| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
देवदेव गुह स्वामिञ्शांकरे पार्वतीसुत ॥ न शोभते रणो विष्णु तारकासुरयोर्वृथा ॥ १॥
देवदेव गुह स्वामिन् शांकरे पार्वतीसुत ॥ न शोभते रणः विष्णु तारक-असुरयोः वृथा ॥ १॥
devadeva guha svāmin śāṃkare pārvatīsuta .. na śobhate raṇaḥ viṣṇu tāraka-asurayoḥ vṛthā .. 1..
विष्णुना न हि वध्योऽसौ तारको बलवानति ॥ मया दत्तवरस्तस्मात्सत्यं सत्यं वदाम्यहम् ॥ २ ॥
विष्णुना न हि वध्यः असौ तारकः बलवान् अति ॥ मया दत्त-वरः तस्मात् सत्यम् सत्यम् वदामि अहम् ॥ २ ॥
viṣṇunā na hi vadhyaḥ asau tārakaḥ balavān ati .. mayā datta-varaḥ tasmāt satyam satyam vadāmi aham .. 2 ..
नान्यो हंतास्य पापस्य त्वां विना पार्वतीसुत ॥ तस्मात्त्वया हि कर्तव्यं वचनं मे महाप्रभो ॥ ३॥
न अन्यः हंता अस्य पापस्य त्वाम् विना पार्वती-सुत ॥ तस्मात् त्वया हि कर्तव्यम् वचनम् मे महा-प्रभो ॥ ३॥
na anyaḥ haṃtā asya pāpasya tvām vinā pārvatī-suta .. tasmāt tvayā hi kartavyam vacanam me mahā-prabho .. 3..
सन्नद्धो भव दैत्यस्य वधायाशु परंतप ॥ तद्वधार्थं समुत्पन्नः शंकरात्त्वं शिवासुत ॥ ४॥
सन्नद्धः भव दैत्यस्य वधाय आशु परंतप ॥ तद्-वध-अर्थम् समुत्पन्नः शंकरात् त्वम् शिवा-सुत ॥ ४॥
sannaddhaḥ bhava daityasya vadhāya āśu paraṃtapa .. tad-vadha-artham samutpannaḥ śaṃkarāt tvam śivā-suta .. 4..
रक्ष रक्ष महावीर त्रिदशान्व्यथितान्रणे ॥ न बालस्त्वं युवा नैव किं तु सर्वेश्वरः प्रभुः ॥ ५ ॥
रक्ष रक्ष महा-वीर त्रिदशान् व्यथितान् रणे ॥ न बालः त्वम् युवा ना एव किम् तु सर्व-ईश्वरः प्रभुः ॥ ५ ॥
rakṣa rakṣa mahā-vīra tridaśān vyathitān raṇe .. na bālaḥ tvam yuvā nā eva kim tu sarva-īśvaraḥ prabhuḥ .. 5 ..
शक्रं पश्य तथा विष्णुं व्याकुलं च सुरान् गणान्॥ एवं जहि महादैत्यं त्रैलोक्यं सुखिनं कुरु ॥ ६ ॥
शक्रम् पश्य तथा विष्णुम् व्याकुलम् च सुरान् गणान्॥ एवम् जहि महा-दैत्यम् त्रैलोक्यम् सुखिनम् कुरु ॥ ६ ॥
śakram paśya tathā viṣṇum vyākulam ca surān gaṇān.. evam jahi mahā-daityam trailokyam sukhinam kuru .. 6 ..
अनेन विजितश्चेन्द्रो लोकपालैः पुरा सह ॥ विष्णुश्चापि महावीरो तर्जितस्तपसो बलात्॥ ७॥
अनेन विजितः च इन्द्रः लोकपालैः पुरा सह ॥ विष्णुः च अपि महा-वीरो तर्जितः तपसः बलात्॥ ७॥
anena vijitaḥ ca indraḥ lokapālaiḥ purā saha .. viṣṇuḥ ca api mahā-vīro tarjitaḥ tapasaḥ balāt.. 7..
