| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति ते वर्णितस्तात देवदानव सेनयोः ॥ संग्रामस्तुमुलोऽतीव तत्प्रभ्वो शृणु नारद ॥ १ ॥
इति ते वर्णितः तात देव-दानव सेनयोः ॥ संग्रामः तुमुलः अतीव तत् प्रभ्वः शृणु नारद ॥ १ ॥
iti te varṇitaḥ tāta deva-dānava senayoḥ .. saṃgrāmaḥ tumulaḥ atīva tat prabhvaḥ śṛṇu nārada .. 1 ..
एवं युद्धेऽतितुमुले देवदानवसंक्षये ॥ तारकेणैव देवेन्द्रश्शक्त्या रमया सह॥ २॥
एवम् युद्धे अति तुमुले देव-दानव-संक्षये ॥ तारकेण एव देव-इन्द्रः शक्त्या रमया सह॥ २॥
evam yuddhe ati tumule deva-dānava-saṃkṣaye .. tārakeṇa eva deva-indraḥ śaktyā ramayā saha.. 2..
सद्यः पपात नागाश्च धरण्यां मूर्च्छितोऽभवत्॥ परं कश्मलमापेदे वज्रधारी सुरेश्वरः ॥ ३॥
सद्यस् पपात नागाः च धरण्याम् मूर्च्छितः अभवत्॥ परम् कश्मलम् आपेदे वज्रधारी सुरेश्वरः ॥ ३॥
sadyas papāta nāgāḥ ca dharaṇyām mūrcchitaḥ abhavat.. param kaśmalam āpede vajradhārī sureśvaraḥ .. 3..
तथैव लोकपास्सर्वेऽसुरैश्च बलवत्तरैः ॥ पराजिता रणे तात महारणविशारदैः ॥ ४ ॥
तथा एव लोकपाः सर्वे असुरैः च बलवत्तरैः ॥ पराजिताः रणे तात महा-रण-विशारदैः ॥ ४ ॥
tathā eva lokapāḥ sarve asuraiḥ ca balavattaraiḥ .. parājitāḥ raṇe tāta mahā-raṇa-viśāradaiḥ .. 4 ..
अन्येऽपि निर्जरा दैत्यैर्युद्ध्यमानाः पराजिताः ॥ असहंतो हि तत्तेजः पलायनपरायणाः ॥ ५ ॥
अन्ये अपि निर्जराः दैत्यैः युद्ध्यमानाः पराजिताः ॥ अ सहंतः हि तत् तेजः पलायन-परायणाः ॥ ५ ॥
anye api nirjarāḥ daityaiḥ yuddhyamānāḥ parājitāḥ .. a sahaṃtaḥ hi tat tejaḥ palāyana-parāyaṇāḥ .. 5 ..
जगर्जुरसुरास्तत्र जयिनस्सुकृतोद्यमाः ॥ सिंहनादं प्रकुर्वन्तः कोलाहलपरायणाः ॥ ६॥
जगर्जुः असुराः तत्र जयिनः सुकृत-उद्यमाः ॥ सिंहनादम् प्रकुर्वन्तः कोलाहल-परायणाः ॥ ६॥
jagarjuḥ asurāḥ tatra jayinaḥ sukṛta-udyamāḥ .. siṃhanādam prakurvantaḥ kolāhala-parāyaṇāḥ .. 6..
एतस्मिन्नंतरे तत्र वीरभद्रो रुषान्वितः ॥ आससाद गणैर्वीरैस्तारकं वीरमानिनम् ॥ ७॥
एतस्मिन् अंतरे तत्र वीरभद्रः रुषा अन्वितः ॥ आससाद गणैः वीरैः तारकम् वीर-मानिनम् ॥ ७॥
etasmin aṃtare tatra vīrabhadraḥ ruṣā anvitaḥ .. āsasāda gaṇaiḥ vīraiḥ tārakam vīra-māninam .. 7..
