| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो ॥ ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ॥ १॥
देवदेव प्रजानाथ ब्रह्मन् सृष्टि-कर प्रभो ॥ ततस् किम् अभवत् तत्र तत् वद अद्य कृपाम् कुरु ॥ १॥
devadeva prajānātha brahman sṛṣṭi-kara prabho .. tatas kim abhavat tatra tat vada adya kṛpām kuru .. 1..
ब्रह्मोवाच ।।
तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् ॥ प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ॥ २ ॥
तस्मिन् अवसरे तात विश्वामित्रः प्रतापवान् ॥ प्रेरितः विधिना तत्र अगच्छत् प्रीतः यदृच्छया ॥ २ ॥
tasmin avasare tāta viśvāmitraḥ pratāpavān .. preritaḥ vidhinā tatra agacchat prītaḥ yadṛcchayā .. 2 ..
स दृष्ट्वाऽलौकिकं धाम तत्सुतस्य सुतेजसः ॥ अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ॥ ३ ॥
स दृष्ट्वा अलौकिकम् धाम तद्-सुतस्य सु तेजसः ॥ अभवत् पूर्ण-कामः तु सु प्रसन्नः ननाम च ॥ ३ ॥
sa dṛṣṭvā alaukikam dhāma tad-sutasya su tejasaḥ .. abhavat pūrṇa-kāmaḥ tu su prasannaḥ nanāma ca .. 3 ..
अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा ॥ विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ॥ ४॥
अकरोत् सुनुतिम् तस्य सु प्रसन्नेन चेतसा ॥ विधि-प्रेरित-वाग्भिः च विश्वामित्रः प्रभाव-विद् ॥ ४॥
akarot sunutim tasya su prasannena cetasā .. vidhi-prerita-vāgbhiḥ ca viśvāmitraḥ prabhāva-vid .. 4..
ततस्सोऽभूत्सुतस्तत्र सुप्रसन्नो महोति कृत् ॥ सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ॥ ५ ॥
ततस् सः अभूत् सुतः तत्र सु प्रसन्नः कृत् ॥ सु प्रहस्य अद्भुतम् अहो विश्वामित्रम् उवाच च ॥ ५ ॥
tatas saḥ abhūt sutaḥ tatra su prasannaḥ kṛt .. su prahasya adbhutam aho viśvāmitram uvāca ca .. 5 ..
शिवसुत उवाच ।।
शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः ॥ संस्कारं कुरु मे तात यथावद्वेदसंमितम् ॥ ६॥
शिव-इच्छया महाज्ञानिन् अकस्मात् त्वम् इह आगतः ॥ संस्कारम् कुरु मे तात यथावत् वेद-संमितम् ॥ ६॥
śiva-icchayā mahājñānin akasmāt tvam iha āgataḥ .. saṃskāram kuru me tāta yathāvat veda-saṃmitam .. 6..
अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् ॥ भविष्यसि सदा पूज्यस्सर्वेषां नात्र संशयः ॥ ७ ॥
अद्य आरभ्य पुरोधाः त्वम् भव मे प्रीतिम् आवहन् ॥ भविष्यसि सदा पूज्यः सर्वेषाम् न अत्र संशयः ॥ ७ ॥
adya ārabhya purodhāḥ tvam bhava me prītim āvahan .. bhaviṣyasi sadā pūjyaḥ sarveṣām na atra saṃśayaḥ .. 7 ..
ब्रह्मोवाच ।। ।।
इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः ॥ तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ॥ ८ ॥
इति आकर्ण्य वचः तस्य सु प्रसन्नः हि गाधिजः ॥ तम् उवाच अनुदात्तेन स्वरेण च सु विस्मितः ॥ ८ ॥
iti ākarṇya vacaḥ tasya su prasannaḥ hi gādhijaḥ .. tam uvāca anudāttena svareṇa ca su vismitaḥ .. 8 ..
विश्वामित्र उवाच ।।
शृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ॥ विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९ ॥
शृणु तात न विप्रः अहम् गाधि-क्षत्रिय-बालकः ॥ विश्वामित्र-इति विख्यातः क्षत्रियः विप्र-सेवकः ॥ ९ ॥
śṛṇu tāta na vipraḥ aham gādhi-kṣatriya-bālakaḥ .. viśvāmitra-iti vikhyātaḥ kṣatriyaḥ vipra-sevakaḥ .. 9 ..
