| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
हर्य्यादयस्सुरास्ते च दृष्ट्वा तच्चरितं विभोः ॥ सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १॥
हर्य्य-आदयः सुराः ते च दृष्ट्वा तत् चरितम् विभोः ॥ सु प्रसन्नाः बभूवुः हि विश्वास-आसक्त-मानसाः ॥ १॥
haryya-ādayaḥ surāḥ te ca dṛṣṭvā tat caritam vibhoḥ .. su prasannāḥ babhūvuḥ hi viśvāsa-āsakta-mānasāḥ .. 1..
वल्गंतः कुर्वतो नादं भाविताश्शिवतेजसा ॥ कुमारन्ते पुरस्कृत्य तारकं हंतुमाययुः ॥ २ ॥
वल्गंतः कुर्वतः नादम् भाविताः शिव-तेजसा ॥ कुमार-अन्ते पुरस्कृत्य तारकम् हंतुम् आययुः ॥ २ ॥
valgaṃtaḥ kurvataḥ nādam bhāvitāḥ śiva-tejasā .. kumāra-ante puraskṛtya tārakam haṃtum āyayuḥ .. 2 ..
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः॥ सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३॥
देवानाम् उद्यमम् श्रुत्वा तारकः अपि महा-बलः॥ सैन्येन महता सद्यस् ययौ योद्धुम् सुरान् प्रति ॥ ३॥
devānām udyamam śrutvā tārakaḥ api mahā-balaḥ.. sainyena mahatā sadyas yayau yoddhum surān prati .. 3..
देवा दृष्ट्वा समायांतं तारकस्य महाबलम्॥ बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४॥
देवाः दृष्ट्वा समायान्तम् तारकस्य महा-बलम्॥ बलेन बहु-कुर्वन्तः सिंहनादम् विसिस्मियुः ॥ ४॥
devāḥ dṛṣṭvā samāyāntam tārakasya mahā-balam.. balena bahu-kurvantaḥ siṃhanādam visismiyuḥ .. 4..
तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् ॥ शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५॥
तदा वाणीम् जगाद उपरि सत्वरम् ॥ शङ्कर-प्रेरिता सद्यस् हरि-आदीन् अखिलान् सुरान् ॥ ५॥
tadā vāṇīm jagāda upari satvaram .. śaṅkara-preritā sadyas hari-ādīn akhilān surān .. 5..
।। व्योमवाण्युवाच ।।
कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः ॥ दैत्यान्विजित्य संग्रामे जयिनोऽथ भविष्यथ ॥ ६॥
कुमारम् च पुरस्कृत्य सुराः यूयम् समुद्यताः ॥ दैत्यान् विजित्य संग्रामे जयिनः अथ भविष्यथ ॥ ६॥
kumāram ca puraskṛtya surāḥ yūyam samudyatāḥ .. daityān vijitya saṃgrāme jayinaḥ atha bhaviṣyatha .. 6..
ब्रह्मोवाच।।
वाचं तु खेचरीं श्रुत्वा देवास्सर्वे समुत्सुकाः ॥ वीरशब्दान् प्रकुर्वंतो निर्भया ह्यभवंस्तदा ॥ ७॥
वाचम् तु खेचरीम् श्रुत्वा देवाः सर्वे समुत्सुकाः ॥ वीर-शब्दान् प्रकुर्वंतः निर्भयाः हि अभवन् तदा ॥ ७॥
vācam tu khecarīm śrutvā devāḥ sarve samutsukāḥ .. vīra-śabdān prakurvaṃtaḥ nirbhayāḥ hi abhavan tadā .. 7..
कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः ॥ योद्धुकामास्सुरा जग्मुर्महीसागरसंगमम् ॥ ८॥
कुमारम् च पुरस्कृत्य सर्वे ते जात-साध्वसाः ॥ योद्धु-कामाः सुराः जग्मुः मही-सागर-संगमम् ॥ ८॥
kumāram ca puraskṛtya sarve te jāta-sādhvasāḥ .. yoddhu-kāmāḥ surāḥ jagmuḥ mahī-sāgara-saṃgamam .. 8..
आजगाम द्रुतं तत्र यत्र देवास्स तारकः ॥ सैन्येन महता सार्द्धं सुरै र्बहुभिरावृत् ॥ ९॥
आजगाम द्रुतम् तत्र यत्र देवाः स तारकः ॥ सैन्येन महता सार्द्धम् सुरैः बहुभिः आवृत् ॥ ९॥
ājagāma drutam tatra yatra devāḥ sa tārakaḥ .. sainyena mahatā sārddham suraiḥ bahubhiḥ āvṛt .. 9..
