
yat jātam tat jātam eva prastutam śṛṇuta amarāḥ .. śiraḥ-ta-skhalitam vīryam kaḥ grahīṣyati me adhunā .. 9 ..
स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि ॥ अग्निर्भूत्वा कपोतो हि प्रेरितस्सर्वनिर्जरैः ॥ 2.4.2.१० ॥
स गृह्णीयात् इति प्रोच्य पातयामास तत् भुवि ॥ अग्निः भूत्वा कपोतः हि प्रेरितः सर्व-निर्जरैः ॥ २।४।२।१० ॥
sa gṛhṇīyāt iti procya pātayāmāsa tat bhuvi .. agniḥ bhūtvā kapotaḥ hi preritaḥ sarva-nirjaraiḥ .. 2.4.2.10 ..
अभक्षच्छांभवं वीर्यं चंच्वा तु निखिलं तदा ॥ एतस्मिन्नंतरे तत्राऽऽजगाम गिरिजा मुने ॥ ११ ॥
अभक्षत् शांभवम् वीर्यम् चंच्वा तु निखिलम् तदा ॥ एतस्मिन् अन्तरे तत्र आजगाम गिरिजा मुने ॥ ११ ॥
abhakṣat śāṃbhavam vīryam caṃcvā tu nikhilam tadā .. etasmin antare tatra ājagāma girijā mune .. 11 ..
शिवागमविलंबे च ददर्श सुरपुंगवान् ॥ ॥ ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥ १२ ॥
शिव-आगम-विलंबे च ददर्श सुर-पुंगवान् ॥ ॥ ज्ञात्वा तद्-वृत्तम् अखिलम् महा-क्रोध-युता शिवा ॥ १२ ॥
śiva-āgama-vilaṃbe ca dadarśa sura-puṃgavān .. .. jñātvā tad-vṛttam akhilam mahā-krodha-yutā śivā .. 12 ..
उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥ १३ ॥
उवाच त्रिदशान् सर्वान् हरि-प्रभृतिकान् तदा ॥ १३ ॥
uvāca tridaśān sarvān hari-prabhṛtikān tadā .. 13 ..
देव्युवाच ।।
रे रे सुरगणास्सर्वे यूयं दुष्टा विशेषतः ॥ स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥ १४ ॥
रे रे सुर-गणाः सर्वे यूयम् दुष्टाः विशेषतः ॥ स्व-अर्थ-संसाधकाः नित्यम् तद्-अर्थम् पर-दुःख-दाः ॥ १४ ॥
re re sura-gaṇāḥ sarve yūyam duṣṭāḥ viśeṣataḥ .. sva-artha-saṃsādhakāḥ nityam tad-artham para-duḥkha-dāḥ .. 14 ..
स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ॥ नष्टं चक्रुर्मद्विहारं वंध्याऽभवमहं सुराः ॥ १५ ॥
स्व-अर्थ-हेतोः महेशानम् आराध्य परमम् प्रभुम् ॥ नष्टम् चक्रुः मद्-विहारम् वंध्या अभवम् अहम् सुराः ॥ १५ ॥
sva-artha-hetoḥ maheśānam ārādhya paramam prabhum .. naṣṭam cakruḥ mad-vihāram vaṃdhyā abhavam aham surāḥ .. 15 ..
मां विरोध्य सुखं नैव केषांचिदपि निर्जराः ॥ तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥ १६ ॥
माम् विरोध्य सुखम् ना एव केषांचिद् अपि निर्जराः ॥ तस्मात् दुःखम् भवेत् वः हि दुष्टानाम् त्रिदिवौकसाम् ॥ १६ ॥
mām virodhya sukham nā eva keṣāṃcid api nirjarāḥ .. tasmāt duḥkham bhavet vaḥ hi duṣṭānām tridivaukasām .. 16 ..
ब्रह्मोवाच ।।
इत्युक्त्वा विष्णुप्रमुखान् सुरान्सर्वान् शशाप सा ॥ प्रज्वलंती प्रकोपेन शैलराजसुता शिवा ॥ १७ ॥
इति उक्त्वा विष्णु-प्रमुखान् सुरान् सर्वान् शशाप सा ॥ प्रज्वलन्ती प्रकोपेन शैलराजसुता शिवा ॥ १७ ॥
iti uktvā viṣṇu-pramukhān surān sarvān śaśāpa sā .. prajvalantī prakopena śailarājasutā śivā .. 17 ..
