| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथ तत्र स गांगेयो दर्शयामास सूतिकाम् ॥ तामेव शृणु सुप्रीत्या नारद त्वं स्वभक्तिदाम् ॥ १॥
अथ तत्र स गांगेयः दर्शयामास सूतिकाम् ॥ ताम् एव शृणु सु प्रीत्या नारद त्वम् स्व-भक्ति-दाम् ॥ १॥
atha tatra sa gāṃgeyaḥ darśayāmāsa sūtikām .. tām eva śṛṇu su prītyā nārada tvam sva-bhakti-dām .. 1..
द्विज एको नारदाख्य आजगाम तदैव हि ॥ तत्राध्वरकरः श्रीमाञ्शरणार्थं गुहस्य वै ॥ २ ॥
द्विजः एकः नारद-आख्यः आजगाम तदा एव हि ॥ तत्र अध्वर-करः श्रीमान् शरण-अर्थम् गुहस्य वै ॥ २ ॥
dvijaḥ ekaḥ nārada-ākhyaḥ ājagāma tadā eva hi .. tatra adhvara-karaḥ śrīmān śaraṇa-artham guhasya vai .. 2 ..
स विप्रः प्राप्य निकटं कार्त्तिकस्य प्रसन्नधीः ॥ स्वाभिप्रायं समाचख्यौ सुप्रणम्य शुभैः स्तवैः ॥ ३ ॥
स विप्रः प्राप्य निकटम् कार्त्तिकस्य प्रसन्न-धीः ॥ स्व-अभिप्रायम् समाचख्यौ सु प्रणम्य शुभैः स्तवैः ॥ ३ ॥
sa vipraḥ prāpya nikaṭam kārttikasya prasanna-dhīḥ .. sva-abhiprāyam samācakhyau su praṇamya śubhaiḥ stavaiḥ .. 3 ..
।। विप्र उवाच ।।
शृणु स्वामिन्वचो मेद्य कष्टं मे विनिवारय ॥ सर्वब्रह्मांडनाथस्त्वमतस्ते शरणं गतः॥ ४॥
शृणु स्वामिन् वचः मेद्य कष्टम् मे विनिवारय ॥ सर्व-ब्रह्मांड-नाथः त्वम् अतस् ते शरणम् गतः॥ ४॥
śṛṇu svāmin vacaḥ medya kaṣṭam me vinivāraya .. sarva-brahmāṃḍa-nāthaḥ tvam atas te śaraṇam gataḥ.. 4..
अजमेधाध्वरं कर्तुमारंभं कृतवानहम् ॥ सोऽजो गतो गृहान्मे हि त्रोटयित्वा स्वबंधनम् ॥ ५ ॥
अजमेध-अध्वरम् कर्तुम् आरंभम् कृतवान् अहम् ॥ सः अजः गतः गृहात् मे हि त्रोटयित्वा स्व-बंधनम् ॥ ५ ॥
ajamedha-adhvaram kartum āraṃbham kṛtavān aham .. saḥ ajaḥ gataḥ gṛhāt me hi troṭayitvā sva-baṃdhanam .. 5 ..
न जाने स गतः कुत्राऽन्वेषणं तत्कृतं बहु ॥ न प्राप्तोऽतस्स बलवान् भंगो भवति मे क्रतोः ॥ ६ ॥
न जाने स गतः कुत्र अन्वेषणम् तत् कृतम् बहु ॥ न प्राप्तः अतस् स बलवान् भंगः भवति मे क्रतोः ॥ ६ ॥
na jāne sa gataḥ kutra anveṣaṇam tat kṛtam bahu .. na prāptaḥ atas sa balavān bhaṃgaḥ bhavati me kratoḥ .. 6 ..
