| |
|

This overlay will guide you through the buttons:

॥ श्रीसांबसदाशिवार्पणमस्तु॥
॥ श्री-सांब-सदाशिव-अर्पणम् अस्तु॥
.. śrī-sāṃba-sadāśiva-arpaṇam astu..
॥ श्रीगणेशाय नमः ॥
॥ श्री-गणेशाय नमः ॥
.. śrī-gaṇeśāya namaḥ ..
॥ अथ तृतीयः पार्वतीखण्डः प्रारभ्यते ॥
॥ अथ तृतीयः पार्वतीखण्डः प्रारभ्यते ॥
.. atha tṛtīyaḥ pārvatīkhaṇḍaḥ prārabhyate ..
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे ॥ कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ॥ १ ॥
दाक्षायणी सती देवी त्यक्त-देहा पितुः मखे ॥ कथम् गिरिसुता ब्रह्मन् बभूव जगत्-अम्बिका ॥ १ ॥
dākṣāyaṇī satī devī tyakta-dehā pituḥ makhe .. katham girisutā brahman babhūva jagat-ambikā .. 1 ..
कथं कृत्वा तपोऽत्युग्रम्पतिमाप शिवं च सा ॥ एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ॥ २ ॥
कथम् कृत्वा तपः अति उग्रम् पतिम् आप शिवम् च सा ॥ एतत् मे पृच्छते सम्यक् कथय त्वम् विशेषतः ॥ २ ॥
katham kṛtvā tapaḥ ati ugram patim āpa śivam ca sā .. etat me pṛcchate samyak kathaya tvam viśeṣataḥ .. 2 ..
ब्रह्मोवाच ॥ शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ॥
ब्रह्मा उवाच ॥ शृणु त्वम् मुनि-शार्दूल शिव-आचरितम् उत्तमम् ॥
brahmā uvāca .. śṛṇu tvam muni-śārdūla śiva-ācaritam uttamam ..
शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् ॥ पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३ ॥
शृणु त्वम् मुनि-शार्दूल शिव-आचरितम् उत्तमम् ॥ पावनम् परमम् दिव्यम् सर्व-पाप-हरम् शुभम् ॥ ३ ॥
śṛṇu tvam muni-śārdūla śiva-ācaritam uttamam .. pāvanam paramam divyam sarva-pāpa-haram śubham .. 3 ..
यदा दाक्षायणी देवी हरेण सहिता मुदा ॥ हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥
यदा दाक्षायणी देवी हरेण सहिता मुदा ॥ हिमाचले सुचिक्रीडे लीलया परमेश्वरी ॥ ४॥
yadā dākṣāyaṇī devī hareṇa sahitā mudā .. himācale sucikrīḍe līlayā parameśvarī .. 4..
मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा ॥ हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५॥
मद्-सुता इयम् इति ज्ञात्वा सिषेवे मातृ-वर्चसा ॥ हिमाचल-प्रिया मेना सर्व-ऋद्धिभिः अनिर्भरा ॥ ५॥
mad-sutā iyam iti jñātvā siṣeve mātṛ-varcasā .. himācala-priyā menā sarva-ṛddhibhiḥ anirbharā .. 5..
यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ ॥ पित्रा दक्षेण तद्यज्ञे संगता परमेश्वरी ॥ ६ ॥
यदा दाक्षायणी रुष्टा न आदृता स्व-तनुम् जहौ ॥ पित्रा दक्षेण तद्-यज्ञे संगता परमेश्वरी ॥ ६ ॥
yadā dākṣāyaṇī ruṣṭā na ādṛtā sva-tanum jahau .. pitrā dakṣeṇa tad-yajñe saṃgatā parameśvarī .. 6 ..
तदैव मेनका तां सा हिमाचलप्रिया मुने ॥ शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७॥
तदा एव मेनका ताम् सा हिमाचल-प्रिया मुने ॥ शिव-लोक-स्थिताम् देवीम् आरिराधयिषुः तदा ॥ ७॥
tadā eva menakā tām sā himācala-priyā mune .. śiva-loka-sthitām devīm ārirādhayiṣuḥ tadā .. 7..