पार्वत्युवाच ।।
अद्यप्रभृति देवानां वंध्या भार्या भवन्त्विति ॥ देवाश्च दुःखितास्संतु निखिला मद्विरोधिनः ॥ १८॥
अद्य प्रभृति देवानाम् वंध्याः भार्याः भवन्तु इति ॥ देवाः च दुःखिताः संतु निखिलाः मद्-विरोधिनः ॥ १८॥
adya prabhṛti devānām vaṃdhyāḥ bhāryāḥ bhavantu iti .. devāḥ ca duḥkhitāḥ saṃtu nikhilāḥ mad-virodhinaḥ .. 18..
ब्रह्मोवाच ।। ।।
इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ॥ उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥ १९ ॥
इति शप्त्वा अखिलान् देवान् विष्णु-आद्यान् सकल-ईश्वरी ॥ उवाच पावकम् क्रुद्धाः भक्षकम् शिव-रेतसः ॥ १९ ॥
iti śaptvā akhilān devān viṣṇu-ādyān sakala-īśvarī .. uvāca pāvakam kruddhāḥ bhakṣakam śiva-retasaḥ .. 19 ..
पार्वत्युवाच ।।
सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ॥ शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥ 2.4.2.२० ॥
सर्व-भक्षी भव शुचे पीडित-आत्मा इति नित्यशस् ॥ शिवतत्त्वम् न जानासि मूर्खः असि सुर-कार्य-कृत् ॥ २।४।२।२० ॥
sarva-bhakṣī bhava śuce pīḍita-ātmā iti nityaśas .. śivatattvam na jānāsi mūrkhaḥ asi sura-kārya-kṛt .. 2.4.2.20 ..
रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ॥ अभक्षश्शिववीर्यं यन्नाकार्षीरुचितं हि तत् ॥ २१ ॥
रे रे शठ महा-दुष्ट दुष्टानाम् दुष्ट-बोधवान् ॥ अ भक्षः शिव-वीर्यम् यत् न अकार्षीः उचितम् हि तत् ॥ २१ ॥
re re śaṭha mahā-duṣṭa duṣṭānām duṣṭa-bodhavān .. a bhakṣaḥ śiva-vīryam yat na akārṣīḥ ucitam hi tat .. 21 ..
ब्रह्मोवाच ।।
इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ॥ जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने ॥ २२ ॥
इति शप्त्वा शिवा वह्निम् सह ईशेन नग-आत्मजा ॥ जगाम स्व-आलयम् शीघ्रम् असंतुष्टा ततस् मुने ॥ २२ ॥
iti śaptvā śivā vahnim saha īśena naga-ātmajā .. jagāma sva-ālayam śīghram asaṃtuṣṭā tatas mune .. 22 ..
गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ॥ अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर॥ २३॥
गत्वा शिवा शिवम् सम्यक् बोधयामास यत्नतः ॥ अजीजनत् परम् पुत्रम् गणेश-आख्यम् मुनि-ईश्वर॥ २३॥
gatvā śivā śivam samyak bodhayāmāsa yatnataḥ .. ajījanat param putram gaṇeśa-ākhyam muni-īśvara.. 23..
तद्वृत्तांतमशेषं च वर्णयिष्ये मुनेऽग्रतः॥ इदानीं शृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥ २४॥
तद्-वृत्तांतम् अशेषम् च वर्णयिष्ये मुने अग्रतस्॥ इदानीम् शृणु सु प्रीत्या गुहा-उत्पत्तिम् वदामि अहम् ॥ २४॥
tad-vṛttāṃtam aśeṣam ca varṇayiṣye mune agratas.. idānīm śṛṇu su prītyā guhā-utpattim vadāmi aham .. 24..
पावकादितमन्नादि भुंजते निर्जराः खलु ॥ वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥ २५॥
पावक-आदितम् अन्न-आदि भुंजते निर्जराः खलु ॥ सर्वे ते सगर्भाः अभवन् सुराः ॥ २५॥
pāvaka-āditam anna-ādi bhuṃjate nirjarāḥ khalu .. sarve te sagarbhāḥ abhavan surāḥ .. 25..