त्रैलोक्यं निर्जितं सर्वमसुरेण दुरात्मना॥ इदानीं तव सान्निध्यात्पुनर्युद्धं कृतं च तैः॥ ८॥
त्रैलोक्यम् निर्जितम् सर्वम् असुरेण दुरात्मना॥ इदानीम् तव सान्निध्यात् पुनर् युद्धम् कृतम् च तैः॥ ८॥
trailokyam nirjitam sarvam asureṇa durātmanā.. idānīm tava sānnidhyāt punar yuddham kṛtam ca taiḥ.. 8..
तस्मात्त्वया निहंतव्यस्तारकः पापपूरुषः ॥ अन्यवध्यो न चैवायं मद्वराच्छंकरात्मज॥ ९॥
तस्मात् त्वया निहंतव्यः तारकः पाप-पूरुषः ॥ अन्य-वध्यः न च एव अयम् मद्-वरात् शंकर-आत्मज॥ ९॥
tasmāt tvayā nihaṃtavyaḥ tārakaḥ pāpa-pūruṣaḥ .. anya-vadhyaḥ na ca eva ayam mad-varāt śaṃkara-ātmaja.. 9..
।।ब्रह्मोवाच।।
इति श्रुत्वा मम वचः कुमारः शंकरात्मजः ॥ विजहास प्रसन्नात्मा तथास्त्विति वचोऽब्रवीत् ॥ 2.4.9.१०॥
इति श्रुत्वा मम वचः कुमारः शंकर-आत्मजः ॥ विजहास प्रसन्न-आत्मा तथा अस्तु इति वचः अब्रवीत् ॥ २।४।९।१०॥
iti śrutvā mama vacaḥ kumāraḥ śaṃkara-ātmajaḥ .. vijahāsa prasanna-ātmā tathā astu iti vacaḥ abravīt .. 2.4.9.10..
विनिश्चित्यासुरवधं शांकरिस्स महा प्रभुः ॥ विमानादवतीर्याथ पदातिरभवत्तदा॥ ११॥
विनिश्चित्य असुर-वधम् शांकरिः स महा-प्रभुः ॥ विमानात् अवतीर्य अथ पदातिः अभवत् तदा॥ ११॥
viniścitya asura-vadham śāṃkariḥ sa mahā-prabhuḥ .. vimānāt avatīrya atha padātiḥ abhavat tadā.. 11..
पद्भ्यां तदासौ परिधावमानो रेजेऽतिवीरः शिवजः कुमारः॥ करे समादाय महाप्रभां तां शक्तिं महोल्कामिव दीप्तिदीप्ताम्॥ १२॥
पद्भ्याम् तदा असौ परिधावमानः रेजे अतिवीरः शिव-जः कुमारः॥ करे समादाय महा-प्रभाम् ताम् शक्तिम् महा-उल्काम् इव दीप्ति-दीप्ताम्॥ १२॥
padbhyām tadā asau paridhāvamānaḥ reje ativīraḥ śiva-jaḥ kumāraḥ.. kare samādāya mahā-prabhām tām śaktim mahā-ulkām iva dīpti-dīptām.. 12..
दृष्ट्वा तमायातमतिप्रचंडमव्याकुलं षण्मुखमप्रमेयम्॥ दैत्यो बभाषे सुरसत्तमान्स कुमार एष द्विषतां प्रहंता॥ १३॥
दृष्ट्वा तम् आयातम् अति प्रचंडम् अव्याकुलम् षण्मुखम् अप्रमेयम्॥ दैत्यः बभाषे सुर-सत्तमान् स कुमारः एष द्विषताम् प्रहंता॥ १३॥
dṛṣṭvā tam āyātam ati pracaṃḍam avyākulam ṣaṇmukham aprameyam.. daityaḥ babhāṣe sura-sattamān sa kumāraḥ eṣa dviṣatām prahaṃtā.. 13..
अनेन साकं ह्यहमेकवीरो योत्स्ये च सर्वानहमेव वीरान्॥ गणांश्च सर्वानपि घातयामि सलोकपालान्हरिनायकांश्च॥ १४॥
अनेन साकम् हि अहम् एक-वीरः योत्स्ये च सर्वान् अहम् एव वीरान्॥ गणान् च सर्वान् अपि घातयामि स लोकपालान् हरि-नायकान् च॥ १४॥
anena sākam hi aham eka-vīraḥ yotsye ca sarvān aham eva vīrān.. gaṇān ca sarvān api ghātayāmi sa lokapālān hari-nāyakān ca.. 14..