इति स्वचरितं ख्यातं मया ते वरबालक ॥ कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ॥ 2.4.3.१० ॥
इति स्व-चरितम् ख्यातम् मया ते वर-बालक ॥ कः त्वम् स्व-चरितम् ब्रूहि विस्मिताय अखिलम् हि मे ॥ २।४।३।१० ॥
iti sva-caritam khyātam mayā te vara-bālaka .. kaḥ tvam sva-caritam brūhi vismitāya akhilam hi me .. 2.4.3.10 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वच स्तस्य तत्स्ववृत्तं जगाद ह ॥ ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ॥ ११ ॥
इति आकर्ण्य वचः तस्य तत् स्व-वृत्तम् जगाद ह ॥ ततस् च उवाच सु प्रीत्या गाधिजम् तम् महा-ऊति-कृत् ॥ ११ ॥
iti ākarṇya vacaḥ tasya tat sva-vṛttam jagāda ha .. tatas ca uvāca su prītyā gādhijam tam mahā-ūti-kṛt .. 11 ..
शिवसुत उवाच ।।
विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नाऽत्र संशयः ॥ वशिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यंति चादरात् ॥ १२॥
विश्वामित्र वरात् मे त्वम् ब्रह्मर्षिः न अत्र संशयः ॥ वशिष्ठ-आद्याः च नित्यम् त्वाम् प्रशंसिष्यंति च आदरात् ॥ १२॥
viśvāmitra varāt me tvam brahmarṣiḥ na atra saṃśayaḥ .. vaśiṣṭha-ādyāḥ ca nityam tvām praśaṃsiṣyaṃti ca ādarāt .. 12..
अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि ॥ इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ॥ १३॥
अतस् त्वम् आज्ञया मे हि संस्कारम् कर्तुम् अर्हसि ॥ इदम् सर्वम् सु गोप्यम् ते कथनीयम् न कुत्रचिद् ॥ १३॥
atas tvam ājñayā me hi saṃskāram kartum arhasi .. idam sarvam su gopyam te kathanīyam na kutracid .. 13..
ब्रह्मोवाच ।।
ततोकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा ॥ शिवबालस्य देवर्षे वेदोक्तविधिना परम् ॥ १४॥
ततस् उकार्षीत् स संस्कारम् तस्य प्रीत्या अखिलम् यथा ॥ शिव-बालस्य देव-ऋषे वेद-उक्त-विधिना परम् ॥ १४॥
tatas ukārṣīt sa saṃskāram tasya prītyā akhilam yathā .. śiva-bālasya deva-ṛṣe veda-ukta-vidhinā param .. 14..
शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् ॥ विश्वामित्राय मुनये महोतिकारकः प्रभुः ॥ १५॥
शिव-बालः अपि सु प्रीतः दिव्य-ज्ञानम् अदात् परम् ॥ विश्वामित्राय मुनये महा-ऊति-कारकः प्रभुः ॥ १५॥
śiva-bālaḥ api su prītaḥ divya-jñānam adāt param .. viśvāmitrāya munaye mahā-ūti-kārakaḥ prabhuḥ .. 15..
पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुत ॥ तदारभ्य द्विजवरो नानालीलाविशारदः ॥ १६॥
पुरोहितम् चकार असौ विश्वामित्रम् शुचेः सुत ॥ तत् आरभ्य द्विजवरः नाना लीला-विशारदः ॥ १६॥
purohitam cakāra asau viśvāmitram śuceḥ suta .. tat ārabhya dvijavaraḥ nānā līlā-viśāradaḥ .. 16..
इत्थं लीला कृता तेन कथिता सा मया मुने ॥ तल्लीलामपरां तात शृणु प्रीत्या वदाम्यहम् ॥ १७ ॥
इत्थम् लीला कृता तेन कथिता सा मया मुने ॥ तद्-लीलाम् अपराम् तात शृणु प्रीत्या वदामि अहम् ॥ १७ ॥
ittham līlā kṛtā tena kathitā sā mayā mune .. tad-līlām aparām tāta śṛṇu prītyā vadāmi aham .. 17 ..
