| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विष्णुशिष्य महाभाग विधे शैववर प्रभो ॥ शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १ ॥
विष्णु-शिष्य महाभाग विधे शैव-वर प्रभो ॥ शिव-लीलाम् इमाम् व्यासात् प्रीत्या मे वक्तुम् अर्हसि ॥ १ ॥
viṣṇu-śiṣya mahābhāga vidhe śaiva-vara prabho .. śiva-līlām imām vyāsāt prītyā me vaktum arhasi .. 1 ..
सतीविरहयुक्शंम्भुः किं चक्रे चरितन्तथा ॥ तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २ ॥
सती-विरह-युज् शंम्भुः किम् चक्रे चरितम् तथा ॥ तपः कर्तुम् कदा आयातः हिमवत्प्रस्थम् उत्तमम् ॥ २ ॥
satī-viraha-yuj śaṃmbhuḥ kim cakre caritam tathā .. tapaḥ kartum kadā āyātaḥ himavatprastham uttamam .. 2 ..
शिवाशिवशिवादो ऽभूत्कथं कामक्षयश्च मे ॥ तपः कृत्वा कथम्प्राप शिवं शम्भुं च पार्वती ॥ ३ ॥
शिव-अशिव-शिव-आदः अभूत् कथम् काम-क्षयः च मे ॥ तपः कृत्वा कथम् प्राप शिवम् शम्भुम् च पार्वती ॥ ३ ॥
śiva-aśiva-śiva-ādaḥ abhūt katham kāma-kṣayaḥ ca me .. tapaḥ kṛtvā katham prāpa śivam śambhum ca pārvatī .. 3 ..
तत्सर्वमपरं चापि शिवसच्चरितं परम् ॥ वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४ ॥
तत् सर्वम् अपरम् च अपि शिव-सत्-चरितम् परम् ॥ वक्तुम् अर्हसि मे ब्रह्मन् महा-आनन्द-करम् शुभम् ॥ ४ ॥
tat sarvam aparam ca api śiva-sat-caritam param .. vaktum arhasi me brahman mahā-ānanda-karam śubham .. 4 ..
सूत उवाच ।।
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ॥ विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९॥
इति श्रुत्वा नारदस्य प्रश्नम् लोक-अधिप-उत्तमः ॥ विधिः प्रोवाच सु प्रीत्या स्मृत्वा शिव-पद-अम्बुजम् ॥ ९॥
iti śrutvā nāradasya praśnam loka-adhipa-uttamaḥ .. vidhiḥ provāca su prītyā smṛtvā śiva-pada-ambujam .. 9..
ब्रह्मोवाच ॥ देवर्षे शैववर्याय तद्यशः शृणु चादरात् ॥ पावनं मङ्गलकरं भक्तिवर्धनमुत्तमम् ॥ ६ ॥
ब्रह्मा उवाच ॥ देव-ऋषे शैव-वर्याय तत् यशः शृणु च आदरात् ॥ पावनम् मङ्गल-करम् भक्ति-वर्धनम् उत्तमम् ॥ ६ ॥
brahmā uvāca .. deva-ṛṣe śaiva-varyāya tat yaśaḥ śṛṇu ca ādarāt .. pāvanam maṅgala-karam bhakti-vardhanam uttamam .. 6 ..
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ॥ सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा॥ ७॥
आगत्य स्व-गिरिम् शम्भुः प्रिया-विरह-कातरः ॥ सस्मार स्व-प्रियाम् देवीम् सतीम् प्राण-अधिकाम् हृदा॥ ७॥
āgatya sva-girim śambhuḥ priyā-viraha-kātaraḥ .. sasmāra sva-priyām devīm satīm prāṇa-adhikām hṛdā.. 7..
गणानाभाष्य शोचंस्तां तद्गुणान्प्रे मवर्धनान् ॥ वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६॥
गणान् आभाष्य शोचन् ताम् तद्-गुणान् प्रे म-वर्धनान् ॥ वर्णयामास सु प्रीत्या दर्शयन् लौकिकीम् गतिम् ॥ ६॥
gaṇān ābhāṣya śocan tām tad-guṇān pre ma-vardhanān .. varṇayāmāsa su prītyā darśayan laukikīm gatim .. 6..
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्गतिम् ॥ पुनर्बभ्राम लोकन्वै सर्वाँल्लीलाविशारदः ॥ ९॥
दिगम्बरः बभूव अथ त्यक्त्वा गार्हस्थ्य-सत्-गतिम् ॥ पुनर् बभ्राम सर्वान् लीला-विशारदः ॥ ९॥
digambaraḥ babhūva atha tyaktvā gārhasthya-sat-gatim .. punar babhrāma sarvān līlā-viśāradaḥ .. 9..
