| |
|

This overlay will guide you through the buttons:

भवान्युवाच ।।
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना ॥ तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद ॥ १ ॥
किम् उक्तम् गिरिराजाय त्वया योगिः तपस्विना ॥ तत् उत्तरम् शृणु विभो मत्तः ज्ञानि-विशारद ॥ १ ॥
kim uktam girirājāya tvayā yogiḥ tapasvinā .. tat uttaram śṛṇu vibho mattaḥ jñāni-viśārada .. 1 ..
तपश्शक्त्यान्वितश्शम्भो करोषि विपुलं तपः ॥ तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥ २ ॥
तपः शक्त्या अन्वितः शम्भो करोषि विपुलम् तपः ॥ तव बुद्धिः इयम् जाता तपः तप्तुम् महात्मनः ॥ २ ॥
tapaḥ śaktyā anvitaḥ śambho karoṣi vipulam tapaḥ .. tava buddhiḥ iyam jātā tapaḥ taptum mahātmanaḥ .. 2 ..
सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम् ॥ तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥ ३ ॥
सा शक्तिः प्रकृतिः ज्ञेया सर्वेषाम् अपि कर्मणाम् ॥ तया विरच्यते सर्वम् पाल्यते च विनाश्यते ॥ ३ ॥
sā śaktiḥ prakṛtiḥ jñeyā sarveṣām api karmaṇām .. tayā viracyate sarvam pālyate ca vināśyate .. 3 ..
कस्त्वं का प्रकृतिस्सूक्ष्मा भगवंस्तद्विमृश्यताम् ॥ विना प्रकृत्या च कथं लिंगरूपी महेश्वरः ॥ ४ ॥
कः त्वम् का प्रकृतिः सूक्ष्मा भगवन् तत् विमृश्यताम् ॥ विना प्रकृत्या च कथम् लिंग-रूपी महेश्वरः ॥ ४ ॥
kaḥ tvam kā prakṛtiḥ sūkṣmā bhagavan tat vimṛśyatām .. vinā prakṛtyā ca katham liṃga-rūpī maheśvaraḥ .. 4 ..
अर्चनीयोऽसि वंद्योऽसि ध्येयोऽसि प्राणिनां सदा ॥ प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥ ५ ॥
अर्चनीयः असि वंद्यः असि ध्येयः असि प्राणिनाम् सदा ॥ प्रकृत्या च विचार्य इति हृदा सर्वम् तत् उच्यताम् ॥ ५ ॥
arcanīyaḥ asi vaṃdyaḥ asi dhyeyaḥ asi prāṇinām sadā .. prakṛtyā ca vicārya iti hṛdā sarvam tat ucyatām .. 5 ..
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः ॥ सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥ ६ ॥
पार्वत्याः तत् वचः श्रुत्वा महा-ऊति-करणे रतः ॥ सु विहस्य प्रसन्न-आत्मा महेशः वाक्यम् अब्रवीत् ॥ ६ ॥
pārvatyāḥ tat vacaḥ śrutvā mahā-ūti-karaṇe rataḥ .. su vihasya prasanna-ātmā maheśaḥ vākyam abravīt .. 6 ..
।। महेश्वर उवाच ।।
तपसा परमेणेव प्रकृतिं नाशयाम्यहम् ॥ प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः ॥ ७ ॥
तपसा परमेण इव प्रकृतिम् नाशयामि अहम् ॥ प्रकृत्याः रहितः शम्भुः अहम् तिष्ठामि तत्त्वतः ॥ ७ ॥
tapasā parameṇa iva prakṛtim nāśayāmi aham .. prakṛtyāḥ rahitaḥ śambhuḥ aham tiṣṭhāmi tattvataḥ .. 7 ..
तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित् ॥ स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः ॥ ८॥
तस्मात् च प्रकृतेः सद्भिः न कार्यः संग्रहः क्वचिद् ॥ स्थातव्यम् निर्विकारैः च लोक-आचार-विवर्जितैः ॥ ८॥
tasmāt ca prakṛteḥ sadbhiḥ na kāryaḥ saṃgrahaḥ kvacid .. sthātavyam nirvikāraiḥ ca loka-ācāra-vivarjitaiḥ .. 8..
।। ब्रह्मोवाच ।।
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः ॥ सुविहस्य हृदा काली जगाद मधुरं वचः ॥ ९ ॥ ।
इति उक्ता शम्भुना तात लौकिक-व्यवहारतः ॥ सु विहस्य हृदा काली जगाद मधुरम् वचः ॥ ९ ॥ ।
iti uktā śambhunā tāta laukika-vyavahārataḥ .. su vihasya hṛdā kālī jagāda madhuram vacaḥ .. 9 .. .
।। काल्युवाच ।।
यदुक्तं भवता योगिन्वचनं शंकर प्रभो ॥ सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥ 2.3.13.१ ०॥
यत् उक्तम् भवता योगिन् वचनम् शंकर प्रभो ॥ सा च किम् प्रकृतिः न स्यात् अतीतः ताम् भवान् कथम् ॥ २।३।१३।१ ०॥
yat uktam bhavatā yogin vacanam śaṃkara prabho .. sā ca kim prakṛtiḥ na syāt atītaḥ tām bhavān katham .. 2.3.13.1 0..
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम् ॥ प्रकृत्या सर्वमेतच्च बद्धमस्ति निरंतरम् ॥ ११ ॥
एतत् विचार्य वक्तव्यम् तत्त्वतः हि यथातथम् ॥ प्रकृत्या सर्वम् एतत् च बद्धम् अस्ति निरंतरम् ॥ ११ ॥
etat vicārya vaktavyam tattvataḥ hi yathātatham .. prakṛtyā sarvam etat ca baddham asti niraṃtaram .. 11 ..
तस्मात्त्वया न वक्तव्यं न कार्यं किंचिदेव हि ॥ वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥ १२ ॥
तस्मात् त्वया न वक्तव्यम् न कार्यम् किंचिद् एव हि ॥ वचनम् रचनम् सर्वम् प्राकृतम् विद्धि चेतसा ॥ १२ ॥
tasmāt tvayā na vaktavyam na kāryam kiṃcid eva hi .. vacanam racanam sarvam prākṛtam viddhi cetasā .. 12 ..
यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत् ॥ तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥ १३ ॥
यत् शृणोषि यत् अश्नासि यत् पश्यसि करोषि यत् ॥ तत् सर्वम् प्रकृतेः कार्यम् मिथ्यावादः निरर्थकः ॥ १३ ॥
yat śṛṇoṣi yat aśnāsi yat paśyasi karoṣi yat .. tat sarvam prakṛteḥ kāryam mithyāvādaḥ nirarthakaḥ .. 13 ..
प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः ॥ त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥ १४ ॥
प्रकृतेः परमः चेद् त्वम् किमर्थम् तप्यसे तपः ॥ त्वया शंभो अधुना हि अस्मिन् गिरौ हिमवति प्रभो ॥ १४ ॥
prakṛteḥ paramaḥ ced tvam kimartham tapyase tapaḥ .. tvayā śaṃbho adhunā hi asmin girau himavati prabho .. 14 ..
प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर ॥ निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥ १५ ॥
प्रकृत्या गिलितः असि त्वम् न जानासि निजम् हर ॥ निजम् जानासि चेद् ईश किमर्थम् तप्यसे तपः ॥ १५ ॥
prakṛtyā gilitaḥ asi tvam na jānāsi nijam hara .. nijam jānāsi ced īśa kimartham tapyase tapaḥ .. 15 ..