त्वयि नाथे सति विभो यज्ञभंगः कथं भवेत् ॥ विचार्य्यैवाऽखिलेशान काम पूर्णं कुरुष्व मे ॥ ७ ॥
त्वयि नाथे सति विभो यज्ञ-भंगः कथम् भवेत् ॥ विचार्य एव अ अखिल-ईशान काम पूर्णम् कुरुष्व मे ॥ ७ ॥
tvayi nāthe sati vibho yajña-bhaṃgaḥ katham bhavet .. vicārya eva a akhila-īśāna kāma pūrṇam kuruṣva me .. 7 ..
त्वां विहाय शरण्यं कं यायां शिवसुत प्रभो ॥ सर्वब्रह्मांडनाथं हि सर्वामरसुसेवितम् ॥ ८॥
त्वाम् विहाय शरण्यम् कम् यायाम् शिवसुत प्रभो ॥ सर्व-ब्रह्मांड-नाथम् हि सर्व-अमर-सु सेवितम् ॥ ८॥
tvām vihāya śaraṇyam kam yāyām śivasuta prabho .. sarva-brahmāṃḍa-nātham hi sarva-amara-su sevitam .. 8..
दीनबंधुर्दयासिन्धुस्सुसेव्या भक्तवत्सलः॥ हरिब्रह्मादिदेवैश्च सुस्तुतः परमेश्वरः ॥ ९॥
॥ हरि-ब्रह्म-आदि-देवैः च सु स्तुतः परमेश्वरः ॥ ९॥
.. hari-brahma-ādi-devaiḥ ca su stutaḥ parameśvaraḥ .. 9..
पार्वतीनन्दनस्स्कन्दः परमेकः परंतपः ॥ परमात्माऽत्मदस्स्वामी सतां च शरणार्थिनाम् ॥ 2.4.6.१० ॥
पार्वतीनन्दनः स्कन्दः परमेकः परंतपः ॥ सताम् च शरण-अर्थिनाम् ॥ २।४।६।१० ॥
pārvatīnandanaḥ skandaḥ paramekaḥ paraṃtapaḥ .. satām ca śaraṇa-arthinām .. 2.4.6.10 ..
दीनानाथ महेश शंकरसुत त्रैलोक्यनाथ प्रभो मायाधीश समागतोऽस्मि शरणं मां पाहि विप्रप्रिय ॥ त्वं सर्वप्रभुप्रियः खिलविदब्रह्मादिदेवैस्तुतस्त्वं मायाकृतिरात्मभक्तसुखदो रक्षापरो मायिकः ॥ ११ ॥
दीनानाथ महेश शंकर-सुत त्रैलोक्य-नाथ प्रभो माया-अधीश समागतः अस्मि शरणम् माम् पाहि विप्र-प्रिय ॥ त्वम् सर्व-प्रभु-प्रियः खिल-विद-ब्रह्म-आदि-देवैः स्तुतः त्वम् माया-आकृतिः आत्म-भक्त-सुख-दः रक्षा-परः मायिकः ॥ ११ ॥
dīnānātha maheśa śaṃkara-suta trailokya-nātha prabho māyā-adhīśa samāgataḥ asmi śaraṇam mām pāhi vipra-priya .. tvam sarva-prabhu-priyaḥ khila-vida-brahma-ādi-devaiḥ stutaḥ tvam māyā-ākṛtiḥ ātma-bhakta-sukha-daḥ rakṣā-paraḥ māyikaḥ .. 11 ..
