| |
|

This overlay will guide you through the buttons:

अथ सा गर्भमाधत्त वरांगी तत्पुरादरात् ॥ स ववर्द्धाभ्यंतरे हि बहुवर्षैः सुतेजसा॥ १॥
अथ सा गर्भम् आधत्त वरांगी तद्-पुरा आदरात् ॥ स ववर्द्ध अभ्यंतरे हि बहु-वर्षैः सु तेजसा॥ १॥
atha sā garbham ādhatta varāṃgī tad-purā ādarāt .. sa vavarddha abhyaṃtare hi bahu-varṣaiḥ su tejasā.. 1..
ततः सा समये पूर्णे वरांगी सुषुवे सुतम्॥ महाकायं महावीर्यं प्रज्वलंतं दिशो दश॥ २॥
ततस् सा समये पूर्णे वरांगी सुषुवे सुतम्॥ महा-कायम् महा-वीर्यम् प्रज्वलन्तम् दिशः दश॥ २॥
tatas sā samaye pūrṇe varāṃgī suṣuve sutam.. mahā-kāyam mahā-vīryam prajvalantam diśaḥ daśa.. 2..
तदैव च महोत्पाता बभूवुर्दुःखहेतवः ॥ जायमाने सुते तस्मिन्वरांग्यात्सुखदुःखदे ॥ ३॥
तदा एव च महा-उत्पाताः बभूवुः दुःख-हेतवः ॥ जायमाने सुते तस्मिन् वरांग्यात् सुख-दुःख-दे ॥ ३॥
tadā eva ca mahā-utpātāḥ babhūvuḥ duḥkha-hetavaḥ .. jāyamāne sute tasmin varāṃgyāt sukha-duḥkha-de .. 3..
दिवि भुव्यंतरिक्षे च सर्वलोकभयंकराः ॥ अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम् ॥ ४ ॥
दिवि भुवि अंतरिक्षे च सर्व-लोक-भयंकराः ॥ अनर्थ-सूचकाः तात त्रिविधाः तान् ब्रवीमि अहम् ॥ ४ ॥
divi bhuvi aṃtarikṣe ca sarva-loka-bhayaṃkarāḥ .. anartha-sūcakāḥ tāta trividhāḥ tān bravīmi aham .. 4 ..
सोल्काश्चाशनयः पेतुर्महाशब्दा भयंकराः ॥ उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥ ५ ॥
स उल्काः च अशनयः पेतुः महा-शब्दाः भयंकराः ॥ उदयम् चक्रुः उत्कृष्टाः केतवः दुःख-दायकाः ॥ ५ ॥
sa ulkāḥ ca aśanayaḥ petuḥ mahā-śabdāḥ bhayaṃkarāḥ .. udayam cakruḥ utkṛṣṭāḥ ketavaḥ duḥkha-dāyakāḥ .. 5 ..
चचाल वसुधा साद्रिर्जज्वलुस्सकला दिशः ॥ चुक्षुभुस्सरितस्सर्वाः सागराश्च विशेषतः ॥ ६ ॥
चचाल वसुधा स अद्रिः जज्वलुः सकलाः दिशः ॥ चुक्षुभुः सरितः सर्वाः सागराः च विशेषतः ॥ ६ ॥
cacāla vasudhā sa adriḥ jajvaluḥ sakalāḥ diśaḥ .. cukṣubhuḥ saritaḥ sarvāḥ sāgarāḥ ca viśeṣataḥ .. 6 ..
हूत्करानीरयन्धीरान्खरस्पर्शो मरुद्ववौ ॥ उन्मूलयन्महावृक्षान्वात्यानीकोरजोध्वजः॥ ७॥
हूत्करान् ईरयन् धीरान् खर-स्पर्शः मरुत् ववौ ॥ उन्मूलयन् महा-वृक्षान् वात्या-अनीकः उरजः-ध्वजः॥ ७॥
hūtkarān īrayan dhīrān khara-sparśaḥ marut vavau .. unmūlayan mahā-vṛkṣān vātyā-anīkaḥ urajaḥ-dhvajaḥ.. 7..
