| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
देवदेव प्रजानाथ ततः किमभवद्विधे ॥ वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १॥
देवदेव प्रजानाथ ततस् किम् अभवद्विधे ॥ वद इदानीम् कृपातः तु शिव-लीला-समन्वितम् ॥ १॥
devadeva prajānātha tatas kim abhavadvidhe .. vada idānīm kṛpātaḥ tu śiva-līlā-samanvitam .. 1..
।। ब्रह्मोवाच ।।
कृत्तिकाभिर्गृहीते वै तस्मिञ्शंभुसुते मुने ॥ कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥
कृत्तिकाभिः गृहीते वै तस्मिन् शंभु-सुते मुने ॥ कश्चिद् कालः व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥
kṛttikābhiḥ gṛhīte vai tasmin śaṃbhu-sute mune .. kaścid kālaḥ vyatīyāya bubudhe na himādrijā .. 2..
तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा॥ उवाच स्वामिनं शंभुं देवदेवेश्वरं प्रभुम् ॥ ३ ॥ ॥
तस्मिन् अवसरे दुर्गा स्मेर-आनन-सरोरुहा॥ उवाच स्वामिनम् शंभुम् देवदेव-ईश्वरम् प्रभुम् ॥ ३ ॥ ॥
tasmin avasare durgā smera-ānana-saroruhā.. uvāca svāminam śaṃbhum devadeva-īśvaram prabhum .. 3 .. ..
पार्वत्युवाच ।।
देवदेव महादेव शृणु मे वचनं शुभम् ॥ पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वर ॥ ४॥
देवदेव महादेव शृणु मे वचनम् शुभम् ॥ पूर्व-पुण्य-अतिभारेण त्वम् मया प्राप्तः ईश्वर ॥ ४॥
devadeva mahādeva śṛṇu me vacanam śubham .. pūrva-puṇya-atibhāreṇa tvam mayā prāptaḥ īśvara .. 4..
कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ॥ रतिभंगः कृतो देवैस्तत्र मे भवता भव ॥ ५॥
कृपया योगिषु श्रेष्ठः विहारैः तत्परः अभवः ॥ रति-भंगः कृतः देवैः तत्र मे भवता भव ॥ ५॥
kṛpayā yogiṣu śreṣṭhaḥ vihāraiḥ tatparaḥ abhavaḥ .. rati-bhaṃgaḥ kṛtaḥ devaiḥ tatra me bhavatā bhava .. 5..
भूमौ निपतितं वीर्यं नोदरे मम ते विभो ॥ कुत्र यातं च तद्देव केन दैवेन निह्णुतम् ॥ ६ ॥
भूमौ निपतितम् वीर्यम् न उदरे मम ते विभो ॥ कुत्र यातम् च तत् देव केन दैवेन निह्णुतम् ॥ ६ ॥
bhūmau nipatitam vīryam na udare mama te vibho .. kutra yātam ca tat deva kena daivena nihṇutam .. 6 ..
कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ॥ मोघं यातं च किं किंवा शिशुर्जातश्च कुत्रचित् ॥ ७ ॥
कथम् मद्-स्वामिनः वीर्यम् अमोघम् ते महेश्वर ॥ मोघम् यातम् च किम् किंवा शिशुः जातः च कुत्रचिद् ॥ ७ ॥
katham mad-svāminaḥ vīryam amogham te maheśvara .. mogham yātam ca kim kiṃvā śiśuḥ jātaḥ ca kutracid .. 7 ..
ब्रह्मोवाच ।।
पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ॥ उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८ ॥
पार्वती-वचनम् श्रुत्वा प्रहस्य जगत्-ईश्वरः ॥ उवाच देवान् आहूय मुनीन् च अपि मुनि-ईश्वर ॥ ८ ॥
pārvatī-vacanam śrutvā prahasya jagat-īśvaraḥ .. uvāca devān āhūya munīn ca api muni-īśvara .. 8 ..
महेश्वर उवाच ।।
देवाः शृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ॥ अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९ ॥ ॥
देवाः शृणुत मद्-वाक्यम् पार्वती-वचनम् श्रुतम् ॥ अमोघम् कुत्र मे वीर्यम् यातम् केन च निह्नुतम् ॥ ९ ॥ ॥
devāḥ śṛṇuta mad-vākyam pārvatī-vacanam śrutam .. amogham kutra me vīryam yātam kena ca nihnutam .. 9 .. ..
सभयं नापतत्क्षिप्रं स चेद्दंडं न चार्हति ॥ शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ 2.4.4.१० ॥
स भयम् न अपतत् क्षिप्रम् स चेद् दण्डम् न च अर्हति ॥ शक्तौ राजा न शास्ता यः प्रजा-बाध्यः च भक्षकः ॥ २।४।४।१० ॥
sa bhayam na apatat kṣipram sa ced daṇḍam na ca arhati .. śaktau rājā na śāstā yaḥ prajā-bādhyaḥ ca bhakṣakaḥ .. 2.4.4.10 ..
शंभोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ॥ ऊचुस्सर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः॥ ११॥
शंभोः तत् वचनम् श्रुत्वा समालोच्य परस्परम् ॥ ऊचुः सर्वे क्रमेण एव त्रस्ताः तु पुरतस् प्रभोः॥ ११॥
śaṃbhoḥ tat vacanam śrutvā samālocya parasparam .. ūcuḥ sarve krameṇa eva trastāḥ tu puratas prabhoḥ.. 11..
विष्णुरुवाच ।।
ते मिथ्यावादिनस्संतु भारते गुरुदारिकाः ॥ गुरुनिन्दारताश्शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२॥
ते मिथ्या वादिनः संतु भारते गुरु-दारिकाः ॥ गुरु-निन्दा-रताः शश्वत् त्वद्-वीर्यम् यैः च निह्नुतम् ॥ १२॥
te mithyā vādinaḥ saṃtu bhārate guru-dārikāḥ .. guru-nindā-ratāḥ śaśvat tvad-vīryam yaiḥ ca nihnutam .. 12..
ब्रह्मोवाच ।।
त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ॥ स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३ ॥
त्वद्-वीर्यम् निह्नुतम् येन पुण्य-क्षेत्रे च भारते ॥ स ना आ अन्वितः भवेत् तत्र सेवने पूजने तव ॥ १३ ॥
tvad-vīryam nihnutam yena puṇya-kṣetre ca bhārate .. sa nā ā anvitaḥ bhavet tatra sevane pūjane tava .. 13 ..
लोकपाला ऊचुः ।।
त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ॥ भाजनं तस्य सोत्यन्तं तत्तपं कर्म संततिम् ॥ १४॥
त्वद्-अवीर्यम् निह्नुतम् येन पापिना पतित-भ्रमात् ॥ भाजनम् तस्य सा उत्यन्तम् तत् तपम् कर्म संततिम् ॥ १४॥
tvad-avīryam nihnutam yena pāpinā patita-bhramāt .. bhājanam tasya sā utyantam tat tapam karma saṃtatim .. 14..
देवा ऊचुः ।।
कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ॥ भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५ ॥
कृत्वा प्रतिज्ञाम् यः मूढः न आपादयति पूर्ण-ताम् ॥ भाजनम् तस्य पापस्य त्वद्-वीर्यम् येन निह्नुतम् ॥ १५ ॥
kṛtvā pratijñām yaḥ mūḍhaḥ na āpādayati pūrṇa-tām .. bhājanam tasya pāpasya tvad-vīryam yena nihnutam .. 15 ..
देवपत्न्य ऊचुः ।।
या निदति स्वभर्तारं परं गच्छति पूरुषम् ॥ मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६ ॥
या स्व-भर्तारम् परम् गच्छति पूरुषम् ॥ मातृ-बन्धु-विहीना च त्वद्-वीर्यम् निह्नुतम् यया ॥ १६ ॥
yā sva-bhartāram param gacchati pūruṣam .. mātṛ-bandhu-vihīnā ca tvad-vīryam nihnutam yayā .. 16 ..
ब्रह्मोवाच ।।
देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ॥ कर्म्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७॥
देवानाम् वचनम् श्रुत्वा देवदेव-ईश्वरः हरः ॥ कर्म्मणाम् साक्षिणः च आह धर्म-आदीन् स भयम् वचः ॥ १७॥
devānām vacanam śrutvā devadeva-īśvaraḥ haraḥ .. karmmaṇām sākṣiṇaḥ ca āha dharma-ādīn sa bhayam vacaḥ .. 17..
श्रीशिव उवाच ।।
देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ॥ तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८ ॥
देवैः न निह्नुतम् केन तत् वीर्यम् निह्नुतम् ध्रुवम् ॥ तत् अमोघम् भगवतः महेशस्य मम प्रभोः ॥ १८ ॥
devaiḥ na nihnutam kena tat vīryam nihnutam dhruvam .. tat amogham bhagavataḥ maheśasya mama prabhoḥ .. 18 ..
यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ॥ युष्माकं निह्नुतं किम्वा किं ज्ञातुं वक्तुमर्हथ ॥ १९ ॥
यूयम् च साक्षिणः विश्वे सततम् सर्व-कर्मणाम् ॥ युष्माकम् निह्नुतम् किम् वा किम् ज्ञातुम् वक्तुम् अर्हथ ॥ १९ ॥
yūyam ca sākṣiṇaḥ viśve satatam sarva-karmaṇām .. yuṣmākam nihnutam kim vā kim jñātum vaktum arhatha .. 19 ..
