| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथ ते निर्जरास्सर्वे सुप्रणम्य प्रजेश्वरम् ॥ तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः॥ १॥
अथ ते निर्जराः सर्वे सु प्रणम्य प्रजेश्वरम् ॥ तुष्टुवुः परया भक्त्या तारकेण प्रपीडिताः॥ १॥
atha te nirjarāḥ sarve su praṇamya prajeśvaram .. tuṣṭuvuḥ parayā bhaktyā tārakeṇa prapīḍitāḥ.. 1..
अहं श्रुत्वामरनुतिं यथार्थां हृदयंगमा॥ सुप्रसन्नतरो भूत्वा प्रत्यवोचं दिवौकसः ॥ २॥
अहम् श्रुत्वा अमर-नुतिम् यथार्थाम् हृदयंगमा॥ सु प्रसन्नतरः भूत्वा प्रत्यवोचम् दिवौकसः ॥ २॥
aham śrutvā amara-nutim yathārthām hṛdayaṃgamā.. su prasannataraḥ bhūtvā pratyavocam divaukasaḥ .. 2..
स्वागतं स्वाधिकारा वै निर्विघ्नाः संति वस्तुतः ॥ किमर्थमागता यूयमत्र सर्वे वदंतु मे ॥ ३ ॥
स्वागतम् स्व-अधिकाराः वै निर्विघ्नाः संति वस्तुतस् ॥ किमर्थम् आगताः यूयम् अत्र सर्वे वदंतु मे ॥ ३ ॥
svāgatam sva-adhikārāḥ vai nirvighnāḥ saṃti vastutas .. kimartham āgatāḥ yūyam atra sarve vadaṃtu me .. 3 ..
इति श्रुत्वा वचो मे ते नत्वा सर्वे दिवौकसः ॥ मामूचुर्नतका दीनास्तारकेण प्रपीडिताः ॥ ४॥
इति श्रुत्वा वचः मे ते नत्वा सर्वे दिवौकसः ॥ माम् ऊचुः नतकाः दीनाः तारकेण प्रपीडिताः ॥ ४॥
iti śrutvā vacaḥ me te natvā sarve divaukasaḥ .. mām ūcuḥ natakāḥ dīnāḥ tārakeṇa prapīḍitāḥ .. 4..
देवा ऊचुः ।।
लोकेश तारको दैत्यो वरेण तव दर्पित ॥ निरस्यास्मान्हठात्स्थानान्यग्रहीन्नो बलात्स्वयम् ॥ ५॥
लोकेश तारकः दैत्यः वरेण तव दर्पित ॥ निरस्य अस्मान् हठात् स्थानानि अग्रहीत् नः बलात् स्वयम् ॥ ५॥
lokeśa tārakaḥ daityaḥ vareṇa tava darpita .. nirasya asmān haṭhāt sthānāni agrahīt naḥ balāt svayam .. 5..
भवतः किमु न ज्ञातं दुःखं यन्नः उपस्थितम् ॥ तद्दुःखं नाशय क्षिप्रं वयं ते शरणं गताः ॥ ६॥
भवतः किमु न ज्ञातम् दुःखम् यत् नः उपस्थितम् ॥ तत् दुःखम् नाशय क्षिप्रम् वयम् ते शरणम् गताः ॥ ६॥
bhavataḥ kimu na jñātam duḥkham yat naḥ upasthitam .. tat duḥkham nāśaya kṣipram vayam te śaraṇam gatāḥ .. 6..
अहर्निशं बाधतेस्मान्यत्र तत्रास्थितान्स वै ॥ पलायमानाः पश्यामो यत्र तत्रापि तारकम् ॥ ७॥
अहर्निशम् बाधते स्मान् यत्र तत्र आस्थितान् स वै ॥ पलायमानाः पश्यामः यत्र तत्र अपि तारकम् ॥ ७॥
aharniśam bādhate smān yatra tatra āsthitān sa vai .. palāyamānāḥ paśyāmaḥ yatra tatra api tārakam .. 7..