तस्मिन्नवसरे तात श्वेतनामा च संप्रति ॥ तत्राऽपश्यत्सुतं दिव्यं निजं परम पावनम् ॥ १८ ॥
तस्मिन् अवसरे तात श्वेत-नामा च संप्रति ॥ तत्र अपश्यत् सुतम् दिव्यम् निजम् परम-पावनम् ॥ १८ ॥
tasmin avasare tāta śveta-nāmā ca saṃprati .. tatra apaśyat sutam divyam nijam parama-pāvanam .. 18 ..
ततस्तं पावको गत्वा दृष्ट्वालिंग्य चुचुम्ब च ॥ पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिन्ददौ च सः ॥ १९ ॥
ततस् तम् पावकः गत्वा दृष्ट्वा आलिंग्य चुचुम्ब च ॥ पुत्र इति च उक्त्वा तस्मै स शस्त्रम् शक्तिन् ददौ च सः ॥ १९ ॥
tatas tam pāvakaḥ gatvā dṛṣṭvā āliṃgya cucumba ca .. putra iti ca uktvā tasmai sa śastram śaktin dadau ca saḥ .. 19 ..
गुहस्तां शक्तिमादाय तच्छृंगं चारुरोह ह ॥ तं जघान तया शक्त्या शृंगो भुवि पपात सः ॥ 2.4.3.२०॥
गुहः ताम् शक्तिम् आदाय तद्-शृंगम् च आरुरोह ह ॥ तम् जघान तया शक्त्या शृंगः भुवि पपात सः ॥ २।४।३।२०॥
guhaḥ tām śaktim ādāya tad-śṛṃgam ca āruroha ha .. tam jaghāna tayā śaktyā śṛṃgaḥ bhuvi papāta saḥ .. 2.4.3.20..
दशपद्ममिता वीरा राक्षसाः पूर्वमागताः॥ तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः॥ २१॥
दश-पद्म-मिताः वीराः राक्षसाः पूर्वम् आगताः॥ तद्-वध-अर्थम् द्रुतम् नष्टाः बभूवुः तद्-प्रहारतः॥ २१॥
daśa-padma-mitāḥ vīrāḥ rākṣasāḥ pūrvam āgatāḥ.. tad-vadha-artham drutam naṣṭāḥ babhūvuḥ tad-prahārataḥ.. 21..
हाहाकारो महानासीच्चकंपे साचला मही॥ त्रैलोक्यं च सुरेशानस्सदेवस्तत्र चागमत्॥ २२॥
हाहाकारः महान् आसीत् चकंपे सा अचला मही॥ त्रैलोक्यम् च सुरेशानः स देवः तत्र च अगमत्॥ २२॥
hāhākāraḥ mahān āsīt cakaṃpe sā acalā mahī.. trailokyam ca sureśānaḥ sa devaḥ tatra ca agamat.. 22..
दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ॥ शाखनामा ततो जातः पुमांश्चैको महाबलः ॥ २३॥
दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ॥ शाख-नामा ततस् जातः पुमान् च एकः महा-बलः ॥ २३॥
dakṣiṇe tasya pārśve ca vajreṇa sa jaghāna ca .. śākha-nāmā tatas jātaḥ pumān ca ekaḥ mahā-balaḥ .. 23..
पुनश्शक्रो जघानाऽऽशु वामपार्श्वे हि तं तदा ॥ वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ॥ २४॥
पुनर् शक्रः जघान आशु वाम-पार्श्वे हि तम् तदा ॥ वज्रेण अन्यः पुमान् जातः विशाख-आख्यः अपरः बली ॥ २४॥
punar śakraḥ jaghāna āśu vāma-pārśve hi tam tadā .. vajreṇa anyaḥ pumān jātaḥ viśākha-ākhyaḥ aparaḥ balī .. 24..
ततस्तद्धृदयं शक्रो जघान पविना तदा ॥ परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ॥ २५ ॥
ततस् तत् हृदयम् शक्रः जघान पविना तदा ॥ परः अभूत् नैगम-उपाख्यः पुमान् तद्वत् महा-बलः ॥ २५ ॥
tatas tat hṛdayam śakraḥ jaghāna pavinā tadā .. paraḥ abhūt naigama-upākhyaḥ pumān tadvat mahā-balaḥ .. 25 ..
तदा स्कंदादिचत्वारो महावीरा महाबलाः ॥ इन्द्रं हंतुं द्रुतं जग्मुस्सोयं तच्छरणं ययौ ॥ २५ ॥
तदा स्कंद-आदि-चत्वारः महा-वीराः महा-बलाः ॥ इन्द्रम् हंतुम् द्रुतम् जग्मुः सोयम् तत् शरणम् ययौ ॥ २५ ॥
tadā skaṃda-ādi-catvāraḥ mahā-vīrāḥ mahā-balāḥ .. indram haṃtum drutam jagmuḥ soyam tat śaraṇam yayau .. 25 ..
