| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ॥ आविर्बभूव देवानां पुरतो जगदंबिका ॥ १ ॥
इत्थम् देवैः स्तुता देवी दुर्गा दुर्ग-आर्ति-नाशिनी ॥ आविर्बभूव देवानाम् पुरतस् जगत्-अंबिका ॥ १ ॥
ittham devaiḥ stutā devī durgā durga-ārti-nāśinī .. āvirbabhūva devānām puratas jagat-aṃbikā .. 1 ..
रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ॥ किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥ २॥
रथे रत्न-मये दिव्ये संस्थिता परम-अद्भुते ॥ किंकिणी-जाल-संयुक्ते मृदु-संस्तरणे वरे ॥ २॥
rathe ratna-maye divye saṃsthitā parama-adbhute .. kiṃkiṇī-jāla-saṃyukte mṛdu-saṃstaraṇe vare .. 2..
कोटिसूर्याधिकाभास रम्यावयवभासिनी॥ स्वतेजोराशिमध्यस्था वररूपा समच्छवि ॥ ३॥
रम्य-अवयव-भासिनी॥ स्व-तेजः-राशि-मध्य-स्था वर-रूपा सम-छवि ॥ ३॥
ramya-avayava-bhāsinī.. sva-tejaḥ-rāśi-madhya-sthā vara-rūpā sama-chavi .. 3..
अनूपमा महामाया सदाशिवविलासिनी ॥ त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥ ४ ॥
॥ त्रिगुणा निर्गुणा नित्या शिव-लोक-निवासिनी ॥ ४ ॥
.. triguṇā nirguṇā nityā śiva-loka-nivāsinī .. 4 ..
त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी॥ सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥ ५॥
सर्व॥ सर्व ॥ ५॥
sarva.. sarva .. 5..
तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा ॥ तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः ॥ ६॥
तेजोराशेः प्रभावात् तु सा तु दृष्ट्वा सुरैः शिवा ॥ तुष्टुवुः ताम् पुनर् ते वै सुराः दर्शन-कांक्षिणः ॥ ६॥
tejorāśeḥ prabhāvāt tu sā tu dṛṣṭvā suraiḥ śivā .. tuṣṭuvuḥ tām punar te vai surāḥ darśana-kāṃkṣiṇaḥ .. 6..
अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः ॥ ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥ ७ ॥
अथ देव-गणाः सर्वे विष्णु-आद्याः दर्शन-ईप्सवः ॥ ददृशुः जगदम्बाम् ताम् तद्-कृपाम् प्राप्य तत्र हि ॥ ७ ॥
atha deva-gaṇāḥ sarve viṣṇu-ādyāḥ darśana-īpsavaḥ .. dadṛśuḥ jagadambām tām tad-kṛpām prāpya tatra hi .. 7 ..
बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम्॥ पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥ ८ ॥
बभूव आनन्द-सन्दोहः सर्वेषाम् त्रिदिवौकसाम्॥ पुनर् पुनर् प्रणेमुः ताम् तुष्टुवुः च विशेषतः ॥ ८ ॥
babhūva ānanda-sandohaḥ sarveṣām tridivaukasām.. punar punar praṇemuḥ tām tuṣṭuvuḥ ca viśeṣataḥ .. 8 ..
देवा ऊचुः ।।
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ॥ त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥ ९॥ ।
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ॥ त्वाम् नताः सर्वथा देवाः वयम् सर्व-आर्ति-नाशिनीम् ॥ ९॥ ।
śive śarvāṇi kalyāṇi jagadamba maheśvari .. tvām natāḥ sarvathā devāḥ vayam sarva-ārti-nāśinīm .. 9.. .
न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः ॥ अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे ॥ 2.3.4.१०॥
न हि जानन्ति देवेशि वेदः शास्त्राणि कृत्स्नशस् ॥ अतीतः महिमा ध्यानम् तव वाच्-मनसोः शिवे ॥ २।३।४।१०॥
na hi jānanti deveśi vedaḥ śāstrāṇi kṛtsnaśas .. atītaḥ mahimā dhyānam tava vāc-manasoḥ śive .. 2.3.4.10..
अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा ॥ अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥ ११ ॥
अ तद्-व्यावृत्तितः ताम् वै चकितम् चकितम् सदा ॥ अभिधत्ते श्रुतिः अपि परेषाम् का कथा मता ॥ ११ ॥
a tad-vyāvṛttitaḥ tām vai cakitam cakitam sadā .. abhidhatte śrutiḥ api pareṣām kā kathā matā .. 11 ..
