| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वर्द्धमाना गिरेः पुत्री सा शक्ति लोकपूजिता ॥ अष्टवर्षा यदा जाता हिमालयगृहे सती ॥ १॥
वर्द्धमाना गिरेः पुत्री सा लोक-पूजिता ॥ अष्ट-वर्षा यदा जाता हिमालय-गृहे सती ॥ १॥
varddhamānā gireḥ putrī sā loka-pūjitā .. aṣṭa-varṣā yadā jātā himālaya-gṛhe satī .. 1..
तज्जन्म गिरिशो ज्ञात्वा सतीविरहकातरः ॥ कृत्वा तामद्भुतामन्तर्मुमोदातीव नारद॥ २॥
तद्-जन्म गिरिशः ज्ञात्वा सती-विरह-कातरः ॥ कृत्वा ताम् अद्भुताम् अन्तर् मुमोद अतीव नारद॥ २॥
tad-janma giriśaḥ jñātvā satī-viraha-kātaraḥ .. kṛtvā tām adbhutām antar mumoda atīva nārada.. 2..
तस्मिन्नेवान्तरे शम्भुर्लौकिकीं गतिमाश्रितः॥ समाधातुं मनस्सम्यक्तपः कर्त्तुं समैच्छत।३॥
तस्मिन् एव अन्तरे शम्भुः लौकिकीम् गतिम् आश्रितः॥ समाधातुम् मनः सम्यक् तपः कर्त्तुम् समैच्छत।३॥
tasmin eva antare śambhuḥ laukikīm gatim āśritaḥ.. samādhātum manaḥ samyak tapaḥ karttum samaicchata.3..
कांश्चिद्गणवराञ्छान्तान्नंद्यादीनवगृह्य च ॥ गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥ ४ ॥
कांश्चिद् गण-वरान् शान्तान् नंदि-आदीन् अवगृह्य च ॥ गङ्गा-अवतारम् अगमत् हिमवत्प्रस्थम् उत्तमम् ॥ ४ ॥
kāṃścid gaṇa-varān śāntān naṃdi-ādīn avagṛhya ca .. gaṅgā-avatāram agamat himavatprastham uttamam .. 4 ..
यत्र गंगा निपतिता पुरा ब्रह्मपुरात्स्रुता ॥ सर्वाघौघविनाशाय पावनी परमा मुने ॥ ५ ॥
यत्र गंगा निपतिता पुरा ब्रह्म-पुरात् स्रुता ॥ सर्व-अघ-ओघ-विनाशाय पावनी परमा मुने ॥ ५ ॥
yatra gaṃgā nipatitā purā brahma-purāt srutā .. sarva-agha-ogha-vināśāya pāvanī paramā mune .. 5 ..
तपःप्रारम्भमकरोत्स्थित्वा तत्र वशी हरः ॥ एकाग्रं चिंतयामास स्वमात्मानमतन्द्रितः ॥ ६ ॥
तपः-प्रारम्भम् अकरोत् स्थित्वा तत्र वशी हरः ॥ एकाग्रम् चिंतयामास स्वम् आत्मानम् अतन्द्रितः ॥ ६ ॥
tapaḥ-prārambham akarot sthitvā tatra vaśī haraḥ .. ekāgram ciṃtayāmāsa svam ātmānam atandritaḥ .. 6 ..
चेतो ज्ञानभवं नित्यं ज्योतीरूपं निरामयम् ॥ जगन्मयं चिदानन्दं द्वैतहीनं निराश्रयम् ॥ ७॥
चेतः ज्ञान-भवम् नित्यम् ज्योतीरूपम् निरामयम् ॥ जगत्-मयम् चित्-आनन्दम् द्वैत-हीनम् निराश्रयम् ॥ ७॥
cetaḥ jñāna-bhavam nityam jyotīrūpam nirāmayam .. jagat-mayam cit-ānandam dvaita-hīnam nirāśrayam .. 7..