शक्रस्स सामरगणो भयं प्राप्य गुहात्ततः ॥ ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ॥ २७ ॥
शक्रः स स अमर-गणः भयम् प्राप्य गुहात् ततस् ॥ ययौ स्व-लोकम् चकितः न भेदम् ज्ञातवान् मुने ॥ २७ ॥
śakraḥ sa sa amara-gaṇaḥ bhayam prāpya guhāt tatas .. yayau sva-lokam cakitaḥ na bhedam jñātavān mune .. 27 ..
स बालकस्तु तत्रैव तस्थाऽऽवानंदसंयुतः ॥ पूर्ववन्निर्भयस्तात नानालीलाकरः प्रभुः ॥ २८ ॥
स बालकः तु तत्र एव तस्थौ आनंद-संयुतः ॥ पूर्ववत् निर्भयः तात नाना लीला-करः प्रभुः ॥ २८ ॥
sa bālakaḥ tu tatra eva tasthau ānaṃda-saṃyutaḥ .. pūrvavat nirbhayaḥ tāta nānā līlā-karaḥ prabhuḥ .. 28 ..
तस्मिन्नवसरे तत्र कृत्तिकाख्याश्च षट् स्त्रियः ॥ स्नातुं समागता बालं ददृशुस्तं महाप्रभुम् ॥ २९ ॥
तस्मिन् अवसरे तत्र कृत्तिका-आख्याः च षड् स्त्रियः ॥ स्नातुम् समागताः बालम् ददृशुः तम् महा-प्रभुम् ॥ २९ ॥
tasmin avasare tatra kṛttikā-ākhyāḥ ca ṣaḍ striyaḥ .. snātum samāgatāḥ bālam dadṛśuḥ tam mahā-prabhum .. 29 ..
ग्रहीतुं तं मनश्चक्रुस्सर्वास्ता कृत्तिकाः स्त्रियः ॥ वादो बभूव तासां तद्ग्रहणेच्छापरो मुने ॥ 2.4.3.३० ॥
ग्रहीतुम् तम् मनः चक्रुः सर्वाः ताः कृत्तिकाः स्त्रियः ॥ वादः बभूव तासाम् तद्-ग्रहण-इच्छा-परः मुने ॥ २।४।३।३० ॥
grahītum tam manaḥ cakruḥ sarvāḥ tāḥ kṛttikāḥ striyaḥ .. vādaḥ babhūva tāsām tad-grahaṇa-icchā-paraḥ mune .. 2.4.3.30 ..
तद्वादशमनार्थं स षण्मुखानि चकार ह ॥ पपौ दुग्धं च सर्वासां तुष्टास्ता अभवन्मुने ॥ ३१ ।
तद्-वादश-मन-अर्थम् स षड् मुखानि चकार ह ॥ पपौ दुग्धम् च सर्वासाम् तुष्टाः ताः अभवत् मुने ॥ ३१ ।
tad-vādaśa-mana-artham sa ṣaḍ mukhāni cakāra ha .. papau dugdham ca sarvāsām tuṣṭāḥ tāḥ abhavat mune .. 31 .
तन्मनोगतिमाज्ञाय सर्वास्ताः कृत्तिकास्तदा ॥ तमादाय ययुर्लोकं स्वकीयं मुदिता मुने ॥ ३२॥
तद्-मनोगतिम् आज्ञाय सर्वाः ताः कृत्तिकाः तदा ॥ तम् आदाय ययुः लोकम् स्वकीयम् मुदिताः मुने ॥ ३२॥
tad-manogatim ājñāya sarvāḥ tāḥ kṛttikāḥ tadā .. tam ādāya yayuḥ lokam svakīyam muditāḥ mune .. 32..
तं बालकं कुमाराख्यं स्तनं दत्त्वा स्तनार्थिने ॥ वर्द्धयामासुरीशस्य सुतं सूर्याधिकप्रभम् ॥ ३३॥
तम् बालकम् कुमार-आख्यम् स्तनम् दत्त्वा स्तन-अर्थिने ॥ वर्द्धयामासुः ईशस्य सुतम् सूर्य-अधिक-प्रभम् ॥ ३३॥
tam bālakam kumāra-ākhyam stanam dattvā stana-arthine .. varddhayāmāsuḥ īśasya sutam sūrya-adhika-prabham .. 33..