वाग्वादेन च किं कार्यं मम योगिस्त्वया सह ॥ प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥ १६ ॥
वाग्वादेन च किम् कार्यम् मम योगिः त्वया सह ॥ प्रत्यक्षे हि अनुमानस्य न प्रमाणम् विदुः बुधाः ॥ १६ ॥
vāgvādena ca kim kāryam mama yogiḥ tvayā saha .. pratyakṣe hi anumānasya na pramāṇam viduḥ budhāḥ .. 16 ..
इंद्रियाणां गोचरत्वं यावद्भवति देहिनाम् ॥ तावत्सर्वं विमंतव्यं प्राकृतं ज्ञानिभिर्धिया ॥ १७ ॥
इंद्रियाणाम् गोचर-त्वम् यावत् भवति देहिनाम् ॥ तावत् सर्वम् विमंतव्यम् प्राकृतम् ज्ञानिभिः धिया ॥ १७ ॥
iṃdriyāṇām gocara-tvam yāvat bhavati dehinām .. tāvat sarvam vimaṃtavyam prākṛtam jñānibhiḥ dhiyā .. 17 ..
किं बहूक्तेन योगीश शृणु मद्वचनं परम् ॥ सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥ १८ ॥
किम् बहु-उक्तेन योगि-ईश शृणु मद्-वचनम् परम् ॥ सा च अहम् पुरुषः असि त्वम् सत्यम् सत्यम् न संशयः ॥ १८ ॥
kim bahu-uktena yogi-īśa śṛṇu mad-vacanam param .. sā ca aham puruṣaḥ asi tvam satyam satyam na saṃśayaḥ .. 18 ..
मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः ॥ मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि ॥ १९ ॥
मद्-अनुग्रहतः त्वम् हि स गुणः रूपवान् मतः ॥ माम् विना त्वम् निरीहः असि न किंचिद् कर्तुम् अर्हसि ॥ १९ ॥
mad-anugrahataḥ tvam hi sa guṇaḥ rūpavān mataḥ .. mām vinā tvam nirīhaḥ asi na kiṃcid kartum arhasi .. 19 ..
पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी ॥ निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥ 2.3.13.२० ॥
पर-अधीनः सदा त्वम् हि नाना कर्म्म-करः वशी ॥ निर्विकारी कथम् त्वम् हि न लिप्तः च मया कथम् ॥ २।३।१३।२० ॥
para-adhīnaḥ sadā tvam hi nānā karmma-karaḥ vaśī .. nirvikārī katham tvam hi na liptaḥ ca mayā katham .. 2.3.13.20 ..
प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव ॥ तर्हि त्वया न भेतव्यं समीपे मम शंकर ॥ २१ ॥
प्रकृतेः परमः असि त्वम् यदि सत्यम् वचः तव ॥ तर्हि त्वया न भेतव्यम् समीपे मम शंकर ॥ २१ ॥
prakṛteḥ paramaḥ asi tvam yadi satyam vacaḥ tava .. tarhi tvayā na bhetavyam samīpe mama śaṃkara .. 21 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्याः सांख्यशास्त्रोदितं शिवः ॥ वेदांतमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥ २२ ॥
इति आकर्ण्य वचः तस्याः सांख्य-शास्त्र-उदितम् शिवः ॥ वेदांत-मत-संस्थः हि वाक्यम् ऊचे शिवाम् प्रति ॥ २२ ॥
iti ākarṇya vacaḥ tasyāḥ sāṃkhya-śāstra-uditam śivaḥ .. vedāṃta-mata-saṃsthaḥ hi vākyam ūce śivām prati .. 22 ..
श्रीशिव उवाच ।।
इत्येवं त्वं यदि ब्रूषे गिरिजे सांख्यधारिणी ॥ प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥ २३ ॥
इति एवम् त्वम् यदि ब्रूषे गिरिजे सांख्य-धारिणी ॥ प्रत्यहम् कुरु मे सेवाम् अनिषिद्धाम् सु भाषिणि ॥ २३ ॥
iti evam tvam yadi brūṣe girije sāṃkhya-dhāriṇī .. pratyaham kuru me sevām aniṣiddhām su bhāṣiṇi .. 23 ..
यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः ॥ वेदांतवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥ २४ ॥
यदि अहम् ब्रह्म निर्लिप्तः मायया परमेश्वरः ॥ वेदांत-वेद्यः माया-ईशः त्वम् करिष्यसि किम् तदा ॥ २४ ॥
yadi aham brahma nirliptaḥ māyayā parameśvaraḥ .. vedāṃta-vedyaḥ māyā-īśaḥ tvam kariṣyasi kim tadā .. 24 ..
।। ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः ॥ भक्तानुरंजनकरो भक्तानुग्रहकारकः ॥ २५ ॥
इति एवम् उक्त्वा गिरिजाम् वाक्यम् ऊचे गिरिम् प्रभुः ॥ भक्त-अनुरंजन-करः भक्त-अनुग्रह-कारकः ॥ २५ ॥
iti evam uktvā girijām vākyam ūce girim prabhuḥ .. bhakta-anuraṃjana-karaḥ bhakta-anugraha-kārakaḥ .. 25 ..
शिव उवाच ।।
अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये ॥ चरामि भूमौ परमार्थभावस्वरूपमानंदमयं सुलोचयन् ॥ २६ ॥
अत्रा एव सः अहम् तपसा परेण गिरे तव प्रस्थ-वरे अति रम्ये ॥ चरामि भूमौ परम-अर्थ-भाव-स्वरूपम् आनंद-मयम् सु लोचयन् ॥ २६ ॥
atrā eva saḥ aham tapasā pareṇa gire tava prastha-vare ati ramye .. carāmi bhūmau parama-artha-bhāva-svarūpam ānaṃda-mayam su locayan .. 26 ..
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप ॥ अनुज्ञया विना किंचित्तपः कर्तुं न शक्यते ॥ २७ ॥
तपः तप्तुम् अनुज्ञा मे दातव्या पर्वत-अधिप ॥ अनुज्ञया विना किंचिद् तपः कर्तुम् न शक्यते ॥ २७ ॥
tapaḥ taptum anujñā me dātavyā parvata-adhipa .. anujñayā vinā kiṃcid tapaḥ kartum na śakyate .. 27 ..
।। ब्रह्मोवाच ।।
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः ॥ प्रणम्य हिमवाञ्छंभुमिदं वचनमब्रवीत् ॥ २८ ॥
एतत् श्रुत्वा वचः तस्य देवदेवस्य शूलिनः ॥ प्रणम्य हिमवान् शंभुम् इदम् वचनम् अब्रवीत् ॥ २८ ॥
etat śrutvā vacaḥ tasya devadevasya śūlinaḥ .. praṇamya himavān śaṃbhum idam vacanam abravīt .. 28 ..
हिमवानुवाच ।।
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम् ॥ किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥ २९॥
त्वदीयम् हि जगत् सर्वम् स देव-असुर-मानुषम् ॥ किम् अपि अहम् महादेव तुच्छः भूत्वा वदामि ते ॥ २९॥
tvadīyam hi jagat sarvam sa deva-asura-mānuṣam .. kim api aham mahādeva tucchaḥ bhūtvā vadāmi te .. 29..
एवमुक्तो हिमवता शंकरो लोकशंकरः ॥ विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥ 2.3.13.३० ॥
एवम् उक्तः हिमवता शंकरः लोक-शंकरः ॥ विहस्य गिरि-राजम् तम् प्राह याहि इति सादरम् ॥ २।३।१३।३० ॥
evam uktaḥ himavatā śaṃkaraḥ loka-śaṃkaraḥ .. vihasya giri-rājam tam prāha yāhi iti sādaram .. 2.3.13.30 ..
