| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ॥ मोहकस्समधोश्चादौ धर्मं विस्तारयन्स्थितः ॥ १ ॥
तत्र गत्वा स्मरः गर्वी शिव-माया-विमोहितः ॥ मोहकः समधोः च आदौ धर्मम् विस्तारयन् स्थितः ॥ १ ॥
tatra gatvā smaraḥ garvī śiva-māyā-vimohitaḥ .. mohakaḥ samadhoḥ ca ādau dharmam vistārayan sthitaḥ .. 1 ..
वसंतस्य च यो धर्म्मः प्रससार स सर्वतः ॥ तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ॥ २ ॥
वसंतस्य च यः धर्म्मः प्रससार स सर्वतस् ॥ तप-स्थाने महेशस्य ओषधिप्रस्थे मुनि-ईश्वर ॥ २ ॥
vasaṃtasya ca yaḥ dharmmaḥ prasasāra sa sarvatas .. tapa-sthāne maheśasya oṣadhiprasthe muni-īśvara .. 2 ..
वनानि च प्रफुल्लानि पादपानां महामुने ॥ आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ॥ ३ ॥
वनानि च प्रफुल्लानि पादपानाम् महा-मुने ॥ आसन् विशेषतः तत्र तद्-प्रभावात् मुनि-ईश्वर ॥ ३ ॥
vanāni ca praphullāni pādapānām mahā-mune .. āsan viśeṣataḥ tatra tad-prabhāvāt muni-īśvara .. 3 ..
पुष्पाणि सहकाराणामशोकवनिकासु वै ॥ विरेजुस्सुस्मरोद्दीपकाराणि सुरभीण्यपि ॥ ४॥
पुष्पाणि सहकाराणाम् अशोक-वनिकासु वै ॥ विरेजुः सुस्मर-उद्दीप-काराणि सुरभीणि अपि ॥ ४॥
puṣpāṇi sahakārāṇām aśoka-vanikāsu vai .. virejuḥ susmara-uddīpa-kārāṇi surabhīṇi api .. 4..
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ॥ बभूबुर्मदनावेशकराणि च विशेषतः ॥ ५ ॥
कैरवाणि च पुष्पाणि भ्रमर-आकलितानि च ॥ बभूबुः मदन-आवेश-कराणि च विशेषतः ॥ ५ ॥
kairavāṇi ca puṣpāṇi bhramara-ākalitāni ca .. babhūbuḥ madana-āveśa-karāṇi ca viśeṣataḥ .. 5 ..
सकामोद्दीपनकरं कोकिलाकलकूजितम् ॥ आसीदति सुरम्यं हि मनोहरमतिप्रियम् ॥ ६ ॥
स काम-उद्दीपन-करम् कोकिला-कल-कूजितम् ॥ आसीदति सु रम्यम् हि मनोहर-मति-प्रियम् ॥ ६ ॥
sa kāma-uddīpana-karam kokilā-kala-kūjitam .. āsīdati su ramyam hi manohara-mati-priyam .. 6 ..
भ्रमराणां तथा शब्दा विविधा अभवन्मुने ॥ मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ॥ ७ ॥
भ्रमराणाम् तथा शब्दाः विविधाः अभवन् मुने ॥ मनोहराः च सर्वेषाम् काम-उद्दीप-कराः अपि ॥ ७ ॥
bhramarāṇām tathā śabdāḥ vividhāḥ abhavan mune .. manoharāḥ ca sarveṣām kāma-uddīpa-karāḥ api .. 7 ..
चंद्रस्य विशदा कांतिर्विकीर्णा हि समंतत ॥ कामिनां कामिनीनां च दूतिका इव साभवत् ॥ ८ ॥
चंद्रस्य विशदा कांतिः विकीर्णा हि समंतत ॥ कामिनाम् कामिनीनाम् च दूतिका इव सा अभवत् ॥ ८ ॥
caṃdrasya viśadā kāṃtiḥ vikīrṇā hi samaṃtata .. kāminām kāminīnām ca dūtikā iva sā abhavat .. 8 ..