इत्येवमुक्त्वा स तदा महाबलः कुमारमुद्दिश्य ययौ च योद्धुम् ॥ जग्राह शक्तिं परमाद्भुतां च स तारको देववरान्बभाषे॥ १५ ॥
इति एवम् उक्त्वा स तदा महा-बलः कुमारम् उद्दिश्य ययौ च योद्धुम् ॥ जग्राह शक्तिम् परम-अद्भुताम् च स तारकः देव-वरान् बभाषे॥ १५ ॥
iti evam uktvā sa tadā mahā-balaḥ kumāram uddiśya yayau ca yoddhum .. jagrāha śaktim parama-adbhutām ca sa tārakaḥ deva-varān babhāṣe.. 15 ..
।। तारक उवाच ।।
कुमारो मेऽग्रतश्चाद्य भवद्भिश्च कथं कृतः ॥ यूयं गतत्रपा देवा विशेषाच्छक्रमेश्वरौ ॥ १६ ॥
कुमारः मे अग्रतस् च अद्य भवद्भिः च कथम् कृतः ॥ यूयम् गतत्रपाः देवाः विशेषात् शक्रम् ईश्वरौ ॥ १६ ॥
kumāraḥ me agratas ca adya bhavadbhiḥ ca katham kṛtaḥ .. yūyam gatatrapāḥ devāḥ viśeṣāt śakram īśvarau .. 16 ..
पुरैताभ्यां कृतं कर्म विरुद्धं वेदमार्गतः ॥ तच्छृणुध्वं मया प्रोक्तं वर्णयामि विशेषतः ॥ १७॥
पुरा एताभ्याम् कृतम् कर्म विरुद्धम् वेद-मार्गतः ॥ तत् शृणुध्वम् मया प्रोक्तम् वर्णयामि विशेषतः ॥ १७॥
purā etābhyām kṛtam karma viruddham veda-mārgataḥ .. tat śṛṇudhvam mayā proktam varṇayāmi viśeṣataḥ .. 17..
तत्र विष्णुश्छली दोषी ह्यविवेकी विशे षतः ॥ बलिर्येन पुरा बद्धश्छलमाश्रित्य पापतः ॥ १६॥
तत्र विष्णुः छली दोषी हि अविवेकी विशे ॥ बलिः येन पुरा बद्धः छलम् आश्रित्य पापतः ॥ १६॥
tatra viṣṇuḥ chalī doṣī hi avivekī viśe .. baliḥ yena purā baddhaḥ chalam āśritya pāpataḥ .. 16..
तेनैव यत्नतः पूर्वमसुरौ मधुकैटभौ ॥ शिरौहीनौ कृतौ धौर्त्याद्वेदमार्गो विवर्जितः ॥ १९॥
तेन एव यत्नतः पूर्वम् असुरौ मधु-कैटभौ ॥ शिरौहीनौ कृतौ धौर्त्यात् वेद-मार्गः विवर्जितः ॥ १९॥
tena eva yatnataḥ pūrvam asurau madhu-kaiṭabhau .. śirauhīnau kṛtau dhaurtyāt veda-mārgaḥ vivarjitaḥ .. 19..
मोहिनीरूपतोऽनेन पंक्तिभेदः कृतो हि वै ॥ देवासुरसुधापाने वेदमार्गो विगर्हितः ॥ 2.4.9.२० ॥
मोहिनी-रूपतः अनेन पंक्ति-भेदः कृतः हि वै ॥ देव-असुर-सुधा-पाने वेद-मार्गः विगर्हितः ॥ २।४।९।२० ॥
mohinī-rūpataḥ anena paṃkti-bhedaḥ kṛtaḥ hi vai .. deva-asura-sudhā-pāne veda-mārgaḥ vigarhitaḥ .. 2.4.9.20 ..
