| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
विष्णुशिष्य महाशैव सम्यगुक्तं त्वया विधे ॥ चरितं परमं ह्येतच्छिवायाश्च शिवस्य च ॥ १ ॥
विष्णु-शिष्य महा-शैव सम्यक् उक्तम् त्वया विधे ॥ चरितम् परमम् हि एतत् शिवायाः च शिवस्य च ॥ १ ॥
viṣṇu-śiṣya mahā-śaiva samyak uktam tvayā vidhe .. caritam paramam hi etat śivāyāḥ ca śivasya ca .. 1 ..
कस्तारकासुरो ब्रह्मन्येन देवाः प्रपीडिताः ॥ कस्य पुत्रस्य वै ब्रूहि तत्कथां च शिवाश्रयाम् ॥ २ ॥
कः तारक-असुरः ब्रह्मन् येन देवाः प्रपीडिताः ॥ कस्य पुत्रस्य वै ब्रूहि तत् कथाम् च शिव-आश्रयाम् ॥ २ ॥
kaḥ tāraka-asuraḥ brahman yena devāḥ prapīḍitāḥ .. kasya putrasya vai brūhi tat kathām ca śiva-āśrayām .. 2 ..
भस्मी चकार स कथं शंकरश्च स्मरं वशी ॥ तदपि ब्रूहि सुप्रीत्याद्भुतं तच्चरितं विभोः ॥ ३ ॥
भस्मी चकार स कथम् शंकरः च स्मरम् वशी ॥ तत् अपि ब्रूहि सु प्रीत्या अद्भुतम् तद्-चरितम् विभोः ॥ ३ ॥
bhasmī cakāra sa katham śaṃkaraḥ ca smaram vaśī .. tat api brūhi su prītyā adbhutam tad-caritam vibhoḥ .. 3 ..
कथं शिवा तपोऽत्युग्रं चकार सुखहेतवे ॥ कथं प्राप पतिं शंभुमादिशक्तिर्जगत्परा ॥ ४॥
कथम् शिवा तपः अति उग्रम् चकार सुख-हेतवे ॥ कथम् प्राप पतिम् शंभुम् आदिशक्तिः जगत्परा ॥ ४॥
katham śivā tapaḥ ati ugram cakāra sukha-hetave .. katham prāpa patim śaṃbhum ādiśaktiḥ jagatparā .. 4..
एतत्सर्वमशेषेण विशेषेण महाबुध ॥ ब्रूहि मे श्रद्दधानाय स्वपुत्राय शिवात्मने॥ ५॥
एतत् सर्वम् अशेषेण विशेषेण महा-बुध ॥ ब्रूहि मे श्रद्दधानाय स्व-पुत्राय शिव-आत्मने॥ ५॥
etat sarvam aśeṣeṇa viśeṣeṇa mahā-budha .. brūhi me śraddadhānāya sva-putrāya śiva-ātmane.. 5..
ब्रह्मोवाच ॥ पुत्रवर्य महाप्राज्ञ सुरर्षे शंसितव्रतः ॥ वच्म्यहं शंकरं स्मृत्वा सर्वं तच्चरितं शृणु ॥ ६ ॥
ब्रह्मा उवाच ॥ पुत्र-वर्य महा-प्राज्ञ सुर-ऋषे शंसित-व्रतः ॥ वच्मि अहम् शंकरम् स्मृत्वा सर्वम् तद्-चरितम् शृणु ॥ ६ ॥
brahmā uvāca .. putra-varya mahā-prājña sura-ṛṣe śaṃsita-vrataḥ .. vacmi aham śaṃkaram smṛtvā sarvam tad-caritam śṛṇu .. 6 ..
प्रथमं तारकस्यैव भवं संशृणु नारद॥ यद्वधार्थं महा यत्नः कृतो दैवैश्शिवाश्रयैः॥ ७॥
प्रथमम् तारकस्य एव भवम् संशृणु नारद॥ यद्-वध-अर्थम् महा यत्नः कृतः दैवैः शिव-आश्रयैः॥ ७॥
prathamam tārakasya eva bhavam saṃśṛṇu nārada.. yad-vadha-artham mahā yatnaḥ kṛtaḥ daivaiḥ śiva-āśrayaiḥ.. 7..