सराह्वोस्सूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन्॥ महाभयस्य विप्रेन्द्र सूचकास्सुखहारकः ॥ ८॥
सराह्वोः सूर्य्य-विध्वोः तु मुहुर् परिधयः अभवन्॥ महाभयस्य विप्र-इन्द्र ॥ ८॥
sarāhvoḥ sūryya-vidhvoḥ tu muhur paridhayaḥ abhavan.. mahābhayasya vipra-indra .. 8..
महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः ॥ रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥ ९॥
महीध्र-विवरेभ्यः च निर्घाताः भय-सूचकाः ॥ रथ-निर्ह्राद-तुल्याः च जज्ञिरे अवसरे ततस् ॥ ९॥
mahīdhra-vivarebhyaḥ ca nirghātāḥ bhaya-sūcakāḥ .. ratha-nirhrāda-tulyāḥ ca jajñire avasare tatas .. 9..
सृगालोलूकटंकारैर्वमन्त्यो मुखतोऽनलम् ॥ अंतर्ग्रामेषु विकटं प्रणेदुरशिवाश्शिवाः ॥ 2.3.15.१० ॥
सृगाल-उलूक-टंकारैः वमन्त्यः मुखतः अनलम् ॥ अंतर् ग्रामेषु विकटम् प्रणेदुः अशिवाः शिवाः ॥ २।३।१५।१० ॥
sṛgāla-ulūka-ṭaṃkāraiḥ vamantyaḥ mukhataḥ analam .. aṃtar grāmeṣu vikaṭam praṇeduḥ aśivāḥ śivāḥ .. 2.3.15.10 ..
यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम् ॥ संगीतवद्रोदनवद्व्यमुचन्विविधान्रवान् ॥ ११॥
यतस् ततस् ग्राम-सिंहाः उन्नमय्य शिरोधराम् ॥ संगीत-वत् रोदन-वत् व्यमुचन् विविधान् रवान् ॥ ११॥
yatas tatas grāma-siṃhāḥ unnamayya śirodharām .. saṃgīta-vat rodana-vat vyamucan vividhān ravān .. 11..
खार्काररभसा मत्ताः सुरैर्घ्नंतो रसांखराः ॥ वरूथशस्तदा तात पर्यधावन्नितस्ततः ॥ १२॥
खार्कार-रभसाः मत्ताः सुरैः घ्नंतः रसांखराः ॥ वरूथशस् तदा तात पर्यधावन् इतस् ततस् ॥ १२॥
khārkāra-rabhasāḥ mattāḥ suraiḥ ghnaṃtaḥ rasāṃkharāḥ .. varūthaśas tadā tāta paryadhāvan itas tatas .. 12..
खगा उदपतन्नीडाद्रासभत्रस्तमानसः ॥ क्रोशंतो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित् ॥ १३ ॥
खगाः उदपतन् नीडात् रासभ-त्रस्त-मानसः ॥ क्रोशंतः व्यग्र-चित्ताः च स्थितम् आपुः न कुत्रचिद् ॥ १३ ॥
khagāḥ udapatan nīḍāt rāsabha-trasta-mānasaḥ .. krośaṃtaḥ vyagra-cittāḥ ca sthitam āpuḥ na kutracid .. 13 ..
शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलः ॥ बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥ १४॥
शकृत्-मूत्रम् अकार्षुः च गोष्ठे अरण्ये भय-आकुलः ॥ बभ्रमुः स्थितिम् आपुः नो पशवः ताडिताः इव ॥ १४॥
śakṛt-mūtram akārṣuḥ ca goṣṭhe araṇye bhaya-ākulaḥ .. babhramuḥ sthitim āpuḥ no paśavaḥ tāḍitāḥ iva .. 14..
गावोऽत्रसन्नसृग्दोहा वाष्पनेत्रा भयाकुलाः ॥ तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥ १५॥
गावः अत्र सन्न-सृग्दोहाः वाष्प-नेत्राः भय-आकुलाः ॥ तोय-दाः अभवन् तत्र भय-दाः पूय-वर्षिणः ॥ १५॥
gāvaḥ atra sanna-sṛgdohāḥ vāṣpa-netrāḥ bhaya-ākulāḥ .. toya-dāḥ abhavan tatra bhaya-dāḥ pūya-varṣiṇaḥ .. 15..