भक्तप्राणगुणाकरस्त्रिगुणतो भिन्नोसि शंभुप्रियः शंभुः शंभुसुतः प्रसन्नसुखदस्सच्चित्स्वरूपो महान्॥ सर्वज्ञस्त्रिपुरघ्नशंकरसुतः सत्प्रेमवश्यस्सदा षड्वक्त्रः प्रियसाधुरानतप्रियस्सर्वेश्वर श्शंकरः ॥ साधुद्रोहकरघ्न शंकरगुरो ब्रह्मांडनाथो प्रभुः सर्वेषाममरादिसेवितपदो मां पाहि सेवाप्रिय ॥ १२ ॥
भक्त-प्राण-गुण-आकरः त्रिगुणतः भिन्नः असि शंभु-प्रियः शंभुः शंभु-सुतः प्रसन्न-सुख-दः सच्चिद्-स्वरूपः महान्॥ सर्वज्ञः त्रिपुर-घ्न-शंकर-सुतः सत्-प्रेम-वश्यः सदा षड्वक्त्रः प्रिय-साधुः आनत-प्रियः सर्व-ईश्वरः शंकरः ॥ साधु-द्रोह-कर-घ्न शंकर-गुरो ब्रह्मांड-नाथो प्रभुः सर्वेषाम् अमर-आदि-सेवित-पदः माम् पाहि सेवा-प्रिय ॥ १२ ॥
bhakta-prāṇa-guṇa-ākaraḥ triguṇataḥ bhinnaḥ asi śaṃbhu-priyaḥ śaṃbhuḥ śaṃbhu-sutaḥ prasanna-sukha-daḥ saccid-svarūpaḥ mahān.. sarvajñaḥ tripura-ghna-śaṃkara-sutaḥ sat-prema-vaśyaḥ sadā ṣaḍvaktraḥ priya-sādhuḥ ānata-priyaḥ sarva-īśvaraḥ śaṃkaraḥ .. sādhu-droha-kara-ghna śaṃkara-guro brahmāṃḍa-nātho prabhuḥ sarveṣām amara-ādi-sevita-padaḥ mām pāhi sevā-priya .. 12 ..
वैरिभयंकर शंकर जनशरणस्य वन्दे तव पदपद्मं सुखकरणस्य ॥ विज्ञप्तिं मम कर्णे स्कन्द निधेहि निजभक्तिं जनचेतसि सदा विधेहि ॥ १३ ॥
वैरि-भयंकर शंकर जन-शरणस्य वन्दे तव पद-पद्मम् सुख-करणस्य ॥ विज्ञप्तिम् मम कर्णे स्कन्द निधेहि निज-भक्तिम् जन-चेतसि सदा विधेहि ॥ १३ ॥
vairi-bhayaṃkara śaṃkara jana-śaraṇasya vande tava pada-padmam sukha-karaṇasya .. vijñaptim mama karṇe skanda nidhehi nija-bhaktim jana-cetasi sadā vidhehi .. 13 ..
करोति किं तस्य बली विपक्षो दक्षोऽपि पक्षोभयापार्श्वगुप्तः ॥ किन्तक्षकोप्यामिषभक्षको वा त्वं रक्षको यस्य सदक्षमानः ॥ १४॥
करोति किम् तस्य बली विपक्षः दक्षः अपि पक्ष-उभय-अपार्श्व-गुप्तः ॥ किन्तक्षकः उपि आमिष-भक्षकः वा त्वम् रक्षकः यस्य सत्-अक्षमानः ॥ १४॥
karoti kim tasya balī vipakṣaḥ dakṣaḥ api pakṣa-ubhaya-apārśva-guptaḥ .. kintakṣakaḥ upi āmiṣa-bhakṣakaḥ vā tvam rakṣakaḥ yasya sat-akṣamānaḥ .. 14..
विबुधगुरुरपि त्वां स्तोतुमीशो न हि स्यात्कथय कथमहं स्यां मंदबुद्धिर्वरार्च्यः ॥ शुचिरशुचिरनार्यो यादृशस्तादृशो वा पदकमल परागं स्कन्द ते प्रार्थयामि ॥ १५ ॥
विबुध-गुरुः अपि त्वाम् स्तोतुम् ईशः न हि स्यात् कथय कथम् अहम् स्याम् मंद-बुद्धिः वर-अर्च्यः ॥ शुचिः अशुचिः अनार्यः यादृशः तादृशः वा पद-कमल परागम् स्कन्द ते प्रार्थयामि ॥ १५ ॥
vibudha-guruḥ api tvām stotum īśaḥ na hi syāt kathaya katham aham syām maṃda-buddhiḥ vara-arcyaḥ .. śuciḥ aśuciḥ anāryaḥ yādṛśaḥ tādṛśaḥ vā pada-kamala parāgam skanda te prārthayāmi .. 15 ..