रणदुंदुभयो नेदुः प्रलयांबुद्निस्स्वनाः ॥ कर्कशानि च वाद्यानि पराणि च तदागमे ॥ 2.4.7.१०॥
रण-दुंदुभयः नेदुः प्रलय-अंबुद-निस्स्वनाः ॥ कर्कशानि च वाद्यानि पराणि च तद्-आगमे ॥ २।४।७।१०॥
raṇa-duṃdubhayaḥ neduḥ pralaya-aṃbuda-nissvanāḥ .. karkaśāni ca vādyāni parāṇi ca tad-āgame .. 2.4.7.10..
गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह ॥ कंपयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११॥
गर्जमानाः तदा दैत्याः तारकेण असुरेण ह ॥ कंपयन्तः भुवम् पाद-क्रमैः वल्गुन-कारकाः ॥ ११॥
garjamānāḥ tadā daityāḥ tārakeṇa asureṇa ha .. kaṃpayantaḥ bhuvam pāda-kramaiḥ valguna-kārakāḥ .. 11..
तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः ॥ ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२ ॥
तत् श्रुत्वा रवम् अति उग्रम् सर्वे देवाः विनिर्भयाः ॥ ऐकपद्येन च उत्तस्थुः योद्धु-कामाः च तारकम् ॥ १२ ॥
tat śrutvā ravam ati ugram sarve devāḥ vinirbhayāḥ .. aikapadyena ca uttasthuḥ yoddhu-kāmāḥ ca tārakam .. 12 ..
गजमारोप्य देवेन्द्रः कुमारं त्यग्रतोऽभवत् ॥ सुरसैन्येन महता लोकपालैस्समावृतः ॥ १३॥
गजम् आरोप्य देव-इन्द्रः कुमारम् त्यग्रतस् अभवत् ॥ सुर-सैन्येन महता लोकपालैः समावृतः ॥ १३॥
gajam āropya deva-indraḥ kumāram tyagratas abhavat .. sura-sainyena mahatā lokapālaiḥ samāvṛtaḥ .. 13..
तदा दुंदुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥ वीणावेणुमृदंगानि तथा गंधर्वनिस्स्वनाः ॥ १४ ॥
तदा दुंदुभयः नेदुः भेरी-तूर्याणि अनेकशस् ॥ वीणा-वेणु-मृदंगानि तथा गंधर्व-निस्स्वनाः ॥ १४ ॥
tadā duṃdubhayaḥ neduḥ bherī-tūryāṇi anekaśas .. vīṇā-veṇu-mṛdaṃgāni tathā gaṃdharva-nissvanāḥ .. 14 ..
गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् ॥ अनेकाश्चर्यसंभूतं नानारत्नसमन्वितम् ॥ १५॥
गजम् दत्त्वा महा-इन्द्राय कुमारः यानम् आरुहत् ॥ अनेक-आश्चर्य-संभूतम् नाना रत्न-समन्वितम् ॥ १५॥
gajam dattvā mahā-indrāya kumāraḥ yānam āruhat .. aneka-āścarya-saṃbhūtam nānā ratna-samanvitam .. 15..
विमानमारुह्य तदा महायशास्स शांकरिस्सर्वगुणैरुपेतः ॥ श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः॥ १६॥
विमानम् आरुह्य तदा महा-यशाः स शांकरिः सर्व-गुणैः उपेतः ॥ श्रिया समेतः परया बभौ महान् संवीज्यमानः चमरैः महा-ग्रभैः॥ १६॥
vimānam āruhya tadā mahā-yaśāḥ sa śāṃkariḥ sarva-guṇaiḥ upetaḥ .. śriyā sametaḥ parayā babhau mahān saṃvījyamānaḥ camaraiḥ mahā-grabhaiḥ.. 16..
प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम्॥ धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७॥
प्राचेतसम् छत्रम् अतीव सुप्रभम् रत्नैः उपेतम् विविधैः विराजितम्॥ धृतम् तदा तत् च कुमार-मूर्ध्नि वै हि अनन्त-चान्द्रैः किरणैः महा-प्रभैः ॥ १७॥
prācetasam chatram atīva suprabham ratnaiḥ upetam vividhaiḥ virājitam.. dhṛtam tadā tat ca kumāra-mūrdhni vai hi ananta-cāndraiḥ kiraṇaiḥ mahā-prabhaiḥ .. 17..