तारकान्नश्च यद्दुःखं संभूतं सकलेश्वर ॥ तेन सर्वे वयं तात पीडिता विकला अति ॥ ८ ॥
तारकात् नः च यत् दुःखम् संभूतम् सकल-ईश्वर ॥ तेन सर्वे वयम् तात पीडिताः विकलाः अति ॥ ८ ॥
tārakāt naḥ ca yat duḥkham saṃbhūtam sakala-īśvara .. tena sarve vayam tāta pīḍitāḥ vikalāḥ ati .. 8 ..
अग्निर्यमोथ वरुणो निर्ऋतिर्वायुरेव च॥ ॥ अन्ये दिक्पतयश्चापि सर्वे यद्वशगामिनः ॥ ९॥
अग्निः यमः उथ वरुणः निरृतिः वायुः एव च॥ ॥ अन्ये दिक्पतयः च अपि सर्वे यद्-वश-गामिनः ॥ ९॥
agniḥ yamaḥ utha varuṇaḥ nirṛtiḥ vāyuḥ eva ca.. .. anye dikpatayaḥ ca api sarve yad-vaśa-gāminaḥ .. 9..
सर्वे मनुष्यधर्माणस्सर्वेः परिकरैर्युताः॥ सेवंते तं महादैत्यं न स्वतंत्राः कदाचन ॥ 2.3.16.१० ॥
सर्वे मनुष्य-धर्माणः सर्वेः परिकरैः युताः॥ सेवंते तम् महा-दैत्यम् न स्वतंत्राः कदाचन ॥ २।३।१६।१० ॥
sarve manuṣya-dharmāṇaḥ sarveḥ parikaraiḥ yutāḥ.. sevaṃte tam mahā-daityam na svataṃtrāḥ kadācana .. 2.3.16.10 ..
एवं तेनार्दिता देवा वशगास्तस्य सर्वदा ॥ तदिच्छाकार्य्यनिरतास्सर्वे तस्यानुजीविनः ॥ ११ ॥
एवम् तेन अर्दिताः देवाः वशगाः तस्य सर्वदा ॥ तद्-इच्छा-कार्य्य-निरताः सर्वे तस्य अनुजीविनः ॥ ११ ॥
evam tena arditāḥ devāḥ vaśagāḥ tasya sarvadā .. tad-icchā-kāryya-niratāḥ sarve tasya anujīvinaḥ .. 11 ..
यावत्यो वनितास्सर्वा ये चाप्यप्सरसां गणाः॥ सर्वांस्तानग्रहीद्दैत्यस्तारकोऽसौ महाबली ॥ १२॥
यावत्यः वनिताः सर्वाः ये च अपि अप्सरसाम् गणाः॥ सर्वान् तान् अग्रहीत् दैत्यः तारकः असौ महा-बली ॥ १२॥
yāvatyaḥ vanitāḥ sarvāḥ ye ca api apsarasām gaṇāḥ.. sarvān tān agrahīt daityaḥ tārakaḥ asau mahā-balī .. 12..
न यज्ञास्संप्रवर्तते न तपस्यंति तापसाः॥ दानधर्मादिकं किंचिन्न लोकेषु प्रवर्त्तते ॥ १३ ॥
न यज्ञाः संप्रवर्तते न तपस्यंति तापसाः॥ दान-धर्म-आदिकम् किंचिद् न लोकेषु प्रवर्त्तते ॥ १३ ॥
na yajñāḥ saṃpravartate na tapasyaṃti tāpasāḥ.. dāna-dharma-ādikam kiṃcid na lokeṣu pravarttate .. 13 ..
