| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ॥ पीडितस्तारकेनातिदेत्येन च दुरात्मना ॥ १ ॥
गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ॥ पीडितः तारकेन अतिदेत्येन च दुरात्मना ॥ १ ॥
gateṣu teṣu deveṣu śakraḥ sasmāra vai smaram .. pīḍitaḥ tārakena atidetyena ca durātmanā .. 1 ..
आगतस्तत्क्षणात्कामस्सवसंतो रतिप्रियः ॥ सावलेपो युतो रत्या त्रैलोक्य विजयी प्रभुः ॥ २ ॥
आगतः तद्-क्षणात् कामः स वसंतः रतिप्रियः ॥ स अवलेपः युतः रत्या त्रैलोक्य विजयी प्रभुः ॥ २ ॥
āgataḥ tad-kṣaṇāt kāmaḥ sa vasaṃtaḥ ratipriyaḥ .. sa avalepaḥ yutaḥ ratyā trailokya vijayī prabhuḥ .. 2 ..
प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतस्स्मरः ॥ महोन्नतमनास्तात सांजलिश्शक्रमब्रवीत् ॥ ३ ॥
प्रणामम् च ततस् कृत्वा स्थित्वा तद्-पुरतस् स्मरः ॥ महा-उन्नत-मनाः तात स अंजलिः शक्रम् अब्रवीत् ॥ ३ ॥
praṇāmam ca tatas kṛtvā sthitvā tad-puratas smaraḥ .. mahā-unnata-manāḥ tāta sa aṃjaliḥ śakram abravīt .. 3 ..
काम उवाच ।।
किं कार्य्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ॥ तत्त्वं कथय देवेश तत्कर्तुं समुपागतः ॥ ४ ॥
किम् कार्य्यम् ते समुत्पन्नम् स्मृतः अहम् केन हेतुना ॥ तत् त्वम् कथय देवेश तत् कर्तुम् समुपागतः ॥ ४ ॥
kim kāryyam te samutpannam smṛtaḥ aham kena hetunā .. tat tvam kathaya deveśa tat kartum samupāgataḥ .. 4 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य कंदर्पस्य सुरेश्वरः ॥ उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ॥ ५ ॥
तत् श्रुत्वा वचनम् तस्य कंदर्पस्य सुरेश्वरः ॥ उवाच वचनम् प्रीत्या युक्तम् युक्तम् इति स्तुवन् ॥ ५ ॥
tat śrutvā vacanam tasya kaṃdarpasya sureśvaraḥ .. uvāca vacanam prītyā yuktam yuktam iti stuvan .. 5 ..
।। शक्र उवाच।।
तव साधु समारम्भो यन्मे कार्य्यमुपस्थितम्॥ तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ॥ ६॥
तव साधु समारम्भः यत् मे कार्य्यम् उपस्थितम्॥ तद्-कतुः मुद्यतः असि त्वम् धन्यः असि मकरध्वज ॥ ६॥
tava sādhu samārambhaḥ yat me kāryyam upasthitam.. tad-katuḥ mudyataḥ asi tvam dhanyaḥ asi makaradhvaja .. 6..
प्रस्तुतं शृणु मद्वाक्यं कथयामि तवाग्रतः॥ मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ॥ ७॥
प्रस्तुतम् शृणु मद्-वाक्यम् कथयामि तव अग्रतस्॥ मदीयम् च एव यत् कार्यम् त्वदीयम् तत् न च अन्यथा ॥ ७॥
prastutam śṛṇu mad-vākyam kathayāmi tava agratas.. madīyam ca eva yat kāryam tvadīyam tat na ca anyathā .. 7..
मित्राणि मम संत्येव बहूनि सुमहांति च ॥ परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ॥ ८ ॥
मित्राणि मम संति एव बहूनि सु महान्ति च ॥ परम् तु स्मर सत्-मित्रम् त्वद्-तुल्यम् न हि कुत्रचिद् ॥ ८ ॥
mitrāṇi mama saṃti eva bahūni su mahānti ca .. param tu smara sat-mitram tvad-tulyam na hi kutracid .. 8 ..