दर्शनम्प्राप्य कुत्रापि सतीविरहदुःखितः ॥ पुनश्च गिरिमायातश्शंकरो भक्तशंकरः ॥ 2.3.10.१० ॥
दर्शनम् प्राप्य कुत्र अपि सती-विरह-दुःखितः ॥ पुनर् च गिरिम् आयातः शंकरः भक्त-शंकरः ॥ २।३।१०।१० ॥
darśanam prāpya kutra api satī-viraha-duḥkhitaḥ .. punar ca girim āyātaḥ śaṃkaraḥ bhakta-śaṃkaraḥ .. 2.3.10.10 ..
समाधाय मनो यत्नात्समाधिन्दुःखनाशिनम ॥ चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११॥
समाधाय मनः यत्नात् समाधिन् दुःख-नाशिनम् ॥ चकार च ददर्श असौ स्व-रूपम् निजम् अव्ययम् ॥ ११॥
samādhāya manaḥ yatnāt samādhin duḥkha-nāśinam .. cakāra ca dadarśa asau sva-rūpam nijam avyayam .. 11..
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ॥ निर्विकारी परम्ब्रह्म मायाधीशस्स्वयंप्रभुः ॥ १२ ॥
इत्थम् चिरतरम् स्थाणुः तस्थौ ध्वस्त-गुण-त्रयः ॥ निर्विकारी परम् ब्रह्म माया-अधीशः स्वयम् प्रभुः ॥ १२ ॥
ittham cirataram sthāṇuḥ tasthau dhvasta-guṇa-trayaḥ .. nirvikārī param brahma māyā-adhīśaḥ svayam prabhuḥ .. 12 ..
ततस्समाधिन्तत्त्याज व्यतीय ह्यमितास्समाः ॥ यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३॥
ततस् समाधिन् तत् त्याज व्यतीय हि अमिताः समाः ॥ यदा तदा बभूव आशु चरितम् तत् वदामि वः ॥ १३॥
tatas samādhin tat tyāja vyatīya hi amitāḥ samāḥ .. yadā tadā babhūva āśu caritam tat vadāmi vaḥ .. 13..
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसंभवम् ॥ पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४ ॥
प्रभोः ललाट-देशात् तु यत् पृषत्-श्रम-संभवम् ॥ पपात धरणौ तत्र स बभूव शिशुः द्रुतम् ॥ १४ ॥
prabhoḥ lalāṭa-deśāt tu yat pṛṣat-śrama-saṃbhavam .. papāta dharaṇau tatra sa babhūva śiśuḥ drutam .. 14 ..
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ॥ अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुस्सहः ॥ १५ ॥
चतुर्-भुजः अरुण-आकारः रमणीय-आकृतिः मुने ॥ अलौकिक-द्युतिः श्रीमान् तेजस्वी पर-दुस्सहः ॥ १५ ॥
catur-bhujaḥ aruṇa-ākāraḥ ramaṇīya-ākṛtiḥ mune .. alaukika-dyutiḥ śrīmān tejasvī para-dussahaḥ .. 15 ..
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ॥ प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६ ॥
रुरोद स शिशुः तस्य पुरस् हि परमेशितुः ॥ प्राकृत-आत्मज-वत् तत्र भव-आचार-रतस्य हि ॥ १६ ॥
ruroda sa śiśuḥ tasya puras hi parameśituḥ .. prākṛta-ātmaja-vat tatra bhava-ācāra-ratasya hi .. 16 ..
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ॥ आविर्बभूव तत्रैव भयमानीय शंकरात् ॥ १७॥
तदा विचार्य सुधिया धृत्वा सु स्त्री-तनुम् क्षितिः ॥ आविर्बभूव तत्र एव भयम् आनीय शंकरात् ॥ १७॥
tadā vicārya sudhiyā dhṛtvā su strī-tanum kṣitiḥ .. āvirbabhūva tatra eva bhayam ānīya śaṃkarāt .. 17..
तम्बालं द्रुतमुत्थाय क्रोडयां निदधे वरम् ॥ स्तन्यं सापाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम् ॥ १८॥
तम्बालम् द्रुतम् उत्थाय क्रोडयाम् निदधे वरम् ॥ स्तन्यम् सा अपाययत् प्रीत्या दुग्धम् स्व-उपरि सम्भवम् ॥ १८॥
tambālam drutam utthāya kroḍayām nidadhe varam .. stanyam sā apāyayat prītyā dugdham sva-upari sambhavam .. 18..
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ॥ सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९॥
चुचुम्ब तद्-मुखम् स्नेहात् स्मित्वा क्रीडयत् आत्मजम् ॥ सत्य-भावात् स्वयम् माता परमेश-हित-आवहा ॥ १९॥
cucumba tad-mukham snehāt smitvā krīḍayat ātmajam .. satya-bhāvāt svayam mātā parameśa-hita-āvahā .. 19..