रामो भूत्वा हता नारी वाली विध्वंसितो हि सः ॥ पुनर्वैश्रवणो विप्रौ हतो नीतिर्हता श्रुतेः ॥ २१॥
रामः भूत्वा हता नारी वाली विध्वंसितः हि सः ॥ पुनर् वैश्रवणः विप्रौ हतः नीतिः हता श्रुतेः ॥ २१॥
rāmaḥ bhūtvā hatā nārī vālī vidhvaṃsitaḥ hi saḥ .. punar vaiśravaṇaḥ viprau hataḥ nītiḥ hatā śruteḥ .. 21..
पापं विना स्वकीया स्त्री त्यक्ता पापरतेन यत् ॥ तत्रापि श्रुतिमार्गश्च ध्वंसितस्स्वार्थहेतवे ॥ २२॥
पापम् विना स्वकीया स्त्री त्यक्ता पाप-रतेन यत् ॥ तत्र अपि श्रुति-मार्गः च ध्वंसितः स्व-अर्थ-हेतवे ॥ २२॥
pāpam vinā svakīyā strī tyaktā pāpa-ratena yat .. tatra api śruti-mārgaḥ ca dhvaṃsitaḥ sva-artha-hetave .. 22..
स्वजनन्याश्शिरश्छिन्नमवतारे रसाख्यके॥ गुरुपुत्रापमानश्च कृतोऽनेन दुरात्मना॥ २३॥
स्व-जनन्याः शिरः छिन्नम् अवतारे रसाख्यके॥ गुरु-पुत्र-अपमानः च कृतः अनेन दुरात्मना॥ २३॥
sva-jananyāḥ śiraḥ chinnam avatāre rasākhyake.. guru-putra-apamānaḥ ca kṛtaḥ anena durātmanā.. 23..
कृष्णो भूत्वान्यनार्यश्च दूषिताः कुलधर्मतः ॥ श्रुतिमार्गं परित्यज्य स्वविवाहाः कृतास्तथा ॥ २४॥
कृष्णः भूत्वा अन्य-नार्यः च दूषिताः कुल-धर्मतः ॥ श्रुति-मार्गम् परित्यज्य स्व-विवाहाः कृताः तथा ॥ २४॥
kṛṣṇaḥ bhūtvā anya-nāryaḥ ca dūṣitāḥ kula-dharmataḥ .. śruti-mārgam parityajya sva-vivāhāḥ kṛtāḥ tathā .. 24..
पुनश्च वेदमार्गो हि निंदितो नवमे भवे॥ स्थापितं नास्तिकमतं वेदमार्गविरोधकृत्॥ २५॥
पुनर् च वेद-मार्गः हि निंदितः नवमे भवे॥ स्थापितम् नास्तिक-मतम् वेद-मार्ग-विरोध-कृत्॥ २५॥
punar ca veda-mārgaḥ hi niṃditaḥ navame bhave.. sthāpitam nāstika-matam veda-mārga-virodha-kṛt.. 25..
एवं येन कृतं पापं वेदमार्गं विसृज्य वै ॥ स कथं विजयेद्युद्धे भवेद्धर्मवतांवरः ॥ २६॥
एवम् येन कृतम् पापम् वेद-मार्गम् विसृज्य वै ॥ स कथम् विजयेत् युद्धे भवेत् धर्मवताम् वरः ॥ २६॥
evam yena kṛtam pāpam veda-mārgam visṛjya vai .. sa katham vijayet yuddhe bhavet dharmavatām varaḥ .. 26..
भ्राता ज्येष्ठश्च यस्तस्य शक्रः पापी महान्मतः ॥ तेन पापान्यनेकानि कृतानि निजहेतुतः ॥ २७ ॥
भ्राता ज्येष्ठः च यः तस्य शक्रः पापी महान् मतः ॥ तेन पापानि अनेकानि कृतानि निज-हेतुतः ॥ २७ ॥
bhrātā jyeṣṭhaḥ ca yaḥ tasya śakraḥ pāpī mahān mataḥ .. tena pāpāni anekāni kṛtāni nija-hetutaḥ .. 27 ..