तस्य सेनापतिः क्रौंचो महापाप्यस्ति दानवः ॥ स पातालतलं गत्वा बाधते त्वनिशं प्रजाः ॥ १४ ॥
तस्य सेनापतिः क्रौंचः महा-पापी अस्ति दानवः ॥ स पाताल-तलम् गत्वा बाधते तु अनिशम् प्रजाः ॥ १४ ॥
tasya senāpatiḥ krauṃcaḥ mahā-pāpī asti dānavaḥ .. sa pātāla-talam gatvā bādhate tu aniśam prajāḥ .. 14 ..
तेन नस्तारकेणेदं सकलं भुवनत्रयम् ॥ हृतं हठाज्जगद्धातः पापेनाकरुणात्मना ॥ १५ ॥
तेन नः तारकेण इदम् सकलम् भुवनत्रयम् ॥ हृतम् हठात् जगत् धातर् पापेन अकरुण-आत्मना ॥ १५ ॥
tena naḥ tārakeṇa idam sakalam bhuvanatrayam .. hṛtam haṭhāt jagat dhātar pāpena akaruṇa-ātmanā .. 15 ..
वयं च तत्र यास्यामो यत्स्थानं त्वं विनिर्दिशेः ॥ स्वस्थास्तद्वारितास्तेन लोकनाथसुरारिणा ॥ १५ ॥
वयम् च तत्र यास्यामः यत् स्थानम् त्वम् विनिर्दिशेः ॥ स्वस्थाः तद्-वारिताः तेन लोकनाथ-सुर-अरिणा ॥ १५ ॥
vayam ca tatra yāsyāmaḥ yat sthānam tvam vinirdiśeḥ .. svasthāḥ tad-vāritāḥ tena lokanātha-sura-ariṇā .. 15 ..
त्वं नो गतिश्च शास्ता च धाता त्राता त्वमेव हि ॥ वयं सर्वे तारकाख्यवह्नौ दग्धास्सुविह्वलाः ॥ १७॥
त्वम् नः गतिः च शास्ता च धाता त्राता त्वम् एव हि ॥ वयम् सर्वे तारक-आख्य-वह्नौ दग्धाः सु विह्वलाः ॥ १७॥
tvam naḥ gatiḥ ca śāstā ca dhātā trātā tvam eva hi .. vayam sarve tāraka-ākhya-vahnau dagdhāḥ su vihvalāḥ .. 17..
तेन क्रूरा उपाय नः सर्वे हतबलाः कृताः॥ विकारे सांनिपाते वा वीर्यवंत्यौषधानि च ॥ १८॥
तेन क्रूराः उपाय नः सर्वे हत-बलाः कृताः॥ विकारे सांनिपाते वा वीर्यवंति औषधानि च ॥ १८॥
tena krūrāḥ upāya naḥ sarve hata-balāḥ kṛtāḥ.. vikāre sāṃnipāte vā vīryavaṃti auṣadhāni ca .. 18..
यत्रास्माकं जयाशा हि हरिचक्रे सुदर्शने ॥ उत्कुंठितमभूत्तस्य कंठे पुष्पमिवार्पितम् ॥ १९ ॥
यत्र अस्माकम् जय-आशा हि हरि-चक्रे सुदर्शने ॥ उत्कुंठितम् अभूत् तस्य कंठे पुष्पम् इव अर्पितम् ॥ १९ ॥
yatra asmākam jaya-āśā hi hari-cakre sudarśane .. utkuṃṭhitam abhūt tasya kaṃṭhe puṣpam iva arpitam .. 19 ..
ब्रह्मोवाच ।।
इत्येतद्वचनं श्रुत्वा निर्जराणामहं मुने ॥ प्रत्यवोचं सुरान्सर्वांस्तत्कालसदृशं वचः ॥ 2.3.16.२०॥
इति एतत् वचनम् श्रुत्वा निर्जराणाम् अहम् मुने ॥ प्रत्यवोचम् सुरान् सर्वान् तद्-काल-सदृशम् वचः ॥ २।३।१६।२०॥
iti etat vacanam śrutvā nirjarāṇām aham mune .. pratyavocam surān sarvān tad-kāla-sadṛśam vacaḥ .. 2.3.16.20..