मम पुत्रो मरीचिर्यः कश्यपस्तस्य चात्मजः॥ त्रयोदशमितास्तस्य स्त्रियो दक्षसुताश्च याः॥ ८॥
मम पुत्रः मरीचिः यः कश्यपः तस्य च आत्मजः॥ त्रयोदश-मिताः तस्य स्त्रियः दक्ष-सुताः च याः॥ ८॥
mama putraḥ marīciḥ yaḥ kaśyapaḥ tasya ca ātmajaḥ.. trayodaśa-mitāḥ tasya striyaḥ dakṣa-sutāḥ ca yāḥ.. 8..
दितिर्ज्येष्ठा च तत्स्त्री हि सुषुवे सा सुतद्वयम्॥ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः॥ ९॥
दितिः ज्येष्ठा च तद्-स्त्री हि सुषुवे सा सुत-द्वयम्॥ हिरण्यकशिपुः ज्येष्ठः हिरण्याक्षः अनुजः ततस्॥ ९॥
ditiḥ jyeṣṭhā ca tad-strī hi suṣuve sā suta-dvayam.. hiraṇyakaśipuḥ jyeṣṭhaḥ hiraṇyākṣaḥ anujaḥ tatas.. 9..
तौ हतौ विष्णुना दैत्यौ नृसिंहक्रोडरूपतः॥ सुदुःखदौ ततो देवाः सुखमापुश्च निर्भयाः॥ 2.3.14.१ ०॥
तौ हतौ विष्णुना दैत्यौ नृसिंह-क्रोड-रूपतः॥ सु दुःख-दौ ततस् देवाः सुखम् आपुः च निर्भयाः॥ २।३।१४।१ ०॥
tau hatau viṣṇunā daityau nṛsiṃha-kroḍa-rūpataḥ.. su duḥkha-dau tatas devāḥ sukham āpuḥ ca nirbhayāḥ.. 2.3.14.1 0..
दितिश्च दुःखितासीत्सा कश्यपं शरणं गता॥ पुनस्संसेव्य तं भक्त्या गर्भमाधत्त सुव्रता ॥ १ १॥
दितिः च दुःखिता आसीत् सा कश्यपम् शरणम् गता॥ पुनर् संसेव्य तम् भक्त्या गर्भम् आधत्त सुव्रता ॥ १ १॥
ditiḥ ca duḥkhitā āsīt sā kaśyapam śaraṇam gatā.. punar saṃsevya tam bhaktyā garbham ādhatta suvratā .. 1 1..
तद्विज्ञाय महेंद्रोऽपि लब्धच्छिद्रो महोद्यमी॥ तद्गर्भं व्यच्छिनत्तत्र प्रविश्य पविना मुहुः॥ १२॥ ।
तत् विज्ञाय महा-इंद्रः अपि लब्ध-छिद्रः महा-उद्यमी॥ तद्-गर्भम् व्यच्छिनत् तत्र प्रविश्य पविना मुहुर्॥ १२॥ ।
tat vijñāya mahā-iṃdraḥ api labdha-chidraḥ mahā-udyamī.. tad-garbham vyacchinat tatra praviśya pavinā muhur.. 12.. .
तद्व्रतस्य प्रभावेण न तद्गर्भो ममार ह॥ स्वपंत्या दैवयोगेन सप्त सप्ताभवन्सुताः॥ १३॥
तद्-व्रतस्य प्रभावेण न तद्-गर्भः ममार ह॥ स्वपंत्याः दैव-योगेन सप्त सप्त अभवन् सुताः॥ १३॥
tad-vratasya prabhāveṇa na tad-garbhaḥ mamāra ha.. svapaṃtyāḥ daiva-yogena sapta sapta abhavan sutāḥ.. 13..
देवा आसन्सुतास्ते च नामतो मरुतोऽखिलाः ॥ स्वर्गं ययुस्तदेन्द्रेण देवराजात्मसात्कृताः ॥ १४॥
देवाः आसन् सुताः ते च नामतः मरुतः अखिलाः ॥ स्वर्गम् ययुः तदा इन्द्रेण देवराज-आत्मसात्कृताः ॥ १४॥
devāḥ āsan sutāḥ te ca nāmataḥ marutaḥ akhilāḥ .. svargam yayuḥ tadā indreṇa devarāja-ātmasātkṛtāḥ .. 14..
पुनर्दितिः पतिं भेजेऽनुतप्ता निजकर्मतः ॥ चकार सुप्रसन्नं तं मुनिं परमसेवया ऽ १५ ॥
पुनर् दितिः पतिम् भेजे अनुतप्ता निज-कर्मतः ॥ चकार सु प्रसन्नम् तम् मुनिम् परम-सेवया ॥
punar ditiḥ patim bheje anutaptā nija-karmataḥ .. cakāra su prasannam tam munim parama-sevayā ..