निकृत्तो हि दितेर्गर्भस्स्वार्थ हेतोर्विशेषतः ॥ धर्षिता गौतमस्त्री वै हतो वृत्रश्च विप्रजः ॥ २८ ॥
निकृत्तः हि दितेः गर्भः स्व-अर्थ हेतोः विशेषतः ॥ धर्षिता गौतम-स्त्री वै हतः वृत्रः च विप्र-जः ॥ २८ ॥
nikṛttaḥ hi diteḥ garbhaḥ sva-artha hetoḥ viśeṣataḥ .. dharṣitā gautama-strī vai hataḥ vṛtraḥ ca vipra-jaḥ .. 28 ..
विश्वरूपद्विजातेर्वै भागिनेयस्य यद्गुरोः ॥ निकृत्तानि च शीर्षाणि तदध्वाध्वंसितश्श्रुतेः ॥ २९ ॥
विश्वरूप-द्विजातेः वै भागिनेयस्य यत् गुरोः ॥ निकृत्तानि च शीर्षाणि तद्-अध्वा ध्वंसितः श्रुतेः ॥ २९ ॥
viśvarūpa-dvijāteḥ vai bhāgineyasya yat guroḥ .. nikṛttāni ca śīrṣāṇi tad-adhvā dhvaṃsitaḥ śruteḥ .. 29 ..
कृत्वा बहूनि पापानि हरिश्शक्रः पुनःपुनः ॥ तेजोभिर्विहतावेव नष्टवीर्यौ विशेषतः ॥ 2.4.9.३०॥
कृत्वा बहूनि पापानि हरिः शक्रः पुनर् पुनर् ॥ तेजोभिः विहतौ एव नष्ट-वीर्यौ विशेषतः ॥ २।४।९।३०॥
kṛtvā bahūni pāpāni hariḥ śakraḥ punar punar .. tejobhiḥ vihatau eva naṣṭa-vīryau viśeṣataḥ .. 2.4.9.30..
तयोर्बलेन नो यूयं संग्रामे जयमाप्स्यथ ॥ किमर्थं मूढतां प्राप्य प्राणांस्त्यक्तुमिहागताः ॥ ३१ ॥
तयोः बलेन नः यूयम् संग्रामे जयम् आप्स्यथ ॥ किमर्थम् मूढ-ताम् प्राप्य प्राणान् त्यक्तुम् इह आगताः ॥ ३१ ॥
tayoḥ balena naḥ yūyam saṃgrāme jayam āpsyatha .. kimartham mūḍha-tām prāpya prāṇān tyaktum iha āgatāḥ .. 31 ..
जानन्तौ धर्ममेतौ न स्वार्थलंपटमानसौ ॥ धर्मं विनाऽमराः कृत्यं निष्फलं सकलं भवेत् ॥ ३२॥
जानन्तौ धर्मम् एतौ न स्व-अर्थ-लंपट-मानसौ ॥ धर्मम् विना अमराः कृत्यम् निष्फलम् सकलम् भवेत् ॥ ३२॥
jānantau dharmam etau na sva-artha-laṃpaṭa-mānasau .. dharmam vinā amarāḥ kṛtyam niṣphalam sakalam bhavet .. 32..
महाधृष्टाविमौ मेद्य कृतवंतौ पुरश्शिशुम् ॥ अहं बालं वधिष्यामि तयोस्सोऽपि भविष्यति ॥ ३३ ॥
महा-धृष्टौ इमौ मेद्य कृतवंतौ पुरस् शिशुम् ॥ अहम् बालम् वधिष्यामि तयोः सः अपि भविष्यति ॥ ३३ ॥
mahā-dhṛṣṭau imau medya kṛtavaṃtau puras śiśum .. aham bālam vadhiṣyāmi tayoḥ saḥ api bhaviṣyati .. 33 ..
किं बाल इतो यायाद्दूरं प्राणपरीप्सया ॥ इत्युक्तोद्दिश्य च हरी वीरभद्रमुवाच सः ॥ ३४ ॥
किम् बालः इतस् यायात् दूरम् प्राण-परीप्सया ॥ इति उक्तः उद्दिश्य च हरी वीरभद्रम् उवाच सः ॥ ३४ ॥
kim bālaḥ itas yāyāt dūram prāṇa-parīpsayā .. iti uktaḥ uddiśya ca harī vīrabhadram uvāca saḥ .. 34 ..