मानिनां प्रेरणायासीत्तत्काले कालदीपिका ॥ मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ॥ ९ ॥
मानिनाम् प्रेरणाय आसीत् तद्-काले कालदीपिका ॥ मारुतः च सुखः साधो ववौ विरहिणः अप्रियः ॥ ९ ॥
māninām preraṇāya āsīt tad-kāle kāladīpikā .. mārutaḥ ca sukhaḥ sādho vavau virahiṇaḥ apriyaḥ .. 9 ..
एवं वसंतविस्तारो मदनावेशकारकः ॥ वनौकसां तदा तत्र मुनीनां दुस्सहोऽत्यभूत् ॥ 2.3.18.१० ॥
एवम् वसंत-विस्तारः मदना-वेश-कारकः ॥ वनौकसाम् तदा तत्र मुनीनाम् दुस्सहः अत्यभूत् ॥ २।३।१८।१० ॥
evam vasaṃta-vistāraḥ madanā-veśa-kārakaḥ .. vanaukasām tadā tatra munīnām dussahaḥ atyabhūt .. 2.3.18.10 ..
अचेतसामपि तदा कामासक्तिरभून्मुने ॥ सुचेतासां हि जीवानां सेति किं वर्ण्यते कथा॥ १ १ ॥
अचेतसाम् अपि तदा काम-आसक्तिः अभूत् मुने ॥ सु चेतासाम् हि जीवानाम् सा इति किम् वर्ण्यते कथा॥ १ १ ॥
acetasām api tadā kāma-āsaktiḥ abhūt mune .. su cetāsām hi jīvānām sā iti kim varṇyate kathā.. 1 1 ..
एवं चकार स मधुस्स्वप्रभावं सुदुस्सहम्॥ सर्वेषा चैव जीवानां कामोद्दीपनकारकः ॥ १२॥
एवम् चकार स मधुः स्व-प्रभावम् सु दुस्सहम्॥ जीवानाम् काम-उद्दीपन-कारकः ॥ १२॥
evam cakāra sa madhuḥ sva-prabhāvam su dussaham.. jīvānām kāma-uddīpana-kārakaḥ .. 12..
अकालनिमितं तात मधोर्वीक्ष्य हरस्तदा ॥ आश्चर्य्यं परमं मेने स्वलीलात्ततनुः प्रभुः ॥ १३ ॥
अकाल-निमितम् तात मधोः वीक्ष्य हरः तदा ॥ आश्चर्य्यम् परमम् मेने स्व-लीला-आत्त-तनुः प्रभुः ॥ १३ ॥
akāla-nimitam tāta madhoḥ vīkṣya haraḥ tadā .. āścaryyam paramam mene sva-līlā-ātta-tanuḥ prabhuḥ .. 13 ..
अथ लीलाकरस्तत्र तपः परमदुष्करम् ॥ तताप स वशीशो हि हरो दुःखहरः प्रभुः ॥ १४ ॥
अथ लीलाकरः तत्र तपः परम-दुष्करम् ॥ तताप स वशीशः हि हरः दुःख-हरः प्रभुः ॥ १४ ॥
atha līlākaraḥ tatra tapaḥ parama-duṣkaram .. tatāpa sa vaśīśaḥ hi haraḥ duḥkha-haraḥ prabhuḥ .. 14 ..
वसंते प्रसृते तत्र कामो रतिसमन्वितः ॥ चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥ १५ ॥
वसंते प्रसृते तत्र कामः रति-समन्वितः ॥ चूतम् बाणम् समाकृष्य स्थितः तद्-वाम-पार्श्वतः ॥ १५ ॥
vasaṃte prasṛte tatra kāmaḥ rati-samanvitaḥ .. cūtam bāṇam samākṛṣya sthitaḥ tad-vāma-pārśvataḥ .. 15 ..
स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ॥ रत्यायुक्तं तदा कामं दृष्ट्वा को वा न मोहितः ॥ १६ ॥
स्व-प्रभावम् वितस्तार मोहयन् सकलान् जनान् ॥ रति-आयुक्तम् तदा कामम् दृष्ट्वा कः वा न मोहितः ॥ १६ ॥
sva-prabhāvam vitastāra mohayan sakalān janān .. rati-āyuktam tadā kāmam dṛṣṭvā kaḥ vā na mohitaḥ .. 16 ..
एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैस्सह ॥ हावभावयुतस्तत्र प्रविवेश हरांतिकम् ॥ १७ ॥
एवम् प्रवृत्त-सुरतौ शृंगारः अपि गणैः सह ॥ हाव-भाव-युतः तत्र प्रविवेश हर-अंतिकम् ॥ १७ ॥
evam pravṛtta-suratau śṛṃgāraḥ api gaṇaiḥ saha .. hāva-bhāva-yutaḥ tatra praviveśa hara-aṃtikam .. 17 ..
मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ॥ न दृष्टवांस्तदा शंभोश्छिद्रं येन प्रविश्यते ॥ १८॥
मदनः प्रकटः तत्र न्यवसत् चित्त-गः बहिस् ॥ न दृष्टवान् तदा शंभोः छिद्रम् येन प्रविश्यते ॥ १८॥
madanaḥ prakaṭaḥ tatra nyavasat citta-gaḥ bahis .. na dṛṣṭavān tadā śaṃbhoḥ chidram yena praviśyate .. 18..
यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ॥ महादेवस्तदा सोऽभून्महाभयविमोहितः ॥ १९ ॥
यदा च अप्राप्त-विवरः तस्मिन् योगि-वरे स्मरः ॥ महादेवः तदा सः अभूत् महा-भय-विमोहितः ॥ १९ ॥
yadā ca aprāpta-vivaraḥ tasmin yogi-vare smaraḥ .. mahādevaḥ tadā saḥ abhūt mahā-bhaya-vimohitaḥ .. 19 ..
ज्वलज्ज्वालाग्निसंकाशं भालनेत्रसमन्वितम् ॥ ध्यानस्थं शंकरं को वा समासादयितुं क्षमः ॥ 2.3.18.२० ॥
ज्वलत्-ज्वाला-अग्नि-संकाशम् भाल-नेत्र-समन्वितम् ॥ ध्यान-स्थम् शंकरम् कः वा समासादयितुम् क्षमः ॥ २।३।१८।२० ॥
jvalat-jvālā-agni-saṃkāśam bhāla-netra-samanvitam .. dhyāna-stham śaṃkaram kaḥ vā samāsādayitum kṣamaḥ .. 2.3.18.20 ..
एतस्मिन्नंतरे तत्र सखीभ्यां संयुता शिवा ॥ जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ॥ २१ ॥
एतस्मिन् अन्तरे तत्र सखीभ्याम् संयुता शिवा ॥ जगाम शिव-पूजा-अर्थम् नीत्वा पुष्पाणि अनेकशस् ॥ २१ ॥
etasmin antare tatra sakhībhyām saṃyutā śivā .. jagāma śiva-pūjā-artham nītvā puṣpāṇi anekaśas .. 21 ..
पृथिव्यां यादृशं लोकैस्सौंदर्यं वर्ण्यते महत् ॥ तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥ ॥ २२ ॥
पृथिव्याम् यादृशम् लोकैः सौंदर्यम् वर्ण्यते महत् ॥ तत् सर्वम् अधिकम् तस्याम् पार्वत्याम् अस्ति निश्चितम् ॥ ॥ २२ ॥
pṛthivyām yādṛśam lokaiḥ sauṃdaryam varṇyate mahat .. tat sarvam adhikam tasyām pārvatyām asti niścitam .. .. 22 ..
आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ॥ तत्सौंदर्यं कथं वर्ण्यमपि वर्षशतैरपि ॥ २३॥
आर्तवाणि सु पुष्पाणि धृतानि च तया यदा ॥ तत् सौंदर्यम् कथम् वर्ण्यम् अपि वर्ष-शतैः अपि ॥ २३॥
ārtavāṇi su puṣpāṇi dhṛtāni ca tayā yadā .. tat sauṃdaryam katham varṇyam api varṣa-śataiḥ api .. 23..