हरे ध्यानपरे तिस्मिन्प्रमथा ध्यानतत्पराः॥ अभवन्केचिदपरे नन्दिभृंग्यादयो गणाः॥ ६॥
हरे ध्यान-परे प्रमथाः ध्यान-तत्पराः॥ अभवन् केचिद् अपरे नन्दि-भृंगि-आदयः गणाः॥ ६॥
hare dhyāna-pare pramathāḥ dhyāna-tatparāḥ.. abhavan kecid apare nandi-bhṛṃgi-ādayaḥ gaṇāḥ.. 6..
सेवां चक्रुस्तदा केचिद्गणाः शम्भोः परात्मनः॥ नैवाकूजंस्तु मौना हि द्वरपाः केचनाभवन् ॥ ९॥
सेवाम् चक्रुः तदा केचिद् गणाः शम्भोः परात्मनः॥ न एव अकूजन् तु मौनाः हि द्वरपाः केचन अभवन् ॥ ९॥
sevām cakruḥ tadā kecid gaṇāḥ śambhoḥ parātmanaḥ.. na eva akūjan tu maunāḥ hi dvarapāḥ kecana abhavan .. 9..
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः॥ शङ्करस्यौषधिप्रस्थं श्रुत्वागमनमादरात्॥ 2.3.11.१ ०॥
एतस्मिन् अन्तरे तत्र जगाम हिम-भूधरः॥ शङ्करस्य ओषधिप्रस्थम् श्रुत्वा आगमनम् आदरात्॥ २।३।११।१ ०॥
etasmin antare tatra jagāma hima-bhūdharaḥ.. śaṅkarasya oṣadhiprastham śrutvā āgamanam ādarāt.. 2.3.11.1 0..
प्रणनाम प्रभुं रुद्रं सगणो भूधरेश्वरः ॥ समानर्च च सुप्रीतस्तुष्टाव स कृताञ्जलिः ॥ १ १॥
प्रणनाम प्रभुम् रुद्रम् स गणः भूधर-ईश्वरः ॥ समानर्च च सु प्रीतः तुष्टाव स कृताञ्जलिः ॥ १ १॥
praṇanāma prabhum rudram sa gaṇaḥ bhūdhara-īśvaraḥ .. samānarca ca su prītaḥ tuṣṭāva sa kṛtāñjaliḥ .. 1 1..
हिमालय उवाच ।।
देवदेव महादेव कपर्दिच्छंकर प्रभो ॥ त्वयैव लोकनाथेन पालितं भुवनत्रयम् ॥ १२॥
देवदेव महादेव कपर्दित् शंकर प्रभो ॥ त्वया एव लोक-नाथेन पालितम् भुवनत्रयम् ॥ १२॥
devadeva mahādeva kapardit śaṃkara prabho .. tvayā eva loka-nāthena pālitam bhuvanatrayam .. 12..
नमस्ते देवदेवेश योगिरूपधराय च ॥ निर्गुणाय नमस्तुभ्यं सगुणाय विहारिणे ॥ १३॥
नमः ते देवदेवेश योगि-रूप-धराय च ॥ निर्गुणाय नमः तुभ्यम् सगुणाय विहारिणे ॥ १३॥
namaḥ te devadeveśa yogi-rūpa-dharāya ca .. nirguṇāya namaḥ tubhyam saguṇāya vihāriṇe .. 13..
कैलासवासिने शम्भो सर्वलोकाटनाय च ॥ नमस्ते परमेशाय लीलाकाराय शूलिने ॥ १४॥
कैलास-वासिने शम्भो सर्व-लोक-अटनाय च ॥ नमः ते परमेशाय लीला-आकाराय शूलिने ॥ १४॥
kailāsa-vāsine śambho sarva-loka-aṭanāya ca .. namaḥ te parameśāya līlā-ākārāya śūline .. 14..