व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः ॥ विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥ १६॥
व्यरुदन् प्रतिमाः तत्र देवानाम् उत्पतिष्णवः ॥ विना अनिलम् द्रुमाः पेतुः ग्रह-युद्धम् बभूव खे ॥ १६॥
vyarudan pratimāḥ tatra devānām utpatiṣṇavaḥ .. vinā anilam drumāḥ petuḥ graha-yuddham babhūva khe .. 16..
इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम ॥ अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम् ॥ १७ ॥
इति आदिकाः बहु-उत्पाताः जज्ञिरे मुनि-सत्तम ॥ अज्ञानिनः जनाः तत्र मेनिरे विश्व-संप्लवम् ॥ १७ ॥
iti ādikāḥ bahu-utpātāḥ jajñire muni-sattama .. ajñāninaḥ janāḥ tatra menire viśva-saṃplavam .. 17 ..
अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै ॥ तारकेति विचार्यैव कश्यपो हि महौजसः ॥ १८ ॥
अथ प्रजापतिः नाम अकरोत् तस्य असुरस्य वै ॥ तारक इति विचार्य एव कश्यपः हि महा-ओजसः ॥ १८ ॥
atha prajāpatiḥ nāma akarot tasya asurasya vai .. tāraka iti vicārya eva kaśyapaḥ hi mahā-ojasaḥ .. 18 ..
महावीरस्य सहसा व्यज्यमानात्मपौरुषः ॥ ववृधेत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥ १९ ॥
महावीरस्य सहसा व्यज्यमान-आत्म-पौरुषः ॥ ववृधे इति अश्मसारेण कायेन अद्रिपतिः यथा ॥ १९ ॥
mahāvīrasya sahasā vyajyamāna-ātma-pauruṣaḥ .. vavṛdhe iti aśmasāreṇa kāyena adripatiḥ yathā .. 19 ..
अथो स तारको दैत्यो महाबलपराक्रमः ॥ तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥ 2.3.15.२०॥
अथो स तारकः दैत्यः महा-बल-पराक्रमः ॥ तपः कर्तुम् जनन्याः च आज्ञाम् ययाचे महामनाः ॥ २।३।१५।२०॥
atho sa tārakaḥ daityaḥ mahā-bala-parākramaḥ .. tapaḥ kartum jananyāḥ ca ājñām yayāce mahāmanāḥ .. 2.3.15.20..
प्राप्ताज्ञः स महामायी मायिनामपि मोहकः ॥ सर्वदेवजयं कर्तुं तपोर्थं मन आदधे ॥ २१ ॥
प्राप्त-अज्ञः स महा-मायी मायिनाम् अपि मोहकः ॥ सर्व-देव-जयम् कर्तुम् तपः-र्थम् मनः आदधे ॥ २१ ॥
prāpta-ajñaḥ sa mahā-māyī māyinām api mohakaḥ .. sarva-deva-jayam kartum tapaḥ-rtham manaḥ ādadhe .. 21 ..
मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः ॥ विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥ २२॥
मधोः वनम् उपागम्य गुरु-आज्ञा-प्रतिपालकः ॥ विधिम् उद्दिश्य विधिवत् तपः तेपे सु दारुणम् ॥ २२॥
madhoḥ vanam upāgamya guru-ājñā-pratipālakaḥ .. vidhim uddiśya vidhivat tapaḥ tepe su dāruṇam .. 22..
ऊर्द्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा ॥ शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥ २३॥
ऊर्द्ध्वबाहुः च एक-पादः रविम् पश्यन् स चक्षुषा ॥ शत-वर्षम् तपः चक्रे दृढ-चित्तः दृढ-व्रतः ॥ २३॥
ūrddhvabāhuḥ ca eka-pādaḥ ravim paśyan sa cakṣuṣā .. śata-varṣam tapaḥ cakre dṛḍha-cittaḥ dṛḍha-vrataḥ .. 23..
अंगुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः ॥ तेपे तपो दृढात्मा स तारकोऽसुरराट्प्रभुः ॥ २४॥
अंगुष्ठेन भुवम् स्पृष्ट्वा शत-वर्षम् च तादृशः ॥ तेपे तपः दृढ-आत्मा स तारकः असुर-राज्-प्रभुः ॥ २४॥
aṃguṣṭhena bhuvam spṛṣṭvā śata-varṣam ca tādṛśaḥ .. tepe tapaḥ dṛḍha-ātmā sa tārakaḥ asura-rāj-prabhuḥ .. 24..
शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक्॥ शतवर्ष जले तिष्ठञ्च्छतं च स्थंडिलेऽतपत् ॥ २५॥
शत-वर्षम् जलम् प्राश्नन् शत-वर्षम् च वायुभुज्॥ शत-वर्ष जले तिष्ठन् शतम् च स्थंडिले अतपत् ॥ २५॥
śata-varṣam jalam prāśnan śata-varṣam ca vāyubhuj.. śata-varṣa jale tiṣṭhan śatam ca sthaṃḍile atapat .. 25..
शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः ॥ शतवर्षं तु हस्तस्य तलेन च भुवं स्थित ॥ २६॥
शत-वर्षम् तथा च अग्नौ शत-वर्षम् अधोमुखः ॥ शत-वर्षम् तु हस्तस्य तलेन च भुवम् स्थित ॥ २६॥
śata-varṣam tathā ca agnau śata-varṣam adhomukhaḥ .. śata-varṣam tu hastasya talena ca bhuvam sthita .. 26..
शतवर्षं तु वृक्षस्य शाखामालब्य वै मुने ॥ पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥ २७॥
शत-वर्षम् तु वृक्षस्य शाखाम् आलब्य वै मुने ॥ पादाभ्याम् शुचि-धूमम् हि पिबन् च अधोमुखः तथा ॥ २७॥
śata-varṣam tu vṛkṣasya śākhām ālabya vai mune .. pādābhyām śuci-dhūmam hi piban ca adhomukhaḥ tathā .. 27..
एवं कष्टतरं तेपे सुतपस्स तु दैत्यराट्॥ काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम्॥ २८॥
एवम् कष्टतरम् तेपे सु तपः स तु दैत्य-राज्॥ कामम् उद्दिश्य विधिवत् शृण्वताम् अपि दुस्सहम्॥ २८॥
evam kaṣṭataram tepe su tapaḥ sa tu daitya-rāj.. kāmam uddiśya vidhivat śṛṇvatām api dussaham.. 28..
तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम्॥ शिरसस्सर्वंसंसर्पि महोपद्रवकृन्मुने॥ २९॥
तत्र एवम् तपतः तस्य महत् तेजः विनिस्सृतम्॥ शिरसः सर्वम् संसर्पि महा-उपद्रव-कृत् मुने॥ २९॥
tatra evam tapataḥ tasya mahat tejaḥ vinissṛtam.. śirasaḥ sarvam saṃsarpi mahā-upadrava-kṛt mune.. 29..
तेनैव देवलोकास्ते दग्धप्राया बभूविरे॥ अभितो दुःखमापन्नास्सर्वे देवर्षयो मुने॥ 2.3.15.३०॥
तेन एव देव-लोकाः ते दग्ध-प्रायाः बभूविरे॥ अभितस् दुःखम् आपन्नाः सर्वे देवर्षयः मुने॥ २।३।१५।३०॥
tena eva deva-lokāḥ te dagdha-prāyāḥ babhūvire.. abhitas duḥkham āpannāḥ sarve devarṣayaḥ mune.. 2.3.15.30..
इंद्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा॥ तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥ ३१ ॥
इंद्रः च भयम् आपेदे अधिकम् देवेश्वरः तदा॥ तपस्यति अति अद्य कश्चिद् वै मद्-पदम् धर्षयिष्यति ॥ ३१ ॥
iṃdraḥ ca bhayam āpede adhikam deveśvaraḥ tadā.. tapasyati ati adya kaścid vai mad-padam dharṣayiṣyati .. 31 ..