जयार्थं मे द्वयं तात निर्मितं वजमुत्तमम् ॥ वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥ ९ ॥
जय-अर्थम् मे द्वयम् तात निर्मितम् वजम् उत्तमम् ॥ वज्रम् च निष्फलम् स्यात् वै त्वम् तु ना एव कदाचन ॥ ९ ॥
jaya-artham me dvayam tāta nirmitam vajam uttamam .. vajram ca niṣphalam syāt vai tvam tu nā eva kadācana .. 9 ..
यतो हितं प्रजायेत ततः को नु प्रियः परः ॥ तस्मान्मित्रवरस्त्वं हि मत्कार्य्यं कर्तुमर्हसि ॥ 2.3.17.१० ॥
यतस् हितम् प्रजायेत ततस् कः नु प्रियः परः ॥ तस्मात् मित्र-वरः त्वम् हि मद्-कार्य्यम् कर्तुम् अर्हसि ॥ २।३।१७।१० ॥
yatas hitam prajāyeta tatas kaḥ nu priyaḥ paraḥ .. tasmāt mitra-varaḥ tvam hi mad-kāryyam kartum arhasi .. 2.3.17.10 ..
मम दुःखं समुत्पन्नमसाध्य चापि कालजम् ॥ केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ॥ ११ ॥
मम दुःखम् समुत्पन्नम् अ साध्य च अपि काल-जम् ॥ केन अपि ना एव तत् शक्यम् दूरीकर्तुम् त्वया विना ॥ ११ ॥
mama duḥkham samutpannam a sādhya ca api kāla-jam .. kena api nā eva tat śakyam dūrīkartum tvayā vinā .. 11 ..
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ॥ आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ॥ १२ ॥
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ॥ आपद्-काले तु मित्रस्य अशक्तौ स्त्रीणाम् कुलस्य हि ॥ १२ ॥
dātuḥ parīkṣā durbhikṣe raṇe śūrasya jāyate .. āpad-kāle tu mitrasya aśaktau strīṇām kulasya hi .. 12 ..
विनये संकटे प्राप्तेऽवितथस्य परोक्षतः ॥ सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३ ॥
विनये संकटे प्राप्ते अवितथस्य परोक्षतः ॥ सुस्नेहस्य तथा तात न अन्यथा सत्यम् ईरितम् ॥ १३ ॥
vinaye saṃkaṭe prāpte avitathasya parokṣataḥ .. susnehasya tathā tāta na anyathā satyam īritam .. 13 ..
प्राप्तायां वै ममापत्ताववार्यायां परेण हि ॥ परीक्षा च त्वदीयाऽद्य मित्रवर्य भविष्यति ॥ १४॥
प्राप्तायाम् वै मम आपत्तौ अवार्यायाम् परेण हि ॥ परीक्षा च त्वदीया अद्य मित्र-वर्य भविष्यति ॥ १४॥
prāptāyām vai mama āpattau avāryāyām pareṇa hi .. parīkṣā ca tvadīyā adya mitra-varya bhaviṣyati .. 14..
न केवलं मदीयं च कार्य्यमस्ति सुखावहम् ॥ किं तु सर्वसुरादीनां कार्य्यमेतन्न संशयः ॥ १५॥
न केवलम् मदीयम् च कार्य्यम् अस्ति सुख-आवहम् ॥ किम् तु सर्व-सुर-आदीनाम् कार्य्यम् एतत् न संशयः ॥ १५॥
na kevalam madīyam ca kāryyam asti sukha-āvaham .. kim tu sarva-sura-ādīnām kāryyam etat na saṃśayaḥ .. 15..