हे सर्वेश्वर भक्तवत्सल कृपासिन्धो त्वदीयोऽस्म्यहं भृत्यस्स्वस्य न सेवकस्य गणपस्याऽऽ गश्शतं सत्प्रभो ॥ भक्तिं क्वापि कृतां मनागपि विभो जानासि भृत्यार्तिहा॥ त्वत्तो नास्त्यपरोऽविता न भगवन् मत्तो नरः पामरः ॥ १६ ॥
हे सर्वेश्वर भक्त-वत्सल कृपा-सिन्धो त्वदीयः अस्मि अहम् भृत्यः स्वस्य न सेवकस्य गणपस्य आ गः शतम् सत्-प्रभो ॥ भक्तिम् क्वापि कृताम् मनाक् अपि विभो जानासि भृत्य-आर्ति-हा॥ त्वत्तः ना अस्ति अपरः अविता न भगवत् मत्तः नरः पामरः ॥ १६ ॥
he sarveśvara bhakta-vatsala kṛpā-sindho tvadīyaḥ asmi aham bhṛtyaḥ svasya na sevakasya gaṇapasya ā gaḥ śatam sat-prabho .. bhaktim kvāpi kṛtām manāk api vibho jānāsi bhṛtya-ārti-hā.. tvattaḥ nā asti aparaḥ avitā na bhagavat mattaḥ naraḥ pāmaraḥ .. 16 ..
कल्याणकर्त्ता कलिकल्मषघ्नः कुबेरबन्धुः करुणार्द्रचित्तः ॥ त्रिषट्कनेत्रो रसवक्त्रशोभी यज्ञं प्रपूर्णं कुरु मे गुह त्वम् ॥ १७ ॥
॥ त्रिषट्क-नेत्रः रस-वक्त्र-शोभी यज्ञम् प्रपूर्णम् कुरु मे गुह त्वम् ॥ १७ ॥
.. triṣaṭka-netraḥ rasa-vaktra-śobhī yajñam prapūrṇam kuru me guha tvam .. 17 ..
रक्षकस्त्वं त्रिलोकस्य शरणागतवत्सलः ॥ यज्ञकर्त्ता यज्ञभर्त्ता हरसे विघ्नकारिणाम् ॥ १८ ॥
रक्षकः त्वम् त्रिलोकस्य शरण-आगत-वत्सलः ॥ यज्ञ-कर्त्ता यज्ञ-भर्त्ता हरसे विघ्न-कारिणाम् ॥ १८ ॥
rakṣakaḥ tvam trilokasya śaraṇa-āgata-vatsalaḥ .. yajña-karttā yajña-bharttā harase vighna-kāriṇām .. 18 ..
विघ्नवारण साधूनां सर्ग कारण सर्वतः ॥ पूर्णं कुरु ममेशान सुतयज्ञ नमोस्तु ते ॥ १९॥
विघ्न-वारण साधूनाम् सर्ग कारण सर्वतस् ॥ पूर्णम् कुरु मम ईशान सुत-यज्ञ नमः अस्तु ते ॥ १९॥
vighna-vāraṇa sādhūnām sarga kāraṇa sarvatas .. pūrṇam kuru mama īśāna suta-yajña namaḥ astu te .. 19..
सर्वत्राता स्कन्द हि त्वं सर्वज्ञाता त्वमेव हि ॥ सर्वेश्वरस्त्वमीशानो निवेशसकलाऽवनः ॥ 2.4.6.२०॥
सर्व-त्राता स्कन्द हि त्वम् सर्व-ज्ञाता त्वम् एव हि ॥ सर्व-ईश्वरः त्वम् ईशानः निवेश-सकल-अवनः ॥ २।४।६।२०॥
sarva-trātā skanda hi tvam sarva-jñātā tvam eva hi .. sarva-īśvaraḥ tvam īśānaḥ niveśa-sakala-avanaḥ .. 2.4.6.20..
