| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।। ।।
अथ शैलपतिर्हृष्टः सत्पुष्पफलसंचयम् ॥ समादाय स्वतनयासहितोऽगाद्धरांतिकम् ॥ १॥
अथ शैलपतिः हृष्टः सत्-पुष्प-फल-संचयम् ॥ समादाय स्व-तनया-सहितः अगात् हर-अंतिकम् ॥ १॥
atha śailapatiḥ hṛṣṭaḥ sat-puṣpa-phala-saṃcayam .. samādāya sva-tanayā-sahitaḥ agāt hara-aṃtikam .. 1..
स गत्वा त्रिजगन्नाथं प्रणम्य ध्यानतत्परम्॥ अर्थयामास तनयां कालीं तस्मै हृदाद्भुताम् ॥ २॥
स गत्वा त्रिजगन्नाथम् प्रणम्य ध्यान-तत्परम्॥ अर्थयामास तनयाम् कालीम् तस्मै हृदा अद्भुताम् ॥ २॥
sa gatvā trijagannātham praṇamya dhyāna-tatparam.. arthayāmāsa tanayām kālīm tasmai hṛdā adbhutām .. 2..
फलपुष्पादिकं सर्वं तत्तदग्रे निधाय सः ॥ अग्रे कृत्वा सुतां शम्भुमिदमाह च शैलराट् ॥ ३॥
फल-पुष्प-आदिकम् सर्वम् तत् तत् अग्रे निधाय सः ॥ अग्रे कृत्वा सुताम् शम्भुम् इदम् आह च शैलराज् ॥ ३॥
phala-puṣpa-ādikam sarvam tat tat agre nidhāya saḥ .. agre kṛtvā sutām śambhum idam āha ca śailarāj .. 3..
हिमगिरिरुवाच।।
भगवंस्तनया मे त्वां सेवितुं चन्द्रशेखरम् ॥ समुत्सुका समानीता त्वदाराधनकांक्षया ॥ ४॥
भगवन् तनया मे त्वाम् सेवितुम् चन्द्रशेखरम् ॥ समुत्सुका समानीता त्वद्-आराधन-कांक्षया ॥ ४॥
bhagavan tanayā me tvām sevitum candraśekharam .. samutsukā samānītā tvad-ārādhana-kāṃkṣayā .. 4..
सखीभ्यां सह नित्यं त्वां सेवतामेव शंकरम् ॥ अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ॥ ५॥
सखीभ्याम् सह नित्यम् त्वाम् सेवताम् एव शंकरम् ॥ अनुजानीहि ताम् नाथ मयि ते यदी अनुग्रहः ॥ ५॥
sakhībhyām saha nityam tvām sevatām eva śaṃkaram .. anujānīhi tām nātha mayi te yadī anugrahaḥ .. 5..
ब्रह्मोवाच ।।
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ॥ फुल्लेन्दीवरपत्राभा पूर्णचन्द्रनिभाननाम् ॥ ६ ॥
अथ ताम् शंकरः अपश्यत् प्रथम-आरूढ-यौवनाम् ॥ फुल्ल-इन्दीवर-पत्र-आभा पूर्ण-चन्द्र-निभ-आननाम् ॥ ६ ॥
atha tām śaṃkaraḥ apaśyat prathama-ārūḍha-yauvanām .. phulla-indīvara-patra-ābhā pūrṇa-candra-nibha-ānanām .. 6 ..
समस्तलीलासंस्थानशुभवेषविजृम्भिकाम् ॥ कम्बुग्रीवां विशालाक्षीं चारुकर्णयुगोज्ज्वलाम् ॥ ७॥
॥ कम्बु-ग्रीवाम् विशाल-अक्षीम् चारु-कर्ण-युग-उज्ज्वलाम् ॥ ७॥
.. kambu-grīvām viśāla-akṣīm cāru-karṇa-yuga-ujjvalām .. 7..
मृणालायतपर्य्यन्तबाहुयुग्ममनोहराम्॥ राजीवकुड्मलप्रख्यौ घनपीनौदृढौस्तनौ ॥ ८ ॥
मृणाल-आयत-पर्य्यन्त-बाहु-युग्म-मनोहराम्॥ राजीव-कुड्मल-प्रख्यौ घन-पीनौ दृढौ स्तनौ ॥ ८ ॥
mṛṇāla-āyata-paryyanta-bāhu-yugma-manoharām.. rājīva-kuḍmala-prakhyau ghana-pīnau dṛḍhau stanau .. 8 ..