मिलितास्ते तदा सर्वे देवाश्शक्रपुरोगमा ॥ स्वैःस्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८॥
मिलिताः ते तदा सर्वे देवाः शक्र-पुरोगमा ॥ स्वैः स्वैः बलैः परिवृताः युद्ध-कामाः महा-बलाः ॥ १८॥
militāḥ te tadā sarve devāḥ śakra-purogamā .. svaiḥ svaiḥ balaiḥ parivṛtāḥ yuddha-kāmāḥ mahā-balāḥ .. 18..
एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि ॥ सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९ ॥
एवम् देवाः च दैत्याः च योद्धु-कामाः स्थिताः भुवि ॥ सैन्येन महता तेन व्यूहम् कृत्वा पृथक् पृथक् ॥ १९ ॥
evam devāḥ ca daityāḥ ca yoddhu-kāmāḥ sthitāḥ bhuvi .. sainyena mahatā tena vyūham kṛtvā pṛthak pṛthak .. 19 ..
ते सेने सुरदैत्यानां शुशुभाते परस्परम् ॥ हंतुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ 2.4.7.२०॥
ते सेने सुर-दैत्यानाम् शुशुभाते परस्परम् ॥ हंतु-कामे तदा अन्योन्यम् स्तूयमाने च बन्दिभिः ॥ २।४।७।२०॥
te sene sura-daityānām śuśubhāte parasparam .. haṃtu-kāme tadā anyonyam stūyamāne ca bandibhiḥ .. 2.4.7.20..
उभे सेनं तदा तेषामगर्जेतां वनोपमे ॥ भयंकरेऽत्यवीराणामितरेषां सुखावहे ॥ २१॥
उभे सेनम् तदा तेषाम् अगर्जेताम् वन-उपमे ॥ भयंकरे अति अवीराणाम् इतरेषाम् सुख-आवहे ॥ २१॥
ubhe senam tadā teṣām agarjetām vana-upame .. bhayaṃkare ati avīrāṇām itareṣām sukha-āvahe .. 21..
एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम्॥ दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२ ॥
एतस्मिन् अन्तरे तत्र बल-उन्मत्ताः परस्परम्॥ दैत्याः देवाः महा-वीराः युयुधुः क्रोध-विह्वलाः ॥ २२ ॥
etasmin antare tatra bala-unmattāḥ parasparam.. daityāḥ devāḥ mahā-vīrāḥ yuyudhuḥ krodha-vihvalāḥ .. 22 ..
आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् ॥ रुण्डमुंडांकितं सर्वं क्षणेन समपद्यत ॥ २३ ॥
आसीत् सु तुमुलम् युद्धम् देव-दैत्य-समाकुलम् ॥ रुण्ड-मुंड-अंकितम् सर्वम् क्षणेन समपद्यत ॥ २३ ॥
āsīt su tumulam yuddham deva-daitya-samākulam .. ruṇḍa-muṃḍa-aṃkitam sarvam kṣaṇena samapadyata .. 23 ..
भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः ॥ निकृत्तांगा महाशस्त्रैर्निहता वीरसंमताः ॥ २४ ॥
भूमौ निपतिताः तत्र शतशस् अथ सहस्रशस् ॥ निकृत्त-अंगाः महा-शस्त्रैः निहताः वीर-संमताः ॥ २४ ॥
bhūmau nipatitāḥ tatra śataśas atha sahasraśas .. nikṛtta-aṃgāḥ mahā-śastraiḥ nihatāḥ vīra-saṃmatāḥ .. 24 ..
केषांचिद्बाहवश्छिन्ना खड्पातैस्सुदारुणैः ॥ केषांचिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५॥
केषांचिद् बाहवः छिन्ना खड्पातैः सु दारुणैः ॥ केषांचिद् ऊरवः छिन्नाः वीराणाम् मानिनाम् मृधे ॥ २५॥
keṣāṃcid bāhavaḥ chinnā khaḍpātaiḥ su dāruṇaiḥ .. keṣāṃcid ūravaḥ chinnāḥ vīrāṇām māninām mṛdhe .. 25..