शंकरेणाभ्यनुज्ञातस्स्वगृहं हिमवान्ययौ ॥ सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥ ३१ ॥
शंकरेण अभ्यनुज्ञातः स्व-गृहम् हिमवान् ययौ ॥ सार्द्धम् गिरिजया वै स प्रत्यहम् दर्शने स्थितः ॥ ३१ ॥
śaṃkareṇa abhyanujñātaḥ sva-gṛham himavān yayau .. sārddham girijayā vai sa pratyaham darśane sthitaḥ .. 31 ..
पित्रा विनापि सा काली सखीभ्यां सह नित्यशः ॥ जगाम शंकराभ्याशं सेवायै भक्तितत्परा ॥ ३२ ॥
पित्रा विना अपि सा काली सखीभ्याम् सह नित्यशस् ॥ जगाम शंकर-अभ्याशम् सेवायै भक्ति-तत्परा ॥ ३२ ॥
pitrā vinā api sā kālī sakhībhyām saha nityaśas .. jagāma śaṃkara-abhyāśam sevāyai bhakti-tatparā .. 32 ..
निषिषेध न तां कोऽपि गणो नंदीश्वरादिकः ॥ महेशशासनात्तात तच्छासनकरश्शुचिः ॥ ३३॥
निषिषेध न ताम् कः अपि गणः नंदीश्वर-आदिकः ॥ महेश-शासनात् तात तद्-शासन-करः शुचिः ॥ ३३॥
niṣiṣedha na tām kaḥ api gaṇaḥ naṃdīśvara-ādikaḥ .. maheśa-śāsanāt tāta tad-śāsana-karaḥ śuciḥ .. 33..
सांख्यवेदांतमतयोश्शिवयोश्शि वदस्सदा ॥ संवादः सुखकृच्चोक्तोऽभिन्नयोस्सुविचारतः ॥ ३४ ॥
सांख्य-वेदांत-मतयोः शिवयोः शि वदः सदा ॥ संवादः सुख-कृत् च उक्तः अभिन्नयोः सु विचारतः ॥ ३४ ॥
sāṃkhya-vedāṃta-matayoḥ śivayoḥ śi vadaḥ sadā .. saṃvādaḥ sukha-kṛt ca uktaḥ abhinnayoḥ su vicārataḥ .. 34 ..
गिरिराजस्य वचनात्तनयां तस्य शंकरः ॥ पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥ ३५ ॥
गिरि-राजस्य वचनात् तनयाम् तस्य शंकरः ॥ पार्श्वे समीपे जग्राह गौरवात् अपि गोपरः ॥ ३५ ॥
giri-rājasya vacanāt tanayām tasya śaṃkaraḥ .. pārśve samīpe jagrāha gauravāt api goparaḥ .. 35 ..
उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः ॥ नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥ ३६॥
उवाच इदम् वचः कालीम् सखीभ्याम् सह गोपतिः ॥ नित्यम् माम् सेवताम् यातु निर्भीता हि अत्र तिष्ठतु ॥ ३६॥
uvāca idam vacaḥ kālīm sakhībhyām saha gopatiḥ .. nityam mām sevatām yātu nirbhītā hi atra tiṣṭhatu .. 36..
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः ॥ निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥ ३७ ॥
एवम् उक्त्वा तु ताम् देवीम् सेवायै जगृहे हरः ॥ ॥ ३७ ॥
evam uktvā tu tām devīm sevāyai jagṛhe haraḥ .. .. 37 ..
इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम् ॥ विघ्रवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ॥ ३८॥
इदम् एव महत् धैर्यम् धीराणाम् सु तपस्विनाम् ॥ विघ्रवन्ति अपि संप्राप्य यत् विघ्नैः न विहन्यते ॥ ३८॥
idam eva mahat dhairyam dhīrāṇām su tapasvinām .. vighravanti api saṃprāpya yat vighnaiḥ na vihanyate .. 38..