निर्जरान् पृष्ठतः कृत्वा शिवकोपोद्भवो बली॥ तत्सम्मुखो बभूवाथ योद्धुकामो गणाग्रणीः ॥ ८॥
निर्जरान् पृष्ठतस् कृत्वा शिव-कोप-उद्भवः बली॥ तद्-सम्मुखः बभूव अथ योद्धु-कामः गणाग्रणीः ॥ ८॥
nirjarān pṛṣṭhatas kṛtvā śiva-kopa-udbhavaḥ balī.. tad-sammukhaḥ babhūva atha yoddhu-kāmaḥ gaṇāgraṇīḥ .. 8..
तदा ते प्रमथास्सर्वे दैत्याश्च परमोत्सवाः॥ युयुधुस्संयुगेऽन्योन्यं प्रसक्ताश्च महारणे ॥ ९॥
तदा ते प्रमथाः सर्वे दैत्याः च परम-उत्सवाः॥ युयुधुः संयुगे अन्योन्यम् प्रसक्ताः च महा-रणे ॥ ९॥
tadā te pramathāḥ sarve daityāḥ ca parama-utsavāḥ.. yuyudhuḥ saṃyuge anyonyam prasaktāḥ ca mahā-raṇe .. 9..
त्रिशूलैर्ऋष्टिभिः पाशैः खड्गैः परशुपट्टिशैः ॥ निजघ्नुस्समरेऽन्योन्यं रणे रणविशारदाः ॥ 2.4.8.१०॥
त्रिशूलैः ऋष्टिभिः पाशैः खड्गैः परशु-पट्टिशैः ॥ निजघ्नुः समरे अन्योन्यम् रणे रण-विशारदाः ॥ २।४।८।१०॥
triśūlaiḥ ṛṣṭibhiḥ pāśaiḥ khaḍgaiḥ paraśu-paṭṭiśaiḥ .. nijaghnuḥ samare anyonyam raṇe raṇa-viśāradāḥ .. 2.4.8.10..
तारको वीरभद्रेण स त्रिशूलाहतो भृशम् ॥ पपात सहसा भूमौ क्षणं मूर्छापरिप्लुतः ॥ ११ ॥
तारकः वीरभद्रेण स त्रिशूल-आहतः भृशम् ॥ पपात सहसा भूमौ क्षणम् मूर्छा-परिप्लुतः ॥ ११ ॥
tārakaḥ vīrabhadreṇa sa triśūla-āhataḥ bhṛśam .. papāta sahasā bhūmau kṣaṇam mūrchā-pariplutaḥ .. 11 ..
उत्थाय स द्रुतं वीरस्तारको दैत्यसत्तमः ॥ लब्धसंज्ञो बलाच्छक्त्या वीरभद्रं जघान ह ॥ १२॥
उत्थाय स द्रुतम् वीरः तारकः दैत्य-सत्तमः ॥ लब्ध-संज्ञः बलात् शक्त्या वीरभद्रम् जघान ह ॥ १२॥
utthāya sa drutam vīraḥ tārakaḥ daitya-sattamaḥ .. labdha-saṃjñaḥ balāt śaktyā vīrabhadram jaghāna ha .. 12..
वीरभद्रस्तथा वीरो महातेजा हि तारकम् ॥ जघान त्रिशिखेनाशु घोरेण निशितेन तम् ॥ १३॥
वीरभद्रः तथा वीरः महा-तेजाः हि तारकम् ॥ जघान त्रि-शिखेन आशु घोरेण निशितेन तम् ॥ १३॥
vīrabhadraḥ tathā vīraḥ mahā-tejāḥ hi tārakam .. jaghāna tri-śikhena āśu ghoreṇa niśitena tam .. 13..