ब्रह्मोवाच ।।
इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ॥ उवाच प्रेमगभीरं वाक्यं सुस्मितपूर्वकम् ॥ १६ ॥
इति एतत् मघवत्-वाक्यम् श्रुत्वा तु मकरध्वजाः ॥ उवाच प्रेम-गभीरम् वाक्यम् सु स्मित-पूर्वकम् ॥ १६ ॥
iti etat maghavat-vākyam śrutvā tu makaradhvajāḥ .. uvāca prema-gabhīram vākyam su smita-pūrvakam .. 16 ..
।। काम उवाच ।।
किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ॥ उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ॥ १७॥
किमर्थम् इत्थम् वदसि न उत्तरम् वच्मि अहम् तव ॥ उपकृत्-कृत्रिमम् लोके दृश्यते कथ्यते न च ॥ १७॥
kimartham ittham vadasi na uttaram vacmi aham tava .. upakṛt-kṛtrimam loke dṛśyate kathyate na ca .. 17..
सङ्कटे बहु यो ब्रूते स किं कार्य्यं करिष्यति ॥ तथापि च महाराज कथयामि शृणु प्रभो ॥ १८ ॥
सङ्कटे बहु यः ब्रूते स किम् कार्य्यम् करिष्यति ॥ तथा अपि च महा-राज कथयामि शृणु प्रभो ॥ १८ ॥
saṅkaṭe bahu yaḥ brūte sa kim kāryyam kariṣyati .. tathā api ca mahā-rāja kathayāmi śṛṇu prabho .. 18 ..
पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ॥ पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ॥ १९ ॥
पदम् ते कर्षितुम् यः वै तपः तपति दारुणम् ॥ पातयिष्यामि अहम् तम् च शत्रुम् ते मित्र सर्वथा ॥ १९ ॥
padam te karṣitum yaḥ vai tapaḥ tapati dāruṇam .. pātayiṣyāmi aham tam ca śatrum te mitra sarvathā .. 19 ..
क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ॥ देवर्षिदानवादींश्च नराणां गणना न मे ॥ 2.3.17.२०॥
क्षणेन भ्रंशयिष्यामि कटाक्षेण वर-स्त्रियाः ॥ देव-ऋषि-दानव-आदीन् च नराणाम् गणना न मे ॥ २।३।१७।२०॥
kṣaṇena bhraṃśayiṣyāmi kaṭākṣeṇa vara-striyāḥ .. deva-ṛṣi-dānava-ādīn ca narāṇām gaṇanā na me .. 2.3.17.20..
वज्रं तिष्ठतु दूरे वै शस्त्राण्यन्यान्यनेकशः ॥ किं ते कार्यं करिष्यंति मयि मित्र उपस्थिते ॥ २१॥
वज्रम् तिष्ठतु दूरे वै शस्त्राणि अन्यानि अनेकशस् ॥ किम् ते कार्यम् करिष्यन्ति मयि मित्रे उपस्थिते ॥ २१॥
vajram tiṣṭhatu dūre vai śastrāṇi anyāni anekaśas .. kim te kāryam kariṣyanti mayi mitre upasthite .. 21..
ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्य्यां न संशयः ॥ अन्येषां गणना नास्ति पातयेयं हरं त्वपि ॥ २२॥
ब्रह्माणम् वा हरिम् वा अपि भ्रष्टम् कुर्याम् न संशयः ॥ अन्येषाम् गणना ना अस्ति पातयेयम् हरम् तु अपि ॥ २२॥
brahmāṇam vā harim vā api bhraṣṭam kuryām na saṃśayaḥ .. anyeṣām gaṇanā nā asti pātayeyam haram tu api .. 22..