अकांडे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु ॥ इति संशयमापन्ना निश्चयं नोपलेभिरे ॥ ३२॥
अकांडे च एव ब्रह्माण्डम् संहरिष्यति अयम् प्रभु ॥ इति संशयम् आपन्नाः निश्चयम् न उपलेभिरे ॥ ३२॥
akāṃḍe ca eva brahmāṇḍam saṃhariṣyati ayam prabhu .. iti saṃśayam āpannāḥ niścayam na upalebhire .. 32..
ततस्सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः ॥ मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥ ३३ ॥
ततस् सर्वे सु संमन्त्र्य मिथस् ते निर्जर-ऋषयः ॥ मद्-लोकम् अगमन् भीताः दीनाः माम् समुपस्थिताः ॥ ३३ ॥
tatas sarve su saṃmantrya mithas te nirjara-ṛṣayaḥ .. mad-lokam agaman bhītāḥ dīnāḥ mām samupasthitāḥ .. 33 ..
मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः ॥ कृतस्वंजलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥ ३४ ॥
माम् प्रणम्य सु संस्तूय सर्वे ते क्लिष्ट-चेतसः ॥ कृत-स्वंजलयः मह्यम् वृत्तम् सर्वम् न्यवेदयन् ॥ ३४ ॥
mām praṇamya su saṃstūya sarve te kliṣṭa-cetasaḥ .. kṛta-svaṃjalayaḥ mahyam vṛttam sarvam nyavedayan .. 34 ..
अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया ॥ वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥ ३५ ॥
अहम् सर्वम् सु निश्चित्य कारणम् तस्य सत्-धिया ॥ वरम् दातुम् गतः तत्र यत्र तप्यति सः असुरः ॥ ३५ ॥
aham sarvam su niścitya kāraṇam tasya sat-dhiyā .. varam dātum gataḥ tatra yatra tapyati saḥ asuraḥ .. 35 ..
अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने ॥ तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥ ३६ ॥
अवोचम् वचनम् तम् वै वरम् ब्रूहि इति अहम् मुने ॥ तपः तप्तम् त्वया तीव्रम् न आदेयम् विद्यते तव ॥ ३६ ॥
avocam vacanam tam vai varam brūhi iti aham mune .. tapaḥ taptam tvayā tīvram na ādeyam vidyate tava .. 36 ..
इत्येवं मद्वचः श्रुत्वा तारकस्स महासुरः ॥ मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥ ३७ ॥
इति एवम् मद्-वचः श्रुत्वा तारकः स महा-असुरः ॥ माम् प्रणम्य सु संस्तूय वरम् वव्रे अति दारुणम् ॥ ३७ ॥
iti evam mad-vacaḥ śrutvā tārakaḥ sa mahā-asuraḥ .. mām praṇamya su saṃstūya varam vavre ati dāruṇam .. 37 ..
तारक उवाच ।।
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम ॥ अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ॥ ३८ ॥
त्वयि प्रसन्ने वर-दे किम् असाध्यम् भवेत् मम ॥ अतस् याचे वरम् त्वत्तः शृणु तत् मे पितामह ॥ ३८ ॥
tvayi prasanne vara-de kim asādhyam bhavet mama .. atas yāce varam tvattaḥ śṛṇu tat me pitāmaha .. 38 ..
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥ देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥ ३९॥
यदि प्रसन्नः देवेश यदि देयः वरः मम ॥ देयम् वर-द्वयम् मह्यम् कृपाम् कृत्वा मम उपरि ॥ ३९॥
yadi prasannaḥ deveśa yadi deyaḥ varaḥ mama .. deyam vara-dvayam mahyam kṛpām kṛtvā mama upari .. 39..
त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो ॥ मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥ 2.3.15.४० ॥
त्वया च निर्मिते लोके सकले अस्मिन् महा-प्रभो ॥ मद्-तुल्यः बलवान् नूनम् न भवेत् कः अपि वै पुमान् ॥ २।३।१५।४० ॥
tvayā ca nirmite loke sakale asmin mahā-prabho .. mad-tulyaḥ balavān nūnam na bhavet kaḥ api vai pumān .. 2.3.15.40 ..