ततोऽसहंतस्तद्वीर्यं पीडिता ह्यभवन् सुराः ॥ विष्ण्वाद्या निखिलाश्चाति शिवाऽऽज्ञा नष्टबुद्धयः ॥ २६॥
ततस् असहंतः तद्-वीर्यम् पीडिताः हि अभवन् सुराः ॥ विष्णु-आद्याः निखिलाः च अति शिव-आज्ञाः नष्टबुद्धयः ॥ २६॥
tatas asahaṃtaḥ tad-vīryam pīḍitāḥ hi abhavan surāḥ .. viṣṇu-ādyāḥ nikhilāḥ ca ati śiva-ājñāḥ naṣṭabuddhayaḥ .. 26..
अथ विष्णुप्रभृतिकास्सर्वे देवा विमोहिताः ॥ दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः ॥ २७॥
अथ विष्णु-प्रभृतिकाः सर्वे देवाः विमोहिताः ॥ दह्यमानाः ययुः शीघ्रम् शरणम् पार्वतीपतेः ॥ २७॥
atha viṣṇu-prabhṛtikāḥ sarve devāḥ vimohitāḥ .. dahyamānāḥ yayuḥ śīghram śaraṇam pārvatīpateḥ .. 27..
शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ॥ तुष्टुवुस्सशिवं शंभुं प्रीत्या सांजलयस्सुराः ॥ २८ ॥
शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ॥ तुष्टुवुः स शिवम् शंभुम् प्रीत्या सांजलयः सुराः ॥ २८ ॥
śivālayasya te dvāri gatvā sarve vinamrakāḥ .. tuṣṭuvuḥ sa śivam śaṃbhum prītyā sāṃjalayaḥ surāḥ .. 28 ..
देवा ऊचुः ।।
देवदेव महादेव गिरिजेश महाप्रभो ॥ किं जातमधुना नाथ तव माया दुरत्यया ॥ २९ ॥
देवदेव महादेव गिरिजा-ईश महा-प्रभो ॥ किम् जातम् अधुना नाथ तव माया दुरत्यया ॥ २९ ॥
devadeva mahādeva girijā-īśa mahā-prabho .. kim jātam adhunā nātha tava māyā duratyayā .. 29 ..
सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा ॥ तव शंभो कुरु कृपां निवारय दशामिमाम् ॥ 2.4.2.३० ॥
स गर्भाः च वयम् जाताः दह्यमानाः च रेतसा ॥ तव शंभो कुरु कृपाम् निवारय दशाम् इमाम् ॥ २।४।२।३० ॥
sa garbhāḥ ca vayam jātāḥ dahyamānāḥ ca retasā .. tava śaṃbho kuru kṛpām nivāraya daśām imām .. 2.4.2.30 ..
ब्रह्मोवाच ।।
इत्याकर्ण्याऽमरनुतिं परमेशश्शिवापतिः ॥ आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने ॥ ३१॥
इति आकर्ण्य अमर-नुतिम् परमेशः शिवापतिः ॥ आजगाम द्रुतम् द्वारि यत्र देवाः स्थिताः मुने ॥ ३१॥
iti ākarṇya amara-nutim parameśaḥ śivāpatiḥ .. ājagāma drutam dvāri yatra devāḥ sthitāḥ mune .. 31..
आगतं शंकरं द्वारि सर्वे देवाश्च साच्युताः ॥ प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम् ॥ ३२॥
आगतम् शंकरम् द्वारि सर्वे देवाः च स अच्युताः ॥ प्रणम्य तुष्टुवुः प्रीत्या नर्तकाः भक्त-वत्सलम् ॥ ३२॥
āgatam śaṃkaram dvāri sarve devāḥ ca sa acyutāḥ .. praṇamya tuṣṭuvuḥ prītyā nartakāḥ bhakta-vatsalam .. 32..
देवा ऊचुः ।।
शंभो शिव महेशान त्वां नतास्स्म विशेषतः ॥ रक्ष नश्शरणापन्नान्दह्यमानांश्च रेतसा ॥ ३३॥
शंभो शिव महेशान त्वाम् नताः अस्स्म विशेषतः ॥ रक्ष नः शरण-आपन्नान् दह्यमानान् च रेतसा ॥ ३३॥
śaṃbho śiva maheśāna tvām natāḥ assma viśeṣataḥ .. rakṣa naḥ śaraṇa-āpannān dahyamānān ca retasā .. 33..
इदं दुःखं हर हर भवामो हि मृता ध्रुवम् ॥ त्वां विना कस्समर्थोऽद्य देवदुःखनिवा रणे ॥ ३४॥
इदम् दुःखम् हर हर भवामः हि मृताः ध्रुवम् ॥ त्वाम् विना कः समर्थः अद्य देव-दुःख-निवाः रणे ॥ ३४॥
idam duḥkham hara hara bhavāmaḥ hi mṛtāḥ dhruvam .. tvām vinā kaḥ samarthaḥ adya deva-duḥkha-nivāḥ raṇe .. 34..