पंचैव मृदवो बाणास्ते च पुष्पमया मम ॥ चापस्त्रिधा पुष्पमयश्शिंजिनी भ्रमरार्ज्जिता ॥ बलं सुदयिता मे हि वसंतः सचिवस्स्मृतः ॥ २३ ॥
पंच एव मृदवः बाणाः ते च पुष्प-मयाः मम ॥ चापः त्रिधा पुष्पम् अयः शिंजिनी भ्रमर-अर्ज्जिता ॥ बलम् सु दयिता मे हि वसंतः सचिवः स्मृतः ॥ २३ ॥
paṃca eva mṛdavaḥ bāṇāḥ te ca puṣpa-mayāḥ mama .. cāpaḥ tridhā puṣpam ayaḥ śiṃjinī bhramara-arjjitā .. balam su dayitā me hi vasaṃtaḥ sacivaḥ smṛtaḥ .. 23 ..
अहं पञ्चबलोदेवा मित्रं मम सुधानिधिः ॥ २४ ॥
अहम् पञ्चबलः देवाः मित्रम् मम सुधा-निधिः ॥ २४ ॥
aham pañcabalaḥ devāḥ mitram mama sudhā-nidhiḥ .. 24 ..
सेनाधिपश्च शृंगारो हावभावाश्च सैनिकाः ॥ सर्वे मे मृदवः शक्र अहं चापि तथाविधः॥ २५॥
सेनाधिपः च शृंगारः हाव-भावाः च सैनिकाः ॥ सर्वे मे मृदवः शक्र अहम् च अपि तथाविधः॥ २५॥
senādhipaḥ ca śṛṃgāraḥ hāva-bhāvāḥ ca sainikāḥ .. sarve me mṛdavaḥ śakra aham ca api tathāvidhaḥ.. 25..
यद्येन पूर्यते कार्य्यं धीमांस्तत्तेन योजयेत्॥ मम योग्यं तु यत्कार्य्यं सर्वं तन्मे नियोजय॥ २६॥
यत् येन पूर्यते कार्यम् धीमान् तत् तेन योजयेत्॥ मम योग्यम् तु यत् कार्य्यम् सर्वम् तत् मे नियोजय॥ २६॥
yat yena pūryate kāryam dhīmān tat tena yojayet.. mama yogyam tu yat kāryyam sarvam tat me niyojaya.. 26..
।। ब्रह्मोवाच ।।
इत्येवं तु वचस्तस्य श्रुत्वा शक्रस्सुहर्षितः ॥ उवाच प्रणमन्वाचा कामं कांतासुखावहम् ॥ २७ ॥
इति एवम् तु वचः तस्य श्रुत्वा शक्रः सु हर्षितः ॥ उवाच प्रणमन् वाचा कामम् कान्ता-सुख-आवहम् ॥ २७ ॥
iti evam tu vacaḥ tasya śrutvā śakraḥ su harṣitaḥ .. uvāca praṇaman vācā kāmam kāntā-sukha-āvaham .. 27 ..
शक्र उवाच ।।
यत्कार्य्यं मनसोद्दिष्टं मया तात मनोभव ॥ कर्त्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्यसम्भवः ॥ २८॥
यत् कार्य्यम् मनसा उद्दिष्टम् मया तात मनोभव ॥ कर्त्तुम् तत् त्वम् समर्थः असि न अन्यस्मात् तस्य असम्भवः ॥ २८॥
yat kāryyam manasā uddiṣṭam mayā tāta manobhava .. karttum tat tvam samarthaḥ asi na anyasmāt tasya asambhavaḥ .. 28..
शृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम ॥ यदर्थे च स्पृहा जाता तव चाद्य मनोभव ॥ २९॥
शृणु काम प्रवक्ष्यामि यथार्थम् मित्र-सत्तम ॥ यद्-अर्थे च स्पृहा जाता तव च अद्य मनोभव ॥ २९॥
śṛṇu kāma pravakṣyāmi yathārtham mitra-sattama .. yad-arthe ca spṛhā jātā tava ca adya manobhava .. 29..