ब्रह्मोवाच ।।
ईश्वरस्य वचः श्रुत्वा सभायां कंपिताश्च ते ॥ परस्परं समालोक्य क्रमेणोचुः पुराः प्रभोः ॥ 2.4.4.२०॥
ईश्वरस्य वचः श्रुत्वा सभायाम् कंपिताः च ते ॥ परस्परम् समालोक्य क्रमेण ऊचुः पुराः प्रभोः ॥ २।४।४।२०॥
īśvarasya vacaḥ śrutvā sabhāyām kaṃpitāḥ ca te .. parasparam samālokya krameṇa ūcuḥ purāḥ prabhoḥ .. 2.4.4.20..
ब्रह्मोवाच ।।
रते तु तिष्ठतो वीर्यं पपात वसुधातले ॥ मया ज्ञातममोघं तच्छंकरस्य प्रकोपतः ॥ २१ ॥
रते तु तिष्ठतः वीर्यम् पपात वसुधा-तले ॥ मया ज्ञातम् अमोघम् तत् शंकरस्य प्रकोपतः ॥ २१ ॥
rate tu tiṣṭhataḥ vīryam papāta vasudhā-tale .. mayā jñātam amogham tat śaṃkarasya prakopataḥ .. 21 ..
क्षितिरुवाच ।।
वीर्यं सोढुमशक्ताहं तद्वह्नो न्यक्षिपं पुरा ॥ अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षंतुमर्हसि ॥ २२ ॥
वीर्यम् सोढुम् अशक्ता अहम् तत् वह्नो न्यक्षिपम् पुरा ॥ अतस् अत्र दुर्वहम् ब्रह्मन् अबलाम् क्षंतुम् अर्हसि ॥ २२ ॥
vīryam soḍhum aśaktā aham tat vahno nyakṣipam purā .. atas atra durvaham brahman abalām kṣaṃtum arhasi .. 22 ..
वह्निरुवाच ।।
वीर्यं सोढुमशक्तोहं तव शंकर पर्वते ॥ कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥ २३ ॥
वीर्यम् सोढुम् अशक्ता उहम् तव शंकर पर्वते ॥ कैलासे न्यक्षिपम् सद्यस् कपोत-आत्मा सु दुस्सहम् ॥ २३ ॥
vīryam soḍhum aśaktā uham tava śaṃkara parvate .. kailāse nyakṣipam sadyas kapota-ātmā su dussaham .. 23 ..
गिरिरुवाच ।।
वीर्यं सोढुमशक्तोऽहं तव शंकर लोकप ॥ गंगायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥ २४ ॥
वीर्यम् सोढुम् अशक्तः अहम् तव शंकर लोकप ॥ गंगायाम् प्राक्षिपम् सद्यस् दुस्सहम् परमेश्वर ॥ २४ ॥
vīryam soḍhum aśaktaḥ aham tava śaṃkara lokapa .. gaṃgāyām prākṣipam sadyas dussaham parameśvara .. 24 ..
गंगोवाच ।।
वीर्यं सोढुमशक्ताहं तव शंकर लोकप ॥ व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५ ॥
वीर्यम् सोढुम् अशक्ता अहम् तव शंकर लोकप ॥ व्याकुला अति प्रभो नाथ न्यक्षिपम् शर-कानने ॥ २५ ॥
vīryam soḍhum aśaktā aham tava śaṃkara lokapa .. vyākulā ati prabho nātha nyakṣipam śara-kānane .. 25 ..
वायुरुवाच ।।
शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ॥ अतीव सुन्दरश्शम्भो स्वर्नद्याः पावने तटे ॥ २६ ॥
शरेषु पतितम् वीर्यम् सद्यस् बालः बभूव ह ॥ अतीव सुन्दरः शम्भो स्वर्नद्याः पावने तटे ॥ २६ ॥
śareṣu patitam vīryam sadyas bālaḥ babhūva ha .. atīva sundaraḥ śambho svarnadyāḥ pāvane taṭe .. 26 ..
सूर्य उवाच ।।
रुदंतं बालकं दृष्ट्वा गममस्ताचलं प्रभो ॥ प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७ ॥
रुदन्तम् बालकम् दृष्ट्वा प्रभो ॥ प्रेरितः कालचक्रेण निशायाम् स्थातुम् अक्षमः ॥ २७ ॥
rudantam bālakam dṛṣṭvā prabho .. preritaḥ kālacakreṇa niśāyām sthātum akṣamaḥ .. 27 ..
चन्द्र उवाच ॥ रुदंतं बालकं प्राप्य गृहीत्वा कृत्तिकागणः ॥ जगाम स्वालयं शंभो गच्छन्बदरिकाश्रमम्॥ २८॥
चन्द्रः उवाच ॥ रुदन्तम् बालकम् प्राप्य गृहीत्वा कृत्तिका-गणः ॥ जगाम स्व-आलयम् शंभो गच्छन् बदरिकाश्रमम्॥ २८॥
candraḥ uvāca .. rudantam bālakam prāpya gṛhītvā kṛttikā-gaṇaḥ .. jagāma sva-ālayam śaṃbho gacchan badarikāśramam.. 28..