पुरा हतास्त्वया विप्रा दक्षयज्ञे ह्यनेकशः ॥ तत्कर्मणः फलं चाद्य दर्शयिष्यामि तेऽनघ॥ ३९ ॥
पुरा हताः त्वया विप्राः दक्ष-यज्ञे हि अनेकशस् ॥ तद्-कर्मणः फलम् च अद्य दर्शयिष्यामि ते अनघ॥ ३९ ॥
purā hatāḥ tvayā viprāḥ dakṣa-yajñe hi anekaśas .. tad-karmaṇaḥ phalam ca adya darśayiṣyāmi te anagha.. 39 ..
ब्रह्मोवाच ।।
इत्येवमुक्त्वा तु विधूय पुण्यं निजं स तन्निंदनकर्मणा वै ॥ जग्राह शक्तिं परमाद्भुतां च स तारको युद्धवतां वरिष्ठः ॥ ३६ ॥
इति एवम् उक्त्वा तु विधूय पुण्यम् निजम् स तद्-निंदन-कर्मणा वै ॥ जग्राह शक्तिम् परम-अद्भुताम् च स तारकः युद्धवताम् वरिष्ठः ॥ ३६ ॥
iti evam uktvā tu vidhūya puṇyam nijam sa tad-niṃdana-karmaṇā vai .. jagrāha śaktim parama-adbhutām ca sa tārakaḥ yuddhavatām variṣṭhaḥ .. 36 ..
तं बालान्तिकमायातं तारकासुरमोजसा ॥ आजघान च वज्रेण शक्रो गुहपुरस्सरः ॥ ३७ ॥
तम् बाल-अन्तिकम् आयातम् तारक-असुरम् ओजसा ॥ आजघान च वज्रेण शक्रः गुह-पुरस्सरः ॥ ३७ ॥
tam bāla-antikam āyātam tāraka-asuram ojasā .. ājaghāna ca vajreṇa śakraḥ guha-purassaraḥ .. 37 ..
तेन वज्रप्रहारेण तारको जर्जरीकृतः॥ भूमौ पपात सहसा निंदाहतबलः क्षणम् ॥ ३८॥
तेन वज्र-प्रहारेण तारकः जर्जरीकृतः॥ भूमौ पपात सहसा निंदा-हत-बलः क्षणम् ॥ ३८॥
tena vajra-prahāreṇa tārakaḥ jarjarīkṛtaḥ.. bhūmau papāta sahasā niṃdā-hata-balaḥ kṣaṇam .. 38..
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्रुषा ॥ पुरंदरं गजस्थं हि पातयामास भूतले ॥ ३९॥
पतितः अपि समुत्थाय शक्त्या तम् प्राहरत् रुषा ॥ पुरंदरम् गज-स्थम् हि पातयामास भू-तले ॥ ३९॥
patitaḥ api samutthāya śaktyā tam prāharat ruṣā .. puraṃdaram gaja-stham hi pātayāmāsa bhū-tale .. 39..
हाहाकारो महानासीत्पतिते च पुरंदरे ॥ सेनायां निर्जराणां हि तद्दृष्ट्वा क्लेश आविशत्॥ 2.4.9.४०॥
हाहाकारः महान् आसीत् पतिते च पुरंदरे ॥ सेनायाम् निर्जराणाम् हि तत् दृष्ट्वा क्लेशः आविशत्॥ २।४।९।४०॥
hāhākāraḥ mahān āsīt patite ca puraṃdare .. senāyām nirjarāṇām hi tat dṛṣṭvā kleśaḥ āviśat.. 2.4.9.40..
तारकेणाऽपि तत्रैव यत्कृतं कर्म दुःखदम् ॥ स्वनाशकारणं धर्मविरुदं तन्निबोध मे ॥ ४१॥
तारकेण अपि तत्र एव यत् कृतम् कर्म दुःख-दम् ॥ स्व-नाश-कारणम् धर्म-विरुदम् तत् निबोध मे ॥ ४१॥
tārakeṇa api tatra eva yat kṛtam karma duḥkha-dam .. sva-nāśa-kāraṇam dharma-virudam tat nibodha me .. 41..