।। कश्यप उवाच ।।
तपः कुरु शुचिर्भूत्वा ब्रह्मणश्चायुतं समाः ॥ चेद्भविष्यति तत्पूर्वं भविता ते सुतस्तदा ॥ १६ ॥
तपः कुरु शुचिः भूत्वा ब्रह्मणः च अयुतम् समाः ॥ चेद् भविष्यति तत् पूर्वम् भविता ते सुतः तदा ॥ १६ ॥
tapaḥ kuru śuciḥ bhūtvā brahmaṇaḥ ca ayutam samāḥ .. ced bhaviṣyati tat pūrvam bhavitā te sutaḥ tadā .. 16 ..
तथा दित्या कृतं पूर्णं तत्तपश्श्रद्धया मुने॥ ततः पत्युः प्राप्य गर्भं सुषुवे तादृशं सुतम् ॥ १७ ॥
तथा दित्या कृतम् पूर्णम् तत् तपः श्रद्धया मुने॥ ततस् पत्युः प्राप्य गर्भम् सुषुवे तादृशम् सुतम् ॥ १७ ॥
tathā dityā kṛtam pūrṇam tat tapaḥ śraddhayā mune.. tatas patyuḥ prāpya garbham suṣuve tādṛśam sutam .. 17 ..
वजांगनामा सोऽभूद्वै दितिपुत्रोऽमरोपमः ॥ नामतुल्यतनुर्वीरस्सुप्रताप्युद्भवाद्बली ॥ १८ ॥
वजांग-नामा सः अभूत् वै दिति-पुत्रः अमर-उपमः ॥ नाम-तुल्य-तनुः वीरः सुप्रतापी उद्भवात् बली ॥ १८ ॥
vajāṃga-nāmā saḥ abhūt vai diti-putraḥ amara-upamaḥ .. nāma-tulya-tanuḥ vīraḥ supratāpī udbhavāt balī .. 18 ..
जननीशासनात्सद्यस्स सुतो निर्जराधिपम् ॥ बलाद्धृत्वा ददौ दंडं विविधं निर्जरानपि ॥ १९॥
जननी-शासनात् सद्यस् स सुतः निर्जराधिपम् ॥ बलात् हृत्वा ददौ दंडम् विविधम् निर्जरान् अपि ॥ १९॥
jananī-śāsanāt sadyas sa sutaḥ nirjarādhipam .. balāt hṛtvā dadau daṃḍam vividham nirjarān api .. 19..
दितिस्सुखमतीवाप दृष्ट्वा शक्रादिदुर्दशाम्॥ अमरा अपि शक्राद्या जग्मुर्दुःखं स्वकर्मतः ॥ 2.3.14.२० ॥
दितिः सुखम् अतीव आप दृष्ट्वा शक्र-आदि-दुर्दशाम्॥ अमराः अपि शक्र-आद्याः जग्मुः दुःखम् स्व-कर्मतः ॥ २।३।१४।२० ॥
ditiḥ sukham atīva āpa dṛṣṭvā śakra-ādi-durdaśām.. amarāḥ api śakra-ādyāḥ jagmuḥ duḥkham sva-karmataḥ .. 2.3.14.20 ..
तदाहं कश्यपेनाशु तत्रागत्य सुसामगीः॥ देवानत्याजयंस्तस्मात्सदा देवहिते रतः॥ २१॥
तदा अहम् कश्यपेन आशु तत्र आगत्य सु साम-गीः॥ देवान् अत्याजयन् तस्मात् सदा देव-हिते रतः॥ २१॥
tadā aham kaśyapena āśu tatra āgatya su sāma-gīḥ.. devān atyājayan tasmāt sadā deva-hite rataḥ.. 21..
देवान्मुक्त्वा स वज्रांगस्ततः प्रोवाच सादरम् ॥ शिवभक्तोऽतिशुद्धात्मा निर्विकारः प्रसन्नधीः ॥ २२॥
देवान् मुक्त्वा स वज्रांगः ततस् प्रोवाच सादरम् ॥ शिव-भक्तः अति शुद्ध-आत्मा निर्विकारः प्रसन्न-धीः ॥ २२॥
devān muktvā sa vajrāṃgaḥ tatas provāca sādaram .. śiva-bhaktaḥ ati śuddha-ātmā nirvikāraḥ prasanna-dhīḥ .. 22..