यदा शिवसमीपे तु गता सा पर्वतात्मजा ॥ तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ॥ २४॥
यदा शिव-समीपे तु गता सा पर्वतात्मजा ॥ तदा एव शंकरः ध्यानम् त्यक्त्वा क्षणम् अवस्थितः ॥ २४॥
yadā śiva-samīpe tu gatā sā parvatātmajā .. tadā eva śaṃkaraḥ dhyānam tyaktvā kṣaṇam avasthitaḥ .. 24..
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ॥ बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ २५ ॥
तत् छिद्रम् प्राप्य मदनः प्रथमम् हर्षणेन तु ॥ बाणेन हर्षयामास पार्श्व-स्थम् चन्द्रशेखरम् ॥ २५ ॥
tat chidram prāpya madanaḥ prathamam harṣaṇena tu .. bāṇena harṣayāmāsa pārśva-stham candraśekharam .. 25 ..
शृंगारैश्च तदा भावैस्सहिता पार्वती हरम् ॥ जगाम कामसाहाय्ये मुने सुरभिणा सह ॥ २६ ॥
शृंगारैः च तदा भावैः सहिता पार्वती हरम् ॥ जगाम काम-साहाय्ये मुने सुरभिणा सह ॥ २६ ॥
śṛṃgāraiḥ ca tadā bhāvaiḥ sahitā pārvatī haram .. jagāma kāma-sāhāyye mune surabhiṇā saha .. 26 ..
तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ॥ द्रुतं पुष्पशरं तस्मै स्मरोऽमुंचत्सुसंयतः ॥ २७ ॥
तत् एव आकृष्य तत् चापम् रुचि-अर्थम् शूल-धारिणः ॥ द्रुतम् पुष्प-शरम् तस्मै स्मरः अमुंचत् सु संयतः ॥ २७ ॥
tat eva ākṛṣya tat cāpam ruci-artham śūla-dhāriṇaḥ .. drutam puṣpa-śaram tasmai smaraḥ amuṃcat su saṃyataḥ .. 27 ..
यथा निरंतरं नित्यमागच्छति तथा शिवम् ॥ तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ॥ २८॥
यथा निरंतरम् नित्यम् आगच्छति तथा शिवम् ॥ तत् नमस्कृत्य तद्-पूजाम् कृत्वा तद्-पुरतस् स्थिता ॥ २८॥
yathā niraṃtaram nityam āgacchati tathā śivam .. tat namaskṛtya tad-pūjām kṛtvā tad-puratas sthitā .. 28..
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ॥ विवृण्वती तदांगानि स्त्रीस्वभावात्सुलज्जया ॥ २९ ॥
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ॥ विवृण्वती तदा अंगानि स्त्री-स्वभावात् सु लज्जया ॥ २९ ॥
sā dṛṣṭā pārvatī tatra prabhuṇā giriśena hi .. vivṛṇvatī tadā aṃgāni strī-svabhāvāt su lajjayā .. 29 ..
सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ॥ शिवोपि वर्णयामास तदंगानि मुदा मुने ॥ 2.3.18.३० ॥
सु संस्मृत्य वरम् तस्याः विधिदत्तम् पुरा प्रभुः ॥ शिवः उपि वर्णयामास तद्-अंगानि मुदा मुने ॥ २।३।१८।३० ॥
su saṃsmṛtya varam tasyāḥ vidhidattam purā prabhuḥ .. śivaḥ upi varṇayāmāsa tad-aṃgāni mudā mune .. 2.3.18.30 ..
शिव उवाच ।।
कि मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ॥ भ्रुकुट्यौ धनुषी चैते कंदर्पस्य महात्मनः ॥ ३१ ॥
कि मुखम् किम् शशांकः च किम् नेत्रे च उत्पले च किम् ॥ भ्रुकुट्यौ धनुषी च एते कंदर्पस्य महात्मनः ॥ ३१ ॥
ki mukham kim śaśāṃkaḥ ca kim netre ca utpale ca kim .. bhrukuṭyau dhanuṣī ca ete kaṃdarpasya mahātmanaḥ .. 31 ..