परिपूर्णगुणाधानविकाररहितायते ॥ नमोऽनीहाय वीहाय धीराय परमात्मने॥ १५॥
परिपूर्ण-गुण-आधान-विकार-रहितायते ॥ नमः अनीहाय वीहाय धीराय परमात्मने॥ १५॥
paripūrṇa-guṇa-ādhāna-vikāra-rahitāyate .. namaḥ anīhāya vīhāya dhīrāya paramātmane.. 15..
अबहिर्भोगकाराय जनवत्सलते नमः॥ त्रिगुणाधीश मायेश ब्रह्मणे परमात्मने॥ १६॥
अ बहिस् भोग-काराय जन-वत्सल-ते नमः॥ त्रिगुण-अधीश माया-ईश ब्रह्मणे परमात्मने॥ १६॥
a bahis bhoga-kārāya jana-vatsala-te namaḥ.. triguṇa-adhīśa māyā-īśa brahmaṇe paramātmane.. 16..
विष्णुब्रह्मादिसेव्याय विष्णुब्रह्मस्वरूपिणे॥ विष्णुब्रह्मकदात्रे ते भक्तप्रिय नमोऽस्तु ते ॥ १७॥
विष्णु-ब्रह्म-आदि-सेव्याय विष्णु-ब्रह्म-स्वरूपिणे॥ विष्णु-ब्रह्मक-दात्रे ते भक्त-प्रिय नमः अस्तु ते ॥ १७॥
viṣṇu-brahma-ādi-sevyāya viṣṇu-brahma-svarūpiṇe.. viṣṇu-brahmaka-dātre te bhakta-priya namaḥ astu te .. 17..
तपोरत तपस्थानसुतपः फलदायिने ॥ तपःप्रियाय शान्ताय नमस्ते ब्रह्मरूपिणे ॥ १८॥
तपः-रत तप-स्थान-सु तपः फल-दायिने ॥ तपः-प्रियाय शान्ताय नमः ते ब्रह्म-रूपिणे ॥ १८॥
tapaḥ-rata tapa-sthāna-su tapaḥ phala-dāyine .. tapaḥ-priyāya śāntāya namaḥ te brahma-rūpiṇe .. 18..
व्यवहारकरायैव लोकाचारकराय ते ॥ सगुणाय परेशाय नमोस्तु परमात्मने ॥ ॥ १९ ॥
व्यवहार-कराय एव लोक-आचार-कराय ते ॥ सगुणाय परेशाय नमः अस्तु परमात्मने ॥ ॥ १९ ॥
vyavahāra-karāya eva loka-ācāra-karāya te .. saguṇāya pareśāya namaḥ astu paramātmane .. .. 19 ..
लीला तव महेशानावेद्या साधुसुखप्रदा ॥ भक्ताधीनस्वरूपोऽसि भक्तवश्यो हि कर्मकृत् ॥ 2.3.11.२० ॥
लीला तव महेशान आवेद्या साधु-सुख-प्रदा ॥ भक्त-अधीन-स्वरूपः असि भक्त-वश्यः हि कर्म-कृत् ॥ २।३।११।२० ॥
līlā tava maheśāna āvedyā sādhu-sukha-pradā .. bhakta-adhīna-svarūpaḥ asi bhakta-vaśyaḥ hi karma-kṛt .. 2.3.11.20 ..
मम भाग्योदयादत्र त्वमागत इह प्रभो॥ सनाथ कृतवान्मां त्वं वर्णितो दानवत्सलः॥ २१ ॥
मम भाग्य-उदयात् अत्र त्वम् आगतः इह प्रभो॥ सनाथ कृतवान् माम् त्वम् वर्णितः दान-वत्सलः॥ २१ ॥
mama bhāgya-udayāt atra tvam āgataḥ iha prabho.. sanātha kṛtavān mām tvam varṇitaḥ dāna-vatsalaḥ.. 21 ..
अद्य मे सफलं जन्म सफलं जीवनं मम॥ अद्य मे सफलं सर्वं यदत्र त्वं समागतः ॥ २२॥
अद्य मे स फलम् जन्म स फलम् जीवनम् मम॥ अद्य मे सफलम् सर्वम् यत् अत्र त्वम् समागतः ॥ २२॥
adya me sa phalam janma sa phalam jīvanam mama.. adya me saphalam sarvam yat atra tvam samāgataḥ .. 22..