तारकाख्यो महादैत्यो ब्रह्मणो वरमद्भुतम् ॥ अभूदजेयस्संप्राप्य सर्वेषामपि दुःखदः ॥ 2.3.17.३० ॥
तारक-आख्यः महा-दैत्यः ब्रह्मणः वरम् अद्भुतम् ॥ अभूत् अजेयः संप्राप्य सर्वेषाम् अपि दुःख-दः ॥ २।३।१७।३० ॥
tāraka-ākhyaḥ mahā-daityaḥ brahmaṇaḥ varam adbhutam .. abhūt ajeyaḥ saṃprāpya sarveṣām api duḥkha-daḥ .. 2.3.17.30 ..
तेन संपीड्यते लोको नष्टा धर्मा ह्यनेकशः ॥ दुःखिता निर्जरास्सर्वे ऋषयश्च तथाखिलाः ॥ ३१ ॥
तेन संपीड्यते लोकः नष्टाः धर्माः हि अनेकशस् ॥ दुःखिताः निर्जराः सर्वे ऋषयः च तथा अखिलाः ॥ ३१ ॥
tena saṃpīḍyate lokaḥ naṣṭāḥ dharmāḥ hi anekaśas .. duḥkhitāḥ nirjarāḥ sarve ṛṣayaḥ ca tathā akhilāḥ .. 31 ..
देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् ॥ सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा ॥ ३२ ॥
देवैः च सकलैः तेन कृतम् युद्धम् यथाबलम् ॥ सर्वेषाम् च आयुधानि अत्र विफलानि अभवन् पुरा ॥ ३२ ॥
devaiḥ ca sakalaiḥ tena kṛtam yuddham yathābalam .. sarveṣām ca āyudhāni atra viphalāni abhavan purā .. 32 ..
भग्नः पाशो जलेशस्य हरिं चक्रं सुदर्शनम् ॥ तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना ॥ ३३ ॥
भग्नः पाशः जलेशस्य हरिम् चक्रम् सुदर्शनम् ॥ तत् कुण्ठितम् अभूत् तस्य कण्ठे क्षिप्तम् च विष्णुना ॥ ३३ ॥
bhagnaḥ pāśaḥ jaleśasya harim cakram sudarśanam .. tat kuṇṭhitam abhūt tasya kaṇṭhe kṣiptam ca viṣṇunā .. 33 ..
एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः ॥ शम्भोर्वीर्योद्भवाद्बालान्महायोगीश्वरस्य हि ॥ ३४ ॥
एतस्य मरणम् प्रोक्तम् प्रजा-ईशेन दुरात्मनः ॥ शम्भोः वीर्य-उद्भवात् बालात् महा-योगि-ईश्वरस्य हि ॥ ३४ ॥
etasya maraṇam proktam prajā-īśena durātmanaḥ .. śambhoḥ vīrya-udbhavāt bālāt mahā-yogi-īśvarasya hi .. 34 ..
एतत्कार्य्यं त्वया साधु कर्तव्यं सुप्रयत्नतः ॥ ततस्स्यान्मित्रवर्य्याति देवानां नः परं सुखम् ॥ ३५ ॥
एतत् कार्य्यम् त्वया साधु कर्तव्यम् सु प्रयत्नतः ॥ ततस् स्यात् मित्र-वर्या अति देवानाम् नः परम् सुखम् ॥ ३५ ॥
etat kāryyam tvayā sādhu kartavyam su prayatnataḥ .. tatas syāt mitra-varyā ati devānām naḥ param sukham .. 35 ..
ममापि विहितं तस्मात्सर्वलोकसुखावहम् ॥ मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि सांप्रतम् ॥ ३६ ॥
मम अपि विहितम् तस्मात् सर्वलोक-सुख-आवहम् ॥ मित्र-धर्मम् हृदि स्मृत्वा कर्तुम् अर्हसि सांप्रतम् ॥ ३६ ॥
mama api vihitam tasmāt sarvaloka-sukha-āvaham .. mitra-dharmam hṛdi smṛtvā kartum arhasi sāṃpratam .. 36 ..