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य वै।पुनरुद्वज्रघातेन शक्रमाताडयद्भृशम्॥ ४२॥
पतितम् च पदा आक्रम्य हस्तात् वज्रम् प्रगृह्य वै।पुनर् उद्वज्र-घातेन शक्रम् आताडयत् भृशम्॥ ४२॥
patitam ca padā ākramya hastāt vajram pragṛhya vai.punar udvajra-ghātena śakram ātāḍayat bhṛśam.. 42..
एवं तिरस्कृतं दृष्ट्वा शक्रविष्णुप्रतापवान् ॥ चक्रमुद्यस्य भगवांस्तारकं स जघान ह॥ ४३॥
एवम् तिरस्कृतम् दृष्ट्वा शक्र-विष्णु-प्रतापवान् ॥ चक्रम् उद्यस्य भगवान् तारकम् स जघान ह॥ ४३॥
evam tiraskṛtam dṛṣṭvā śakra-viṣṇu-pratāpavān .. cakram udyasya bhagavān tārakam sa jaghāna ha.. 43..
चक्रप्रहाराभितो निपपात क्षितौ हि सः ॥ पुनरुत्थाय दैत्येन्द्रशक्त्या विष्णुं जघान तम्॥ ४४॥
चक्र-प्रहार-अभितस् निपपात क्षितौ हि सः ॥ पुनर् उत्थाय दैत्य-इन्द्र-शक्त्या विष्णुम् जघान तम्॥ ४४॥
cakra-prahāra-abhitas nipapāta kṣitau hi saḥ .. punar utthāya daitya-indra-śaktyā viṣṇum jaghāna tam.. 44..
तेन शक्तिप्रहारेण पतितो भुवि चाच्युतः॥ करो महानासीच्चुक्रुशुश्चाऽतिनिर्जराः॥ ४५॥
तेन शक्ति-प्रहारेण पतितः भुवि च अच्युतः॥ करः महान् आसीत् चुक्रुशुः च अति निर्जराः॥ ४५॥
tena śakti-prahāreṇa patitaḥ bhuvi ca acyutaḥ.. karaḥ mahān āsīt cukruśuḥ ca ati nirjarāḥ.. 45..
निमेषेण पुनर्विष्णुर्यावदुत्तिष्ठते स्वयम्॥ तावत्स वीरभद्रो हि तत्क्षणादागतोऽसुरम्॥ ४६॥
निमेषेण पुनर् विष्णुः यावत् उत्तिष्ठते स्वयम्॥ तावत् स वीरभद्रः हि तद्-क्षणात् आगतः असुरम्॥ ४६॥
nimeṣeṇa punar viṣṇuḥ yāvat uttiṣṭhate svayam.. tāvat sa vīrabhadraḥ hi tad-kṣaṇāt āgataḥ asuram.. 46..
त्रिशूलं च समुद्यम्य वीरभद्रः प्रतापवान् ॥ तारकं दितिजाधीशं जघान प्रसभं बली ॥ ४७ ॥
त्रिशूलम् च समुद्यम्य वीरभद्रः प्रतापवान् ॥ तारकम् दितिज-अधीशम् जघान प्रसभम् बली ॥ ४७ ॥
triśūlam ca samudyamya vīrabhadraḥ pratāpavān .. tārakam ditija-adhīśam jaghāna prasabham balī .. 47 ..
तत्त्रिशूलप्रहारेण स पपात क्षितौ तदा ॥ पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥ ४८॥
तद्-त्रिशूल-प्रहारेण स पपात क्षितौ तदा ॥ पतितः अपि महा-तेजाः तारकः पुनर् उत्थितः ॥ ४८॥
tad-triśūla-prahāreṇa sa papāta kṣitau tadā .. patitaḥ api mahā-tejāḥ tārakaḥ punar utthitaḥ .. 48..