ब्रह्मोवाच ।।
ममैव वचसा दैत्यस्तारकाख्यस्समेधितः॥ न मत्तस्तस्य हननं युज्यते हि दिवौकसः ॥ २१ ॥
मम एव वचसा दैत्यः तारक-आख्यः समेधितः॥ न मत्तः तस्य हननम् युज्यते हि दिवौकसः ॥ २१ ॥
mama eva vacasā daityaḥ tāraka-ākhyaḥ samedhitaḥ.. na mattaḥ tasya hananam yujyate hi divaukasaḥ .. 21 ..
ततो नैव वधो योग्यो यतो वृद्धिमुपागतः ॥ विष वृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्॥ २२॥
ततस् ना एव वधः योग्यः यतस् वृद्धिम् उपागतः ॥ विष-वृक्षः अपि संवर्ध्य स्वयम् छेत्तुम् असांप्रतम्॥ २२॥
tatas nā eva vadhaḥ yogyaḥ yatas vṛddhim upāgataḥ .. viṣa-vṛkṣaḥ api saṃvardhya svayam chettum asāṃpratam.. 22..
युष्माकं चाखिलं कार्यं कर्तुं योग्यो हि शंकरः॥ किन्तु स्वयं न शक्तो हि प्रतिकर्तुं प्रचो दितः॥ २३॥
युष्माकम् च अखिलम् कार्यम् कर्तुम् योग्यः हि शंकरः॥ किन्तु स्वयम् न शक्तः हि प्रतिकर्तुम्॥ २३॥
yuṣmākam ca akhilam kāryam kartum yogyaḥ hi śaṃkaraḥ.. kintu svayam na śaktaḥ hi pratikartum.. 23..
तारकाख्यस्तु पापेन स्वयमेष्यति संक्षयम् ॥ यथा यूयं संविदध्वमुपदेशकरस्त्वहम् ॥ २४ ॥
तारक-आख्यः तु पापेन स्वयम् एष्यति संक्षयम् ॥ यथा यूयम् संविदध्वम् उपदेश-करः तु अहम् ॥ २४ ॥
tāraka-ākhyaḥ tu pāpena svayam eṣyati saṃkṣayam .. yathā yūyam saṃvidadhvam upadeśa-karaḥ tu aham .. 24 ..
न मया तारको वध्यो हरिणापि हरेण च॥ नान्येनापि सुरैर्वापि मद्वरात्सत्यमुच्यते॥ २५॥
न मया तारकः वध्यः हरिणा अपि हरेण च॥ न अन्येन अपि सुरैः वा अपि मद्-वरात् सत्यम् उच्यते॥ २५॥
na mayā tārakaḥ vadhyaḥ hariṇā api hareṇa ca.. na anyena api suraiḥ vā api mad-varāt satyam ucyate.. 25..
शिववीर्य्यसमुत्पन्नो यदि स्यात्तनयस्सुराः॥ स एव तारकाख्यस्य हंता दैत्यस्य नापरः॥ २६॥
शिव-वीर्य-समुत्पन्नः यदि स्यात् तनयः सुराः॥ सः एव तारक-आख्यस्य हंता दैत्यस्य ना अपरः॥ २६॥
śiva-vīrya-samutpannaḥ yadi syāt tanayaḥ surāḥ.. saḥ eva tāraka-ākhyasya haṃtā daityasya nā aparaḥ.. 26..
यमुपायमहं वच्मि तं कुरुध्वं सुरोत्तमाः ॥ महादेवप्रसादेन सिद्धिमेष्यति स धुवम्॥ २७॥
यम् उपायम् अहम् वच्मि तम् कुरुध्वम् सुर-उत्तमाः ॥ महादेव-प्रसादेन सिद्धिम् एष्यति स धुवम्॥ २७॥
yam upāyam aham vacmi tam kurudhvam sura-uttamāḥ .. mahādeva-prasādena siddhim eṣyati sa dhuvam.. 27..