जलमुवाच ।।
अमुं रुदंतमानीय स्तन्यपानेन ताः प्रभो ॥ वर्द्धयामासुरीशस्य सुतं तव रविप्रभम् ॥ २९ ॥
अमुम् रुदंतम् आनीय स्तन्य-पानेन ताः प्रभो ॥ वर्द्धयामासुः ईशस्य सुतम् तव रवि-प्रभम् ॥ २९ ॥
amum rudaṃtam ānīya stanya-pānena tāḥ prabho .. varddhayāmāsuḥ īśasya sutam tava ravi-prabham .. 29 ..
संध्योवाच ।।
अधुना कृत्तिकानां च वनं तम्पोष्य पुत्रकम् ॥ तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतुकात् ॥ 2.4.4.३०॥
अधुना कृत्तिकानाम् च वनम् पुत्रकम् ॥ तद्-नाम चक्रुः ताः प्रेम्णा कार्त्तिकः च इति कौतुकात् ॥ २।४।४।३०॥
adhunā kṛttikānām ca vanam putrakam .. tad-nāma cakruḥ tāḥ premṇā kārttikaḥ ca iti kautukāt .. 2.4.4.30..
दिनमुवाच ।।
न चक्रुर्बालकं ताश्च लोचनानामगोचरम् ॥ प्राणेभ्योपि प्रीतिपात्रं यः पोष्टा तस्य पुत्रकः ॥ ३१ ॥
न चक्रुः बालकम् ताः च लोचनानाम् अगोचरम् ॥ प्राणेभ्यः अपि प्रीति-पात्रम् यः पोष्टा तस्य पुत्रकः ॥ ३१ ॥
na cakruḥ bālakam tāḥ ca locanānām agocaram .. prāṇebhyaḥ api prīti-pātram yaḥ poṣṭā tasya putrakaḥ .. 31 ..
यानि यानि च वस्त्राणि भूषणानि वराणि च ॥ प्रशंसितानि स्वादूनि भोजयामासुरेव तम् ॥ ३२ ॥
यानि यानि च वस्त्राणि भूषणानि वराणि च ॥ प्रशंसितानि स्वादूनि भोजयामासुः एव तम् ॥ ३२ ॥
yāni yāni ca vastrāṇi bhūṣaṇāni varāṇi ca .. praśaṃsitāni svādūni bhojayāmāsuḥ eva tam .. 32 ..
ब्रह्मोवाच ।।
तेषां तद्वचनं श्रुत्वा संतुष्टः पुरसूदनः ॥ मुदं प्राप्य ददौ प्रीत्या विप्रेभ्यो बहुदक्षिणाम् ॥ ३३ ॥
तेषाम् तत् वचनम् श्रुत्वा संतुष्टः पुरसूदनः ॥ मुदम् प्राप्य ददौ प्रीत्या विप्रेभ्यः बहु-दक्षिणाम् ॥ ३३ ॥
teṣām tat vacanam śrutvā saṃtuṣṭaḥ purasūdanaḥ .. mudam prāpya dadau prītyā viprebhyaḥ bahu-dakṣiṇām .. 33 ..
पुत्रस्य वार्त्तां संप्राप्य पार्वती हृष्टमानसा ॥ कोटिरत्नानि विप्रेभ्यो ददौ बहुधनानि च ॥ ३४ ॥
पुत्रस्य वार्त्ताम् संप्राप्य पार्वती हृष्ट-मानसा ॥ कोटि-रत्नानि विप्रेभ्यः ददौ बहु-धनानि च ॥ ३४ ॥
putrasya vārttām saṃprāpya pārvatī hṛṣṭa-mānasā .. koṭi-ratnāni viprebhyaḥ dadau bahu-dhanāni ca .. 34 ..
लक्ष्मी सरस्वती मेना सावित्री सर्वयोषितः ॥ विष्णुस्सर्वे च देवाश्च ब्राह्मणेभ्यो ददुर्धनम् ॥ ३५ ॥
लक्ष्मी सरस्वती मेना सावित्री सर्व-योषितः ॥ विष्णुः सर्वे च देवाः च ब्राह्मणेभ्यः ददुः धनम् ॥ ३५ ॥
lakṣmī sarasvatī menā sāvitrī sarva-yoṣitaḥ .. viṣṇuḥ sarve ca devāḥ ca brāhmaṇebhyaḥ daduḥ dhanam .. 35 ..
प्रेरितस्स प्रभुर्देवैर्मुनिभिः पर्वतैरथ ॥ दूतान् प्रस्थापयामास स्वपुत्रो यत्र तान् गणान् ॥ ३६ ॥
प्रेरितः स प्रभुः देवैः मुनिभिः पर्वतैः अथ ॥ दूतान् प्रस्थापयामास स्व-पुत्रः यत्र तान् गणान् ॥ ३६ ॥
preritaḥ sa prabhuḥ devaiḥ munibhiḥ parvataiḥ atha .. dūtān prasthāpayāmāsa sva-putraḥ yatra tān gaṇān .. 36 ..