बिभ्रतीं क्षीणमध्यां च त्रिवलीमध्यराजिताम् ॥ स्थलपद्मप्रतीकाशपादयुग्मविराजिताम् ॥ ९ ॥
बिभ्रतीम् क्षीण-मध्याम् च त्रिवली-मध्य-राजिताम् ॥ स्थलपद्म-प्रतीकाश-पाद-युग्म-विराजिताम् ॥ ९ ॥
bibhratīm kṣīṇa-madhyām ca trivalī-madhya-rājitām .. sthalapadma-pratīkāśa-pāda-yugma-virājitām .. 9 ..
ध्यानपंजरनिर्बद्धमुनिमानसमप्यलम् ॥ दर्शनाद्भ्रंशने शक्तां योषिद्गणशिरोमणिम् ॥ 2.3.12.१० ॥
ध्यान-पंजर-निर्बद्ध-मुनि-मानसम् अपि अलम् ॥ दर्शनात् भ्रंशने शक्ताम् योषित्-गण-शिरोमणिम् ॥ २।३।१२।१० ॥
dhyāna-paṃjara-nirbaddha-muni-mānasam api alam .. darśanāt bhraṃśane śaktām yoṣit-gaṇa-śiromaṇim .. 2.3.12.10 ..
दृष्ट्वा तां तादृशीं तात ध्यानिनां च मनोहराम् ॥ विग्रहे तन्त्रमन्त्राणां वर्द्धिनीं कामरूपिणीम् ॥ ११ ॥
दृष्ट्वा ताम् तादृशीम् तात ध्यानिनाम् च मनोहराम् ॥ विग्रहे तन्त्र-मन्त्राणाम् वर्द्धिनीम् कामरूपिणीम् ॥ ११ ॥
dṛṣṭvā tām tādṛśīm tāta dhyāninām ca manoharām .. vigrahe tantra-mantrāṇām varddhinīm kāmarūpiṇīm .. 11 ..
न्यमीलयदृशौ शीघ्रं दध्यौ स्वं रूपमुत्तमम् ॥ परतत्त्वं महायोगी त्रिगुणात्परमव्ययम् ॥ १२ ॥
न्यमीलयत् ऋशौ शीघ्रम् दध्यौ स्वम् रूपम् उत्तमम् ॥ पर-तत्त्वम् महा-योगी त्रिगुणात् परम् अव्ययम् ॥ १२ ॥
nyamīlayat ṛśau śīghram dadhyau svam rūpam uttamam .. para-tattvam mahā-yogī triguṇāt param avyayam .. 12 ..
दृष्ट्वा तदानीं सकलेश्वरं विभुं तपोजुषाणं विनिमीलितेक्षणम्॥ कपर्दिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमासने स्थितम् ॥ ३३ ॥
दृष्ट्वा तदानीम् सकलेश्वरम् विभुम् तपः-जुषाणम् विनिमीलित-ईक्षणम्॥ कपर्दिनम् चन्द्र-कला-विभूषणम् वेदान्त-वेद्यम् परम-आसने स्थितम् ॥ ३३ ॥
dṛṣṭvā tadānīm sakaleśvaram vibhum tapaḥ-juṣāṇam vinimīlita-īkṣaṇam.. kapardinam candra-kalā-vibhūṣaṇam vedānta-vedyam parama-āsane sthitam .. 33 ..
ववन्द शीर्ष्णा च पुनर्हिमाचलः स संशयं प्रापददीनसत्त्वः ॥ उवाच वाक्यं जगदेकबन्धुं गिरीश्वरो वाक्यविदां वरिष्ठः ॥ १४ ॥
ववन्द शीर्ष्णा च पुनर् हिमाचलः स संशयम् प्रापत् अदीन-सत्त्वः ॥ उवाच वाक्यम् जगत्-एक-बन्धुम् गिरीश्वरः वाक्य-विदाम् वरिष्ठः ॥ १४ ॥
vavanda śīrṣṇā ca punar himācalaḥ sa saṃśayam prāpat adīna-sattvaḥ .. uvāca vākyam jagat-eka-bandhum girīśvaraḥ vākya-vidām variṣṭhaḥ .. 14 ..