सती दाक्षा यिणी पूर्वं त्यक्तदेहा तु याभवत् ॥ सोत्पन्ना मेनकागर्भात्सा कथा विदिता हि वः ॥ २८॥
सती दाक्षा पूर्वम् त्यक्त-देहा तु या अभवत् ॥ सा उत्पन्ना मेनका-गर्भात् सा कथा विदिता हि वः ॥ २८॥
satī dākṣā pūrvam tyakta-dehā tu yā abhavat .. sā utpannā menakā-garbhāt sā kathā viditā hi vaḥ .. 28..
तस्या अवश्यं गिरिशः करिष्यति कर ग्रहम् ॥ तत्कुरुध्वमुपायं च तथापि त्रिदिवौकसः ॥ २९॥
तस्याः अवश्यम् गिरिशः करिष्यति कर ग्रहम् ॥ तत् कुरुध्वम् उपायम् च तथा अपि त्रिदिवौकसः ॥ २९॥
tasyāḥ avaśyam giriśaḥ kariṣyati kara graham .. tat kurudhvam upāyam ca tathā api tridivaukasaḥ .. 29..
तथा विदध्वं सुतरां तस्यां तु परियत्नतः ॥ पार्वत्यां मेनकाजायां रेतः प्रतिनिपातने ॥ 2.3.16.३० ॥
तथा विदध्वम् सुतराम् तस्याम् तु परियत्नतः ॥ पार्वत्याम् मेनका-जायाम् रेतः प्रतिनिपातने ॥ २।३।१६।३० ॥
tathā vidadhvam sutarām tasyām tu pariyatnataḥ .. pārvatyām menakā-jāyām retaḥ pratinipātane .. 2.3.16.30 ..
तमूर्द्ध्वरेतसं शंभुं सैव प्रच्युतरेतसम् ॥ कर्तुं समर्था नान्यास्ति तथा काप्यबला बलात् ॥ ३१ ॥
तम् ऊर्द्ध्वरेतसम् शंभुम् सा एव प्रच्युत-रेतसम् ॥ कर्तुम् समर्था ना अन्या अस्ति तथा का अपि अबला बलात् ॥ ३१ ॥
tam ūrddhvaretasam śaṃbhum sā eva pracyuta-retasam .. kartum samarthā nā anyā asti tathā kā api abalā balāt .. 31 ..
सा सुता गिरिराजस्य सांप्रतं प्रौढयौवना ॥ तपस्यते हिमगिरौ नित्यं संसेवते हरम् ॥ ३२॥
सा सुता गिरिराजस्य सांप्रतम् प्रौढ-यौवना ॥ तपस्यते हिमगिरौ नित्यम् संसेवते हरम् ॥ ३२॥
sā sutā girirājasya sāṃpratam prauḍha-yauvanā .. tapasyate himagirau nityam saṃsevate haram .. 32..
वाक्याद्धिमवतः कालीं स्वपितुर्हठतश्शिवा ॥ सखीभ्यां सेवते सार्द्धं ध्यानस्थं परमेश्वरम् ॥ ३३॥
वाक्यात् हिमवतः कालीम् स्व-पितुः हठतः शिवा ॥ सखीभ्याम् सेवते सार्द्धम् ध्यान-स्थम् परमेश्वरम् ॥ ३३॥
vākyāt himavataḥ kālīm sva-pituḥ haṭhataḥ śivā .. sakhībhyām sevate sārddham dhyāna-stham parameśvaram .. 33..
तामग्रतोऽर्च्चमानां वै त्रैलोक्ये वरवर्णिनीम् ॥ ध्यानसक्तो महेशो हि मनसापि न हीयते ॥ ३४॥
ताम् अग्रतस् अर्च्चमानाम् वै त्रैलोक्ये वरवर्णिनीम् ॥ ध्यान-सक्तः महेशः हि मनसा अपि न हीयते ॥ ३४॥
tām agratas arccamānām vai trailokye varavarṇinīm .. dhyāna-saktaḥ maheśaḥ hi manasā api na hīyate .. 34..