वीरभद्रं विशालाक्षं शंकुकर्णं कराक्रमम् ॥ नन्दीश्वरं महाकालं वज्रदंष्ट्रं महोन्मदम् ॥ ३७ ॥
वीरभद्रम् विशाल-अक्षम् शंकु-कर्णम् कराक्रमम् ॥ ॥ ३७ ॥
vīrabhadram viśāla-akṣam śaṃku-karṇam karākramam .. .. 37 ..
गोकर्णास्यं दधिमुखं ज्वलदग्निशिखोपमम् ॥ लक्षं च क्षेत्रपालानां भूतानां च त्रिलक्षकम् ॥ ३८ ॥
गो कर्ण-आस्यम् दधि-मुखम् ज्वलत्-अग्नि-शिखा-उपमम् ॥ लक्षम् च क्षेत्रपालानाम् भूतानाम् च त्रि-लक्षकम् ॥ ३८ ॥
go karṇa-āsyam dadhi-mukham jvalat-agni-śikhā-upamam .. lakṣam ca kṣetrapālānām bhūtānām ca tri-lakṣakam .. 38 ..
रुद्रांश्च भैरवांश्चैव शिवतुल्यपराक्रमान् ॥ अन्यांश्च विकृताकारानसंख्यानपि नारद ॥ ३९ ॥
रुद्रान् च भैरवान् च एव शिव-तुल्य-पराक्रमान् ॥ अन्यान् च विकृत-आकारान् असंख्यान् अपि नारद ॥ ३९ ॥
rudrān ca bhairavān ca eva śiva-tulya-parākramān .. anyān ca vikṛta-ākārān asaṃkhyān api nārada .. 39 ..
ते सर्वे शिवदूताश्च नानाशस्त्रास्त्रपाणयः ॥ कृत्तिकानां च भवनं वेष्टयामासुरुद्धताः ॥ 2.4.4.४० ॥
ते सर्वे शिव-दूताः च नाना शस्त्र-अस्त्र-पाणयः ॥ कृत्तिकानाम् च भवनम् वेष्टयामासुः उद्धताः ॥ २।४।४।४० ॥
te sarve śiva-dūtāḥ ca nānā śastra-astra-pāṇayaḥ .. kṛttikānām ca bhavanam veṣṭayāmāsuḥ uddhatāḥ .. 2.4.4.40 ..
दृष्ट्वा तान् कृत्तिकास्सर्वा भयविह्नलमानसाः ॥ कार्त्तिकं कथयामासुर्ज्वलंतं ब्रह्मतेजसा ॥ ४१ ॥
दृष्ट्वा तान् कृत्तिकाः सर्वाः भय-विह्नल-मानसाः ॥ कार्त्तिकम् कथयामासुः ज्वलंतम् ब्रह्म-तेजसा ॥ ४१ ॥
dṛṣṭvā tān kṛttikāḥ sarvāḥ bhaya-vihnala-mānasāḥ .. kārttikam kathayāmāsuḥ jvalaṃtam brahma-tejasā .. 41 ..
कृत्तिका ऊचुः ।।
वत्स सैन्यान्यसंख्यानि वेष्टयामासुरालयम् ॥ किं कर्तव्यं क्व गंतव्यं महाभयमुपस्थितम् ॥ ४२ ॥
वत्स सैन्यानि असंख्यानि वेष्टयामासुः आलयम् ॥ किम् कर्तव्यम् क्व गंतव्यम् महा-भयम् उपस्थितम् ॥ ४२ ॥
vatsa sainyāni asaṃkhyāni veṣṭayāmāsuḥ ālayam .. kim kartavyam kva gaṃtavyam mahā-bhayam upasthitam .. 42 ..
कार्तिकेय उवाच ।।
भयं त्यजत कल्याण्यो भयं किं वा मयि स्थिते ॥ दुर्निवार्योऽस्मि बालश्च मातरः केन वार्यते ॥ ४३ ॥
भयम् त्यजत कल्याण्यः भयम् किम् वा मयि स्थिते ॥ दुर्निवार्यः अस्मि बालः च मातरः केन वार्यते ॥ ४३ ॥
bhayam tyajata kalyāṇyaḥ bhayam kim vā mayi sthite .. durnivāryaḥ asmi bālaḥ ca mātaraḥ kena vāryate .. 43 ..
ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र सैन्येन्द्रो नन्दिकेश्वरः ॥ पुरतः कार्तिकेयस्योपविष्टस्समुवाच ह ॥ ४४ ॥
एतस्मिन् अन्तरे तत्र सैन्य-इन्द्रः नन्दिकेश्वरः ॥ पुरतस् कार्तिकेयस्य उपविष्टः समुवाच ह ॥ ४४ ॥
etasmin antare tatra sainya-indraḥ nandikeśvaraḥ .. puratas kārtikeyasya upaviṣṭaḥ samuvāca ha .. 44 ..