सोपि शक्त्या वीरभद्रं जघान समरे ततः ॥ तारको दितिजाधीशः प्रबलो वीरसंमतः ॥ १४ ॥
सः उपि शक्त्या वीरभद्रम् जघान समरे ततस् ॥ तारकः दितिज-अधीशः प्रबलः वीर-संमतः ॥ १४ ॥
saḥ upi śaktyā vīrabhadram jaghāna samare tatas .. tārakaḥ ditija-adhīśaḥ prabalaḥ vīra-saṃmataḥ .. 14 ..
एवं संयुद्ध्यमानौ तौ जघ्नतुश्चेतरेतरम् ॥ नानास्त्रशस्त्रैस्समरे रणविद्याविशारदौ ॥ १५ ॥
एवम् संयुद्ध्यमानौ तौ जघ्नतुः च इतरेतरम् ॥ नाना अस्त्र-शस्त्रैः समरे रण-विद्या-विशारदौ ॥ १५ ॥
evam saṃyuddhyamānau tau jaghnatuḥ ca itaretaram .. nānā astra-śastraiḥ samare raṇa-vidyā-viśāradau .. 15 ..
तयोर्महात्मनोस्तत्र द्वन्द्वयुद्धमभूत्तदा ॥ सर्वेषां पश्यतामेव तुमुलं रोमहर्षणम् ॥ १६ ॥
तयोः महात्मनोः तत्र द्वन्द्व-युद्धम् अभूत् तदा ॥ सर्वेषाम् पश्यताम् एव तुमुलम् रोम-हर्षणम् ॥ १६ ॥
tayoḥ mahātmanoḥ tatra dvandva-yuddham abhūt tadā .. sarveṣām paśyatām eva tumulam roma-harṣaṇam .. 16 ..
ततो भेरीमृदंगाश्च पटहानकगोमुखाः ॥ विनेदुर्विहता वीरैश्शृण्वतां सुभयानकाः॥ १७॥
ततस् भेरी-मृदंगाः च पटह-आनक-गोमुखाः ॥ विनेदुः विहताः वीरैः शृण्वताम् सु भयानकाः॥ १७॥
tatas bherī-mṛdaṃgāḥ ca paṭaha-ānaka-gomukhāḥ .. vineduḥ vihatāḥ vīraiḥ śṛṇvatām su bhayānakāḥ.. 17..
युयुधातेतिसन्नद्धौ प्रहारैर्जर्जरीकृतौ ॥ अन्योन्यमतिसंरब्धौ तौ बुधांगारकाविव ॥ १८ ॥
युयुधात इति सन्नद्धौ प्रहारैः जर्जरीकृतौ ॥ अन्योन्यम् अति संरब्धौ तौ बुध-अंगारकौ इव ॥ १८ ॥
yuyudhāta iti sannaddhau prahāraiḥ jarjarīkṛtau .. anyonyam ati saṃrabdhau tau budha-aṃgārakau iva .. 18 ..
एवं दृष्ट्वा तदा युद्धं वीरभद्रस्य तेन च ॥ तत्र गत्वा वीरभद्रमवोचस्त्वं शिवप्रियः ॥ १९ ॥
एवम् दृष्ट्वा तदा युद्धम् वीरभद्रस्य तेन च ॥ तत्र गत्वा वीरभद्रम् अवोचः त्वम् शिव-प्रियः ॥ १९ ॥
evam dṛṣṭvā tadā yuddham vīrabhadrasya tena ca .. tatra gatvā vīrabhadram avocaḥ tvam śiva-priyaḥ .. 19 ..
नारद उवाच ।।
वीरभद्र महावीर गणानामग्रणीर्भवान् ॥ निवर्तस्व रणादस्माद्रोचते न वधस्त्वया ॥ 2.4.8.२० ॥
वीरभद्र महा-वीर गणानाम् अग्रणीः भवान् ॥ निवर्तस्व रणात् अस्मात् रोचते न वधः त्वया ॥ २।४।८।२० ॥
vīrabhadra mahā-vīra gaṇānām agraṇīḥ bhavān .. nivartasva raṇāt asmāt rocate na vadhaḥ tvayā .. 2.4.8.20 ..