कृत्वा क्रोधं महावीरस्सकलासुरनायकः ॥ जघान परया शक्त्या वीरभद्रं तदोरसि ॥ ४९॥
कृत्वा क्रोधम् महा-वीरः सकल-असुर-नायकः ॥ जघान परया शक्त्या वीरभद्रम् तदा उरसि ॥ ४९॥
kṛtvā krodham mahā-vīraḥ sakala-asura-nāyakaḥ .. jaghāna parayā śaktyā vīrabhadram tadā urasi .. 49..
वीरभद्रोऽपि पतितो भूतले मूर्छितः क्षणम् ॥ तच्छक्त्या परया क्रोधान्निहतो वक्षसि धुवम् ॥ 2.4.9.५० ॥
वीरभद्रः अपि पतितः भू-तले मूर्छितः क्षणम् ॥ तद्-शक्त्या परया क्रोधात् निहतः वक्षसि धुवम् ॥ २।४।९।५० ॥
vīrabhadraḥ api patitaḥ bhū-tale mūrchitaḥ kṣaṇam .. tad-śaktyā parayā krodhāt nihataḥ vakṣasi dhuvam .. 2.4.9.50 ..
सगणश्चैव देवास्ते गंधर्वोरगराक्षसाः ॥ हाहाकारेण महता चुक्रुशुश्च मुहुर्मुहुः ॥ ५१॥
स गणः च एव देवाः ते गंधर्व-उरग-राक्षसाः ॥ हाहाकारेण महता चुक्रुशुः च मुहुर् मुहुर् ॥ ५१॥
sa gaṇaḥ ca eva devāḥ te gaṃdharva-uraga-rākṣasāḥ .. hāhākāreṇa mahatā cukruśuḥ ca muhur muhur .. 51..
निमेषमात्रात्सहसा महौजास्स वीरभद्रो द्विषतां निहंता॥ त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया विरेजे ॥ ५२॥
निमेष-मात्रात् सहसा महा-ओजाः स वीरभद्रः द्विषताम् निहंता॥ त्रिशूलम् उद्यम्य तडित्-प्रकाशम् जाज्वल्यमानम् प्रभया विरेजे ॥ ५२॥
nimeṣa-mātrāt sahasā mahā-ojāḥ sa vīrabhadraḥ dviṣatām nihaṃtā.. triśūlam udyamya taḍit-prakāśam jājvalyamānam prabhayā vireje .. 52..
स्वरोचिषा भासितदिग्वितानं सूर्येन्दुबिम्बाग्निसमानमंडलम् ॥ महाप्रभं वीरभयावहं परं कालाख्यमत्यंतकरं महोज्ज्वलम् ॥ ५३॥
स्व-रोचिषा भासित-दिश्-वितानम् सूर्य-इन्दु-बिम्ब-अग्नि-समान-मंडलम् ॥ महा-प्रभम् वीर-भय-आवहम् परम् काल-आख्यम् अत्यन्त-करम् महा-उज्ज्वलम् ॥ ५३॥
sva-rociṣā bhāsita-diś-vitānam sūrya-indu-bimba-agni-samāna-maṃḍalam .. mahā-prabham vīra-bhaya-āvaham param kāla-ākhyam atyanta-karam mahā-ujjvalam .. 53..
यावत्त्रिशूलेन तदा हंतुकामो महाबलः ॥ वीरभद्रोऽसुरं यावत्कुमारेण निवारितः ॥ ५४ ॥
यावत् त्रिशूलेन तदा हंतु-कामः महा-बलः ॥ वीरभद्रः असुरम् यावत् कुमारेण निवारितः ॥ ५४ ॥
yāvat triśūlena tadā haṃtu-kāmaḥ mahā-balaḥ .. vīrabhadraḥ asuram yāvat kumāreṇa nivāritaḥ .. 54 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे तारकवाक्यशक्रविष्णुवी रभद्रयुद्धवर्णनं नाम नवमोऽध्यायः ॥ ९॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् चतुर्थे कुमारखण्डे तारकवाक्यशक्रविष्णुवीरभद्रयुद्धवर्णनम् नाम नवमः अध्यायः ॥ ९॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām caturthe kumārakhaṇḍe tārakavākyaśakraviṣṇuvīrabhadrayuddhavarṇanam nāma navamaḥ adhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In