केचिन्मथितसर्वांगा गदाभिर्मुद्गरैस्तथा ॥ केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६॥
केचिद् मथित-सर्व-अंगाः गदाभिः मुद्गरैः तथा ॥ केचिद् निर्भिन्न-हृदयाः पाशैः भल्लैः च पातिताः ॥ २६॥
kecid mathita-sarva-aṃgāḥ gadābhiḥ mudgaraiḥ tathā .. kecid nirbhinna-hṛdayāḥ pāśaiḥ bhallaiḥ ca pātitāḥ .. 26..
केचिद्विदारिताः पृष्ठे कुंतैर्ऋष्टिभिरंकुशैः ॥ छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७ ॥
केचिद् विदारिताः पृष्ठे कुन्तैः ऋष्टिभिः अंकुशैः ॥ छिन्नानि अपि शिरांसि एव पतितानि च भू-तले ॥ २७ ॥
kecid vidāritāḥ pṛṣṭhe kuntaiḥ ṛṣṭibhiḥ aṃkuśaiḥ .. chinnāni api śirāṃsi eva patitāni ca bhū-tale .. 27 ..
बहूनि च कबंधानि नृत्यमानानि तत्र वै ॥ वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८ ॥
बहूनि च कबंधानि नृत्यमानानि तत्र वै ॥ वल्गमानानि शतशस् उद्यत-अस्त्र-कराणि च ॥ २८ ॥
bahūni ca kabaṃdhāni nṛtyamānāni tatra vai .. valgamānāni śataśas udyata-astra-karāṇi ca .. 28 ..
नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा ॥ भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९॥
नद्यः प्रवर्तिताः तत्र शतशस् असृज्-वहाः तदा ॥ भूत-प्रेत-आदयः तत्र शतशस् च समागताः ॥ २९॥
nadyaḥ pravartitāḥ tatra śataśas asṛj-vahāḥ tadā .. bhūta-preta-ādayaḥ tatra śataśas ca samāgatāḥ .. 29..
गोमायवश्शिवा तत्र भक्षयन्तः पलं बहु ॥ तथा गृध्रवटाश्येना वायसा मांसभक्षकाः ॥ बुभुजुः पतितानां च पलानि सुबहूनि वै ॥ 2.4.7.३० ॥
गोमायवः शिवा तत्र भक्षयन्तः पलम् बहु ॥ तथा गृध्र-वटा-श्येनाः वायसाः मांस-भक्षकाः ॥ बुभुजुः पतितानाम् च पलानि सु बहूनि वै ॥ २।४।७।३० ॥
gomāyavaḥ śivā tatra bhakṣayantaḥ palam bahu .. tathā gṛdhra-vaṭā-śyenāḥ vāyasāḥ māṃsa-bhakṣakāḥ .. bubhujuḥ patitānām ca palāni su bahūni vai .. 2.4.7.30 ..
एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः ॥ सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१ ॥
एतस्मिन् अन्तरे तत्र तारक-आख्यः महा-बलः ॥ सैन्येन महता सद्यस् ययौ योद्धुम् सुरान् प्रति ॥ ३१ ॥
etasmin antare tatra tāraka-ākhyaḥ mahā-balaḥ .. sainyena mahatā sadyas yayau yoddhum surān prati .. 31 ..
देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् ॥ योद्धुकामं तदा सद्यो ययुश्शक्रादयस्तदा ॥ बभूवाथ महोन्नादस्सेनयोरुभयोरपि ॥ ३२॥
देवाः दृष्ट्वा समायान्तम् तारकम् युद्ध-दुर्मदम् ॥ योद्धु-कामम् तदा सद्यस् ययुः शक्र-आदयः तदा ॥ बभूव अथ महा-उन्नादः सेनयोः उभयोः अपि ॥ ३२॥
devāḥ dṛṣṭvā samāyāntam tārakam yuddha-durmadam .. yoddhu-kāmam tadā sadyas yayuḥ śakra-ādayaḥ tadā .. babhūva atha mahā-unnādaḥ senayoḥ ubhayoḥ api .. 32..
अथाभूद्द्वंद्वयुद्धं हि सुरासुरविमर्दनम्॥ यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता॥ ३३॥
अथा अभूत् द्वंद्व-युद्धम् हि सुर-असुर-विमर्दनम्॥ यम् दृष्ट्वा हर्षिताः वीराः क्लीबाः च भयम् आगता॥ ३३॥
athā abhūt dvaṃdva-yuddham hi sura-asura-vimardanam.. yam dṛṣṭvā harṣitāḥ vīrāḥ klībāḥ ca bhayam āgatā.. 33..