एवं निशम्य त्वद्वाक्यं वीरभद्रो गणाग्रणीः ॥ अवदत्स रुषाविष्टस्त्वां तदा तु कृतांजलिः ॥ २१ ॥
एवम् निशम्य त्वद्-वाक्यम् वीरभद्रः गणाग्रणीः ॥ अवदत् स रुषा आविष्टः त्वाम् तदा तु कृतांजलिः ॥ २१ ॥
evam niśamya tvad-vākyam vīrabhadraḥ gaṇāgraṇīḥ .. avadat sa ruṣā āviṣṭaḥ tvām tadā tu kṛtāṃjaliḥ .. 21 ..
वीरभद्र उवाच ।।
मुनिवर्य महाप्राज्ञ शृणु मे परमं वचः ॥ तारकं च वधिष्यामि पश्य मेऽद्य पराक्रमम् ॥ २२॥
मुनि-वर्य महा-प्राज्ञ शृणु मे परमम् वचः ॥ तारकम् च वधिष्यामि पश्य मे अद्य पराक्रमम् ॥ २२॥
muni-varya mahā-prājña śṛṇu me paramam vacaḥ .. tārakam ca vadhiṣyāmi paśya me adya parākramam .. 22..
आनयंति च ये वीरास्स्वामिनं रणसंसदि ॥ ते पापिनो महाक्लीबा विनश्यन्ति रणं गताः ॥ २३ ॥
आनयन्ति च ये वीराः स्वामिनम् रण-संसदि ॥ ते पापिनः महा-क्लीबाः विनश्यन्ति रणम् गताः ॥ २३ ॥
ānayanti ca ye vīrāḥ svāminam raṇa-saṃsadi .. te pāpinaḥ mahā-klībāḥ vinaśyanti raṇam gatāḥ .. 23 ..
असद्गतिं प्राप्नुवन्ति तेषां च निरयो धुवम् ॥ वीरभद्रो हि विज्ञेयो न वाच्यस्ते कदाचन ॥ २४॥
असत्-गतिम् प्राप्नुवन्ति तेषाम् च निरयः धुवम् ॥ वीरभद्रः हि विज्ञेयः न वाच्यः ते कदाचन ॥ २४॥
asat-gatim prāpnuvanti teṣām ca nirayaḥ dhuvam .. vīrabhadraḥ hi vijñeyaḥ na vācyaḥ te kadācana .. 24..
शस्त्रास्त्रैर्भिन्नगात्रा ये रणं कुर्वंति निर्भयाः ॥ इहामुत्र प्रशंस्यास्ते लभ्यन्ते सुखमद्भुतम् ॥ २५ ॥
शस्त्र-अस्त्रैः भिन्न-गात्राः ये रणम् कुर्वंति निर्भयाः ॥ इह अमुत्र प्रशंस्याः ते लभ्यन्ते सुखम् अद्भुतम् ॥ २५ ॥
śastra-astraiḥ bhinna-gātrāḥ ye raṇam kurvaṃti nirbhayāḥ .. iha amutra praśaṃsyāḥ te labhyante sukham adbhutam .. 25 ..
शृण्वन्तु मम वाक्यानि देवा हरिपुरोगमाः ॥ अतारकां महीमद्य करिष्ये स्वामिवर्जिताम् ॥ २६॥
शृण्वन्तु मम वाक्यानि देवाः हरि-पुरोगमाः ॥ अ तारकाम् महीम् अद्य करिष्ये स्वामि-वर्जिताम् ॥ २६॥
śṛṇvantu mama vākyāni devāḥ hari-purogamāḥ .. a tārakām mahīm adya kariṣye svāmi-varjitām .. 26..