ब्रह्मोवाच ।।
इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः ॥ प्रत्युवाच विहस्याऽथ स सुरान् भक्तवत्सलः ॥ ३५ ॥
इति दीनतरम् वाक्यम् आकर्ण्य सुरराज् प्रभुः ॥ प्रत्युवाच विहस्य अथ स सुरान् भक्त-वत्सलः ॥ ३५ ॥
iti dīnataram vākyam ākarṇya surarāj prabhuḥ .. pratyuvāca vihasya atha sa surān bhakta-vatsalaḥ .. 35 ..
शिव उवाच ।।
हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ॥ भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि ॥ ३६ ॥
हे हरे हे विधे देवाः सर्वे शृणुत मद्-वचः ॥ भविष्यति सुखम् वः अद्य स अवधानाः भवन्तु हि ॥ ३६ ॥
he hare he vidhe devāḥ sarve śṛṇuta mad-vacaḥ .. bhaviṣyati sukham vaḥ adya sa avadhānāḥ bhavantu hi .. 36 ..
एतद्वमत मद्वीर्यं द्रुतमेवाऽखिलास्सुराः ॥ सुखिनस्तद्विशेषेण शासनान्मम सुप्रभो॥ ३७॥
एतत् वमत मद्-वीर्यम् द्रुतम् एव अ खिलाः सुराः ॥ सुखिनः तद्-विशेषेण शासनात् मम सु प्रभो॥ ३७॥
etat vamata mad-vīryam drutam eva a khilāḥ surāḥ .. sukhinaḥ tad-viśeṣeṇa śāsanāt mama su prabho.. 37..
ब्रह्मोवाच ।।
इत्याज्ञां शिरसाऽधाय विष्ण्वाद्यास्सकलास्सुराः ॥ अकार्षुर्वमनं शीघ्रं स्मरंतश्शिवमव्ययम् ॥ ३८॥
इति आज्ञाम् शिरसा अधाय विष्णु-आद्याः सकलाः सुराः ॥ अकार्षुः वमनम् शीघ्रम् स्मरंतः शिवम् अव्ययम् ॥ ३८॥
iti ājñām śirasā adhāya viṣṇu-ādyāḥ sakalāḥ surāḥ .. akārṣuḥ vamanam śīghram smaraṃtaḥ śivam avyayam .. 38..
तच्छंभुरेतस्स्वर्णाभं पर्वताकारमद्भुतम्॥ अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम्॥ ३९॥
तत् शंभुः एतत् स्वर्ण-आभम् पर्वत-आकारम् अद्भुतम्॥ अभवत् पतितम् भूमौ स्पृशत् द्याम् एव सु प्रभम्॥ ३९॥
tat śaṃbhuḥ etat svarṇa-ābham parvata-ākāram adbhutam.. abhavat patitam bhūmau spṛśat dyām eva su prabham.. 39..
अभवन्सुखिनस्सर्वे सुरास्सर्वेऽच्युतादयः ॥ अस्तुवन् परमेशानं शंकरं भक्तवत्सलम् ॥ 2.4.2.४०॥
अभवन् सुखिनः सर्वे सुराः सर्वे अच्युत-आदयः ॥ अस्तुवन् परमेशानम् शंकरम् भक्त-वत्सलम् ॥ २।४।२।४०॥
abhavan sukhinaḥ sarve surāḥ sarve acyuta-ādayaḥ .. astuvan parameśānam śaṃkaram bhakta-vatsalam .. 2.4.2.40..
पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर॥ तस्याज्ञां परमोऽदाद्वै शंकरः परमेश्वरः॥ ४१॥
पावकः तु अभवत् ना एव सुखी तत्र मुनि-ईश्वर॥ तस्य आज्ञाम् परमः अदात् वै शंकरः परमेश्वरः॥ ४१॥
pāvakaḥ tu abhavat nā eva sukhī tatra muni-īśvara.. tasya ājñām paramaḥ adāt vai śaṃkaraḥ parameśvaraḥ.. 41..