ज्ञात्वा मां दासमव्यग्रमाज्ञान्देहि महेश्वर ॥ त्वत्सेवां च महाप्रीत्या कुर्यामहमनन्यधीः ॥ २३ ॥
ज्ञात्वा माम् दासम् अव्यग्रम् आज्ञान् देहि महेश्वर ॥ त्वद्-सेवाम् च महा-प्रीत्या कुर्याम् अहम् अनन्य-धीः ॥ २३ ॥
jñātvā mām dāsam avyagram ājñān dehi maheśvara .. tvad-sevām ca mahā-prītyā kuryām aham ananya-dhīḥ .. 23 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य गिरीशस्य महेश्वरः ॥ किंचिदुन्मील्य नेत्रे च ददर्श सगणं गिरिम् ॥ २४ ॥
इति आकर्ण्य वचः तस्य गिरीशस्य महेश्वरः ॥ किंचिद् उन्मील्य नेत्रे च ददर्श स गणम् गिरिम् ॥ २४ ॥
iti ākarṇya vacaḥ tasya girīśasya maheśvaraḥ .. kiṃcid unmīlya netre ca dadarśa sa gaṇam girim .. 24 ..
सगणं तन्तथा दृष्ट्वा गिरिराजं वृषध्वजः ॥ उवाच ध्यानयोगस्थः स्मयन्निव जगत्पतिः ॥ २५ ॥
स गणम् दृष्ट्वा गिरि-राजम् वृषध्वजः ॥ उवाच ध्यान-योग-स्थः स्मयन् इव जगत्पतिः ॥ २५ ॥
sa gaṇam dṛṣṭvā giri-rājam vṛṣadhvajaḥ .. uvāca dhyāna-yoga-sthaḥ smayan iva jagatpatiḥ .. 25 ..
महेश्वर उवाच ।।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ॥ यथा न कोपि निकटं समायातु तथा कुरु ॥ २६ ॥
तव पृष्ठे तपः तप्तुम् रहस्यम् अहम् आगतः ॥ यथा न कः अपि निकटम् समायातु तथा कुरु ॥ २६ ॥
tava pṛṣṭhe tapaḥ taptum rahasyam aham āgataḥ .. yathā na kaḥ api nikaṭam samāyātu tathā kuru .. 26 ..
त्वं महात्मा तपोधामा मुनीनां च सदाश्रयः ॥ देवानां राक्षसानां च परेषां च महात्मनाम् ॥ २७ ॥
त्वम् महात्मा तपः-धामा मुनीनाम् च सत्-आश्रयः ॥ देवानाम् राक्षसानाम् च परेषाम् च महात्मनाम् ॥ २७ ॥
tvam mahātmā tapaḥ-dhāmā munīnām ca sat-āśrayaḥ .. devānām rākṣasānām ca pareṣām ca mahātmanām .. 27 ..
सदा वासो द्विजादीनां गंगापूतश्च नित्यदा ॥ परोपकारी सर्वेषां गिरीणामधिपः प्रभुः ॥ २८॥
सदा वासः द्विज-आदीनाम् गंगा-पूतः च नित्यदा ॥ परोपकारी सर्वेषाम् गिरीणाम् अधिपः प्रभुः ॥ २८॥
sadā vāsaḥ dvija-ādīnām gaṃgā-pūtaḥ ca nityadā .. paropakārī sarveṣām girīṇām adhipaḥ prabhuḥ .. 28..
अहं तपश्चराम्यत्र गंगावतरणे स्थले ॥ आश्रितस्तव सुप्रीतो गिरिराज यतात्मवान् ॥ २९ ॥
अहम् तपः चरामि अत्र गंगावतरणे स्थले ॥ आश्रितः तव सु प्रीतः गिरिराज यत-आत्मवान् ॥ २९ ॥
aham tapaḥ carāmi atra gaṃgāvataraṇe sthale .. āśritaḥ tava su prītaḥ girirāja yata-ātmavān .. 29 ..