हिमाचल उवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ पश्य मां शरणम्प्राप्तमुन्मील्य नयने विभो ॥ १५ ॥
देवदेव महादेव करुणाकर शंकर ॥ पश्य माम् शरणम् प्राप्तम् उन्मील्य नयने विभो ॥ १५ ॥
devadeva mahādeva karuṇākara śaṃkara .. paśya mām śaraṇam prāptam unmīlya nayane vibho .. 15 ..
शिव शर्व महेशान जगदानन्दकृत्प्रभो ॥ त्वां नतोऽहं महादेव सर्वापद्विनिवर्तकम् ॥ १६ ॥
शिव शर्व महेशान जगत्-आनन्द-कृत् प्रभो ॥ त्वाम् नतः अहम् महादेव सर्व-आपद्-विनिवर्तकम् ॥ १६ ॥
śiva śarva maheśāna jagat-ānanda-kṛt prabho .. tvām nataḥ aham mahādeva sarva-āpad-vinivartakam .. 16 ..
न त्वां जानंति देवेश वेदाश्शास्त्राणि कृत्स्नशः॥ अतीतो महिमाध्वानं तव वाङ्मनसोः सदा ॥ १७॥
न त्वाम् जानंति देवेश वेदाः शास्त्राणि कृत्स्नशस्॥ अतीतः महिमा अध्वानम् तव वाच्-मनसोः सदा ॥ १७॥
na tvām jānaṃti deveśa vedāḥ śāstrāṇi kṛtsnaśas.. atītaḥ mahimā adhvānam tava vāc-manasoḥ sadā .. 17..
अतद्व्यावृत्तितस्त्वां वै चकितं चकितं सदा ॥ अभिधत्ते श्रुतिः सर्वा परेषां का कथा मता ॥ १८॥
अ तद्-व्यावृत्तितः त्वाम् वै चकितम् चकितम् सदा ॥ अभिधत्ते श्रुतिः सर्वा परेषाम् का कथा मता ॥ १८॥
a tad-vyāvṛttitaḥ tvām vai cakitam cakitam sadā .. abhidhatte śrutiḥ sarvā pareṣām kā kathā matā .. 18..
जानंति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥ शरणागत भक्तानां न कुत्रापि भ्रमादिकम् ॥ १९॥
जानंति बहवः भक्ताः त्वद्-कृपाम् प्राप्य भक्तितः ॥ शरण-आगत भक्तानाम् न कुत्र अपि भ्रम-आदिकम् ॥ १९॥
jānaṃti bahavaḥ bhaktāḥ tvad-kṛpām prāpya bhaktitaḥ .. śaraṇa-āgata bhaktānām na kutra api bhrama-ādikam .. 19..
विज्ञप्तिं शृणु मत्प्रीत्या स्वदासस्य ममाधुना॥ तव देवाज्ञया तात दीनत्वाद्वर्णयामि हि ॥ 2.3.12.२० ॥
विज्ञप्तिम् शृणु मद्-प्रीत्या स्व-दासस्य मम अधुना॥ तव देव-आज्ञया तात दीन-त्वात् वर्णयामि हि ॥ २।३।१२।२० ॥
vijñaptim śṛṇu mad-prītyā sva-dāsasya mama adhunā.. tava deva-ājñayā tāta dīna-tvāt varṇayāmi hi .. 2.3.12.20 ..
सभाग्योहं महादेव प्रसादात्तव शंकर ॥ मत्वा स्वदासं मां नाथ कृपां कुरु नमोऽस्तु ते ॥ २१ ॥
सभाग्यः हम् महादेव प्रसादात् तव शंकर ॥ मत्वा स्व-दासम् माम् नाथ कृपाम् कुरु नमः अस्तु ते ॥ २१ ॥
sabhāgyaḥ ham mahādeva prasādāt tava śaṃkara .. matvā sva-dāsam mām nātha kṛpām kuru namaḥ astu te .. 21 ..
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥ अनया सुतया स्वामिन्निदेशं दातुमर्हसि ॥ २२॥
प्रत्यहम् च आगमिष्यामि दर्शन-अर्थम् तव प्रभो॥ अनया सुतया स्वामिन् निदेशम् दातुम् अर्हसि ॥ २२॥
pratyaham ca āgamiṣyāmi darśana-artham tava prabho.. anayā sutayā svāmin nideśam dātum arhasi .. 22..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्योन्मील्य नेत्रे महेश्वरः ॥ त्यक्तध्यानः परामृश्य देवदेवोऽब्रवीद्वचः ॥ २३॥
इति आकर्ण्य वचः तस्य उन्मील्य नेत्रे महेश्वरः ॥ त्यक्त-ध्यानः परामृश्य देवदेवः अब्रवीत् वचः ॥ २३॥
iti ākarṇya vacaḥ tasya unmīlya netre maheśvaraḥ .. tyakta-dhyānaḥ parāmṛśya devadevaḥ abravīt vacaḥ .. 23..