अधरः किं च बिंबं किं किं नासा शुकचंचुका ॥ किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ॥ ३२ ॥
अधरः किम् च बिंबम् किम् किम् नासा शुक-चंचुका ॥ किम् स्वरः कोकिल-आलापः किम् मध्यम् च अथ वेदिका ॥ ३२ ॥
adharaḥ kim ca biṃbam kim kim nāsā śuka-caṃcukā .. kim svaraḥ kokila-ālāpaḥ kim madhyam ca atha vedikā .. 32 ..
किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ॥ पुष्पाणि किं च वर्ण्यंते वस्त्राणि च तथा पुनः ॥ ३३॥
किम् गतिः वर्ण्यते हि अस्याः किम् रूपम् वर्ण्यते मुहुर् ॥ पुष्पाणि किम् च वर्ण्यंते वस्त्राणि च तथा पुनर् ॥ ३३॥
kim gatiḥ varṇyate hi asyāḥ kim rūpam varṇyate muhur .. puṣpāṇi kim ca varṇyaṃte vastrāṇi ca tathā punar .. 33..
लालित्यं चारु यत्सृष्टौ तदेकत्र विनिर्मितम् ॥ सर्वथा रमणीयानि सर्वांगानि न संशयः ॥ ३४॥
लालित्यम् चारु यत् सृष्टौ तत् एकत्र विनिर्मितम् ॥ सर्वथा रमणीयानि सर्व-अंगानि न संशयः ॥ ३४॥
lālityam cāru yat sṛṣṭau tat ekatra vinirmitam .. sarvathā ramaṇīyāni sarva-aṃgāni na saṃśayaḥ .. 34..
अहो धन्यतरा चेयं पार्वत्यद्भुतरूपिणी ॥ एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी॥ ३५॥
अहो धन्यतरा च इयम् पार्वती अद्भुत-रूपिणी ॥ एतद्-समा न त्रैलोक्ये नारी का अपि सुरूपिणी॥ ३५॥
aho dhanyatarā ca iyam pārvatī adbhuta-rūpiṇī .. etad-samā na trailokye nārī kā api surūpiṇī.. 35..
सुलावण्यानिधिश्चेयमद्भुतांगानि बिभ्रती ॥ विमोहिनी मुनीनां च महासुखविवर्द्धिनी ॥ ३६ ॥
सु लावण्य-आनिधिः च इयम् अद्भुत-अंगानि बिभ्रती ॥ विमोहिनी मुनीनाम् च महा-सुख-विवर्द्धिनी ॥ ३६ ॥
su lāvaṇya-ānidhiḥ ca iyam adbhuta-aṃgāni bibhratī .. vimohinī munīnām ca mahā-sukha-vivarddhinī .. 36 ..
।। ब्रह्मोवाच ।।
इत्येवं वर्णयित्वा तु तदंगानि मुहुर्मुहुः ॥ विधिदत्तवराध्यासाद्धरस्तु विरराम ह ॥ ३७॥
इति एवम् वर्णयित्वा तु तद्-अंगानि मुहुर् मुहुर् ॥ विधि-दत्त-वर-अध्यासात् हरः तु विरराम ह ॥ ३७॥
iti evam varṇayitvā tu tad-aṃgāni muhur muhur .. vidhi-datta-vara-adhyāsāt haraḥ tu virarāma ha .. 37..
हस्तं वस्त्रांतरे यावदचालयत शंकरः ॥ स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ॥ ३८॥
हस्तम् वस्त्र-अंतरे यावत् अचालयत शंकरः ॥ स्त्री-स्वभावात् च सा तत्र लज्जिता दूरतस् गता ॥ ३८॥
hastam vastra-aṃtare yāvat acālayata śaṃkaraḥ .. strī-svabhāvāt ca sā tatra lajjitā dūratas gatā .. 38..
विवृण्वती निजांगानि पश्यंती च मुहुर्मुहुः ॥ सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ॥ ३९॥
विवृण्वती निज-अंगानि पश्यंती च मुहुर् मुहुर् ॥ सु वीक्षणैः महा-आमोदात् सु स्मिता अभूत् शिवा मुने ॥ ३९॥
vivṛṇvatī nija-aṃgāni paśyaṃtī ca muhur muhur .. su vīkṣaṇaiḥ mahā-āmodāt su smitā abhūt śivā mune .. 39..
