| |
|

This overlay will guide you through the buttons:

।।ब्रह्मोवाच।।
एतस्मिन्नंतरे तत्र विश्वरूपः प्रजापतिः ॥ तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ॥ १ ॥
एतस्मिन् अंतरे तत्र विश्वरूपः प्रजापतिः ॥ तद्-उद्योगम् संविचार्य सुखम् आप प्रसन्न-धीः ॥ १ ॥
etasmin aṃtare tatra viśvarūpaḥ prajāpatiḥ .. tad-udyogam saṃvicārya sukham āpa prasanna-dhīḥ .. 1 ..
विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे॥ सिद्धिबुद्धिरिति ख्याते शुभे सर्वांगशोभने ॥ २ ॥
विश्वरूप-प्रजा-ईशस्य दिव्य-रूपे सुते उभे॥ सिद्धिबुद्धिः इति ख्याते शुभे सर्व-अंग-शोभने ॥ २ ॥
viśvarūpa-prajā-īśasya divya-rūpe sute ubhe.. siddhibuddhiḥ iti khyāte śubhe sarva-aṃga-śobhane .. 2 ..
ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ॥ महोत्सवं विवाहं च कारयामासतुर्मुदा ॥ ३॥
ताभ्याम् च एव गणेशस्य गिरिजा शंकरः प्रभू ॥ महा-उत्सवम् विवाहम् च कारयामासतुः मुदा ॥ ३॥
tābhyām ca eva gaṇeśasya girijā śaṃkaraḥ prabhū .. mahā-utsavam vivāham ca kārayāmāsatuḥ mudā .. 3..
संतुष्टा देवतास्सर्वास्तद्विवाहे समागमन् ॥ यथा चैव शिवस्यैव गिरिजाया मनोरथः ॥ ४॥
संतुष्टाः देवताः सर्वाः तद्-विवाहे समागमन् ॥ यथा च एव शिवस्य एव गिरिजायाः मनोरथः ॥ ४॥
saṃtuṣṭāḥ devatāḥ sarvāḥ tad-vivāhe samāgaman .. yathā ca eva śivasya eva girijāyāḥ manorathaḥ .. 4..
तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ॥ तथा च ऋषयो देवा लेभिरे परमां मुदम् ॥ ५ ॥
तथा च विश्वकर्मा असौ विवाहम् कृतवान् तथा ॥ तथा च ऋषयः देवाः लेभिरे परमाम् मुदम् ॥ ५ ॥
tathā ca viśvakarmā asau vivāham kṛtavān tathā .. tathā ca ṛṣayaḥ devāḥ lebhire paramām mudam .. 5 ..
गणेशोपि तदा ताभ्यां सुखं चैवाप्तिचिंतकम् ॥ प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ॥ ६ ॥
गणेशः उपि तदा ताभ्याम् सुखम् च एव आप्ति-चिंतकम् ॥ प्राप्तवान् च मुने तत् तु वर्णितुम् ना एव शक्यते ॥ ६ ॥
gaṇeśaḥ upi tadā tābhyām sukham ca eva āpti-ciṃtakam .. prāptavān ca mune tat tu varṇitum nā eva śakyate .. 6 ..
कियता चैव कालेन गणेशस्य महात्मनः ॥ द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥ ७ ॥
कियता च एव कालेन गणेशस्य महात्मनः ॥ द्वयोः पत्न्योः च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ॥ ७ ॥
kiyatā ca eva kālena gaṇeśasya mahātmanaḥ .. dvayoḥ patnyoḥ ca dvau divyau tasya putrau babhūvatuḥ .. 7 ..
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ॥ बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः ॥ ८ ॥
सिद्धेः गणेश-पत्न्याः तु क्षेम-नामा सुतः अभवत् ॥ बुद्धेः लाभ-अभिधः पुत्रः हि आसीत् परभ-शोभनः ॥ ८ ॥
siddheḥ gaṇeśa-patnyāḥ tu kṣema-nāmā sutaḥ abhavat .. buddheḥ lābha-abhidhaḥ putraḥ hi āsīt parabha-śobhanaḥ .. 8 ..
एवं सुखमचिंत्यं व भुंजाने हि गणेश्वरे ॥ आजगाम द्वितीयश्च क्रांत्वा पृथ्वीं सुतस्तदा॥ ९॥
एवम् सुखम् अचिंत्यम् भुंजाने हि गणेश्वरे ॥ आजगाम द्वितीयः च क्रान्त्वा पृथ्वीम् सुतः तदा॥ ९॥
evam sukham aciṃtyam bhuṃjāne hi gaṇeśvare .. ājagāma dvitīyaḥ ca krāntvā pṛthvīm sutaḥ tadā.. 9..