नन्दीश्वर उवाच ।।
भ्रातः प्रवृत्तिं शृणु मे मातरश्च शुभावहाम् ॥ प्रेरितोऽहं महेशेन संहर्त्रा शंकरेण च ॥ ४५ ॥
भ्रातर् प्रवृत्तिम् शृणु मे मातरः च शुभ-आवहाम् ॥ प्रेरितः अहम् महेशेन संहर्त्रा शंकरेण च ॥ ४५ ॥
bhrātar pravṛttim śṛṇu me mātaraḥ ca śubha-āvahām .. preritaḥ aham maheśena saṃhartrā śaṃkareṇa ca .. 45 ..
कैलासे सर्वदेवाश्च ब्रह्मविष्णुशिवादयः ॥ सभायां संस्थितास्तात महत्युत्सवमंगले ॥ ४६ ॥
कैलासे सर्व-देवाः च ब्रह्म-विष्णु-शिव-आदयः ॥ सभायाम् संस्थिताः तात महति उत्सव-मंगले ॥ ४६ ॥
kailāse sarva-devāḥ ca brahma-viṣṇu-śiva-ādayaḥ .. sabhāyām saṃsthitāḥ tāta mahati utsava-maṃgale .. 46 ..
तदा शिवा सभायां वै शंकरं सर्व शंकरम् ॥ सम्बोध्य कथयामास तवान्वेषणहेतुकम् ॥ ४७ ॥
तदा शिवा सभायाम् वै शंकरम् सर्व-शंकरम् ॥ सम्बोध्य कथयामास तव अन्वेषण-हेतुकम् ॥ ४७ ॥
tadā śivā sabhāyām vai śaṃkaram sarva-śaṃkaram .. sambodhya kathayāmāsa tava anveṣaṇa-hetukam .. 47 ..
पप्रच्छ ताञ्शिवो देवान् क्रमात्त्वत्प्राप्तिहेतवे ॥ प्रत्युत्तरं ददुस्ते तु प्रत्येकं च यथोचितम् ॥ ४८ ॥
पप्रच्छ तान् शिवः देवान् क्रमात् त्वद्-प्राप्ति-हेतवे ॥ प्रत्युत्तरम् ददुः ते तु प्रत्येकम् च यथोचितम् ॥ ४८ ॥
papraccha tān śivaḥ devān kramāt tvad-prāpti-hetave .. pratyuttaram daduḥ te tu pratyekam ca yathocitam .. 48 ..
त्वामत्र कृत्तिकास्थाने कथयामासुरीश्वरम् ॥ सर्वे धर्मादयो धर्माधर्मस्य कर्मसाक्षिणः ॥ ४९ ॥
त्वाम् अत्र कृत्तिका-स्थाने कथयामासुः ईश्वरम् ॥ सर्वे धर्म-आदयः धर्म-अधर्मस्य कर्म-साक्षिणः ॥ ४९ ॥
tvām atra kṛttikā-sthāne kathayāmāsuḥ īśvaram .. sarve dharma-ādayaḥ dharma-adharmasya karma-sākṣiṇaḥ .. 49 ..
प्रबभूव रहः क्रीडा पार्वतीशिवयोः पुरा ॥ दृष्टस्य च सुरैश्शंभोर्वीर्यं भूमौ पपात ह ॥ 2.4.4.५० ॥
प्रबभूव रहः क्रीडा पार्वती-शिवयोः पुरा ॥ दृष्टस्य च सुरैः शंभोः वीर्यम् भूमौ पपात ह ॥ २।४।४।५० ॥
prababhūva rahaḥ krīḍā pārvatī-śivayoḥ purā .. dṛṣṭasya ca suraiḥ śaṃbhoḥ vīryam bhūmau papāta ha .. 2.4.4.50 ..
भूमिस्तदक्षिपद्वह्नौ वह्निश्चाद्रौ स भूधरः ॥ गंगायां सोऽक्षिपद्वेगात् तरंगैश्शरकानने ॥ ५१ ॥
भूमिः तत् अक्षिपत् वह्नौ वह्निः च अद्रौ स भूधरः ॥ गंगायाम् सः अक्षिपत् वेगात् तरंगैः शर-कानने ॥ ५१ ॥
bhūmiḥ tat akṣipat vahnau vahniḥ ca adrau sa bhūdharaḥ .. gaṃgāyām saḥ akṣipat vegāt taraṃgaiḥ śara-kānane .. 51 ..
तत्र बालोऽभवस्त्वं हि देवकार्यकृति प्रभुः ॥ तत्र लब्धः कृत्तिकाभिस्त्वं भूमिं गच्छ सांप्रतम् ॥ ५२ ॥
तत्र बालः अभवः त्वम् हि देव-कार्य-कृति प्रभुः ॥ तत्र लब्धः कृत्तिकाभिः त्वम् भूमिम् गच्छ सांप्रतम् ॥ ५२ ॥
tatra bālaḥ abhavaḥ tvam hi deva-kārya-kṛti prabhuḥ .. tatra labdhaḥ kṛttikābhiḥ tvam bhūmim gaccha sāṃpratam .. 52 ..