संगीतज्ञस्त्वमेवासि वेदविज्ञः परः प्रभुः ॥ सर्वस्थाता विधाता त्वं देवदेवस्सतां गतिः ॥ २१॥
संगीत-ज्ञः त्वम् एव असि वेद-विज्ञः परः प्रभुः ॥ सर्व-स्थाता विधाता त्वम् देवदेवः सताम् गतिः ॥ २१॥
saṃgīta-jñaḥ tvam eva asi veda-vijñaḥ paraḥ prabhuḥ .. sarva-sthātā vidhātā tvam devadevaḥ satām gatiḥ .. 21..
भवानीनन्दनश्शंभुतनयो वयुनः स्वराट् ॥ ध्याता ध्येयः पितॄणां हि पिता योनिः सदात्मनाम्॥ २२ ॥
भवानीनन्दनः शंभुतनयः वयुनः स्वराज् ॥ ध्याता ध्येयः पितॄणाम् हि पिता योनिः सदा आत्मनाम्॥ २२ ॥
bhavānīnandanaḥ śaṃbhutanayaḥ vayunaḥ svarāj .. dhyātā dhyeyaḥ pitṝṇām hi pitā yoniḥ sadā ātmanām.. 22 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य देवसम्राट् शिवात्मजः ॥ स्वगणं वीरबाह्वाख्यं प्रेषयामास तत्कृते ॥ २३ ॥
इति आकर्ण्य वचः तस्य देव-सम्राज् शिव-आत्मजः ॥ स्व-गणम् वीरबाहु-आख्यम् प्रेषयामास तद्-कृते ॥ २३ ॥
iti ākarṇya vacaḥ tasya deva-samrāj śiva-ātmajaḥ .. sva-gaṇam vīrabāhu-ākhyam preṣayāmāsa tad-kṛte .. 23 ..
तदाज्ञया वीरबाहुस्तदन्वेषणहेतवे॥ प्रणम्य स्वामिनं भक्त्या महावीरो द्रुतं ययौ ॥ २४ ॥
तद्-आज्ञया वीरबाहुः तद्-अन्वेषण-हेतवे॥ प्रणम्य स्वामिनम् भक्त्या महावीरः द्रुतम् ययौ ॥ २४ ॥
tad-ājñayā vīrabāhuḥ tad-anveṣaṇa-hetave.. praṇamya svāminam bhaktyā mahāvīraḥ drutam yayau .. 24 ..
अन्वेषणं चकारासौ सर्वब्रह्माण्डगोलके ॥ न प्राप तमजं कुत्र शुश्राव तदुपद्रवम् ॥ २५॥
अन्वेषणम् चकार असौ सर्व-ब्रह्माण्ड-गोलके ॥ न प्राप तम् अजम् कुत्र शुश्राव तद्-उपद्रवम् ॥ २५॥
anveṣaṇam cakāra asau sarva-brahmāṇḍa-golake .. na prāpa tam ajam kutra śuśrāva tad-upadravam .. 25..
जगामाऽथ स वैकुंठं तत्राऽजं प्रददर्श तम् ॥ उपद्रवं प्रकुर्वन्तं गलयूपं महाबलम् ॥ २६ ॥
जगाम अथ स वैकुंठम् तत्र अजम् प्रददर्श तम् ॥ उपद्रवम् प्रकुर्वन्तम् गलयूपम् महा-बलम् ॥ २६ ॥
jagāma atha sa vaikuṃṭham tatra ajam pradadarśa tam .. upadravam prakurvantam galayūpam mahā-balam .. 26 ..
धृत्वा तं शृंगयो वीरो धर्षयित्वा तिवेगतः ॥ आनिनाय स्वामिपुरो विकुर्वंतं रवं बहु ॥ २७ ॥
धृत्वा तम् शृंगयः वीरः धर्षयित्वा तिवेगतः ॥ आनिनाय स्वामि-पुरस् विकुर्वंतम् रवम् बहु ॥ २७ ॥
dhṛtvā tam śṛṃgayaḥ vīraḥ dharṣayitvā tivegataḥ .. ānināya svāmi-puras vikurvaṃtam ravam bahu .. 27 ..