भार्य्यां समीहेत यथा स कालीं चन्द्रशेखरः ॥ तथा विधध्वं त्रिदशा न चिरादेव यत्नतः ॥ ३५॥
भार्य्याम् समीहेत यथा स कालीम् चन्द्रशेखरः ॥ तथा त्रिदशाः न चिरात् एव यत्नतः ॥ ३५॥
bhāryyām samīheta yathā sa kālīm candraśekharaḥ .. tathā tridaśāḥ na cirāt eva yatnataḥ .. 35..
स्थानं गत्वाथ दैत्यस्य तमहं तारकं ततः ॥ निवारयिष्ये कुहठात्स्वस्थानं गच्छतामराः॥ ३६॥
स्थानम् गत्वा अथ दैत्यस्य तम् अहम् तारकम् ततस् ॥ निवारयिष्ये कुहठात् स्व-स्थानम् गच्छत अमराः॥ ३६॥
sthānam gatvā atha daityasya tam aham tārakam tatas .. nivārayiṣye kuhaṭhāt sva-sthānam gacchata amarāḥ.. 36..
इत्युक्त्वाहं सुरान्शीघ्रं तारकाख्यासुरस्य वै ॥ उपसंगम्य सुप्रीत्या समाभाष्येदमब्रवम् ॥ ३७॥
इति उक्त्वा अहम् सुरान् शीघ्रम् तारक-आख्य-असुरस्य वै ॥ उपसंगम्य सु प्रीत्या समाभाष्य इदम् अब्रवम् ॥ ३७॥
iti uktvā aham surān śīghram tāraka-ākhya-asurasya vai .. upasaṃgamya su prītyā samābhāṣya idam abravam .. 37..
।। ब्रह्मोवाच ।।
तेजोसारमिदं स्वर्गं राज्यं त्वं परिपासि नः ॥ यदर्थं सुतपस्तप्तं वाञ्छसि त्वं ततोऽधिकम्॥ ३८॥
तेजः-सारम् इदम् स्वर्गम् राज्यम् त्वम् परिपासि नः ॥ यद्-अर्थम् सु तपः तप्तम् वाञ्छसि त्वम् ततस् अधिकम्॥ ३८॥
tejaḥ-sāram idam svargam rājyam tvam paripāsi naḥ .. yad-artham su tapaḥ taptam vāñchasi tvam tatas adhikam.. 38..
वरश्चाप्यवरो दत्तो न मया स्वर्गराज्यता ॥ तस्मात्स्वर्गं परित्यज्य क्षितौ राज्यं समाचर ॥ ३९॥
वरः च अपि अवरः दत्तः न मया स्वर्ग-राज्य-ता ॥ तस्मात् स्वर्गम् परित्यज्य क्षितौ राज्यम् समाचर ॥ ३९॥
varaḥ ca api avaraḥ dattaḥ na mayā svarga-rājya-tā .. tasmāt svargam parityajya kṣitau rājyam samācara .. 39..
देवयोग्यानि तत्रैव कार्य्याणि निखिलान्यपि ॥ भविष्यत्यरसुरश्रेष्ठ नात्र कार्य्या विचारणा ॥ 2.3.16.४०॥
देव-योग्यानि तत्र एव कार्य्याणि निखिलानि अपि ॥ भविष्यति अरसुर-श्रेष्ठ न अत्र कार्य्या विचारणा ॥ २।३।१६।४०॥
deva-yogyāni tatra eva kāryyāṇi nikhilāni api .. bhaviṣyati arasura-śreṣṭha na atra kāryyā vicāraṇā .. 2.3.16.40..