निर्विघ्नं मे तपश्चात्र हेतुना येन शैलप ॥ सर्वथा हि गिरिश्रेष्ठ सुयत्नं कुरु साम्प्रतम् ॥ 2.3.11.३० ॥
निर्विघ्नम् मे तपः च अत्र हेतुना येन शैलप ॥ सर्वथा हि गिरि-श्रेष्ठ सु यत्नम् कुरु साम्प्रतम् ॥ २।३।११।३० ॥
nirvighnam me tapaḥ ca atra hetunā yena śailapa .. sarvathā hi giri-śreṣṭha su yatnam kuru sāmpratam .. 2.3.11.30 ..
ममेदमेव परमं सेवनं पर्वतोत्तम ॥ स्वगृहं गच्छ सत्प्रीत्या तत्संपादय यत्नतः ॥ ३१ ॥
मम इदम् एव परमम् सेवनम् पर्वत-उत्तम ॥ स्व-गृहम् गच्छ सत्-प्रीत्या तत् संपादय यत्नतः ॥ ३१ ॥
mama idam eva paramam sevanam parvata-uttama .. sva-gṛham gaccha sat-prītyā tat saṃpādaya yatnataḥ .. 31 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा जगतां नाथस्तूष्णीमास स सूतिकृत् ॥ गिरिराजस्तदा शम्भुं प्रणयादिदमब्रवीत् ॥ ३२ ॥
इति उक्त्वा जगताम् नाथः तूष्णीम् आस स सूतिकृत् ॥ गिरिराजः तदा शम्भुम् प्रणयात् इदम् अब्रवीत् ॥ ३२ ॥
iti uktvā jagatām nāthaḥ tūṣṇīm āsa sa sūtikṛt .. girirājaḥ tadā śambhum praṇayāt idam abravīt .. 32 ..
।। हिमालय उवाच।।
पूजितोऽसि जगन्नाथ मया त्वम्परमेश्वर ॥ स्वागतेनाद्य विषये स्थितं त्वाम्प्रार्थयामि किम् ॥ ३३॥
पूजितः असि जगन्नाथ मया त्वम् परमेश्वर ॥ स्वागतेन अद्य विषये स्थितम् त्वाम् प्रार्थयामि किम् ॥ ३३॥
pūjitaḥ asi jagannātha mayā tvam parameśvara .. svāgatena adya viṣaye sthitam tvām prārthayāmi kim .. 33..
महता तपसा त्वं हि देवैर्यत्नपराश्रितैः ॥ न प्राप्यसे महेशान स त्वं स्वयमुपस्थितः ॥ ३४ ॥
महता तपसा त्वम् हि देवैः यत्न-पर-आश्रितैः ॥ न प्राप्यसे महेशान स त्वम् स्वयम् उपस्थितः ॥ ३४ ॥
mahatā tapasā tvam hi devaiḥ yatna-para-āśritaiḥ .. na prāpyase maheśāna sa tvam svayam upasthitaḥ .. 34 ..
मत्तोप्यन्यतमो नास्ति न मत्तोऽन्योऽस्ति पुण्यवान्॥ भवानिति च मत्पृष्ठे तपसे समुपस्थितः॥ ३५॥
मत्तः अपि अन्यतमः ना अस्ति न मत्तः अन्यः अस्ति पुण्यवान्॥ भवान् इति च मद्-पृष्ठे तपसे समुपस्थितः॥ ३५॥
mattaḥ api anyatamaḥ nā asti na mattaḥ anyaḥ asti puṇyavān.. bhavān iti ca mad-pṛṣṭhe tapase samupasthitaḥ.. 35..