शिववीर्यसमुत्पन्नः पुत्रस्सेनापतिर्यदा ॥ भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥ ४१ ॥
शिव-वीर्य-समुत्पन्नः पुत्रः सेनापतिः यदा ॥ भूत्वा शस्त्रम् क्षिपेत् मह्यम् तदा मे मरणम् भवेत् ॥ ४१ ॥
śiva-vīrya-samutpannaḥ putraḥ senāpatiḥ yadā .. bhūtvā śastram kṣipet mahyam tadā me maraṇam bhavet .. 41 ..
इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर॥ वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम्॥ ४२॥
इति उक्तः अथ तदा तेन दैत्येन अहम् मुनि-ईश्वर॥ वरम् च तादृशम् दत्त्वा स्व-लोकम् अगमम् द्रुतम्॥ ४२॥
iti uktaḥ atha tadā tena daityena aham muni-īśvara.. varam ca tādṛśam dattvā sva-lokam agamam drutam.. 42..
दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम्॥ सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः॥ ४३॥
दैत्यः अपि स वरम् लब्ध्वा मनसा ईप्सितम् उत्तमम्॥ सु प्रसन्न-उतरः भूत्वा शोणित-आख्य-पुरम् गतः॥ ४३॥
daityaḥ api sa varam labdhvā manasā īpsitam uttamam.. su prasanna-utaraḥ bhūtvā śoṇita-ākhya-puram gataḥ.. 43..
अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैस्सह॥ शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ॥ ४४॥
अभिषिक्तः तदा राज्ये त्रैलोक्यस्य असुरैः सह॥ शुक्रेण दैत्य-गुरुणा आज्ञया मे स महा-असुरः ॥ ४४॥
abhiṣiktaḥ tadā rājye trailokyasya asuraiḥ saha.. śukreṇa daitya-guruṇā ājñayā me sa mahā-asuraḥ .. 44..
ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः ॥ स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम्॥ ४५॥
ततस् तु स महा-दैत्यः अभवत् त्रैलोक्य-नायकः ॥ स्व-आज्ञाम् प्रवर्तयामास पीडयन् सचराचरम्॥ ४५॥
tatas tu sa mahā-daityaḥ abhavat trailokya-nāyakaḥ .. sva-ājñām pravartayāmāsa pīḍayan sacarācaram.. 45..
राज्यं चकार विधिवस्त्रिलोकस्य स तारकः ॥ प्रजाश्च पालयामास पीडयन्निर्जरादिकान्॥ ४६॥
राज्यम् चकार विधिवत् त्रिलोकस्य स तारकः ॥ प्रजाः च पालयामास पीडयन् निर्जरा-आदिकान्॥ ४६॥
rājyam cakāra vidhivat trilokasya sa tārakaḥ .. prajāḥ ca pālayāmāsa pīḍayan nirjarā-ādikān.. 46..
ततस्स तारको दैत्यस्तेषां रत्नान्युपाददे ॥ इंद्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥ ४७॥
ततस् स तारकः दैत्यः तेषाम् रत्नानि उपाददे ॥ इंद्र-आदि-लोकपालानाम् स्वतस् दत्तानि तद्-भयात् ॥ ४७॥
tatas sa tārakaḥ daityaḥ teṣām ratnāni upādade .. iṃdra-ādi-lokapālānām svatas dattāni tad-bhayāt .. 47..
इंद्रेणैरावतस्तस्य भयात्तस्मै समर्पितः ॥ कुबेरेण तदा दत्ता निधयो नवसंख्यका ॥ ४८॥
इंद्रेण ऐरावतः तस्य भयात् तस्मै समर्पितः ॥ कुबेरेण तदा दत्ताः निधयः नव-संख्यका ॥ ४८॥
iṃdreṇa airāvataḥ tasya bhayāt tasmai samarpitaḥ .. kubereṇa tadā dattāḥ nidhayaḥ nava-saṃkhyakā .. 48..
वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा ॥ सूर्येणोच्चैश्श्रवा दिव्यो भयात्तस्मै समर्पितः ॥ ४९॥
वरुणेन हयाः शुभ्राः ऋषिभिः काम-कृत् तथा ॥ सूर्येण उच्चैश्श्रवाः दिव्यः भयात् तस्मै समर्पितः ॥ ४९॥
varuṇena hayāḥ śubhrāḥ ṛṣibhiḥ kāma-kṛt tathā .. sūryeṇa uccaiśśravāḥ divyaḥ bhayāt tasmai samarpitaḥ .. 49..
यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि॥ तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ॥ 2.3.15.५०॥
यत्र यत्र शुभम् वस्तु दृष्टम् तेन असुरेण हि॥ तत् तत् गृहीतम् तरसा निस्सारः त्रि-भवः अभवत् ॥ २।३।१५।५०॥
yatra yatra śubham vastu dṛṣṭam tena asureṇa hi.. tat tat gṛhītam tarasā nissāraḥ tri-bhavaḥ abhavat .. 2.3.15.50..
समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने॥ अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाः खिलाः॥ ५१॥
समुद्राः च तथा रत्नानि यदुः तस्मै भयात् मुने॥ अकृष्ट-पच्या आसीत् पृथ्वी प्रजाः कामदुघाः खिलाः॥ ५१॥
samudrāḥ ca tathā ratnāni yaduḥ tasmai bhayāt mune.. akṛṣṭa-pacyā āsīt pṛthvī prajāḥ kāmadughāḥ khilāḥ.. 51..
सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत् ॥ चंद्रस्तु प्रभया दृश्यो वायुस्सर्वानुकूलवान् ॥ ५२॥
सूर्यः च तपते तद्वत् तत् दुःखम् न यथा भवेत् ॥ चंद्रः तु प्रभया दृश्यः वायुः सर्व-अनुकूलवान् ॥ ५२॥
sūryaḥ ca tapate tadvat tat duḥkham na yathā bhavet .. caṃdraḥ tu prabhayā dṛśyaḥ vāyuḥ sarva-anukūlavān .. 52..
देवानां चैव यद्द्रव्यं पितॄणां च परस्य च ॥ तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥ ५३ ॥
देवानाम् च एव यत् द्रव्यम् पितॄणाम् च परस्य च ॥ तत् सर्वम् समुपादत्तम् असुरेण दुरात्मना ॥ ५३ ॥
devānām ca eva yat dravyam pitṝṇām ca parasya ca .. tat sarvam samupādattam asureṇa durātmanā .. 53 ..
वशीकृत्य स लोकांस्त्रीन्स्वयमिंद्रो बभूव ह ॥ अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी॥ ५४॥
वशीकृत्य स लोकान् त्रीन् स्वयम् इंद्रः बभूव ह ॥ अद्वितीयः प्रभुः च आसीत् राज्यम् चक्रे अद्भुतम् वशी॥ ५४॥
vaśīkṛtya sa lokān trīn svayam iṃdraḥ babhūva ha .. advitīyaḥ prabhuḥ ca āsīt rājyam cakre adbhutam vaśī.. 54..
निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः॥ स्वयं नियोजयामास देवयोनिस्स्वकर्मणि॥ ५५॥
निस्सार्य सकलान् देवान् दैत्यान् अस्थापयत् ततस्॥ स्वयम् नियोजयामास देवयोनिः स्व-कर्मणि॥ ५५॥
nissārya sakalān devān daityān asthāpayat tatas.. svayam niyojayāmāsa devayoniḥ sva-karmaṇi.. 55..
अथ तद्बाधिता देवास्सर्वे शक्रपुरोगमाः॥ मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥ ५६॥ ॥
अथ तद्-बाधिताः देवाः सर्वे शक्र-पुरोगमाः॥ मुने माम् शरणम् जग्मुः अनाथाः अति विह्वलाः ॥ ५६॥ ॥
atha tad-bādhitāḥ devāḥ sarve śakra-purogamāḥ.. mune mām śaraṇam jagmuḥ anāthāḥ ati vihvalāḥ .. 56.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनम् नाम पंचदशः अध्यायः ॥ १५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe tārakāsurataporājyavarṇanam nāma paṃcadaśaḥ adhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In