शंभुस्स गिरिराजे हि तपः परममास्थितः ॥ स प्रभुर्नापि कामेन स्वतंत्रः परमेश्वरः ॥ ३७ ॥
शंभुः स गिरिराजे हि तपः परमम् आस्थितः ॥ स प्रभुः ना अपि कामेन स्वतंत्रः परमेश्वरः ॥ ३७ ॥
śaṃbhuḥ sa girirāje hi tapaḥ paramam āsthitaḥ .. sa prabhuḥ nā api kāmena svataṃtraḥ parameśvaraḥ .. 37 ..
तत्समीपे च देवाथ पार्वती स्वसखीयुता ॥ सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् ॥ ३८ ॥
तद्-समीपे च देव अथ पार्वती स्व-सखी-युता ॥ सेवमाना तिष्ठति इति पितृ-आज्ञप्ता मया श्रुतम् ॥ ३८ ॥
tad-samīpe ca deva atha pārvatī sva-sakhī-yutā .. sevamānā tiṣṭhati iti pitṛ-ājñaptā mayā śrutam .. 38 ..
यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः ॥ जायते नितरां मार तथा कार्यं त्वया ध्रुवम् ॥ ३९॥
यथा तस्याम् रुचिः तस्य शिवस्य नियत-आत्मनः ॥ जायते नितराम् मार तथा कार्यम् त्वया ध्रुवम् ॥ ३९॥
yathā tasyām ruciḥ tasya śivasya niyata-ātmanaḥ .. jāyate nitarām māra tathā kāryam tvayā dhruvam .. 39..
इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनंक्ष्यति ॥ लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा ॥ 2.3.17.४०॥
इति कृत्वा कृती स्याः त्वम् सर्वम् दुःखम् विनंक्ष्यति ॥ लोके स्थायी प्रतापः ते भविष्यति न च अन्यथा ॥ २।३।१७।४०॥
iti kṛtvā kṛtī syāḥ tvam sarvam duḥkham vinaṃkṣyati .. loke sthāyī pratāpaḥ te bhaviṣyati na ca anyathā .. 2.3.17.40..
ब्रह्मोवाच ।।
इत्युक्तस्य तु कामो हि प्रफुल्लमुखपंकज ॥ प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः ॥ ४१ ॥
इति उक्तस्य तु कामः हि प्रफुल्ल-मुख-पंकज ॥ प्रेम्णा उवाच इति देवेशम् करिष्यामि न संशयः ॥ ४१ ॥
iti uktasya tu kāmaḥ hi praphulla-mukha-paṃkaja .. premṇā uvāca iti deveśam kariṣyāmi na saṃśayaḥ .. 41 ..
इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः ॥ अग्रहीत्तरसा कामः शिवमायाविमोहितः ॥ ४२ ॥
इति उक्त्वा वचनम् तस्मै तथा इति ओम् इति तत् वचः ॥ अग्रहीत् तरसा कामः शिव-माया-विमोहितः ॥ ४२ ॥
iti uktvā vacanam tasmai tathā iti om iti tat vacaḥ .. agrahīt tarasā kāmaḥ śiva-māyā-vimohitaḥ .. 42 ..
यत्र योगीश्वरस्साक्षात्तप्यते परमं तपः ॥ जगाम तत्र सुप्रीतस्सदारस्सवसंतकः॥ ४३॥
यत्र योगि-ईश्वरः साक्षात् तप्यते परमम् तपः ॥ जगाम तत्र सु प्रीतः स दारः स वसंतकः॥ ४३॥
yatra yogi-īśvaraḥ sākṣāt tapyate paramam tapaḥ .. jagāma tatra su prītaḥ sa dāraḥ sa vasaṃtakaḥ.. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शक्र कामसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शक्र-कामसंवादवर्णनम् नाम सप्तदशः अध्यायः ॥ १७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śakra-kāmasaṃvādavarṇanam nāma saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In