एवं चेष्टां तदा दृष्ट्वा शंभुर्मोहमुपागतः॥ उवाच वचनं चैवं महालीलो महेश्वरः ॥ 2.3.18.४०॥
एवम् च इष्टाम् तदा दृष्ट्वा शंभुः मोहम् उपागतः॥ उवाच वचनम् च एवम् महा-लीलः महेश्वरः ॥ २।३।१८।४०॥
evam ca iṣṭām tadā dṛṣṭvā śaṃbhuḥ moham upāgataḥ.. uvāca vacanam ca evam mahā-līlaḥ maheśvaraḥ .. 2.3.18.40..
अस्या दर्शनमात्रेण महानंदो भवत्यलम् ॥ यदालिंगनमेनस्याः कुर्य्यां किन्तु ततस्सुखम् ॥ ४१ ॥
अस्याः दर्शन-मात्रेण महानंदः भवति अलम् ॥ यदा आलिंगनम् एनस्याः कुर्य्याम् किन्तु ततस् सुखम् ॥ ४१ ॥
asyāḥ darśana-mātreṇa mahānaṃdaḥ bhavati alam .. yadā āliṃganam enasyāḥ kuryyām kintu tatas sukham .. 41 ..
क्षणमात्रं विचार्य्येत्थं संपूज्य गिरिजां ततः ॥ प्रबुद्धस्य महायोगी सुविरक्तो जगाविति ॥ ४२ ॥
क्षण-मात्रम् विचार्य्य इत्थम् संपूज्य गिरिजाम् ततस् ॥ प्रबुद्धस्य महा-योगी सु विरक्तः जगौ इति ॥ ४२ ॥
kṣaṇa-mātram vicāryya ittham saṃpūjya girijām tatas .. prabuddhasya mahā-yogī su viraktaḥ jagau iti .. 42 ..
किं जातं चरितं चित्रं किमहं मोहमागतः ॥ कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ॥ ४३ ॥
किम् जातम् चरितम् चित्रम् किम् अहम् मोहम् आगतः ॥ कामेन विकृतः च अद्य भूत्वा अपि प्रभुः ईश्वरः ॥ ४३ ॥
kim jātam caritam citram kim aham moham āgataḥ .. kāmena vikṛtaḥ ca adya bhūtvā api prabhuḥ īśvaraḥ .. 43 ..
ईश्वरोहं यदीच्छेयं परांगस्पर्शनं खलु॥ तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥ ४४॥
ईश्वरा उहम् यदि इच्छेयम् पर-अंग-स्पर्शनम् खलु॥ तर्हि कः अन्यः अक्षमः क्षुद्रः किम् किम् न एव करिष्यति ॥ ४४॥
īśvarā uham yadi iccheyam para-aṃga-sparśanam khalu.. tarhi kaḥ anyaḥ akṣamaḥ kṣudraḥ kim kim na eva kariṣyati .. 44..
एवं वैराग्यमासाद्य पर्य्यंकासादनं च तत्॥ वारयामास सर्वात्मा परेशः किं पतेदिह ॥ ४५॥
एवम् वैराग्यम् आसाद्य पर्य्यंक-आसादनम् च तत्॥ वारयामास सर्व-आत्मा पर-ईशः किम् पतेत् इह ॥ ४५॥
evam vairāgyam āsādya paryyaṃka-āsādanam ca tat.. vārayāmāsa sarva-ātmā para-īśaḥ kim patet iha .. 45..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये पार्वतीखण्डे कामकृतविकारवर्णननामाष्टादशोऽध्यायः॥ १८॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहिता-अन्तर्गत-तृतीये पार्वतीखण्डे कामकृतविकारवर्णन-नाम अष्टादशः अध्यायः॥ १८॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitā-antargata-tṛtīye pārvatīkhaṇḍe kāmakṛtavikāravarṇana-nāma aṣṭādaśaḥ adhyāyaḥ.. 18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In