इत्युक्त्वा प्रमर्थैस्सार्द्धं वीरभद्रो हि शूलधृक् ॥ विचिंत्य मनसा शंभुं युयुधे तारकेण हि ॥ २७ ॥
इति उक्त्वा प्रमर्थैः सार्द्धम् वीरभद्रः हि शूलधृक् ॥ विचिंत्य मनसा शंभुम् युयुधे तारकेण हि ॥ २७ ॥
iti uktvā pramarthaiḥ sārddham vīrabhadraḥ hi śūladhṛk .. viciṃtya manasā śaṃbhum yuyudhe tārakeṇa hi .. 27 ..
वृषारूढैरनेकैश्च त्रिशूलवरधारिभिः ॥ महावीरस्त्रिनेत्रैश्च स रेजे रणसंगतः ॥ २८ ॥
वृष-आरूढैः अनेकैः च त्रिशूल-वर-धारिभिः ॥ महा-वीरः त्रिनेत्रैः च स रेजे रण-संगतः ॥ २८ ॥
vṛṣa-ārūḍhaiḥ anekaiḥ ca triśūla-vara-dhāribhiḥ .. mahā-vīraḥ trinetraiḥ ca sa reje raṇa-saṃgataḥ .. 28 ..
कोलाहलं प्रकुर्वंतो निर्भयाश्शतशो गणाः ॥ वीरभद्रं पुरस्कृत्य युयुधुर्दानवैस्सह ॥ २९ ॥
कोलाहलम् प्रकुर्वंतः निर्भयाः शतशस् गणाः ॥ वीरभद्रम् पुरस्कृत्य युयुधुः दानवैः सह ॥ २९ ॥
kolāhalam prakurvaṃtaḥ nirbhayāḥ śataśas gaṇāḥ .. vīrabhadram puraskṛtya yuyudhuḥ dānavaiḥ saha .. 29 ..
असुरास्तेऽपि युयुधुस्तारकासुरजीविनः ॥ बलोत्कटा महावीरा मर्दयन्तो गणान् रुषा ॥ 2.4.8.३० ॥
असुराः ते अपि युयुधुः तारक-असुर-जीविनः ॥ बल-उत्कटाः महा-वीराः मर्दयन्तः गणान् रुषा ॥ २।४।८।३० ॥
asurāḥ te api yuyudhuḥ tāraka-asura-jīvinaḥ .. bala-utkaṭāḥ mahā-vīrāḥ mardayantaḥ gaṇān ruṣā .. 2.4.8.30 ..
पुनः पुनश्चैव बभूव संगरो महोत्कटो दैत्यवरैर्गणानाम् ॥ प्रहर्षमाणाः परमास्त्रकोविदास्तदा गणास्ते जयिनो बभूवुः ॥ ३१॥
पुनर् पुनर् च एव बभूव संगरः महा-उत्कटः दैत्य-वरैः गणानाम् ॥ प्रहर्षमाणाः परम-अस्त्र-कोविदाः तदा गणाः ते जयिनः बभूवुः ॥ ३१॥
punar punar ca eva babhūva saṃgaraḥ mahā-utkaṭaḥ daitya-varaiḥ gaṇānām .. praharṣamāṇāḥ parama-astra-kovidāḥ tadā gaṇāḥ te jayinaḥ babhūvuḥ .. 31..
गणैर्जितास्ते प्रबलैरसुरा विमुखा रणे॥ पलायनपरा जाता व्यथिता व्यग्रमानसाः ॥ ३२॥
गणैः जिताः ते प्रबलैः असुराः विमुखाः रणे॥ पलायन-पराः जाताः व्यथिताः व्यग्र-मानसाः ॥ ३२॥
gaṇaiḥ jitāḥ te prabalaiḥ asurāḥ vimukhāḥ raṇe.. palāyana-parāḥ jātāḥ vyathitāḥ vyagra-mānasāḥ .. 32..