ततस्सवह्निर्विकलस्सांजलिर्नतको मुने॥ अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत् ॥ ४२ ॥
ततस् स वह्निः विकलः स अंजलिः नतकः मुने॥ अस्तौत् शिवम् सुखी न आत्मा वचनम् च इदम् अब्रवीत् ॥ ४२ ॥
tatas sa vahniḥ vikalaḥ sa aṃjaliḥ natakaḥ mune.. astaut śivam sukhī na ātmā vacanam ca idam abravīt .. 42 ..
अग्निरुवाच ।।
देवदेव महेशान मूढोऽहं तव सेवकः ॥ क्षमस्व मेऽपराधं हि मम दाहं निवारय ॥ ४३॥
देवदेव महेशान मूढः अहम् तव सेवकः ॥ क्षमस्व मे अपराधम् हि मम दाहम् निवारय ॥ ४३॥
devadeva maheśāna mūḍhaḥ aham tava sevakaḥ .. kṣamasva me aparādham hi mama dāham nivāraya .. 43..
त्वं दीनवत्सल स्वामिञ्शंकरः परमेश्वरः ॥ प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम् ॥ ४४॥
त्वम् दीन-वत्सल स्वामिन् शंकरः परमेश्वरः ॥ प्रत्युवाच प्रसन्न-आत्मा पावकः दीन-वत्सलम् ॥ ४४॥
tvam dīna-vatsala svāmin śaṃkaraḥ parameśvaraḥ .. pratyuvāca prasanna-ātmā pāvakaḥ dīna-vatsalam .. 44..
ब्रह्मोवाच ।।
इत्याकर्ण्य शुचेर्वाणीं स शंभुः परमेश्वरः ॥ प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः ॥ ४५॥
इति आकर्ण्य शुचेः वाणीम् स शंभुः परमेश्वरः ॥ प्रत्युवाच प्रसन्न-आत्मा पावकम् दीन-वत्सलः ॥ ४५॥
iti ākarṇya śuceḥ vāṇīm sa śaṃbhuḥ parameśvaraḥ .. pratyuvāca prasanna-ātmā pāvakam dīna-vatsalaḥ .. 45..
शिव उवाच ।।
कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् ॥ अतोऽनिवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया ॥ ४६ ॥
कृतम् तु अनुचितम् कर्म मद्-रेतः भक्षितम् हि यत् ॥ अतस् अनिवृत्तः ते दाहः पाप-आधिक्यात् मद्-आज्ञया ॥ ४६ ॥
kṛtam tu anucitam karma mad-retaḥ bhakṣitam hi yat .. atas anivṛttaḥ te dāhaḥ pāpa-ādhikyāt mad-ājñayā .. 46 ..
इदानीं त्वं सुखी नाम शुचे मच्छरणागतः ॥ अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति ॥ ४७॥
इदानीम् त्वम् सुखी नाम शुचे मद्-शरण-आगतः ॥ अतस् प्रसन्नः जातः अहम् सर्वम् दुःखम् विनश्यति ॥ ४७॥
idānīm tvam sukhī nāma śuce mad-śaraṇa-āgataḥ .. atas prasannaḥ jātaḥ aham sarvam duḥkham vinaśyati .. 47..
कस्याश्चित्सुस्त्रियां योनौ मद्रेतस्त्यज यत्नतः ॥ भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः ॥ ४८ ॥
कस्याश्चिद् सुस्त्रियाम् योनौ मद्-रेतः त्यज यत्नतः ॥ भविष्यति सुखी त्वम् हि निर्दाह-आत्मा विशेषतः ॥ ४८ ॥
kasyāścid sustriyām yonau mad-retaḥ tyaja yatnataḥ .. bhaviṣyati sukhī tvam hi nirdāha-ātmā viśeṣataḥ .. 48 ..
ब्रह्मोवाच ।।
शंभुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः ॥ सांजलिर्नतकः प्रीत्या शंकरं भक्तशंकरम् ॥ ४९ ॥
शंभु-वाक्यम् निशम्य इति प्रत्युवाच शनैस् शुचिः ॥ स अंजलिः नतकः प्रीत्या शंकरम् भक्त-शंकरम् ॥ ४९ ॥
śaṃbhu-vākyam niśamya iti pratyuvāca śanais śuciḥ .. sa aṃjaliḥ natakaḥ prītyā śaṃkaram bhakta-śaṃkaram .. 49 ..