।। वज्रांग उवाच।।
इंद्रो दुष्टः प्रजाघाती मातुर्मे स्वार्थसाधकः ॥ स फलं प्राप्तवानद्य स्वराज्यं हि करोतु सः ॥ २३ ॥
इंद्रः दुष्टः प्रजा-घाती मातुः मे स्व-अर्थ-साधकः ॥ स फलम् प्राप्तवान् अद्य स्व-राज्यम् हि करोतु सः ॥ २३ ॥
iṃdraḥ duṣṭaḥ prajā-ghātī mātuḥ me sva-artha-sādhakaḥ .. sa phalam prāptavān adya sva-rājyam hi karotu saḥ .. 23 ..
मातुराज्ञावशाद्ब्रह्मन्कृतमेतन्मयाखिलम् ॥ न मे भोगाभिलाषो वै कस्यचि द्भुवनस्य हि ॥ २४ ॥
मातुः आज्ञा-वशात् ब्रह्मन् कृतम् एतत् मया अखिलम् ॥ न मे भोग-अभिलाषः वै कस्यचिद् भुवनस्य हि ॥ २४ ॥
mātuḥ ājñā-vaśāt brahman kṛtam etat mayā akhilam .. na me bhoga-abhilāṣaḥ vai kasyacid bhuvanasya hi .. 24 ..
तत्त्वसारं विधे सूत मह्यं वेदविदाम्वर ॥ येन स्यां सुसुखी नित्यं निर्विकारः प्रसन्नधीः ॥ २५ ॥
तत्त्व-सारम् विधे सूत मह्यम् वेद-विदाम् वर ॥ येन स्याम् सु सुखी नित्यम् निर्विकारः प्रसन्न-धीः ॥ २५ ॥
tattva-sāram vidhe sūta mahyam veda-vidām vara .. yena syām su sukhī nityam nirvikāraḥ prasanna-dhīḥ .. 25 ..
तच्छ्रुत्वाहं मुनेऽवोचं सात्त्विको भाव उच्यत ॥ तत्त्वसार इति प्रीत्या सृजाम्येकां वरां स्त्रियम् ॥ २६ ॥
तत् श्रुत्वा अहम् मुने अवोचम् सात्त्विकः भावः उच्यत ॥ तत्त्व-सारः इति प्रीत्या सृजामि एकाम् वराम् स्त्रियम् ॥ २६ ॥
tat śrutvā aham mune avocam sāttvikaḥ bhāvaḥ ucyata .. tattva-sāraḥ iti prītyā sṛjāmi ekām varām striyam .. 26 ..
वरांगीं नाम तां दत्त्वा तस्मै दितिसुताय वै ॥ अयां स्वधाम सुप्रीतः कश्यपस्तत्पितापि च ॥ २७॥
वरांगीम् नाम ताम् दत्त्वा तस्मै दितिसुताय वै ॥ अयाम् स्व-धाम सु प्रीतः कश्यपः तद्-पिता अपि च ॥ २७॥
varāṃgīm nāma tām dattvā tasmai ditisutāya vai .. ayām sva-dhāma su prītaḥ kaśyapaḥ tad-pitā api ca .. 27..
ततो दैत्यस्य वज्रांगस्सात्विकं भावमाश्रितः॥ आसुरं भावमुत्सृज्य निर्वैरस्सुखमाप्तवान्॥ २८॥
ततस् दैत्यस्य वज्रांगः सात्विकम् भावम् आश्रितः॥ आसुरम् भावम् उत्सृज्य निर्वैरः सुखम् आप्तवान्॥ २८॥
tatas daityasya vajrāṃgaḥ sātvikam bhāvam āśritaḥ.. āsuram bhāvam utsṛjya nirvairaḥ sukham āptavān.. 28..
न बभूव वरांग्या हि हृदि भावोथ सात्विकः॥ सकामा स्वपतिं भेजे श्रद्धया विविधं सती ॥ २९॥
न बभूव वरांग्याः हि हृदि सात्विकः॥ स कामा स्व-पतिम् भेजे श्रद्धया विविधम् सती ॥ २९॥
na babhūva varāṃgyāḥ hi hṛdi sātvikaḥ.. sa kāmā sva-patim bheje śraddhayā vividham satī .. 29..