एवं भ्रष्टं स्वसैन्यं तद्दृष्ट्वा तत्पालकोऽसुरः ॥ तारको हि रुषाविष्टो हंतुं देवगणान् ययौ ॥ ३३ ॥
एवम् भ्रष्टम् स्व-सैन्यम् तत् दृष्ट्वा तद्-पालकः असुरः ॥ तारकः हि रुषा आविष्टः हंतुम् देव-गणान् ययौ ॥ ३३ ॥
evam bhraṣṭam sva-sainyam tat dṛṣṭvā tad-pālakaḥ asuraḥ .. tārakaḥ hi ruṣā āviṣṭaḥ haṃtum deva-gaṇān yayau .. 33 ..
भुजानामयुतं कृत्वा सिंहमारुह्य वेगतः ॥ पातयामास तान्देवान्गणांश्च रणमूर्द्धनि ॥ ३४ ॥
भुजानाम् अयुतम् कृत्वा सिंहम् आरुह्य वेगतः ॥ पातयामास तान् देवान् गणान् च रण-मूर्द्धनि ॥ ३४ ॥
bhujānām ayutam kṛtvā siṃham āruhya vegataḥ .. pātayāmāsa tān devān gaṇān ca raṇa-mūrddhani .. 34 ..
स दृष्ट्वा तस्य तत्कर्म वीरभद्रो गणाग्रणीः ॥ चकार सुमहत्कोपं तद्वधाय महाबली ॥ ३५८ ॥
स दृष्ट्वा तस्य तत् कर्म वीरभद्रः गणाग्रणीः ॥ चकार सु महत् कोपम् तद्-वधाय महा-बली ॥ ३५८ ॥
sa dṛṣṭvā tasya tat karma vīrabhadraḥ gaṇāgraṇīḥ .. cakāra su mahat kopam tad-vadhāya mahā-balī .. 358 ..
स्मृत्वा शिवपदांभोजं जग्राह त्रिशिखं परम् ॥ जज्वलुस्तेजसा तस्य दिशः सर्वा नभस्तथा ॥ ३६ ॥
स्मृत्वा शिव-पद-अंभोजम् जग्राह त्रि-शिखम् परम् ॥ जज्वलुः तेजसा तस्य दिशः सर्वाः नभः तथा ॥ ३६ ॥
smṛtvā śiva-pada-aṃbhojam jagrāha tri-śikham param .. jajvaluḥ tejasā tasya diśaḥ sarvāḥ nabhaḥ tathā .. 36 ..
एतस्मिन्नन्तरे स्वामी वारयामास तं रणम् ॥ वीरबाहुमुखान्सद्यो महाकौतुकदर्शकः ॥ ३७ ॥
एतस्मिन् अन्तरे स्वामी वारयामास तम् रणम् ॥ वीर-बाहु-मुखान् सद्यस् महा-कौतुक-दर्शकः ॥ ३७ ॥
etasmin antare svāmī vārayāmāsa tam raṇam .. vīra-bāhu-mukhān sadyas mahā-kautuka-darśakaḥ .. 37 ..
तदाज्ञया वीरभद्रो निवृत्तोऽभूद्रणात्तदा ॥ कोपं चक्रे महावीरस्तारकोऽसुरनायकः ॥ ३८ ॥
तद्-आज्ञया वीरभद्रः निवृत्तः अभूत् रणात् तदा ॥ कोपम् चक्रे महा-वीरः तारकः असुर-नायकः ॥ ३८ ॥
tad-ājñayā vīrabhadraḥ nivṛttaḥ abhūt raṇāt tadā .. kopam cakre mahā-vīraḥ tārakaḥ asura-nāyakaḥ .. 38 ..
चकार बाणवृष्टिं च सुरोपरि तदाऽसुरः ॥ तप्तोऽह्वासीत्सुरान्सद्यो नानास्त्ररणकोविदः ॥ ३९ ॥
चकार बाण-वृष्टिम् च सुर-उपरि तदा असुरः ॥ तप्तः अह्वा सुरान् सद्यस् नाना अस्त्र-रण-कोविदः ॥ ३९ ॥
cakāra bāṇa-vṛṣṭim ca sura-upari tadā asuraḥ .. taptaḥ ahvā surān sadyas nānā astra-raṇa-kovidaḥ .. 39 ..