दृष्ट्वा तं कार्तिकस्सोऽरमारुरोह स तं प्रभुः ॥ धृतब्रह्माण्डगरिमा महासूतिकरो गुहः ॥ २८ ॥
दृष्ट्वा तम् कार्तिकः सः अरम् आरुरोह स तम् प्रभुः ॥ ॥ २८ ॥
dṛṣṭvā tam kārtikaḥ saḥ aram āruroha sa tam prabhuḥ .. .. 28 ..
मुहूर्तमात्रतस्सोऽजो ब्रह्मांडं सकलं मुने ॥ बभ्राम श्रम एवाशु पुनस्तत्स्थानमागतः ॥ २९ ॥
मुहूर्त-मात्रतः सः अजः ब्रह्मांडम् सकलम् मुने ॥ बभ्राम श्रमे एव आशु पुनर् तद्-स्थानम् आगतः ॥ २९ ॥
muhūrta-mātrataḥ saḥ ajaḥ brahmāṃḍam sakalam mune .. babhrāma śrame eva āśu punar tad-sthānam āgataḥ .. 29 ..
तत उत्तीर्य स स्वामी समुवास स्वमासनम्॥ सोऽजः स्थितस्तु तत्रैव स नारद उवाच तम् ॥ 2.4.6.३०॥
ततस् उत्तीर्य स स्वामी समुवास स्वम् आसनम्॥ सः अजः स्थितः तु तत्र एव स नारदः उवाच तम् ॥ २।४।६।३०॥
tatas uttīrya sa svāmī samuvāsa svam āsanam.. saḥ ajaḥ sthitaḥ tu tatra eva sa nāradaḥ uvāca tam .. 2.4.6.30..
।। नारद उवाच ।।
नमस्ते देव देवेश देहि मेऽजं कृपानिधे॥ कुर्यामध्वरमानन्दात्सखायं कुरु मामहो ॥ ३१॥
नमः ते देव देवेश देहि मे अजम् कृपा-निधे॥ कुर्याम् अध्वरम् आनन्दात् सखायम् कुरु माम् अहो ॥ ३१॥
namaḥ te deva deveśa dehi me ajam kṛpā-nidhe.. kuryām adhvaram ānandāt sakhāyam kuru mām aho .. 31..
।। कार्त्तिक उवाच ।।
वधयोग्यो न विप्राऽजः स्वगृहं गच्छ नारद ॥ पूर्णोऽस्तु तेऽध्वरस्सर्वः प्रसादादेव मे कृतः॥ ३२॥
वध-योग्यः न विप्र अजः स्व-गृहम् गच्छ नारद ॥ पूर्णः अस्तु ते अध्वरः सर्वः प्रसादात् एव मे कृतः॥ ३२॥
vadha-yogyaḥ na vipra ajaḥ sva-gṛham gaccha nārada .. pūrṇaḥ astu te adhvaraḥ sarvaḥ prasādāt eva me kṛtaḥ.. 32..
ब्रह्मोवाच ।।
इत्याकर्ण्य द्विजस्स्वामी वचनं प्रीतमानसः॥ जगाम स्वालयं दत्त्वा तस्मा आशिषमुत्तमाम् ॥ ३३॥
इति आकर्ण्य द्विजः स्वामी वचनम् प्रीत-मानसः॥ जगाम स्व-आलयम् दत्त्वा तस्मै आशिषम् उत्तमाम् ॥ ३३॥
iti ākarṇya dvijaḥ svāmī vacanam prīta-mānasaḥ.. jagāma sva-ālayam dattvā tasmai āśiṣam uttamām .. 33..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे कुमाराऽद्भुतचरि तवर्णनं नाम षष्ठोऽध्यायः ॥ ६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे कुमाराऽद्भुतचरितवर्णनम् नाम षष्ठः अध्यायः ॥ ६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe kumārā'dbhutacaritavarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In