अथ तत्सेवनादाशु संतुष्टोऽभून्महाप्रभुः ॥ स वज्रांगः पतिस्तस्या उवाच वचनं तदा ॥ 2.3.14.३०॥
अथ तद्-सेवनात् आशु संतुष्टः अभूत् महा-प्रभुः ॥ स वज्रांगः पतिः तस्याः उवाच वचनम् तदा ॥ २।३।१४।३०॥
atha tad-sevanāt āśu saṃtuṣṭaḥ abhūt mahā-prabhuḥ .. sa vajrāṃgaḥ patiḥ tasyāḥ uvāca vacanam tadā .. 2.3.14.30..
वज्रांग उवाच।।
किमिच्छसि प्रिये ब्रूहि किं ते मनसि वर्तते ॥ तच्छुत्वानम्य तं प्राह सा पतिं स्वमनोरथम् ॥ ३१ ॥
किम् इच्छसि प्रिये ब्रूहि किम् ते मनसि वर्तते ॥ तत् शुत्वा आनम्य तम् प्राह सा पतिम् स्व-मनोरथम् ॥ ३१ ॥
kim icchasi priye brūhi kim te manasi vartate .. tat śutvā ānamya tam prāha sā patim sva-manoratham .. 31 ..
वरांग्युवाच ।।
चेत् प्रसन्नोऽभवस्त्वं वै सुतं मे देहि सत्पते ॥ महाबलं त्रिलोकस्य जेतारं हरिदुःखदम् ॥ ३२ ॥
चेद् प्रसन्नः अभवः त्वम् वै सुतम् मे देहि सत्पते ॥ महा-बलम् त्रिलोकस्य जेतारम् हरि-दुःख-दम् ॥ ३२ ॥
ced prasannaḥ abhavaḥ tvam vai sutam me dehi satpate .. mahā-balam trilokasya jetāram hari-duḥkha-dam .. 32 ..
ब्रह्मोवाच ।।
इति श्रुत्वा प्रियावाक्यं विस्मितोऽभूत्स आकुलः॥ उवाच हृदि स ज्ञानी सात्विको वैरवर्जितः ॥ ३३॥
इति श्रुत्वा प्रिया-वाक्यम् विस्मितः अभूत् सः आकुलः॥ उवाच हृदि स ज्ञानी सात्विकः वैर-वर्जितः ॥ ३३॥
iti śrutvā priyā-vākyam vismitaḥ abhūt saḥ ākulaḥ.. uvāca hṛdi sa jñānī sātvikaḥ vaira-varjitaḥ .. 33..
प्रियेच्छति विरोधं वै सुरैर्मे न हि रोचते ॥ किं कुर्यां हि क्व गच्छेयं कथं नश्ये न मे पणः ॥ ३४ ॥
प्रिया इच्छति विरोधम् वै सुरैः मे न हि रोचते ॥ किम् कुर्याम् हि क्व गच्छेयम् कथम् नश्ये न मे पणः ॥ ३४ ॥
priyā icchati virodham vai suraiḥ me na hi rocate .. kim kuryām hi kva gaccheyam katham naśye na me paṇaḥ .. 34 ..
प्रियामनोरथश्चैव पूर्णस्स्यात्त्रिजगद्भवेत् ॥ क्लेशयुङ्नितरा भूयो देवाश्च मुनयस्तथा ॥ ३५ ॥
प्रिया-मनोरथः च एव पूर्णः स्यात् त्रिजगत् भवेत् ॥ क्लेश-युज् नितराः भूयस् देवाः च मुनयः तथा ॥ ३५ ॥
priyā-manorathaḥ ca eva pūrṇaḥ syāt trijagat bhavet .. kleśa-yuj nitarāḥ bhūyas devāḥ ca munayaḥ tathā .. 35 ..
न पूर्णस्स्यात्प्रियाकामस्तदा मे नरको भवेत्॥ द्विधापि धर्महानिर्वै भवतीत्यनुशुश्रुवान् ॥ ३६॥
न पूर्णः स्यात् प्रिया-कामः तदा मे नरकः भवेत्॥ द्विधा अपि धर्म-हानिः वै भवति इति अनुशुश्रुवान् ॥ ३६॥
na pūrṇaḥ syāt priyā-kāmaḥ tadā me narakaḥ bhavet.. dvidhā api dharma-hāniḥ vai bhavati iti anuśuśruvān .. 36..