तावश्च नारदेनैव प्राप्तो गेहे महात्मना॥ यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ॥ 2.4.20.१० ॥
तावः च नारदेन एव प्राप्तः गेहे महात्मना॥ यथार्थम् वच्मि नः असत्यम् न छलेन न मत्सरात् ॥ २।४।२०।१० ॥
tāvaḥ ca nāradena eva prāptaḥ gehe mahātmanā.. yathārtham vacmi naḥ asatyam na chalena na matsarāt .. 2.4.20.10 ..
पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ॥ तन्न कुर्य्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ॥ ११॥
पितृभ्याम् तु कृतम् यत् च शिवया शंकरेण ते ॥ तत् न कुर्य्यात् परः लोके सत्यम् सत्यम् ब्रवीमि अहम् ॥ ११॥
pitṛbhyām tu kṛtam yat ca śivayā śaṃkareṇa te .. tat na kuryyāt paraḥ loke satyam satyam bravīmi aham .. 11..
निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ॥ गणेशस्य वरोकारि विवाहः परशोभनः ॥ १२ ॥
निष्कास्य त्वाम् कुक्रमणम् मिषम् उत्पाद्य यत्नतः ॥ गणेशस्य विवाहः पर-शोभनः ॥ १२ ॥
niṣkāsya tvām kukramaṇam miṣam utpādya yatnataḥ .. gaṇeśasya vivāhaḥ para-śobhanaḥ .. 12 ..
गणेशस्य कृतोद्वाहो लब्धवांस्स्त्रीद्वयं मुदा ॥ विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ॥ १३॥
गणेशस्य कृत-उद्वाहः लब्धवान् स्त्री-द्वयम् मुदा ॥ विश्वरूप-प्रजा-ईशस्य कन्या-रत्नम् महा-उत्तमम् ॥ १३॥
gaṇeśasya kṛta-udvāhaḥ labdhavān strī-dvayam mudā .. viśvarūpa-prajā-īśasya kanyā-ratnam mahā-uttamam .. 13..
पुत्रद्वयं ललाभासौ द्वयोः पत्न्योश्शुभांगयोः ॥ सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वं सुखप्रदम् ॥ १४॥
पुत्र-द्वयम् द्वयोः पत्न्योः शुभ-अंगयोः ॥ सिद्धे क्षेमम् तथा बुद्धेः लाभम् सर्वम् सुख-प्रदम् ॥ १४॥
putra-dvayam dvayoḥ patnyoḥ śubha-aṃgayoḥ .. siddhe kṣemam tathā buddheḥ lābham sarvam sukha-pradam .. 14..
पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ॥ मातापित्रोर्मतेनैव सुखं भुंक्ते निरंतरम् ॥ १५॥
पत्न्योः द्वयोः गणेशः असौ लब्ध्वा पुत्र-द्वयम् शुभम् ॥ माता-पित्रोः मतेन एव सुखम् भुंक्ते निरंतरम् ॥ १५॥
patnyoḥ dvayoḥ gaṇeśaḥ asau labdhvā putra-dvayam śubham .. mātā-pitroḥ matena eva sukham bhuṃkte niraṃtaram .. 15..
भवता पृथिवी क्रांता ससमुद्रा सकानना॥ तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम्॥ १६॥
भवता पृथिवी क्रांता स समुद्रा स कानना॥ तद्-शल-आज्ञा-वशात् तात तस्य जातम् फलम् तु इदम्॥ १६॥
bhavatā pṛthivī krāṃtā sa samudrā sa kānanā.. tad-śala-ājñā-vaśāt tāta tasya jātam phalam tu idam.. 16..
पितृभ्यां क्रियतास्मैवच्छलं तात विचार्यताम् ॥ स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ॥ १७ ॥
पितृभ्याम् क्रियता अस्म एव छलम् तात विचार्यताम् ॥ स्व-स्वामिभ्याम् विशेषेण हि अन्यः किन् न करोति वै ॥ १७ ॥
pitṛbhyām kriyatā asma eva chalam tāta vicāryatām .. sva-svāmibhyām viśeṣeṇa hi anyaḥ kin na karoti vai .. 17 ..
असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ॥ विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ॥ १८॥
असम्यक् च कृतम् ताभ्याम् त्वद्-पितृभ्याम् हि कर्म ह ॥ विचार्यताम् त्वया अपि इह मद्-चित्ते न शुभम् मतम् ॥ १८॥
asamyak ca kṛtam tābhyām tvad-pitṛbhyām hi karma ha .. vicāryatām tvayā api iha mad-citte na śubham matam .. 18..
दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ॥ राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ॥ १९॥
दद्यात् यदि गरम् माता विक्रीणीयात् पिता यदि ॥ राजा हरति सर्व-स्वम् कस्मै किम् च ब्रवीतु वै ॥ १९॥
dadyāt yadi garam mātā vikrīṇīyāt pitā yadi .. rājā harati sarva-svam kasmai kim ca bravītu vai .. 19..
येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ॥ शांतिकामस्सुधीस्तात तन्मुखं न विलोकयेत् ॥ 2.4.20.२०॥
येन एवा इदम् कृतम् स्यात् वै कर्म अनर्थ-करम् परम् ॥ शांति-कामः सुधीः तात तद्-मुखम् न विलोकयेत् ॥ २।४।२०।२०॥
yena evā idam kṛtam syāt vai karma anartha-karam param .. śāṃti-kāmaḥ sudhīḥ tāta tad-mukham na vilokayet .. 2.4.20.20..
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ॥ निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ॥ २१॥
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतस् ॥ निवेदिता च सा ते अद्य यथा इच्छसि तथा कुरु ॥ २१॥
iti nītiḥ śrutau proktā smṛtau śāstreṣu sarvatas .. niveditā ca sā te adya yathā icchasi tathā kuru .. 21..
ब्रह्मोवाच ।।
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ॥ तस्मै तथा कुमाराय वाक्यं मौनमुपागतः॥ २२॥
इति उक्त्वा नारद त्वम् तु महेश्वर-मनोगतिः ॥ तस्मै तथा कुमाराय वाक्यम् मौनम् उपागतः॥ २२॥
iti uktvā nārada tvam tu maheśvara-manogatiḥ .. tasmai tathā kumārāya vākyam maunam upāgataḥ.. 22..
स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ॥ जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि सन् ॥ २३॥
स्कन्दः अपि पितरम् नत्वा कोप-अग्नि-ज्वलितः तदा ॥ जगाम पर्वतम् क्रौंचम् पितृभ्याम् वारितः अपि सन् ॥ २३॥
skandaḥ api pitaram natvā kopa-agni-jvalitaḥ tadā .. jagāma parvatam krauṃcam pitṛbhyām vāritaḥ api san .. 23..
वारणे च कृते त्वद्य गम्यते च कथं त्वया ॥ इत्येवं च निषिद्धोपि प्रोच्य नेति जगाम सः ॥ २४ ॥
वारणे च कृते तु अद्य गम्यते च कथम् त्वया ॥ इति एवम् च निषिद्धः उपि प्रोच्य ना इति जगाम सः ॥ २४ ॥
vāraṇe ca kṛte tu adya gamyate ca katham tvayā .. iti evam ca niṣiddhaḥ upi procya nā iti jagāma saḥ .. 24 ..
न स्थातव्यं मया तातौ क्षणमप्यत्र किंचन ॥ यद्येवं कपटं प्रीतिमपहाय कृतं मयि ॥ २५ ॥
न स्थातव्यम् मया तातौ क्षणम् अपि अत्र किंचन ॥ यदि एवम् कपटम् प्रीतिम् अपहाय कृतम् मयि ॥ २५ ॥
na sthātavyam mayā tātau kṣaṇam api atra kiṃcana .. yadi evam kapaṭam prītim apahāya kṛtam mayi .. 25 ..
एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ॥ दर्शनेनैव सर्वेषां लोकानां पापहारकः ॥ २६ ॥
एवम् उक्त्वा गतः तत्र मुने सः अद्या अपि वर्तते ॥ दर्शनेन एव सर्वेषाम् लोकानाम् पाप-हारकः ॥ २६ ॥
evam uktvā gataḥ tatra mune saḥ adyā api vartate .. darśanena eva sarveṣām lokānām pāpa-hārakaḥ .. 26 ..
तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ॥ शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ॥ २७॥
तत् दिनम् हि समारभ्य कार्तिकेयस्य तस्य वै ॥ शिवपुत्रस्य देव-ऋषे कुमार-त्वम् प्रतिष्ठितम् ॥ २७॥
tat dinam hi samārabhya kārtikeyasya tasya vai .. śivaputrasya deva-ṛṣe kumāra-tvam pratiṣṭhitam .. 27..
तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ॥ सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम्॥ २८॥
तत् नाम शुभ-दम् लोके प्रसिद्धम् भुवनत्रये ॥ सर्व-पाप-हरम् पुण्यम् ब्रह्मचर्य-प्रदम् परम्॥ २८॥
tat nāma śubha-dam loke prasiddham bhuvanatraye .. sarva-pāpa-haram puṇyam brahmacarya-pradam param.. 28..
कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः॥ दर्शनार्थं कुमारस्य गच्छंति च मुनीश्वराः ॥ २९॥
कार्तिक्याम् च सदा देवाः ऋषयः च स तीर्थकाः॥ दर्शन-अर्थम् कुमारस्य गच्छन्ति च मुनि-ईश्वराः ॥ २९॥
kārtikyām ca sadā devāḥ ṛṣayaḥ ca sa tīrthakāḥ.. darśana-artham kumārasya gacchanti ca muni-īśvarāḥ .. 29..
कार्तिक्यां कृत्तिकासंगे कुर्याद्यः स्वामिदर्शनम्॥ तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत् ॥ 2.4.20.३०॥
कार्तिक्याम् कृत्तिका-संगे कुर्यात् यः स्वामि-दर्शनम्॥ तस्य पापम् दहेत् सर्वम् चित्त-ईप्सित फलम् लभेत् ॥ २।४।२०।३०॥
kārtikyām kṛttikā-saṃge kuryāt yaḥ svāmi-darśanam.. tasya pāpam dahet sarvam citta-īpsita phalam labhet .. 2.4.20.30..
उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ॥ उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ॥ ३१॥
उमा अपि दुःखम् आपन्ना स्कन्दस्य विरहे सति ॥ उवाच स्वामिनम् दीना तत्र गच्छ मया प्रभो ॥ ३१॥
umā api duḥkham āpannā skandasya virahe sati .. uvāca svāminam dīnā tatra gaccha mayā prabho .. 31..
तत्सुखार्थं स्वयं शंभुर्गतस्स्वांशेन पर्वते ॥ मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम् ॥ ३२॥
तद्-सुख-अर्थम् स्वयम् शंभुः गतः स्व-अंशेन पर्वते ॥ मल्लिकार्जुन-नामा आसीत् ज्योतिः-लिङ्गम् सुख-आवहम् ॥ ३२॥
tad-sukha-artham svayam śaṃbhuḥ gataḥ sva-aṃśena parvate .. mallikārjuna-nāmā āsīt jyotiḥ-liṅgam sukha-āvaham .. 32..
अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ॥ सर्वेषां निजभक्तानां कामपूरस्सतां गतिः ॥ ३३॥
अद्या अपि दृश्यते तत्र शिवया सहितः शिवः ॥ सर्वेषाम् निज-भक्तानाम् काम-पूरः सताम् गतिः ॥ ३३॥
adyā api dṛśyate tatra śivayā sahitaḥ śivaḥ .. sarveṣām nija-bhaktānām kāma-pūraḥ satām gatiḥ .. 33..
तमागतं स विज्ञाय कुमारस्सशिवं शिवम् ॥ स विरज्य ततोऽन्यत्र गंतुमासीत्समुत्सुकः ॥ ३४॥
तम् आगतम् स विज्ञाय कुमारः स शिवम् शिवम् ॥ स विरज्य ततस् अन्यत्र गंतुम् आसीत् समुत्सुकः ॥ ३४॥
tam āgatam sa vijñāya kumāraḥ sa śivam śivam .. sa virajya tatas anyatra gaṃtum āsīt samutsukaḥ .. 34..
देवैश्च मुनिभिश्चैव प्रार्थितस्सोपि दूरतः ॥ योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ॥ ३५ ॥
देवैः च मुनिभिः च एव प्रार्थितः सः अपि दूरतस् ॥ योजन-त्रयम् उत्सृज्य स्थितः स्थाने च कार्तिकः ॥ ३५ ॥
devaiḥ ca munibhiḥ ca eva prārthitaḥ saḥ api dūratas .. yojana-trayam utsṛjya sthitaḥ sthāne ca kārtikaḥ .. 35 ..
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ॥ दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ॥ ३६ ॥
पुत्र-स्नेह-आतुरौ तौ वै शिवौ पर्वणि पर्वणि ॥ दर्शन-अर्थम् कुमारस्य तस्य नारद गच्छतः ॥ ३६ ॥
putra-sneha-āturau tau vai śivau parvaṇi parvaṇi .. darśana-artham kumārasya tasya nārada gacchataḥ .. 36 ..
अमावास्यादिने शंभुः स्वयं गच्छति तत्र ह ॥ पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम् ॥ ३७॥
अमावास्या-दिने शंभुः स्वयम् गच्छति तत्र ह ॥ पूर्णमासी-दिने तत्र पार्वती गच्छति ध्रुवम् ॥ ३७॥
amāvāsyā-dine śaṃbhuḥ svayam gacchati tatra ha .. pūrṇamāsī-dine tatra pārvatī gacchati dhruvam .. 37..