ततः स्वपुरमायातो गिरिराट् परिचारकैः॥ मुमोदातीव मनसि सप्रियस्स मुनीश्वर ॥ ३९॥
ततस् स्व-पुरम् आयातः गिरि-राज् परिचारकैः॥ मुमोद अतीव मनसि स प्रियः स मुनि-ईश्वर ॥ ३९॥
tatas sva-puram āyātaḥ giri-rāj paricārakaiḥ.. mumoda atīva manasi sa priyaḥ sa muni-īśvara .. 39..
हरश्च ध्यानयोगेन परमात्मानमादरात् ॥ निर्विघ्नेन स्वमनसा त्वासीच्चिंतयितुं स्थितः ॥ 2.3.13.४०॥
हरः च ध्यान-योगेन परमात्मानम् आदरात् ॥ निर्विघ्नेन स्व-मनसा तु आसीत् चिंतयितुम् स्थितः ॥ २।३।१३।४०॥
haraḥ ca dhyāna-yogena paramātmānam ādarāt .. nirvighnena sva-manasā tu āsīt ciṃtayitum sthitaḥ .. 2.3.13.40..
काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम् ॥ सेवमाना महादेवं गमनागमने स्थिता ॥ ४१ ॥
काली सखीभ्याम् सहिता प्रत्यहम् चंद्रशेखरम् ॥ सेवमाना महादेवम् गमन-आगमने स्थिता ॥ ४१ ॥
kālī sakhībhyām sahitā pratyaham caṃdraśekharam .. sevamānā mahādevam gamana-āgamane sthitā .. 41 ..
प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम् ॥ वह्निशौचैन वस्त्रेण चक्रे तद्गात्रमार्जनम् ॥ ४२॥
प्रक्षाल्य चरणौ शंभोः पपौ तद्-चरण-उदकम् ॥ वस्त्रेण चक्रे तद्-गात्र-मार्जनम् ॥ ४२॥
prakṣālya caraṇau śaṃbhoḥ papau tad-caraṇa-udakam .. vastreṇa cakre tad-gātra-mārjanam .. 42..
षोडशेनोपचारेण संपूज्य विधिवद्धरम् ॥ पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥ ४३ ॥
षोडशेन उपचारेण संपूज्य विधिवत् हरम् ॥ पुनर् पुनर् सु प्रणम्य ययौ नित्यम् पितुः गृहम् ॥ ४३ ॥
ṣoḍaśena upacāreṇa saṃpūjya vidhivat haram .. punar punar su praṇamya yayau nityam pituḥ gṛham .. 43 ..
एवं संसेवमानायां शंकरं ध्यानतत्परम् ॥ व्यतीयाय महान्कालश्शिवाया मुनिसत्तम ॥ ४४ ॥
एवम् संसेवमानायाम् शंकरम् ध्यान-तत्परम् ॥ व्यतीयाय महान् कालः शिवायाः मुनि-सत्तम ॥ ४४ ॥
evam saṃsevamānāyām śaṃkaram dhyāna-tatparam .. vyatīyāya mahān kālaḥ śivāyāḥ muni-sattama .. 44 ..
कदाचित्सहिता काली सखीभ्यां शंकराश्रमे ॥ वितेने सुंदरं गानं सुतालं स्मरवर्द्धनम् ॥ ४५ ॥
कदाचिद् सहिता काली सखीभ्याम् शंकर-आश्रमे ॥ वितेने सुंदरम् गानम् सुतालम् स्मर-वर्द्धनम् ॥ ४५ ॥
kadācid sahitā kālī sakhībhyām śaṃkara-āśrame .. vitene suṃdaram gānam sutālam smara-varddhanam .. 45 ..