तस्यामहं सुता स्यामित्यवधार्य सती हृदा ॥ त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८ ॥
तस्याम् अहम् सुता स्याम् इति अवधार्य सती हृदा ॥ त्यक्त-देहा मनः दध्रे भवितुम् हिमवत्-सुता ॥ ८ ॥
tasyām aham sutā syām iti avadhārya satī hṛdā .. tyakta-dehā manaḥ dadhre bhavitum himavat-sutā .. 8 ..
समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः ॥ सती त्यक्ततनुः प्रीत्या मेनकातनयाभवत् ॥ ९॥
समयम् प्राप्य सा देवी सर्व-देव-स्तुता पुनर् ॥ सती त्यक्त-तनुः प्रीत्या मेनका-तनया भवत् ॥ ९॥
samayam prāpya sā devī sarva-deva-stutā punar .. satī tyakta-tanuḥ prītyā menakā-tanayā bhavat .. 9..
नाम्ना सा पार्वती देवी तपः कृत्वा सुदुस्सहम्॥ नारदस्योपदेशाद्वै पतिम्प्राप शिवं पुनः ॥ 2.3.1.१०॥
नाम्ना सा पार्वती देवी तपः कृत्वा सु दुस्सहम्॥ नारदस्य उपदेशात् वै पतिम् प्राप शिवम् पुनर् ॥ २।३।१।१०॥
nāmnā sā pārvatī devī tapaḥ kṛtvā su dussaham.. nāradasya upadeśāt vai patim prāpa śivam punar .. 2.3.1.10..
नारद उवाच।।
ब्रह्मन्विधे महाप्राज्ञ वद मे वदतां वर ॥ मेनकायास्समुत्पतिं विवाहं चरितं तथा॥ ११॥
ब्रह्मन्विधे महा-प्राज्ञ वद मे वदताम् वर ॥ मेनकायाः समुत्पतिम् विवाहम् चरितम् तथा॥ ११॥
brahmanvidhe mahā-prājña vada me vadatām vara .. menakāyāḥ samutpatim vivāham caritam tathā.. 11..
धन्या हि मेनका देवी यस्यां जाता सुता सती ॥ अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२॥
धन्या हि मेनका देवी यस्याम् जाता सुता सती ॥ अतस् मान्या च धन्या च सर्वेषाम् सा पतिव्रता ॥ १२॥
dhanyā hi menakā devī yasyām jātā sutā satī .. atas mānyā ca dhanyā ca sarveṣām sā pativratā .. 12..
ब्रह्मोवाच।।
शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम्॥ विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ॥ १३
शृणु त्वम् नारद मुने पार्वती-मातुः उद्भवम्॥ विवाहम् चरितम् च एव पावनम् भक्ति-वर्द्धनम् ॥ १३
śṛṇu tvam nārada mune pārvatī-mātuḥ udbhavam.. vivāham caritam ca eva pāvanam bhakti-varddhanam .. 13
अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् ॥ पर्वतो हि मुनिश्रेष्ठ महातेजास्समृद्धिभाक् ॥ १४ ॥
अस्ति उत्तरस्याम् दिशि वै गिरीशः हिमवान् महान् ॥ पर्वतः हि मुनि-श्रेष्ठ महा-तेजाः समृद्धि-भाज् ॥ १४ ॥
asti uttarasyām diśi vai girīśaḥ himavān mahān .. parvataḥ hi muni-śreṣṭha mahā-tejāḥ samṛddhi-bhāj .. 14 ..
द्वैरूप्यं तस्य विख्यातं जंगमस्थिरभेदतः ॥ वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५ ॥
द्वैरूप्यम् तस्य विख्यातम् जंगम-स्थिर-भेदतः ॥ वर्णयामि समासेन तस्य सूक्ष्म-स्वरूपकम् ॥ १५ ॥
dvairūpyam tasya vikhyātam jaṃgama-sthira-bhedataḥ .. varṇayāmi samāsena tasya sūkṣma-svarūpakam .. 15 ..
पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः ॥ नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६॥
पूर्व-अपरौ तोयनिधी सु विगाह्य स्थितः हि यः ॥ नाना रत्न-आकरः रम्यः मान-दण्डः इव क्षितेः ॥ १६॥
pūrva-aparau toyanidhī su vigāhya sthitaḥ hi yaḥ .. nānā ratna-ākaraḥ ramyaḥ māna-daṇḍaḥ iva kṣiteḥ .. 16..