।। महेश्वर उवाच ।।
आगंतव्यं त्वया नित्यं दर्शनार्थं ममाचल॥ कुमारीं सदने स्थाप्य नान्यथा मम दर्शनम् ॥ २४ ॥
आगंतव्यम् त्वया नित्यम् दर्शन-अर्थम् मम अचल॥ कुमारीम् सदने स्थाप्य न अन्यथा मम दर्शनम् ॥ २४ ॥
āgaṃtavyam tvayā nityam darśana-artham mama acala.. kumārīm sadane sthāpya na anyathā mama darśanam .. 24 ..
।। ब्रह्मोवाच ।।
महेशवचनं श्रुत्वा शिवातातस्तथाविधम् ॥ अचलः प्रत्युवाचेदं गिरिशं नतकमधरः ॥ २५ ॥
महेश-वचनम् श्रुत्वा शिवातातः तथाविधम् ॥ अचलः प्रत्युवाच इदम् गिरिशम् नतकम् अधरः ॥ २५ ॥
maheśa-vacanam śrutvā śivātātaḥ tathāvidham .. acalaḥ pratyuvāca idam giriśam natakam adharaḥ .. 25 ..
हिमाचल उवाच ।।
कस्मान्मयानया सार्द्धं नागंतव्यं तदुच्यताम् ॥ सेवने किमयोग्येयं नाहं वेद्म्यत्र कारणम् ॥ २६ ॥
कस्मात् मया अनया सार्द्धम् न आगंतव्यम् तत् उच्यताम् ॥ सेवने किम् अयोग्या इयम् न अहम् वेद्मि अत्र कारणम् ॥ २६ ॥
kasmāt mayā anayā sārddham na āgaṃtavyam tat ucyatām .. sevane kim ayogyā iyam na aham vedmi atra kāraṇam .. 26 ..
ब्रह्मोवाच ।।
ततोऽब्रवीद्गिरिं शंभुः प्रहसन्वृषभध्वजः ॥ लोकाचारं विशेषेण दर्शयन्हि कुयोगिनाम् ॥ २७ ॥
ततस् अब्रवीत् गिरिम् शंभुः प्रहसन् वृषभध्वजः ॥ लोक-आचारम् विशेषेण दर्शयन् हि कु योगिनाम् ॥ २७ ॥
tatas abravīt girim śaṃbhuḥ prahasan vṛṣabhadhvajaḥ .. loka-ācāram viśeṣeṇa darśayan hi ku yoginām .. 27 ..
शंभुरुवाच ।।
इयं कुमारी सुश्रोणी तन्वी चन्द्रानना शुभा ॥ नानेतव्या मत्समीपे वारयामि पुनः पुनः ॥ २८ ॥
इयम् कुमारी सुश्रोणी तन्वी चन्द्र-आनना शुभा ॥ न आनेतव्या मद्-समीपे वारयामि पुनर् पुनर् ॥ २८ ॥
iyam kumārī suśroṇī tanvī candra-ānanā śubhā .. na ānetavyā mad-samīpe vārayāmi punar punar .. 28 ..
मायारूपा स्मृता नारी विद्वद्भिर्वेदपारगैः ॥ युवती तु विशेषेण विघ्नकर्त्री तपस्विनाम् ॥ २९॥
माया-रूपा स्मृता नारी विद्वद्भिः वेदपारगैः ॥ युवती तु विशेषेण विघ्न-कर्त्री तपस्विनाम् ॥ २९॥
māyā-rūpā smṛtā nārī vidvadbhiḥ vedapāragaiḥ .. yuvatī tu viśeṣeṇa vighna-kartrī tapasvinām .. 29..
अहं तपस्वी योगी च निर्लिप्तो मायया सदा ॥ प्रयोजनं न युक्त्या वै स्त्रिया किं मेस्ति भूधर ॥ 2.3.12.३० ॥
अहम् तपस्वी योगी च निर्लिप्तः मायया सदा ॥ प्रयोजनम् न युक्त्या वै स्त्रिया किम् मे इस्ति भूधर ॥ २।३।१२।३० ॥
aham tapasvī yogī ca nirliptaḥ māyayā sadā .. prayojanam na yuktyā vai striyā kim me isti bhūdhara .. 2.3.12.30 ..