कदाचित्कुशपुष्पाणि समिधं नयति स्वयम् ॥ सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥ ४६॥
कदाचिद् कुश-पुष्पाणि समिधम् नयति स्वयम् ॥ सखीभ्याम् स्थान-संस्कारम् कुर्वती न्यवसत् तदा ॥ ४६॥
kadācid kuśa-puṣpāṇi samidham nayati svayam .. sakhībhyām sthāna-saṃskāram kurvatī nyavasat tadā .. 46..
कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम् ॥ वीक्षंती विस्मयामास सकामा चन्द्रशेखरम् ॥ ४७॥
कदाचिद् नियता गेहे स्थिता चन्द्रभृतः भ्रृशम् ॥ वीक्षंती विस्मयामास स कामा चन्द्रशेखरम् ॥ ४७॥
kadācid niyatā gehe sthitā candrabhṛtaḥ bhrṛśam .. vīkṣaṃtī vismayāmāsa sa kāmā candraśekharam .. 47..
ततस्तप्तेन भूतेशस्तां निस्संगां परिस्थिताम् ॥ सोऽचिंतयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥ ४८॥ ।
ततस् तप्तेन भूतेशः ताम् निस्संगाम् परिस्थिताम् ॥ सः अचिंतयत् तदा वीक्ष्य भूत-देहे स्थिता इति च ॥ ४८॥ ।
tatas taptena bhūteśaḥ tām nissaṃgām paristhitām .. saḥ aciṃtayat tadā vīkṣya bhūta-dehe sthitā iti ca .. 48.. .
नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम् ॥ महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥ ४९ ॥
न अग्रहीत् गिरिशः कालीम् भार्या-अर्थे निकटे स्थिताम् ॥ महा-लावण्य-निचयाम् मुनीनाम् अपि मोहिनीम् ॥ ४९ ॥
na agrahīt giriśaḥ kālīm bhāryā-arthe nikaṭe sthitām .. mahā-lāvaṇya-nicayām munīnām api mohinīm .. 49 ..
महादेवः पुनर्दृष्ट्वा तथा तां संयतेद्रियाम् ॥ स्वसेवने रतां नित्यं सदयस्समचिंतयत् ॥ 2.3.13.५० ॥
महादेवः पुनर् दृष्ट्वा तथा ताम् संयत-इद्रियाम् ॥ स्व-सेवने रताम् नित्यम् सदयः समचिंतयत् ॥ २।३।१३।५० ॥
mahādevaḥ punar dṛṣṭvā tathā tām saṃyata-idriyām .. sva-sevane ratām nityam sadayaḥ samaciṃtayat .. 2.3.13.50 ..
यदैवैषा तपश्चर्याव्रतं काली करिष्यति ॥ तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥ ५१ ॥
यदा एव एषा तपः-चर्या-व्रतम् काली करिष्यति ॥ तदा च ताम् ग्रहीष्यामि गर्व-बीज-विवर्जिताम् ॥ ५१ ॥
yadā eva eṣā tapaḥ-caryā-vratam kālī kariṣyati .. tadā ca tām grahīṣyāmi garva-bīja-vivarjitām .. 51 ..
।। ब्रह्मोवाच ।।
इति संचिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः ॥ महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥ ५२ ॥
इति संचिन्त्य भूतेशः द्रुतम् ध्यान-समाश्रितः ॥ महा-योगि-ईश्वरः अभूत् वै महा-लीला-करः प्रभुः ॥ ५२ ॥
iti saṃcintya bhūteśaḥ drutam dhyāna-samāśritaḥ .. mahā-yogi-īśvaraḥ abhūt vai mahā-līlā-karaḥ prabhuḥ .. 52 ..
ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः ॥ हृदि नासीन्मुने काचिदन्या चिंता व्यवस्थिता ॥ ५३ ॥
ध्यान-आसक्तस्य तस्य अथ शिवस्य परमात्मनः ॥ हृदि ना आसीत् मुने काचिद् अन्या चिंता व्यवस्थिता ॥ ५३ ॥
dhyāna-āsaktasya tasya atha śivasya paramātmanaḥ .. hṛdi nā āsīt mune kācid anyā ciṃtā vyavasthitā .. 53 ..