तवाभिषेकं शंभुस्तु करिष्यति सुरैस्सह ॥ लप्स्यसे सर्वशस्त्राणि तारकाख्यं हनिष्यसि ॥ ५३ ॥
तव अभिषेकम् शंभुः तु करिष्यति सुरैः सह ॥ लप्स्यसे सर्व-शस्त्राणि तारक-आख्यम् हनिष्यसि ॥ ५३ ॥
tava abhiṣekam śaṃbhuḥ tu kariṣyati suraiḥ saha .. lapsyase sarva-śastrāṇi tāraka-ākhyam haniṣyasi .. 53 ..
पुत्रस्त्वं विश्वसंहर्त्तुस्त्वां प्राप्तुञ्चाऽक्षमा इमाः ॥ नाग्निं गोप्तुं यथा शक्तश्शुष्कवृक्षस्स्व कोटरे ॥ ५४ ॥
पुत्रः त्वम् विश्व-संहर्त्तुः त्वाम् प्राप्तुम् च अक्षमाः इमाः ॥ न अग्निम् गोप्तुम् यथा शक्तः शुष्क-वृक्षः स्व कोटरे ॥ ५४ ॥
putraḥ tvam viśva-saṃharttuḥ tvām prāptum ca akṣamāḥ imāḥ .. na agnim goptum yathā śaktaḥ śuṣka-vṛkṣaḥ sva koṭare .. 54 ..
दीप्तवांस्त्वं च विश्वेषु नासां गेहेषु शोभसे ॥ यथा पतन्महाकूपे द्विजराजो न राजत ॥ ५५ ॥
दीप्तवान् त्वम् च विश्वेषु नासाम् गेहेषु शोभसे ॥ यथा पतत् महा-कूपे द्विजराजः न राजत ॥ ५५ ॥
dīptavān tvam ca viśveṣu nāsām geheṣu śobhase .. yathā patat mahā-kūpe dvijarājaḥ na rājata .. 55 ..
करोषि च यथाऽलोकं नाऽऽच्छन्नोऽस्मासु तेजसा ॥ यथा सूर्यः कलाछन्नो न भवेन्मानवस्य च ॥ ५६॥
करोषि च यथा अलोकम् न आच्छन्नः अस्मासु तेजसा ॥ यथा सूर्यः कला-छन्नः न भवेत् मानवस्य च ॥ ५६॥
karoṣi ca yathā alokam na ācchannaḥ asmāsu tejasā .. yathā sūryaḥ kalā-channaḥ na bhavet mānavasya ca .. 56..
विष्णुस्त्वं जगतां व्यापी नान्यो जातोसि शांभव ॥ यथा न केषां व्याप्यं च तत्सर्वं व्यापकं नभः ॥ २७॥
विष्णुः त्वम् जगताम् व्यापी न अन्यः जातः असि शांभव ॥ यथा न केषाम् व्याप्यम् च तत् सर्वम् व्यापकम् नभः ॥ २७॥
viṣṇuḥ tvam jagatām vyāpī na anyaḥ jātaḥ asi śāṃbhava .. yathā na keṣām vyāpyam ca tat sarvam vyāpakam nabhaḥ .. 27..
योगीन्द्रो नाऽनुलिप्तश्च भागी चेत्परिपोषणे ॥ नैव लिप्तो यथात्मा च कर्मयोगेषु जीविनाम् ॥ ५८ ॥
योगि-इन्द्रः ना अ अनुलिप्तः च भागी चेद् परिपोषणे ॥ न एव लिप्तः यथा आत्मा च कर्म-योगेषु जीविनाम् ॥ ५८ ॥
yogi-indraḥ nā a anuliptaḥ ca bhāgī ced paripoṣaṇe .. na eva liptaḥ yathā ātmā ca karma-yogeṣu jīvinām .. 58 ..
विश्वारंभस्त्वमीशश्च नासु ते संभवेत् स्थितिः ॥ गुणानां तेजसां राशिर्यथात्मानं च योगिनः ॥ ५९ ॥
विश्व-आरंभः त्वम् ईशः च न आसु ते संभवेत् स्थितिः ॥ गुणानाम् तेजसाम् राशिः यथा आत्मानम् च योगिनः ॥ ५९ ॥
viśva-āraṃbhaḥ tvam īśaḥ ca na āsu te saṃbhavet sthitiḥ .. guṇānām tejasām rāśiḥ yathā ātmānam ca yoginaḥ .. 59 ..
भ्रातर्ये त्वां न जानंति ते नरा हतबुद्धयः ॥ नाद्रियन्ते यथा भेकास्त्वेकवासाश्च पंकजान् ॥ 2.4.4.६० ॥
भ्रातर् ये त्वाम् न जानंति ते नराः हतबुद्धयः ॥ न आद्रियन्ते यथा भेकाः तु एक-वासाः च पंकजान् ॥ २।४।४।६० ॥
bhrātar ye tvām na jānaṃti te narāḥ hatabuddhayaḥ .. na ādriyante yathā bhekāḥ tu eka-vāsāḥ ca paṃkajān .. 2.4.4.60 ..