तारको युयुधे युद्धे शक्रेण दितिजो बली॥ अग्निना सह संह्रादो जंभेनैव यमः स्वयम् ॥ ३४॥
तारकः युयुधे युद्धे शक्रेण दितिजः बली॥ अग्निना सह संह्रादः जंभेन एव यमः स्वयम् ॥ ३४॥
tārakaḥ yuyudhe yuddhe śakreṇa ditijaḥ balī.. agninā saha saṃhrādaḥ jaṃbhena eva yamaḥ svayam .. 34..
महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च ॥ सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५॥
महा-प्रभुः नैरृतेन पाशी सह बलेन च ॥ सु वीरः वायुना सार्धम् पवमानेन गुह्य-राज् ॥ ३५॥
mahā-prabhuḥ nairṛtena pāśī saha balena ca .. su vīraḥ vāyunā sārdham pavamānena guhya-rāj .. 35..
ईशानेन समं शंभुर्युयुधे रणवित्तमः ॥ शुंभश्शेषेण युयुधे कुंभश्चन्द्रेण दानवः ॥ ३६ ॥
ईशानेन समम् शंभुः युयुधे रण-वित्तमः ॥ शुंभः शेषेण युयुधे कुंभः चन्द्रेण दानवः ॥ ३६ ॥
īśānena samam śaṃbhuḥ yuyudhe raṇa-vittamaḥ .. śuṃbhaḥ śeṣeṇa yuyudhe kuṃbhaḥ candreṇa dānavaḥ .. 36 ..
कुंबरो मिहिरेणाजौ महाबल पराक्रमः ॥ युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७॥
कुंबरः मिहिरेण आजौ महा-बल पराक्रमः ॥ युयुधे परम-अस्त्रैः च नाना युद्ध-विशारदः ॥ ३७॥
kuṃbaraḥ mihireṇa ājau mahā-bala parākramaḥ .. yuyudhe parama-astraiḥ ca nānā yuddha-viśāradaḥ .. 37..
एवं द्वन्द्वेन युद्धेन महता च सुरासुराः ॥ संगरे युयुधुस्सर्वे बलेन कृतनिश्च याः ॥ ३८
एवम् द्वन्द्वेन युद्धेन महता च सुर-असुराः ॥ संगरे युयुधुः सर्वे बलेन याः ॥ ३८
evam dvandvena yuddhena mahatā ca sura-asurāḥ .. saṃgare yuyudhuḥ sarve balena yāḥ .. 38
अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः ॥ तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९ ॥
अन्योन्यम् स्पर्द्धमानाः ते अमराः दैत्याः महा-बलाः ॥ तस्मिन् देवासुरे युद्धे दुर्जयाः अभवन् मुने ॥ ३९ ॥
anyonyam sparddhamānāḥ te amarāḥ daityāḥ mahā-balāḥ .. tasmin devāsure yuddhe durjayāḥ abhavan mune .. 39 ..
तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् ॥ सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥ 2.4.7.४० ॥
तदा च तेषाम् सुर-दानवानाम् बभूव युद्धम् तुमुलम् जय-एषिणाम् ॥ सुख-आवहम् वीर-मनस्विनाम् वै भय-आवहम् च एव तथा इतरेषाम् ॥ २।४।७।४० ॥
tadā ca teṣām sura-dānavānām babhūva yuddham tumulam jaya-eṣiṇām .. sukha-āvaham vīra-manasvinām vai bhaya-āvaham ca eva tathā itareṣām .. 2.4.7.40 ..
मही महारौद्रतरा विनष्टकैस्सुरासुरैर्वै पतितैरनेकशः ॥ तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥ ४१ ॥
मही महा-रौद्रतरा विनष्टकैः सुर-असुरैः वै पतितैः अनेकशस् ॥ तस्मिन् अगम्या अति भयानका तदा जाता महा-सौख्य-वहा मनस्विनाम् ॥ ४१ ॥
mahī mahā-raudratarā vinaṣṭakaiḥ sura-asuraiḥ vai patitaiḥ anekaśas .. tasmin agamyā ati bhayānakā tadā jātā mahā-saukhya-vahā manasvinām .. 41 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे युद्धप्रारंभवर्णनम् नाम सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe yuddhaprāraṃbhavarṇanam nāma saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In