दुरासदमिदं तेजस्तव नाथ महेश्वर ॥ काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये ॥ 2.4.2.५० ॥
दुरासदम् इदम् तेजः तव नाथ महेश्वर ॥ काचिद् ना अस्ति विना शक्त्या धर्तुम् योनौ जगत्त्रये ॥ २।४।२।५० ॥
durāsadam idam tejaḥ tava nātha maheśvara .. kācid nā asti vinā śaktyā dhartum yonau jagattraye .. 2.4.2.50 ..
इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम ॥ शंकरप्रेरितः प्रात्थ हृदाग्निमुपकारकः ॥ ५१ ॥
इत्थम् यदा अब्रवीत् वह्निः तदा त्वम् मुनि-सत्तम ॥ शंकर-प्रेरितः प्रात्थ हृदा अग्निम् उपकारकः ॥ ५१ ॥
ittham yadā abravīt vahniḥ tadā tvam muni-sattama .. śaṃkara-preritaḥ prāttha hṛdā agnim upakārakaḥ .. 51 ..
नारद उवाच ।।
शृणु मद्वचनं वह्ने तव दाहहरं शुभम्॥ परमानंददं रम्यं सर्वकष्टनिवारकम् ॥ ५२॥
शृणु मद्-वचनम् वह्ने तव दाह-हरम् शुभम्॥ सर्व ॥ ५२॥
śṛṇu mad-vacanam vahne tava dāha-haram śubham.. sarva .. 52..
कृत्वोपायमिमं वह्ने सुखी भव विदाहकः ॥ शिवेच्छया मया सम्यगुक्तं तातेदमादरात् ॥ ५३ ॥
कृत्वा उपायम् इमम् वह्ने सुखी भव विदाहकः ॥ शिव-इच्छया मया सम्यक् उक्तम् तात इदम् आदरात् ॥ ५३ ॥
kṛtvā upāyam imam vahne sukhī bhava vidāhakaḥ .. śiva-icchayā mayā samyak uktam tāta idam ādarāt .. 53 ..
तपोमासस्नानकर्त्र्यस्त्रियो यास्स्युः प्रगे शुचे ॥ तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत् ॥ ५४॥
तपः-मास-स्नान-कर्त्री-अस्त्रियः याः स्युः प्रगे शुचे ॥ तद्-देहेषु स्थापय त्वम् शिव-रेतः तु इदम् महत् ॥ ५४॥
tapaḥ-māsa-snāna-kartrī-astriyaḥ yāḥ syuḥ prage śuce .. tad-deheṣu sthāpaya tvam śiva-retaḥ tu idam mahat .. 54..
ब्रह्मोवाच ।।
तस्मिन्नवसरे तत्रा ऽगतास्सप्तमुनिस्त्रियः ॥ तपोमासि स्नानकामाः प्रातस्सन्नियमा मुने ॥ ५५॥
तस्मिन् अवसरे तत्र अ गताः सप्त-मुनि-स्त्रियः ॥ तपः-मासि स्नान-कामाः प्रातर् सत्-नियमाः मुने ॥ ५५॥
tasmin avasare tatra a gatāḥ sapta-muni-striyaḥ .. tapaḥ-māsi snāna-kāmāḥ prātar sat-niyamāḥ mune .. 55..
स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् ॥ गंतुकामा मुने याता वह्निज्वालासमीपतः ॥ ५६ ॥
स्नानम् कृत्वा स्त्रियः ताः हि महा-शीत-अर्द्दिताः च षट् ॥ गंतु-कामाः मुने याताः वह्नि-ज्वाला-समीपतः ॥ ५६ ॥
snānam kṛtvā striyaḥ tāḥ hi mahā-śīta-ardditāḥ ca ṣaṭ .. gaṃtu-kāmāḥ mune yātāḥ vahni-jvālā-samīpataḥ .. 56 ..
विमोहिताश्च ता दृष्ट्वारुन्धती गिरिशाज्ञया ॥ निषिषेध विशेषेण सुचरित्र सुबोधिनी ॥ ५७ ॥
विमोहिताः च ताः दृष्ट्वा अरुन्धती गिरिश-आज्ञया ॥ निषिषेध विशेषेण सुचरित्र सुबोधिनी ॥ ५७ ॥
vimohitāḥ ca tāḥ dṛṣṭvā arundhatī giriśa-ājñayā .. niṣiṣedha viśeṣeṇa sucaritra subodhinī .. 57 ..
ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने ॥ स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया ॥ ५८ ॥
ताः षड् मुनि-स्त्रियः मोहात् हठात् तत्र गताः मुने ॥ स्व-शीत-विनिवृत्ति-अर्थम् मोहिताः शिव-मायया ॥ ५८ ॥
tāḥ ṣaḍ muni-striyaḥ mohāt haṭhāt tatra gatāḥ mune .. sva-śīta-vinivṛtti-artham mohitāḥ śiva-māyayā .. 58 ..
तद्रेतःकणिकास्सद्यस्तद्देहान् विविशुर्मुने ॥ रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः ॥ ५९॥
तद्-रेतः-कणिकाः सद्यस् तद्-देहान् विविशुः मुने ॥ रोम-द्वारा अखिला वह्निः अभूत् दाह-विवर्जितः ॥ ५९॥
tad-retaḥ-kaṇikāḥ sadyas tad-dehān viviśuḥ mune .. roma-dvārā akhilā vahniḥ abhūt dāha-vivarjitaḥ .. 59..
अंतर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह ॥ सुखी स्वलोकं मनसा स्मरंस्त्वां शंकरं च तम् ॥ 2.4.2.६० ॥
अंतर्धाय द्रुतम् वह्निः ज्वाला-रूपः जगाम ह ॥ सुखी स्व-लोकम् मनसा स्मरन् त्वाम् शंकरम् च तम् ॥ २।४।२।६० ॥
aṃtardhāya drutam vahniḥ jvālā-rūpaḥ jagāma ha .. sukhī sva-lokam manasā smaran tvām śaṃkaram ca tam .. 2.4.2.60 ..
सगर्भास्ताः स्त्रियस्साधोऽभवन् दाहप्रपीडिताः ॥ जग्मुस्स्वभवनं तातारुंधती दुःखिताऽग्निना ॥ ६१॥
सगर्भाः ताः स्त्रियः साधो अभवन् दाह-प्रपीडिताः ॥ जग्मुः स्व-भवनम् तात अरुंधती दुःखिता अग्निना ॥ ६१॥
sagarbhāḥ tāḥ striyaḥ sādho abhavan dāha-prapīḍitāḥ .. jagmuḥ sva-bhavanam tāta aruṃdhatī duḥkhitā agninā .. 61..
दृष्ट्वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् ॥ तत्यजुस्ताः स्त्रियस्तात सुसंमंत्र्य परस्परम् ॥ ६२ ॥
दृष्ट्वा स्व-स्त्री-गतिम् तात नाथाः क्रोध-आकुलाः द्रुतम् ॥ तत्यजुः ताः स्त्रियः तात सु संमंत्र्य परस्परम् ॥ ६२ ॥
dṛṣṭvā sva-strī-gatim tāta nāthāḥ krodha-ākulāḥ drutam .. tatyajuḥ tāḥ striyaḥ tāta su saṃmaṃtrya parasparam .. 62 ..
अथ ताः षट् स्त्रियस्सर्वा दृष्ट्वा स्वव्यभिचारकम् ॥ महादुःखान्वितास्ताताऽभवन्नाकुलमानसाः ॥ ६३ ॥
अथ ताः षड् स्त्रियः सर्वाः दृष्ट्वा स्वव्यभिचारकम् ॥ महा-दुःख-अन्विताः ताता अभवन् आकुल-मानसाः ॥ ६३ ॥
atha tāḥ ṣaḍ striyaḥ sarvāḥ dṛṣṭvā svavyabhicārakam .. mahā-duḥkha-anvitāḥ tātā abhavan ākula-mānasāḥ .. 63 ..
तत्यजुश्शिव रेतस्तद्गर्भरूपं मुनिस्त्रियः ॥ ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः ॥ ६४ ॥
तत्यजुः शिव रेतः तद्-गर्भ-रूपम् मुनि-स्त्रियः ॥ ताः हिमाचल-पृष्ठे अथ अभवन् दाह-विवर्जिताः ॥ ६४ ॥
tatyajuḥ śiva retaḥ tad-garbha-rūpam muni-striyaḥ .. tāḥ himācala-pṛṣṭhe atha abhavan dāha-vivarjitāḥ .. 64 ..
असहञ्शिवरेतस्तद्धिमाद्रिः कंपमुद्वहन् ॥ गंगायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः ॥ ६५ ॥
असहन् शिव-रेतः तत् हिमाद्रिः कंपम् उद्वहन् ॥ गंगायाम् प्राक्षिपत् तूर्णम् असह्यम् दाह-पीडितः ॥ ६५ ॥
asahan śiva-retaḥ tat himādriḥ kaṃpam udvahan .. gaṃgāyām prākṣipat tūrṇam asahyam dāha-pīḍitaḥ .. 65 ..