कार्त्तिकेय उवाच ।। ।।
भ्रातस्सर्वं विजानासि ज्ञानं त्रैकालिकं च यत् ॥ ज्ञानी त्वं का प्रशंसा ते यतो मृत्युञ्जयाश्रितः ॥ ६१ ॥
भ्रातर् सर्वम् विजानासि ज्ञानम् त्रैकालिकम् च यत् ॥ ज्ञानी त्वम् का प्रशंसा ते यतस् मृत्युंजय-आश्रितः ॥ ६१ ॥
bhrātar sarvam vijānāsi jñānam traikālikam ca yat .. jñānī tvam kā praśaṃsā te yatas mṛtyuṃjaya-āśritaḥ .. 61 ..
कर्मणां जन्म येषां वा यासु यासु योनिषु ॥ तासु ते निर्वृतिं भ्रातः प्राप्नुवंतीह सांप्रतम् ॥ ६२ ॥
कर्मणाम् जन्म येषाम् वा यासु यासु योनिषु ॥ तासु ते निर्वृतिम् भ्रातर् प्राप्नुवन्ति इह सांप्रतम् ॥ ६२ ॥
karmaṇām janma yeṣām vā yāsu yāsu yoniṣu .. tāsu te nirvṛtim bhrātar prāpnuvanti iha sāṃpratam .. 62 ..
कृत्तिका ज्ञानवत्यश्च योगिन्यः प्रकृतेः कलाः ॥ स्तन्येनासां वर्द्धितोऽहमुपकारेण संततम् ॥ ६३ ॥
कृत्तिकाः ज्ञानवत्यः च योगिन्यः प्रकृतेः कलाः ॥ स्तन्येन आसाम् वर्द्धितः अहम् उपकारेण संततम् ॥ ६३ ॥
kṛttikāḥ jñānavatyaḥ ca yoginyaḥ prakṛteḥ kalāḥ .. stanyena āsām varddhitaḥ aham upakāreṇa saṃtatam .. 63 ..
आसामहं पोष्यपुत्रो मदंशा योषितस्त्विमाः ॥ तस्याश्च प्रकृतेरंशास्ततस्तत्स्वामिवीर्यजः ॥ ६४ ॥
आसाम् अहम् पोष्य-पुत्रः मद्-अंशाः योषितः तु इमाः ॥ तस्याः च प्रकृतेः अंशाः ततस् तद्-स्वामि-वीर्य-जः ॥ ६४ ॥
āsām aham poṣya-putraḥ mad-aṃśāḥ yoṣitaḥ tu imāḥ .. tasyāḥ ca prakṛteḥ aṃśāḥ tatas tad-svāmi-vīrya-jaḥ .. 64 ..
न मद्भंगो हे शैलेन्द्रकन्यया नन्दिकेश्वर ॥ सा च मे धर्मतो माता यथेमास्सर्वसंमताः ॥ ६५ ॥
न मद्-भंगः हे शैलेन्द्र-कन्यया नन्दिकेश्वर ॥ सा च मे धर्मतः माता यथा इमाः सर्व-संमताः ॥ ६५ ॥
na mad-bhaṃgaḥ he śailendra-kanyayā nandikeśvara .. sā ca me dharmataḥ mātā yathā imāḥ sarva-saṃmatāḥ .. 65 ..
शम्भुना प्रेषितस्त्वं च शंभोः पुत्रसमो महान् ॥ आगच्छामि त्वया सार्द्धं द्रक्ष्यामि देवताकुलम् ॥ ६६॥
शम्भुना प्रेषितः त्वम् च शंभोः पुत्र-समः महान् ॥ आगच्छामि त्वया सार्द्धम् द्रक्ष्यामि देवता-कुलम् ॥ ६६॥
śambhunā preṣitaḥ tvam ca śaṃbhoḥ putra-samaḥ mahān .. āgacchāmi tvayā sārddham drakṣyāmi devatā-kulam .. 66..
इत्येवमुक्त्वा तं शीघ्रं संबोध्य कृत्तिकागणम् ॥ कार्त्तिकेयः प्रतस्थे हि सार्द्धं शंकरपार्षदैः ॥ ६७ ॥
इति एवम् उक्त्वा तम् शीघ्रम् संबोध्य कृत्तिका-गणम् ॥ कार्त्तिकेयः प्रतस्थे हि सार्द्धम् शंकर-पार्षदैः ॥ ६७ ॥
iti evam uktvā tam śīghram saṃbodhya kṛttikā-gaṇam .. kārttikeyaḥ pratasthe hi sārddham śaṃkara-pārṣadaiḥ .. 67 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनम् नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe kārttikeyānveṣaṇanandisaṃvādavarṇanam nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In