यद्यत्तस्य च वृत्तांतं भवत्पृष्टं मुनीश्वर ॥ कार्तिकस्य गणेशस्य परमं कथितं मया ॥ ३८॥
यत् यत् तस्य च वृत्तांतम् भवत्-पृष्टम् मुनि-ईश्वर ॥ कार्तिकस्य गणेशस्य परमम् कथितम् मया ॥ ३८॥
yat yat tasya ca vṛttāṃtam bhavat-pṛṣṭam muni-īśvara .. kārtikasya gaṇeśasya paramam kathitam mayā .. 38..
एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ॥ शोभनां लभते कामानीप्सितान्सकलान्सदा ॥ ३९ ॥
एतत् श्रुत्वा नरः धीमान् सर्व-पापैः प्रमुच्यते ॥ शोभनाम् लभते कामान् ईप्सितान् सकलान् सदा ॥ ३९ ॥
etat śrutvā naraḥ dhīmān sarva-pāpaiḥ pramucyate .. śobhanām labhate kāmān īpsitān sakalān sadā .. 39 ..
यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ 2.4.20.४०॥
यः पठेत् पाठयेत् वा अपि शृणुयात् श्रावयेत् तथा ॥ सर्वान् कामान् अवाप्नोति न अत्र कार्या विचारणा ॥ २।४।२०।४०॥
yaḥ paṭhet pāṭhayet vā api śṛṇuyāt śrāvayet tathā .. sarvān kāmān avāpnoti na atra kāryā vicāraṇā .. 2.4.20.40..
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥ वैश्यो धन समृद्धस्स्याच्छूद्रस्सत्समतामियात् ॥ ४१॥
ब्राह्मणः ब्रह्म-वर्चस्वी क्षत्रियः विजयी भवेत् ॥ वैश्यः धन-समृद्धः स्यात् शूद्रः सत्-सम-ताम् इयात् ॥ ४१॥
brāhmaṇaḥ brahma-varcasvī kṣatriyaḥ vijayī bhavet .. vaiśyaḥ dhana-samṛddhaḥ syāt śūdraḥ sat-sama-tām iyāt .. 41..
रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ॥ भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ॥ ४२॥
रोगी रोगात् प्रमुच्येत भयात् मुच्येत भीति-युज् ॥ भूत-प्रेत-आदि-बाधाभ्यः पीडितः न भवेत् नरः ॥ ४२॥
rogī rogāt pramucyeta bhayāt mucyeta bhīti-yuj .. bhūta-preta-ādi-bādhābhyaḥ pīḍitaḥ na bhavet naraḥ .. 42..
एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ॥ आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ॥ ४३ ॥
एतत् आख्यानम् अनघम् यशस्यम् सुख-वर्द्धनम् ॥ आयुष्यम् स्वर्ग्यम् अतुलम् पुत्र-पौत्र-आदि-कारकम् ॥ ४३ ॥
etat ākhyānam anagham yaśasyam sukha-varddhanam .. āyuṣyam svargyam atulam putra-pautra-ādi-kārakam .. 43 ..
अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ॥ शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ॥ ४४ ॥
अपवर्ग-प्रदम् च अपि शिव-ज्ञान-प्रदम् परम् ॥ शिव-अशिव-प्रीति-करम् शिव-भक्ति-विवर्द्धनम् ॥ ४४ ॥
apavarga-pradam ca api śiva-jñāna-pradam param .. śiva-aśiva-prīti-karam śiva-bhakti-vivarddhanam .. 44 ..
श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ॥ शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ॥ ४५॥
श्रवणीयम् सदा भक्तैः निःकामैः च मुमुक्षुभिः ॥ शिव-अद्वैत-प्रदम् च एतत् सदाशिव-मयम् शिवम् ॥ ४५॥
śravaṇīyam sadā bhaktaiḥ niḥkāmaiḥ ca mumukṣubhiḥ .. śiva-advaita-pradam ca etat sadāśiva-mayam śivam .. 45..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे गणेशविवाहवर्णनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe gaṇeśavivāhavarṇanam nāma viṃśaḥ adhyāyaḥ .. 20 ..
समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः ॥ ४ ॥
समाप्ता इयम् रुद्रसंहिता-अन्तर्गतः कुमारखण्डः चतुर्थः ॥ ४ ॥
samāptā iyam rudrasaṃhitā-antargataḥ kumārakhaṇḍaḥ caturthaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In