एवं कृत्वा महत्कर्म तारकोऽसुरपालकः ॥ सर्वेषामपि देवानामशक्यो बलिनां वरः ॥ 2.4.8.४०॥
एवम् कृत्वा महत् कर्म तारकः असुर-पालकः ॥ सर्वेषाम् अपि देवानाम् अशक्यः बलिनाम् वरः ॥ २।४।८।४०॥
evam kṛtvā mahat karma tārakaḥ asura-pālakaḥ .. sarveṣām api devānām aśakyaḥ balinām varaḥ .. 2.4.8.40..
एवं निहन्यमानांस्तान् दृष्ट्वा देवान् भयाकुलान् ॥ कोपं कृत्वा रणायाशु संनद्धोऽभवदच्युतः ॥ ४१॥
एवम् निहन्यमानान् तान् दृष्ट्वा देवान् भय-आकुलान् ॥ कोपम् कृत्वा रणाय आशु संनद्धः अभवत् अच्युतः ॥ ४१॥
evam nihanyamānān tān dṛṣṭvā devān bhaya-ākulān .. kopam kṛtvā raṇāya āśu saṃnaddhaḥ abhavat acyutaḥ .. 41..
चक्रं सुदर्शनं शार्ङ्गं धनुरादाय सायुधः ॥ अभ्युद्ययौ महादैत्यं रणाय भगवान् हरिः ॥ ४२॥
चक्रम् सुदर्शनम् शार्ङ्गम् धनुः आदाय स आयुधः ॥ अभ्युद्ययौ महा-दैत्यम् रणाय भगवान् हरिः ॥ ४२॥
cakram sudarśanam śārṅgam dhanuḥ ādāya sa āyudhaḥ .. abhyudyayau mahā-daityam raṇāya bhagavān hariḥ .. 42..
ततस्समभवद्युद्धं हरितारकयोर्महत् ॥ लोमहर्षणमत्युग्रं सर्वेषां पश्यतां मुने ॥ ४३॥
ततस् समभवत् युद्धम् हरि-तारकयोः महत् ॥ लोम-हर्षणम् अति उग्रम् सर्वेषाम् पश्यताम् मुने ॥ ४३॥
tatas samabhavat yuddham hari-tārakayoḥ mahat .. loma-harṣaṇam ati ugram sarveṣām paśyatām mune .. 43..
गदामुद्यम्य स हरिर्जघानासुरमोजसा ॥ द्विधा चकार तां दैत्यस्त्रिशिखेन महाबली ॥ ४४ ॥
गदाम् उद्यम्य स हरिः जघान असुरम् ओजसा ॥ द्विधा चकार ताम् दैत्यः त्रिशिखेन महा-बली ॥ ४४ ॥
gadām udyamya sa hariḥ jaghāna asuram ojasā .. dvidhā cakāra tām daityaḥ triśikhena mahā-balī .. 44 ..
ततस्स क्रुद्धो भगवान्देवानामभयंकरः ॥ शार्ङ्गच्युतैश्शरव्यूहैर्जघानासुरनायकम् ॥ ४६ ॥
ततस् स क्रुद्धः भगवान् देवानाम् अभयंकरः ॥ शार्ङ्ग-च्युतैः शर-व्यूहैः जघान असुर-नायकम् ॥ ४६ ॥
tatas sa kruddhaḥ bhagavān devānām abhayaṃkaraḥ .. śārṅga-cyutaiḥ śara-vyūhaiḥ jaghāna asura-nāyakam .. 46 ..
सोऽपि दैत्यो महावीरस्तारकः परवीरहा ॥ चिच्छेद सकलान्बाणान्स्वशरैर्निशितैर्द्रुतम् ॥ ४६ ॥
सः अपि दैत्यः महा-वीरः तारकः पर-वीर-हा ॥ चिच्छेद सकलान् बाणान् स्व-शरैः निशितैः द्रुतम् ॥ ४६ ॥
saḥ api daityaḥ mahā-vīraḥ tārakaḥ para-vīra-hā .. ciccheda sakalān bāṇān sva-śaraiḥ niśitaiḥ drutam .. 46 ..