तद्दृष्ट्वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ॥ अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ 2.3.10.२०॥
तत् दृष्ट्वा चरितम् शम्भुः कौतुकी ॥ अन्तर्यामी विहस्य अथ उवाच ज्ञात्वा रसाम् हरः ॥ २।३।१०।२०॥
tat dṛṣṭvā caritam śambhuḥ kautukī .. antaryāmī vihasya atha uvāca jñātvā rasām haraḥ .. 2.3.10.20..
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ॥ त्वय्युद्भूतंश्रमजलान्महातेजस्विनो वरम् ॥ २१॥
धन्या त्वम् धरणि प्रीत्या पालय एतम् सुतम् मम ॥ त्वयि उद्भूत-ंश्रमजलात् महा-तेजस्विनः वरम् ॥ २१॥
dhanyā tvam dharaṇi prītyā pālaya etam sutam mama .. tvayi udbhūta-ṃśramajalāt mahā-tejasvinaḥ varam .. 21..
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ॥ त्वन्नाम्ना स्याद्भवेत्ख्यातस्त्रितापरहितस्सदा ॥ २२॥
मम श्रमक-भूः बालः यदि अपि प्रियकृत्-क्षिते ॥ त्वद्-नाम्ना स्यात् भवेत् ख्यातः त्रि-ताप-रहितः सदा ॥ २२॥
mama śramaka-bhūḥ bālaḥ yadi api priyakṛt-kṣite .. tvad-nāmnā syāt bhavet khyātaḥ tri-tāpa-rahitaḥ sadā .. 22..
असौ बालः कुदाता हि भविष्यति गुणी तव ॥ ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३ ॥
असौ बालः कुदाता हि भविष्यति गुणी तव ॥ मम अपि सुख-दाता हि गृहाण एनम् यथारुचि ॥ २३ ॥
asau bālaḥ kudātā hi bhaviṣyati guṇī tava .. mama api sukha-dātā hi gṛhāṇa enam yathāruci .. 23 ..
ब्रह्मोवाच ।।
इत्युक्त्वा विररामाथ किंचिद्विरहमुक्तधीः ॥ लोकाचारकरो रुद्रो निर्विकारी सताम्प्रियः ॥ २४ ॥
इति उक्त्वा विरराम अथ किंचिद् विरह-मुक्त-धीः ॥ करः ॥ २४ ॥
iti uktvā virarāma atha kiṃcid viraha-mukta-dhīḥ .. karaḥ .. 24 ..
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ॥ स्वस्थानं ससुता प्राप सुखमात्यंतिकं च वै ॥ २५ ॥
अपि क्षितिः जगाम आशु शिव-आज्ञाम् अधिगम्य सा ॥ स्व-स्थानम् स सुता प्राप सुखम् आत्यंतिकम् च वै ॥ २५ ॥
api kṣitiḥ jagāma āśu śiva-ājñām adhigamya sā .. sva-sthānam sa sutā prāpa sukham ātyaṃtikam ca vai .. 25 ..
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ॥ तस्यां काश्यां चिरं कालं सिषेवे शंकरम्प्रभुम् ॥ २७६॥
स बालः भौमः इति आख्याम् प्राप्य भूत्वा युवा द्रुतम् ॥ तस्याम् काश्याम् चिरम् कालम् सिषेवे शंकरम् प्रभुम् ॥ २७६॥
sa bālaḥ bhaumaḥ iti ākhyām prāpya bhūtvā yuvā drutam .. tasyām kāśyām ciram kālam siṣeve śaṃkaram prabhum .. 276..
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ॥ दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७ ॥
विश्वेश्वर-प्रसादेन ग्रह-त्वम् प्राप्य भूमिजः ॥ दिव्यम् लोकम् जगाम आशु शुक्र-लोकात् परम् वरम् ॥ २७ ॥
viśveśvara-prasādena graha-tvam prāpya bhūmijaḥ .. divyam lokam jagāma āśu śukra-lokāt param varam .. 27 ..
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम्॥ तपस्याचरणं शम्भोश्शृणु चादरतो मुने ॥ २८॥
इति उक्तम् शम्भु-चरितम् सती-विरह-संयुतम्॥ तपसि आचरणम् शम्भोः शृणु च आदरतः मुने ॥ २८॥
iti uktam śambhu-caritam satī-viraha-saṃyutam.. tapasi ācaraṇam śambhoḥ śṛṇu ca ādarataḥ mune .. 28..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनम् नाम दशमः अध्यायः ॥ १० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe bhaumotpattiśivalīlāvarṇanam nāma daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In