देवेन्द्रादधिकम्मन्ये स्वात्मानम्परमेश्वर॥ सगणेन त्वयागत्य कृतोऽनुग्रहभागहम्॥ ३६॥
देवेन्द्रात् अधिकम् मन्ये स्व-आत्मानम् परमेश्वर॥ स गणेन त्वया आगत्य कृतः अनुग्रह-भाग अहम्॥ ३६॥
devendrāt adhikam manye sva-ātmānam parameśvara.. sa gaṇena tvayā āgatya kṛtaḥ anugraha-bhāga aham.. 36..
निर्विघ्नं कुरु देवेश स्वतन्त्रः परमन्तपः॥ करिष्येऽहन्तथा सेवां दासोऽहन्ते सदा प्रभो।३७॥
निर्विघ्नम् कुरु देवेश स्वतन्त्रः परमन्तपः॥ करिष्ये अहम् तथा सेवाम् दासः अहम् ते सदा प्रभो।३७॥
nirvighnam kuru deveśa svatantraḥ paramantapaḥ.. kariṣye aham tathā sevām dāsaḥ aham te sadā prabho.37..
ब्रह्मोवाच।।
इत्युक्त्वा गिरिराजोऽसौ स्वं वेश्म द्रुतमागतः॥ वृत्तांत्तं तं समाचख्यौ प्रियायै च समादरात्॥ ३८॥
इति उक्त्वा गिरिराजः असौ स्वम् वेश्म द्रुतम् आगतः॥ वृत्तांत्तम् तम् तम् समाचख्यौ प्रियायै च समादरात्॥ ३८॥
iti uktvā girirājaḥ asau svam veśma drutam āgataḥ.. vṛttāṃttam tam tam samācakhyau priyāyai ca samādarāt.. 38..
नीयमानान्परीवारान्स्वगणानपि नारद॥ समाहूयाखिलाञ्छैलपतिः प्रोवाच तत्त्वतः॥ ३९॥
नीयमानान् परीवारान् स्व-गणान् अपि नारद॥ समाहूय अखिलान् शैलपतिः प्रोवाच तत्त्वतः॥ ३९॥
nīyamānān parīvārān sva-gaṇān api nārada.. samāhūya akhilān śailapatiḥ provāca tattvataḥ.. 39..
हिमालय उवाच ।।
अद्य प्रभृति नो यातु कोपि गंगावतारणम्॥ मच्छासनेन मत्प्रस्थं सत्यमेतद्ब्रवीम्यहम् ॥ 2.3.11.४ ० ॥
अद्य प्रभृति नः यातु कः पि गंगा-अवतारणम्॥ मद्-शासनेन मद्-प्रस्थम् सत्यम् एतत् ब्रवीमि अहम् ॥ २।३।११।४ ० ॥
adya prabhṛti naḥ yātu kaḥ pi gaṃgā-avatāraṇam.. mad-śāsanena mad-prastham satyam etat bravīmi aham .. 2.3.11.4 0 ..
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ॥ दण्डयिष्ये विशेषेण सत्यमेतन्मयोदितम् ॥ ४१ ॥
गमिष्यति जनः कश्चिद् तत्र चेद् तम् महा-खलम् ॥ दण्डयिष्ये विशेषेण सत्यम् एतत् मया उदितम् ॥ ४१ ॥
gamiṣyati janaḥ kaścid tatra ced tam mahā-khalam .. daṇḍayiṣye viśeṣeṇa satyam etat mayā uditam .. 41 ..
इति तान्स नियम्याशु स्वगणान्निखिलान्मुने ॥ सुयत्नं कृतवाञ्छैलस्तं शृणु त्वं वदामि ते ॥ ४२॥
इति तान् स नियम्य आशु स्व-गणान् निखिलान् मुने ॥ सु यत्नम् कृतवान् शैलः तम् शृणु त्वम् वदामि ते ॥ ४२॥
iti tān sa niyamya āśu sva-gaṇān nikhilān mune .. su yatnam kṛtavān śailaḥ tam śṛṇu tvam vadāmi te .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवशैलसमागमवर्णनम् नाम एकादशः अध्यायः ॥ ११ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivaśailasamāgamavarṇanam nāma ekādaśaḥ adhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In