अथ शक्त्या जघानाशु मुरारिं तारकासुरः ॥ भूमौ पपात स हरिस्तत्प्रहारेण मूर्च्छितः ॥ ४७॥
अथ शक्त्या जघान आशु मुरारिम् तारक-असुरः ॥ भूमौ पपात स हरिः तद्-प्रहारेण मूर्च्छितः ॥ ४७॥
atha śaktyā jaghāna āśu murārim tāraka-asuraḥ .. bhūmau papāta sa hariḥ tad-prahāreṇa mūrcchitaḥ .. 47..
जग्राह स रुषा चक्रमुत्थितः क्षणतोऽच्युतः ॥ सिंहनादं महत्कृत्वा ज्वलज्ज्वालासमाकुलम् ॥ ४८॥
जग्राह स रुषा चक्रम् उत्थितः क्षणतः अच्युतः ॥ सिंह-नादम् महत् कृत्वा ज्वलत्-ज्वाला-समाकुलम् ॥ ४८॥
jagrāha sa ruṣā cakram utthitaḥ kṣaṇataḥ acyutaḥ .. siṃha-nādam mahat kṛtvā jvalat-jvālā-samākulam .. 48..
तेन तञ्च जघानासौ दैत्यानामधिपं हरिः ॥ तत्प्रहारेण महता व्यथितो न्यपतद्भुवि ॥ ४९॥
तेन तञ्च च जघान असौ दैत्यानाम् अधिपम् हरिः ॥ तद्-प्रहारेण महता व्यथितः न्यपतत् भुवि ॥ ४९॥
tena tañca ca jaghāna asau daityānām adhipam hariḥ .. tad-prahāreṇa mahatā vyathitaḥ nyapatat bhuvi .. 49..
पुनश्चोत्थाय दैत्येन्द्रस्तारकोऽसुरनायकः ॥ चिच्छेद त्वरितं चक्रं स्वशक्त्यातिबलान्वितः ॥ 2.4.8.५०॥
पुनर् च उत्थाय दैत्य-इन्द्रः तारकः असुर-नायकः ॥ चिच्छेद त्वरितम् चक्रम् स्व-शक्त्या अति बल-अन्वितः ॥ २।४।८।५०॥
punar ca utthāya daitya-indraḥ tārakaḥ asura-nāyakaḥ .. ciccheda tvaritam cakram sva-śaktyā ati bala-anvitaḥ .. 2.4.8.50..
पुनस्तया महाशक्त्या जघानामरवल्लभम् ॥ अच्युतोऽपि महावीरा नन्दकेन जघान तम् ॥ ५१॥
पुनर् तया महा-शक्त्या जघान अमर-वल्लभम् ॥ अच्युतः अपि महा-वीराः नन्दकेन जघान तम् ॥ ५१॥
punar tayā mahā-śaktyā jaghāna amara-vallabham .. acyutaḥ api mahā-vīrāḥ nandakena jaghāna tam .. 51..
एवमन्योन्यमसुरो विष्णुश्च बलवानुभौ ॥ युयुधाते रणे भूरि तत्राक्षतबलौ मुने ॥ ५२ ॥
एवम् अन्योन्यम् असुरः विष्णुः च बलवान् उभौ ॥ युयुधाते रणे भूरि तत्र अक्षत-बलौ मुने ॥ ५२ ॥
evam anyonyam asuraḥ viṣṇuḥ ca balavān ubhau .. yuyudhāte raṇe bhūri tatra akṣata-balau mune .. 52 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे देव दैत्यसामान्ययुद्धवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे देव-दैत्यसामान्ययुद्धवर्णनम् नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe deva-daityasāmānyayuddhavarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In