वज्रांग इत्थं बभ्राम स मुने धर्मसंकटे ॥ बलाबलं द्वयोस्तत्र विचिचिंत च बुद्धितः ॥ ३७ ॥
वज्र-अंगः इत्थम् बभ्राम स मुने धर्म-संकटे ॥ बलाबलम् द्वयोः तत्र च बुद्धितः ॥ ३७ ॥
vajra-aṃgaḥ ittham babhrāma sa mune dharma-saṃkaṭe .. balābalam dvayoḥ tatra ca buddhitaḥ .. 37 ..
शिवेच्छया स हि मुने वाक्यं मेने स्त्रियो बुधः ॥ तथास्त्विति वचः प्राह प्रियां प्रति स दैत्यराट् ॥ ३८॥
शिव-इच्छया स हि मुने वाक्यम् मेने स्त्रियः बुधः ॥ तथा अस्तु इति वचः प्राह प्रियाम् प्रति स दैत्य-राज् ॥ ३८॥
śiva-icchayā sa hi mune vākyam mene striyaḥ budhaḥ .. tathā astu iti vacaḥ prāha priyām prati sa daitya-rāj .. 38..
तदर्थमकरोत्तीव्रं तपोन्यद्दुष्करं स तु ॥ मां समुद्दिश्य सुप्रीत्या बहुवर्षं जितेंद्रियः ॥ ३९॥
तद्-अर्थम् अकरोत् तीव्रम् तपः-न्यत् दुष्करम् स तु ॥ माम् समुद्दिश्य सु प्रीत्या बहु-वर्षम् जित-इंद्रियः ॥ ३९॥
tad-artham akarot tīvram tapaḥ-nyat duṣkaram sa tu .. mām samuddiśya su prītyā bahu-varṣam jita-iṃdriyaḥ .. 39..
वरं दातुमगां तस्मै दृष्ट्वाहं तत्तपो महत् ॥ वरं ब्रूहि ह्यवोचं तं सुप्रसन्नेन चेतसा ॥ 2.3.14.४० ॥
वरम् दातुम् अगाम् तस्मै दृष्ट्वा अहम् तत् तपः महत् ॥ वरम् ब्रूहि हि अवोचम् तम् सु प्रसन्नेन चेतसा ॥ २।३।१४।४० ॥
varam dātum agām tasmai dṛṣṭvā aham tat tapaḥ mahat .. varam brūhi hi avocam tam su prasannena cetasā .. 2.3.14.40 ..
वज्रांगस्तु तदा प्रीतं मां दृष्ट्वा स्थितं विभुम् ॥ सुप्रणम्य बहुस्तुत्वा वरं वव्रे प्रियाहितम् ॥ ४१ ॥
वज्रांगः तु तदा प्रीतम् माम् दृष्ट्वा स्थितम् विभुम् ॥ सु प्रणम्य बहु-स्तुत्वा वरम् वव्रे प्रिय-आहितम् ॥ ४१ ॥
vajrāṃgaḥ tu tadā prītam mām dṛṣṭvā sthitam vibhum .. su praṇamya bahu-stutvā varam vavre priya-āhitam .. 41 ..
वज्रांग उवाच।।
सुतं देहि स्वमातुर्मे महाहितकरं प्रभो ॥ महाबलं सुप्रतापं सुसमर्थं तपोनिधिम् ॥ ४२॥
सुतम् देहि स्व-मातुः मे महा-हित-करम् प्रभो ॥ महा-बलम् सु प्रतापम् सु समर्थम् तपः-निधिम् ॥ ४२॥
sutam dehi sva-mātuḥ me mahā-hita-karam prabho .. mahā-balam su pratāpam su samartham tapaḥ-nidhim .. 42..
ब्रह्मोवाच।।
इत्याकर्ण्य च तद्वाक्यं तथास्त्वित्यब्रवं मुने ॥ अया स्वधाम तद्दत्त्वा विमनास्सस्मरच्छिवम् ॥ ४३॥
इति आकर्ण्य च तद्-वाक्यम् तथा अस्तु इति अब्रवम् मुने ॥ स्व-धाम तत् दत्त्वा विमनाः सस्मरत् शिवम् ॥ ४३॥
iti ākarṇya ca tad-vākyam tathā astu iti abravam mune .. sva-dhāma tat dattvā vimanāḥ sasmarat śivam .. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे तारकोत्पत्तौ वज्रांगोत्पत्तितपोवर्णनम् नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe tārakotpattau vajrāṃgotpattitapovarṇanam nāma caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In