इत्युक्त्वाहं च संबोध्यासुरं तं सकलेश्वरः ॥ स्मृत्वा शिवं च सशिवं तत्रांतर्धानमागतः ॥ ४ १ ॥
इति उक्त्वा अहम् च संबोध्य असुरम् तम् सकल-ईश्वरः ॥ स्मृत्वा शिवम् च स शिवम् तत्र अंतर्धानम् आगतः ॥ ४ १ ॥
iti uktvā aham ca saṃbodhya asuram tam sakala-īśvaraḥ .. smṛtvā śivam ca sa śivam tatra aṃtardhānam āgataḥ .. 4 1 ..
तारकोऽपि परित्यज्य स्वर्गं क्षितिमथाभ्यगात्॥ शोणिताख्य पुरे स्थित्वा सर्वराज्यं चकार सः ॥ ४२॥
तारकः अपि परित्यज्य स्वर्गम् क्षितिम् अथ अभ्यगात्॥ शोणित-आख्य पुरे स्थित्वा सर्व-राज्यम् चकार सः ॥ ४२॥
tārakaḥ api parityajya svargam kṣitim atha abhyagāt.. śoṇita-ākhya pure sthitvā sarva-rājyam cakāra saḥ .. 42..
देवास्सर्वेऽपि तच्छुत्वा मद्वाक्यं सुप्रणम्य माम् ॥ शक्रस्थानं ययुः प्रीत्या शक्रेण सुस माहिताः ॥ ४३॥
देवाः सर्वे अपि तत् शुत्वा मद्-वाक्यम् सु प्रणम्य माम् ॥ शक्र-स्थानम् ययुः प्रीत्या शक्रेण ॥ ४३॥
devāḥ sarve api tat śutvā mad-vākyam su praṇamya mām .. śakra-sthānam yayuḥ prītyā śakreṇa .. 43..
तत्र गत्वा मिलित्वा च विचार्य्य च परस्परम् ॥ ते सर्वे मरुतः प्रीत्या मघवंतं वचोऽब्रुवन् ॥ ४४॥
तत्र गत्वा मिलित्वा च विचार्य्य च परस्परम् ॥ ते सर्वे मरुतः प्रीत्या मघवंतम् वचः अब्रुवन् ॥ ४४॥
tatra gatvā militvā ca vicāryya ca parasparam .. te sarve marutaḥ prītyā maghavaṃtam vacaḥ abruvan .. 44..
देवा ऊचुः ।। ।।
शम्भोर्य्यथा शिवायां वै रुचिजायेत कामतः ॥ मघवंस्ते प्रकर्तव्यं ब्रह्मोक्तं सर्वमेव तत् ॥ ४५॥ ॥
शम्भोः यथा शिवायाम् वै रुचि जायेत कामतः ॥ मघवन् ते प्रकर्तव्यम् ब्रह्म उक्तम् सर्वम् एव तत् ॥ ४५॥ ॥
śambhoḥ yathā śivāyām vai ruci jāyeta kāmataḥ .. maghavan te prakartavyam brahma uktam sarvam eva tat .. 45.. ..
ब्रह्मोवाच।।
इत्येवं सर्ववृत्तांतं विनिवेद्य सुरेश्वरम् ॥ जग्मुस्ते सर्वतो देवाः स्वं स्वं स्थानं मुदान्विताः ॥ ४६॥
इति एवम् सर्व-वृत्तांतम् विनिवेद्य सुरेश्वरम् ॥ जग्मुः ते सर्वतस् देवाः स्वम् स्वम् स्थानम् मुदा अन्विताः ॥ ४६॥
iti evam sarva-vṛttāṃtam vinivedya sureśvaram .. jagmuḥ te sarvatas devāḥ svam svam sthānam mudā anvitāḥ .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्ड देवसांत्वनवर्णनं नाम षोडशोऽध्यायः ॥ १६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्ड देवसांत्वनवर्णनम् नाम षोडशः अध्यायः ॥ १६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍa devasāṃtvanavarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In