काली त्वनुदिनं शंभुं सद्भक्त्या समसेवत ॥ विचिंतयंती सततं तस्य रूपं महात्मनः ॥ ५४ ।
काली तु अनुदिनम् शंभुम् सत्-भक्त्या समसेवत ॥ विचिंतयंती सततम् तस्य रूपम् महात्मनः ॥ ५४ ।
kālī tu anudinam śaṃbhum sat-bhaktyā samasevata .. viciṃtayaṃtī satatam tasya rūpam mahātmanaḥ .. 54 .
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थितम् ॥ विस्मृत्य पूर्वचिंतां तां पश्यन्नपि न पश्यति ॥ ५५॥
हरः ध्यान-परः कालीम् नित्यम् प्रैक्षत सुस्थितम् ॥ विस्मृत्य पूर्व-चिंताम् ताम् पश्यन् अपि न पश्यति ॥ ५५॥
haraḥ dhyāna-paraḥ kālīm nityam praikṣata susthitam .. vismṛtya pūrva-ciṃtām tām paśyan api na paśyati .. 55..
एतस्मिन्नंतरे देवाश्शक्राद्या मुनयश्च ते ॥ ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥ ५६॥
एतस्मिन् अन्तरे देवाः शक्र-आद्याः मुनयः च ते ॥ ब्रह्म-आज्ञया स्मरम् तत्र प्रेषयामासुः आदरात् ॥ ५६॥
etasmin antare devāḥ śakra-ādyāḥ munayaḥ ca te .. brahma-ājñayā smaram tatra preṣayāmāsuḥ ādarāt .. 56..
तेन कारयितुं योगं काल्या रुद्रेण कामतः ॥ महावीर्येणासुरेण तारकेण प्रपीडिताः ॥ ५७ ॥
तेन कारयितुम् योगम् काल्या रुद्रेण कामतः ॥ महा-वीर्येण असुरेण तारकेण प्रपीडिताः ॥ ५७ ॥
tena kārayitum yogam kālyā rudreṇa kāmataḥ .. mahā-vīryeṇa asureṇa tārakeṇa prapīḍitāḥ .. 57 ..
गत्वा तत्र स्मरस्सर्वमुपायमकरोन्निजम् ॥ चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥ ५८ ॥
गत्वा तत्र स्मरः सर्वम् उपायम् अकरोत् निजम् ॥ चुक्षुभे न हरः किञ्चिद् तम् च भस्मीचकार ह ॥ ५८ ॥
gatvā tatra smaraḥ sarvam upāyam akarot nijam .. cukṣubhe na haraḥ kiñcid tam ca bhasmīcakāra ha .. 58 ..
पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः ॥ ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥ ५९ ॥
पार्वती अपि विगर्वा अभूत् मुने तस्य निदेशतः ॥ ततस् तपः महत् कृत्वा शिवम् प्राप पतिम् सती ॥ ५९ ॥
pārvatī api vigarvā abhūt mune tasya nideśataḥ .. tatas tapaḥ mahat kṛtvā śivam prāpa patim satī .. 59 ..
बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ ॥ चक्रतुर्देवकार्य्यं हि परोपकरणे रतौ ॥ 2.3.13.६० ॥
बभूवतुः तौ सु प्रीतौ पार्वती-परमेश्वरौ ॥ चक्रतुः देव-कार्य्यम् हि पर-उपकरणे रतौ ॥ २।३।१३।६० ॥
babhūvatuḥ tau su prītau pārvatī-parameśvarau .. cakratuḥ deva-kāryyam hi para-upakaraṇe ratau .. 2.3.13.60 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वतीपरमेश्वरसंवादवर्णनम् नाम त्रयोदशः अध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatīparameśvarasaṃvādavarṇanam nāma trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In