न चक्रुर्बालकं याश्च लोचनानामगोचरम् ॥ प्राणेभ्योपि प्रेमपात्रं यः पोष्टा तस्य पुत्रक ॥ ३४॥
न चक्रुः बालकम् याः च लोचनानाम् अगोचरम् ॥ प्राणेभ्यः अपि प्रेम-पात्रम् यः पोष्टा तस्य पुत्रक ॥ ३४॥
na cakruḥ bālakam yāḥ ca locanānām agocaram .. prāṇebhyaḥ api prema-pātram yaḥ poṣṭā tasya putraka .. 34..
यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च ॥ ददुस्तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ॥ ३५॥
यानि यानि च वस्त्राणि त्रैलोक्ये दुर्लभानि च ॥ ददुः तस्मै च ताः प्रेम्णा भूषणानि वराणि वै ॥ ३५॥
yāni yāni ca vastrāṇi trailokye durlabhāni ca .. daduḥ tasmai ca tāḥ premṇā bhūṣaṇāni varāṇi vai .. 35..
दिनेदिने ताः पुपुषुर्बालकं तं महाप्रभुम् ॥ प्रसंसितानि स्वादूनि भोजयित्वा विशेषतः ॥ ३६ ॥
दिने दिने ताः पुपुषुः बालकम् तम् महा-प्रभुम् ॥ प्रसंसितानि स्वादूनि भोजयित्वा विशेषतः ॥ ३६ ॥
dine dine tāḥ pupuṣuḥ bālakam tam mahā-prabhum .. prasaṃsitāni svādūni bhojayitvā viśeṣataḥ .. 36 ..
अथैकस्मिन् दिने तात स बालः कृत्तिकात्मजः ॥ गत्वा देवसभां दिव्यां सुचरित्रं चकार ह॥ ३७॥
अथा एकस्मिन् दिने तात स बालः कृत्तिका-आत्मजः ॥ गत्वा देव-सभाम् दिव्याम् सु चरित्रम् चकार ह॥ ३७॥
athā ekasmin dine tāta sa bālaḥ kṛttikā-ātmajaḥ .. gatvā deva-sabhām divyām su caritram cakāra ha.. 37..
स्वमहो दर्शयामास देवेभ्यो हि महाद्भुतम् ॥ सविष्णुभ्योऽखिलेभ्यश्च महोतिकरबालकः ॥ ३८ ॥
स्व-महः दर्शयामास देवेभ्यः हि महा-अद्भुतम् ॥ स विष्णुभ्यः अखिलेभ्यः च ॥ ३८ ॥
sva-mahaḥ darśayāmāsa devebhyaḥ hi mahā-adbhutam .. sa viṣṇubhyaḥ akhilebhyaḥ ca .. 38 ..
तं दृष्ट्वा सकलास्ते वै साच्युतास्सर्षयस्सुराः ॥ विस्मयं प्रापुरत्यन्तं पप्रच्छुस्तं च बालकम् ॥ ३९ ॥
तम् दृष्ट्वा सकलाः ते वै स अच्युताः स ऋषयः सुराः ॥ विस्मयम् प्रापुः अत्यन्तम् पप्रच्छुः तम् च बालकम् ॥ ३९ ॥
tam dṛṣṭvā sakalāḥ te vai sa acyutāḥ sa ṛṣayaḥ surāḥ .. vismayam prāpuḥ atyantam papracchuḥ tam ca bālakam .. 39 ..
को भवानिति तच्छ्रुत्वा न किंचित्स जगाद ह ॥ स्वालयं स जगामाऽशु गुप्तस्तस्थौ हि पूर्ववत् ॥ 2.4.3.४० ॥
कः भवान् इति तत् श्रुत्वा न किंचिद् स जगाद ह ॥ स्व-आलयम् स जगाम आशु गुप्तः तस्थौ हि पूर्ववत् ॥ २।४।३।४० ॥
kaḥ bhavān iti tat śrutvā na kiṃcid sa jagāda ha .. sva-ālayam sa jagāma āśu guptaḥ tasthau hi pūrvavat .. 2.4.3.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनम् नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe kārtikeyalīlāvarṇanam nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In