गंगयाऽपि च तद्वीर्यं दुस्सहं परमात्मनः ॥ निःक्षिप्तं हि शरस्तंबे तरंगैः स्वैर्मुनीश्वर ॥ ६६॥
गंगया अपि च तद्-वीर्यम् दुस्सहम् परमात्मनः ॥ निःक्षिप्तम् हि शर-स्तंबे तरंगैः स्वैः मुनि-ईश्वर ॥ ६६॥
gaṃgayā api ca tad-vīryam dussaham paramātmanaḥ .. niḥkṣiptam hi śara-staṃbe taraṃgaiḥ svaiḥ muni-īśvara .. 66..
पतितं तत्र तद्रेतो द्रुतं बालो बभूव ह ॥ सुन्दरस्सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः ॥ ६७ ॥
पतितम् तत्र तत् रेतः द्रुतम् बालः बभूव ह ॥ सुन्दरः सुभगः श्रीमान् तेजस्वी प्रीति-वर्द्धनः ॥ ६७ ॥
patitam tatra tat retaḥ drutam bālaḥ babhūva ha .. sundaraḥ subhagaḥ śrīmān tejasvī prīti-varddhanaḥ .. 67 ..
मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर ॥ प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले ॥ ६८ ॥
मार्ग-मासे सिते पक्षे तिथौ षष्ठ्याम् मुनि-ईश्वर ॥ प्रादुर्भावः अभवत् तस्य शिवपुत्रस्य भू-तले ॥ ६८ ॥
mārga-māse site pakṣe tithau ṣaṣṭhyām muni-īśvara .. prādurbhāvaḥ abhavat tasya śivaputrasya bhū-tale .. 68 ..
तस्मिन्नवसरे ब्रह्मन्न कस्माद्धिम शैलजा ॥ अभूतः सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च ॥ ६९॥
तस्मिन् अवसरे ब्रह्मन् न कस्मात् हिम शैलजा ॥ अभूतः सुखिनौ तत्र स्व-गिरौ गिरिशः अपि च ॥ ६९॥
tasmin avasare brahman na kasmāt hima śailajā .. abhūtaḥ sukhinau tatra sva-girau giriśaḥ api ca .. 69..
शिवाकुचाभ्यां सुस्राव पय आनन्दसंभवम् ॥ तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम् ॥ 2.4.2.७० ॥
शिवा-कुचाभ्याम् सुस्राव पयः आनन्द-संभवम् ॥ तत्र गत्वा च सर्वेषाम् सुखम् आसीत् मुने अधिकम् ॥ २।४।२।७० ॥
śivā-kucābhyām susrāva payaḥ ānanda-saṃbhavam .. tatra gatvā ca sarveṣām sukham āsīt mune adhikam .. 2.4.2.70 ..
मंगलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् ॥ खलानामभवद्विघ्नो दैत्यानां च विशेषतः ॥ ७१ ॥
मंगलम् च अभवत् तात त्रिलोक्याम् सुख-दम् सताम् ॥ खलानाम् अभवत् विघ्नः दैत्यानाम् च विशेषतः ॥ ७१ ॥
maṃgalam ca abhavat tāta trilokyām sukha-dam satām .. khalānām abhavat vighnaḥ daityānām ca viśeṣataḥ .. 71 ..
अकस्मादभवद्व्योम्नि परमो दुंदुभिध्वनिः ॥ पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद ॥ ७२ ॥
अकस्मात् अभवत् व्योम्नि परमः दुंदुभि-ध्वनिः ॥ पुष्प-वृष्टिः पपात आशु बालक-उपरि नारद ॥ ७२ ॥
akasmāt abhavat vyomni paramaḥ duṃdubhi-dhvaniḥ .. puṣpa-vṛṣṭiḥ papāta āśu bālaka-upari nārada .. 72 ..
विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम ॥ अभूदकस्मात्परम आनन्दः परमोत्सवः ॥ ७३॥
विष्णु-आदीनाम् समस्तानाम् देवानाम् मुनि-सत्तम ॥ अभूत् अकस्मात् परमः आनन्दः परम-उत्सवः ॥ ७३॥
viṣṇu-ādīnām samastānām devānām muni-sattama .. abhūt akasmāt paramaḥ ānandaḥ parama-utsavaḥ .. 73..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनम् नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe śivaputrajananavarṇanam nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In