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥ शरणागतभक्तानां न कुत्रापि भयादिकम् ॥ १२ ॥
जानन्ति बहवः भक्ताः त्वद्-कृपाम् प्राप्य भक्तितः ॥ शरण-आगत-भक्तानाम् न कुत्र अपि भय-आदिकम् ॥ १२ ॥
jānanti bahavaḥ bhaktāḥ tvad-kṛpām prāpya bhaktitaḥ .. śaraṇa-āgata-bhaktānām na kutra api bhaya-ādikam .. 12 ..
विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके ॥ तव देवि महादेवि हीनतो वर्णयामहे ॥ १३ ॥
विज्ञप्तिम् शृणु सु प्रीता यस्याः दासाः सदा अम्बिके ॥ तव देवि महादेवि हीनतः वर्णयामहे ॥ १३ ॥
vijñaptim śṛṇu su prītā yasyāḥ dāsāḥ sadā ambike .. tava devi mahādevi hīnataḥ varṇayāmahe .. 13 ..
पुरा दक्षसुता भूत्वा संजाता हरवल्लभा ॥ ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत् ॥ १४ ॥
पुरा दक्ष-सुता भूत्वा संजाता हर-वल्लभा ॥ ब्रह्मणः च परेषाम् वा ॥ १४ ॥
purā dakṣa-sutā bhūtvā saṃjātā hara-vallabhā .. brahmaṇaḥ ca pareṣām vā .. 14 ..
पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ॥ स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि ॥ १५ ॥
पितृतः अनादरम् प्राप्य अत्यजः पण-वशात् तनुम् ॥ स्व-लोकम् अगमः त्वम् हरः अपि हि ॥ १५ ॥
pitṛtaḥ anādaram prāpya atyajaḥ paṇa-vaśāt tanum .. sva-lokam agamaḥ tvam haraḥ api hi .. 15 ..
न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि॥ व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम् ॥ १६॥
न हि तत् देव-कार्यम् महेश्वरि॥ व्याकुलाः मुनयः देवाः शरणम् त्वाम् गताः वयम् ॥ १६॥
na hi tat deva-kāryam maheśvari.. vyākulāḥ munayaḥ devāḥ śaraṇam tvām gatāḥ vayam .. 16..
पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ॥ सनत्कुमारवचनं सफलं स्याद्यथा शिवे॥ १७ ॥
पूर्णम् कुरु महेशानि निर्जराणाम् मनोरथम् ॥ सनत्कुमार-वचनम् सफलम् स्यात् यथा शिवे॥ १७ ॥
pūrṇam kuru maheśāni nirjarāṇām manoratham .. sanatkumāra-vacanam saphalam syāt yathā śive.. 17 ..
अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव॥ लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम् ॥ १८॥
अवतीर्य क्षितौ देवि रुद्र-पत्नी पुनर् भव॥ लीलाम् कुरु यथायोग्यम् प्राप्नुयुः निर्जराः सुखम् ॥ १८॥
avatīrya kṣitau devi rudra-patnī punar bhava.. līlām kuru yathāyogyam prāpnuyuḥ nirjarāḥ sukham .. 18..
सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ॥ सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥ १९ ॥
सुखी स्यात् देवि रुद्रः अपि कैलास-अचल-संस्थितः ॥ सर्वे भवन्तु सुखिनः दुःखम् नश्यतु कृत्स्नशस् ॥ १९ ॥
sukhī syāt devi rudraḥ api kailāsa-acala-saṃsthitaḥ .. sarve bhavantu sukhinaḥ duḥkham naśyatu kṛtsnaśas .. 19 ..
ब्रह्मोवाच ।।
इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः ॥ मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः ॥ 2.3.4.२० ॥
इति प्रोच्य अमराः सर्वे विष्णु-आद्याः प्रेम-संकुलाः ॥ मौनम् आस्थाय संतस्थुः भक्ति-नम्राः त्म-मूर्तयः ॥ २।३।४।२० ॥
iti procya amarāḥ sarve viṣṇu-ādyāḥ prema-saṃkulāḥ .. maunam āsthāya saṃtasthuḥ bhakti-namrāḥ tma-mūrtayaḥ .. 2.3.4.20 ..
शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ॥ आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥ २१ ॥
शिवा अपि सु प्रसन्ना अभूत् आकर्ण्य अमर-संस्तुतिम् ॥ आकलय्य अथ तद्-हेतुम् संस्मृत्य स्व-प्रभुम् शिवम् ॥ २१ ॥
śivā api su prasannā abhūt ākarṇya amara-saṃstutim .. ākalayya atha tad-hetum saṃsmṛtya sva-prabhum śivam .. 21 ..
उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ॥ विहस्य मापतिमुखान्सदया भक्तवत्सला ॥ २२॥
उवाच उमा तदा देवी सम्बोध्य विबुधान् च तान् ॥ विहस्य मापति-मुखान् स दया भक्त-वत्सला ॥ २२॥
uvāca umā tadā devī sambodhya vibudhān ca tān .. vihasya māpati-mukhān sa dayā bhakta-vatsalā .. 22..
उमोवाच ।।
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ॥ सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः ॥ २३ ॥
हे हरे हे विधे देवाः मुनयः च गत-व्यथाः ॥ सर्वे शृणुत मद्-वाक्यम् प्रसन्ना अहम् न संशयः ॥ २३ ॥
he hare he vidhe devāḥ munayaḥ ca gata-vyathāḥ .. sarve śṛṇuta mad-vākyam prasannā aham na saṃśayaḥ .. 23 ..
चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ॥ कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥ २४ ॥
चरितम् मम सर्वत्र त्रैलोक्यस्य सुख-आवहम् ॥ कृतम् मया एवम् सकलम् दक्ष-मोह-आदिकम् च तत् ॥ २४ ॥
caritam mama sarvatra trailokyasya sukha-āvaham .. kṛtam mayā evam sakalam dakṣa-moha-ādikam ca tat .. 24 ..
अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ॥ बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥ २५ ॥
अवतारम् करिष्यामि क्षितौ पूर्णम् न संशयः ॥ बहवः हेतवः अपि अत्र तत् वदामि महा-आदरात् ॥ २५ ॥
avatāram kariṣyāmi kṣitau pūrṇam na saṃśayaḥ .. bahavaḥ hetavaḥ api atra tat vadāmi mahā-ādarāt .. 25 ..
पुरा हिमाचलो देवा मेना चातिसुभक्तितः ॥ सेवां मे चक्रतुस्तात जननीवत्सतीतनोः ॥ २६ ॥
पुरा हिमाचलः देवाः मेना च अति सु भक्तितः ॥ सेवाम् मे चक्रतुः तात जननी-वत् सती-तनोः ॥ २६ ॥
purā himācalaḥ devāḥ menā ca ati su bhaktitaḥ .. sevām me cakratuḥ tāta jananī-vat satī-tanoḥ .. 26 ..
इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः ॥ मेना विशेषतस्तत्र सुतात्वेनात्र संशयः ॥ २७ ॥
इदानीम् कुरुतः सेवाम् सु भक्त्या मम नित्यशस् ॥ मेना विशेषतः तत्र सुता-त्वेन अत्र संशयः ॥ २७ ॥
idānīm kurutaḥ sevām su bhaktyā mama nityaśas .. menā viśeṣataḥ tatra sutā-tvena atra saṃśayaḥ .. 27 ..
रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ॥ अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥ २८॥
रुद्रः गच्छतु यूयम् च अवतारम् हिमवत्-गृहे ॥ अतस् च अवतरिष्यामि दुःख-नाशः भविष्यति ॥ २८॥
rudraḥ gacchatu yūyam ca avatāram himavat-gṛhe .. atas ca avatariṣyāmi duḥkha-nāśaḥ bhaviṣyati .. 28..
सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ॥ अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम्॥ ॥ २९ ॥
सर्वे गच्छत धाम स्वम् स्वम् सुखम् लभताम् चिरम् ॥ अवतीर्य सुता भूत्वा मेनायाः दास्ये उत्सुखम्॥ ॥ २९ ॥
sarve gacchata dhāma svam svam sukham labhatām ciram .. avatīrya sutā bhūtvā menāyāḥ dāsye utsukham.. .. 29 ..
हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ॥ अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥ 2.3.4.३० ॥
हर-पत्नी भविष्यामि सु गुप्तम् मतम् आत्मनः ॥ अद्भुता शिव-लीला हि ज्ञानिनाम् अपि मोहिनी ॥ २।३।४।३० ॥
hara-patnī bhaviṣyāmi su guptam matam ātmanaḥ .. adbhutā śiva-līlā hi jñāninām api mohinī .. 2.3.4.30 ..
यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ॥ पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता ॥ ३१॥
यावत्-प्रभृति मे त्यक्ता स्व-तनुः दक्ष-जा सुराः ॥ पितृतः अनादरम् दृष्ट्वा स्वामिनः तद्-क्रतौ गता ॥ ३१॥
yāvat-prabhṛti me tyaktā sva-tanuḥ dakṣa-jā surāḥ .. pitṛtaḥ anādaram dṛṣṭvā svāminaḥ tad-kratau gatā .. 31..
तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ॥ दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥ ३२ ॥
तदा प्रभृति स स्वामी रुद्रः कालाग्नि-संज्ञकः ॥ दिगम्बरः बभूव आशु मद्-चिन्तन-परायणः ॥ ३२ ॥
tadā prabhṛti sa svāmī rudraḥ kālāgni-saṃjñakaḥ .. digambaraḥ babhūva āśu mad-cintana-parāyaṇaḥ .. 32 ..
मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ॥ अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः॥ ॥ ३३ ॥
मम रोषम् क्रतौ दृष्ट्वा पितुः तत्र गता सती ॥ अत्यजत् स्व-तनुम् प्रीत्या धर्म-ज्ञा इति विचारतः॥ ॥ ३३ ॥
mama roṣam kratau dṛṣṭvā pituḥ tatra gatā satī .. atyajat sva-tanum prītyā dharma-jñā iti vicārataḥ.. .. 33 ..
योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ॥ न सेहे विरहं सत्या मद्रूपाया महेश्वरः ॥ ३४॥
योगी अभूत् सदनम् त्यक्त्वा कृत्वा वेषम् अलौकिकम् ॥ न सेहे विरहम् सत्याः मद्-रूपायाः महेश्वरः ॥ ३४॥
yogī abhūt sadanam tyaktvā kṛtvā veṣam alaukikam .. na sehe viraham satyāḥ mad-rūpāyāḥ maheśvaraḥ .. 34..
मम हेतोर्महादुःखी स बभूव कुवेषभृत् ॥ अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥ ३५॥
मम हेतोः महा-दुःखी स बभूव कु वेष-भृत् ॥ अत्यजत् स तत् आरभ्य काम-जम् सुखम् उत्तमम् ॥ ३५॥
mama hetoḥ mahā-duḥkhī sa babhūva ku veṣa-bhṛt .. atyajat sa tat ārabhya kāma-jam sukham uttamam .. 35..
अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ॥ महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥ ३६ ॥
अन्यत् शृणुत हे विष्णो हे विधे मुनयः सुराः ॥ महा-प्रभोः महेशस्य लीलाम् भुवन-पालिनीम् ॥ ३६ ॥
anyat śṛṇuta he viṣṇo he vidhe munayaḥ surāḥ .. mahā-prabhoḥ maheśasya līlām bhuvana-pālinīm .. 36 ..
विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ॥ न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः ॥ ३७ ॥
विधाय मालाम् सु प्रीत्या मम अस्थ्नाम् विरह-आकुलः ॥ न शान्तिम् प्राप कुत्र अपि प्रबुद्धः अपि एकः एव सः ॥ ३७ ॥
vidhāya mālām su prītyā mama asthnām viraha-ākulaḥ .. na śāntim prāpa kutra api prabuddhaḥ api ekaḥ eva saḥ .. 37 ..
इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ॥ योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥ ३८॥
इतस् ततस् रुरोद उच्चैस् अनीशः इव स प्रभुः ॥ योग्य-अयोग्यम् न बुबुधे भ्रमन् सर्वत्र सर्वदा ॥ ३८॥
itas tatas ruroda uccais anīśaḥ iva sa prabhuḥ .. yogya-ayogyam na bubudhe bhraman sarvatra sarvadā .. 38..
इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ॥ ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥ ३९॥
इत्थम् लीलाम् हरः अकार्षीत् दर्शयन् कामिनाम् प्रभुः ॥ ऊचे कामुक-वत् वाणीम् विरह-व्याकुलाम् इव ॥ ३९॥
ittham līlām haraḥ akārṣīt darśayan kāminām prabhuḥ .. ūce kāmuka-vat vāṇīm viraha-vyākulām iva .. 39..
वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ॥ परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥ 2.3.4.४० ॥
वस्तुतस् अविकृतः अदीनः अस्ति अजितः परमेश्वरः ॥ परिपूर्णः शिवः स्वामी माया-अधीशः अखिल-ईश्वरः ॥ २।३।४।४० ॥
vastutas avikṛtaḥ adīnaḥ asti ajitaḥ parameśvaraḥ .. paripūrṇaḥ śivaḥ svāmī māyā-adhīśaḥ akhila-īśvaraḥ .. 2.3.4.40 ..
अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ॥ विकारेणापि केनाशु मायालिप्तो न स प्रभुः ॥ ४१ ॥
अन्यथा मोहतः तस्य किम् कामात् च प्रयोजनम् ॥ विकारेण अपि केन आशु माया-लिप्तः न स प्रभुः ॥ ४१ ॥
anyathā mohataḥ tasya kim kāmāt ca prayojanam .. vikāreṇa api kena āśu māyā-liptaḥ na sa prabhuḥ .. 41 ..
रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम् ॥ अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥ ४२ ॥
रुद्रः अतीव इच्छति विभुः स मे कर्तुम् करग्रहम् ॥ अवतारम् क्षितौ मेने हिमाचल-गृहे सुराः ॥ ४२ ॥
rudraḥ atīva icchati vibhuḥ sa me kartum karagraham .. avatāram kṣitau mene himācala-gṛhe surāḥ .. 42 ..
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ॥ हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता ॥ ४३॥
अतस् च अवतरिष्यामि रुद्र-सन्तोष-हेतवे ॥ हिमाग-पत्न्याम् मेनायाः लौकिकीम् गतिम् आश्रिता ॥ ४३॥
atas ca avatariṣyāmi rudra-santoṣa-hetave .. himāga-patnyām menāyāḥ laukikīm gatim āśritā .. 43..
भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ॥ देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥ ४४॥
भक्ताः रुद्र-प्रियाः भूत्वा तपः कृत्वा सु दुस्सहम् ॥ देव-कार्यम् करिष्यामि सत्यम् सत्यम् न संशयः ॥ ४४॥
bhaktāḥ rudra-priyāḥ bhūtvā tapaḥ kṛtvā su dussaham .. deva-kāryam kariṣyāmi satyam satyam na saṃśayaḥ .. 44..
गच्छत स्वगृहं सर्वे भव भजत नित्यशः ॥ तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः॥ ४५॥
गच्छत स्व-गृहम् सर्वे भव भजत नित्यशस् ॥ तद्-कृपातः अखिलम् दुःखम् विनश्यति न संशयः॥ ४५॥
gacchata sva-gṛham sarve bhava bhajata nityaśas .. tad-kṛpātaḥ akhilam duḥkham vinaśyati na saṃśayaḥ.. 45..
भविष्यति कृपालोस्तु कृपया मंगलं सदा ॥ वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥ ४६॥
भविष्यति कृपालोः तु कृपया मंगलम् सदा ॥ वन्द्या पूज्या त्रिलोके अहम् तद्-जाया इति च हेतुतः ॥ ४६॥
bhaviṣyati kṛpāloḥ tu kṛpayā maṃgalam sadā .. vandyā pūjyā triloke aham tad-jāyā iti ca hetutaḥ .. 46..
ब्रह्मोवाच ।।
इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा ॥ अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम् ॥ ।४७॥
इति उक्त्वा जगदम्बा सा देवानाम् पश्यता अन्तदा ॥ अन्तर्दधे शिवा तात स्वम् लोकम् प्राप वै द्रुतम् ॥ ।४७॥
iti uktvā jagadambā sā devānām paśyatā antadā .. antardadhe śivā tāta svam lokam prāpa vai drutam .. .47..
विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः॥ कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः ॥ ४८ ॥
विष्णु-आदयः सुराः सर्वे मुनयः च मुदा अन्विताः॥ कृत्वा तद्-दिशि संनामम् स्व-स्व-धामानि संययुः ॥ ४८ ॥
viṣṇu-ādayaḥ surāḥ sarve munayaḥ ca mudā anvitāḥ.. kṛtvā tad-diśi saṃnāmam sva-sva-dhāmāni saṃyayuḥ .. 48 ..
इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ॥ सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ४९ ॥
इत्थम् दुर्गा-सु चरितम् वर्णितम् ते मुनि-ईश्वर ॥ ॥ ४९ ॥
ittham durgā-su caritam varṇitam te muni-īśvara .. .. 49 ..
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥ पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात् ॥ 2.3.4.५०॥
यः इदम् शृणुयात् नित्यम् श्रावयेत् वा समाहितः ॥ पठेत् वा पाठयेत् वा अपि सर्वान् कामान् वा आप्नुयात् ॥ २।३।४।५०॥
yaḥ idam śṛṇuyāt nityam śrāvayet vā samāhitaḥ .. paṭhet vā pāṭhayet vā api sarvān kāmān vā āpnuyāt .. 2.3.4.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ ४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे देवसान्त्वनम् नाम चतुर्थः अध्यायः ॥ ४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe devasāntvanam nāma caturthaḥ adhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In