एवं पुनर्न वक्तव्यं तपस्विवरसंश्रित ॥ वेदधर्मप्रवीणस्त्वं यतो ज्ञानिवरो बुधः ॥ ३१ ॥
एवम् पुनर् न वक्तव्यम् तपस्वि-वर-संश्रित ॥ वेद-धर्म-प्रवीणः त्वम् यतस् ज्ञानि-वरः बुधः ॥ ३१ ॥
evam punar na vaktavyam tapasvi-vara-saṃśrita .. veda-dharma-pravīṇaḥ tvam yatas jñāni-varaḥ budhaḥ .. 31 ..
भवत्यचल तत्संगाद्विषयोत्पत्तिराशु वै ॥ विनश्यति च वैराग्यं ततो भ्रश्यति सत्तपः ॥ ३२॥
भवति अचल तद्-संगात् विषय-उत्पत्तिः आशु वै ॥ विनश्यति च वैराग्यम् ततस् भ्रश्यति सत्-तपः ॥ ३२॥
bhavati acala tad-saṃgāt viṣaya-utpattiḥ āśu vai .. vinaśyati ca vairāgyam tatas bhraśyati sat-tapaḥ .. 32..
अतस्तपस्विना शैल न कार्या स्त्रीषु संगतिः ॥ महाविषयमूलं सा ज्ञानवैराग्यनाशिनी॥ ३३॥
अतस् तपस्विना शैल न कार्या स्त्रीषु संगतिः ॥ महा-विषय-मूलम् सा ज्ञान-वैराग्य-नाशिनी॥ ३३॥
atas tapasvinā śaila na kāryā strīṣu saṃgatiḥ .. mahā-viṣaya-mūlam sā jñāna-vairāgya-nāśinī.. 33..
।। ब्रह्मोवाच ।।
इत्याद्युक्त्वा बहुतरं महायोगी महेश्वरः ॥ ।विरराम गिरीशं तं महायोगिवरः प्रभुः ॥ ३४ ॥
इत्यादि उक्त्वा बहुतरम् महा-योगी महेश्वरः ॥ ।विरराम गिरीशम् तम् महा-योगि-वरः प्रभुः ॥ ३४ ॥
ityādi uktvā bahutaram mahā-yogī maheśvaraḥ .. .virarāma girīśam tam mahā-yogi-varaḥ prabhuḥ .. 34 ..
एतच्छ्रुत्वा वचनं तस्य शंभोर्निरामयं निःस्पृहं निष्ठुरं च ॥ कालीतातश्चकितोऽभूत्सुरर्षे तद्वत्किंचिद्व्याकुलश्चास तूष्णीम् ॥ ३५ ॥
एतत् श्रुत्वा वचनम् तस्य शंभोः निरामयम् निःस्पृहम् निष्ठुरम् च ॥ काली-तातः चकितः अभूत् सुर-ऋषे तद्वत् किंचिद् व्याकुलः च आस तूष्णीम् ॥ ३५ ॥
etat śrutvā vacanam tasya śaṃbhoḥ nirāmayam niḥspṛham niṣṭhuram ca .. kālī-tātaḥ cakitaḥ abhūt sura-ṛṣe tadvat kiṃcid vyākulaḥ ca āsa tūṣṇīm .. 35 ..
तपस्विनोक्तं वचनं निशम्य तथा गिरीशं चकितं विचार्य्य ॥ अतः प्रणम्यैव शिवं भवानी जगाद वाक्यं विशदन्तदानीम् ॥ ३६॥
तपस्विना उक्तम् वचनम् निशम्य तथा गिरीशम् चकितम् विचार्य्य ॥ अतस् प्रणम्य एव शिवम् भवानी जगाद वाक्यम् विशद-अन्त-दानीम् ॥ ३६॥
tapasvinā uktam vacanam niśamya tathā girīśam cakitam vicāryya .. atas praṇamya eva śivam bhavānī jagāda vākyam viśada-anta-dānīm .. 36..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवहिमाचलसम्वादवर्णनम् नाम द्वादशः अध्यायः ॥ १२॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivahimācalasamvādavarṇanam nāma dvādaśaḥ adhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In