नानावृक्षसमाकीर्णो नानाशृंगसुचित्रितः॥ सिंहव्याघ्रादिपशुभिस्सेवितस्सुखिभिस्सदा ॥ १७ ॥
नाना वृक्ष-समाकीर्णः नाना शृंग-सु चित्रितः॥ सिंह-व्याघ्र-आदि-पशुभिः सेवितः सुखिभिः सदा ॥ १७ ॥
nānā vṛkṣa-samākīrṇaḥ nānā śṛṃga-su citritaḥ.. siṃha-vyāghra-ādi-paśubhiḥ sevitaḥ sukhibhiḥ sadā .. 17 ..
तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः ॥ देवर्षिसिद्धमुनिभिस्संश्रितः शिवसंप्रियः ॥ १८ ॥
तुषारनिधिः अति उग्रः नाना आश्चर्य-विचित्रितः ॥ देव-ऋषि-सिद्ध-मुनिभिः संश्रितः शिव-संप्रियः ॥ १८ ॥
tuṣāranidhiḥ ati ugraḥ nānā āścarya-vicitritaḥ .. deva-ṛṣi-siddha-munibhiḥ saṃśritaḥ śiva-saṃpriyaḥ .. 18 ..
तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् ॥ तपस्सिद्धिप्रदोत्यंतं नानाधात्वाकरः शुभः ॥ १९ ॥
तप-स्थानः अति पूत-आत्मा पावनः च महात्मनाम् ॥ नाना धातु-आकरः शुभः ॥ १९ ॥
tapa-sthānaḥ ati pūta-ātmā pāvanaḥ ca mahātmanām .. nānā dhātu-ākaraḥ śubhaḥ .. 19 ..
स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः ॥ विष्ण्वंशोऽविकृतः शैलराजराजस्सताम्प्रियः॥ 2.3.1.२०॥
सः एव दिव्य-रूपः हि रम्यः सर्व-अङ्ग-सुन्दरः ॥ ॥ २।३।१।२०॥
saḥ eva divya-rūpaḥ hi ramyaḥ sarva-aṅga-sundaraḥ .. .. 2.3.1.20..
कुलस्थित्यै च स गिरिर्धर्म्मवर्द्धनहेतवे ॥ स्वविवाहं कर्त्तुमैच्छत्पितृदेवहितेच्छया ॥ २१ ॥
कुल-स्थित्यै च स गिरिः धर्म्म-वर्द्धन-हेतवे ॥ स्व-विवाहम् कर्त्तुम् ऐच्छत् पितृ-देव-हित-इच्छया ॥ २१ ॥
kula-sthityai ca sa giriḥ dharmma-varddhana-hetave .. sva-vivāham karttum aicchat pitṛ-deva-hita-icchayā .. 21 ..
तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः ॥ ऊचुः पितॄन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२॥
तस्मिन् अवसरे देवाः स्व-अर्थम् आचिन्त्य कृत्स्नशस् ॥ ऊचुः पितॄन् समागत्य दिव्यान् प्रीत्या मुनि-ईश्वर ॥ २२॥
tasmin avasare devāḥ sva-artham ācintya kṛtsnaśas .. ūcuḥ pitṝn samāgatya divyān prītyā muni-īśvara .. 22..
देवा ऊचुः।।
सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः ॥ कर्त्तव्यं तत्तथैवाशु देवकार्य्येप्सवो यदि ॥ २३॥
सर्वे शृणुत नः वाक्यम् पितरः प्रीत-मानसाः ॥ कर्त्तव्यम् तत् तथा एवा आशु देव-कार्य्य-ईप्सवः यदि ॥ २३॥
sarve śṛṇuta naḥ vākyam pitaraḥ prīta-mānasāḥ .. karttavyam tat tathā evā āśu deva-kāryya-īpsavaḥ yadi .. 23..
मेना नाम सुता या वो ज्येष्ठा मङ्गलरूपिणी ॥ ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४ ॥
मेना नाम सुता या वः ज्येष्ठा मङ्गल-रूपिणी ॥ ताम् विवाह्य च सु प्रीत्या हिम-आख्येन महीभृता ॥ २४ ॥
menā nāma sutā yā vaḥ jyeṣṭhā maṅgala-rūpiṇī .. tām vivāhya ca su prītyā hima-ākhyena mahībhṛtā .. 24 ..
एवं सर्वमहालाभः सर्वेषां च भविष्यति ॥ युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५ ॥
एवम् सर्व-महा-लाभः सर्वेषाम् च भविष्यति ॥ युष्माकम् अमराणाम् च दुःख-हानिः पदे पदे ॥ २५ ॥
evam sarva-mahā-lābhaḥ sarveṣām ca bhaviṣyati .. yuṣmākam amarāṇām ca duḥkha-hāniḥ pade pade .. 25 ..
ब्रह्मोवाच ।।
इत्याकर्ण्यापरवचः पितरस्ते विमृश्य च ॥ स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६ ॥
इति आकर्ण्य अपर-वचः पितरः ते विमृश्य च ॥ स्मृत्वा शापम् सुतानाम् च प्रोचुः ओम् इति तद्-वचः ॥ २६ ॥
iti ākarṇya apara-vacaḥ pitaraḥ te vimṛśya ca .. smṛtvā śāpam sutānām ca procuḥ om iti tad-vacaḥ .. 26 ..
ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् ॥ समुत्सवो महानासीत्तद्विवाहे सुमङ्गले ॥ २७ ॥
ददुः मेनाम् सु विधिना हिम-आगाय निज-आत्मजाम् ॥ समुत्सवः महान् आसीत् तद्-विवाहे सुमङ्गले ॥ २७ ॥
daduḥ menām su vidhinā hima-āgāya nija-ātmajām .. samutsavaḥ mahān āsīt tad-vivāhe sumaṅgale .. 27 ..
हर्य्यादयाऽपि ते देवा मुनयश्चापरोखिलाः ॥ आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८ ॥
हर्य्यादया अपि ते देवाः मुनयः च अपर-उखिलाः ॥ आजग्मुः तत्र संस्मृत्य वामदेवम् भवम् धिया ॥ २८ ॥
haryyādayā api te devāḥ munayaḥ ca apara-ukhilāḥ .. ājagmuḥ tatra saṃsmṛtya vāmadevam bhavam dhiyā .. 28 ..
उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः ॥ सुप्रशस्य पितॄन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९॥
उत्सवम् कारयामासुः दत्त्वा दानानि अनेकशस् ॥ सु प्रशस्य पितॄन् दिव्यान् प्रशशंसुः हिमाचलम् ॥ २९॥
utsavam kārayāmāsuḥ dattvā dānāni anekaśas .. su praśasya pitṝn divyān praśaśaṃsuḥ himācalam .. 29..
महामोदान्विता देवास्ते सर्वे समुनीश्वराः॥ संजग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ 2.3.1.३०॥
महा-मोद-अन्विताः देवाः ते सर्वे स मुनि-ईश्वराः॥ संजग्मुः स्व-स्व-धामानि संस्मरन्तः शिव-अशिवौ ॥ २।३।१।३०॥
mahā-moda-anvitāḥ devāḥ te sarve sa muni-īśvarāḥ.. saṃjagmuḥ sva-sva-dhāmāni saṃsmarantaḥ śiva-aśivau .. 2.3.1.30..
कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् ॥ आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१॥
कौतुकम् बहु सम्प्राप्य सु विवाह्य प्रियाम् च ताम् ॥ आजगाम स्व-भवनम् मुदम् आप गिरि-ईश्वरः ॥ ३१॥
kautukam bahu samprāpya su vivāhya priyām ca tām .. ājagāma sva-bhavanam mudam āpa giri-īśvaraḥ .. 31..
ब्रह्मोवाच ।।
मेनया हि हिमागस्य सुविवाहो मुनीश्वर॥ प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ॥ ३२॥
मेनया हि हिमागस्य सु विवाहः मुनि-ईश्वर॥ प्रोक्तः मे सुख-दः प्रीत्या किम् भूयस् श्रोतुम् इच्छसि ॥ ३२॥
menayā hi himāgasya su vivāhaḥ muni-īśvara.. proktaḥ me sukha-daḥ prītyā kim bhūyas śrotum icchasi .. 32..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः॥ १॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनम् नाम प्रथम-उध्यायः॥ १॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe himācalavivāhavarṇanam nāma prathama-udhyāyaḥ.. 1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In