| |
|

This overlay will guide you through the buttons:

।। नारद उवाच।।
ब्रह्मन्विधे महाभाग किं जातं तदनंतरम्॥ कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥ १ ॥
ब्रह्मन्-विधे महाभाग किम् जातम् तत् अनंतरम्॥ कथय त्वम् प्रसादेन ताम् कथाम् पाप-नाशिनीम् ॥ १ ॥
brahman-vidhe mahābhāga kim jātam tat anaṃtaram.. kathaya tvam prasādena tām kathām pāpa-nāśinīm .. 1 ..
।। ब्रह्मोवाच ।।
श्रूयतां सा कथा तात यज्जातं तदनंतरम् ॥ तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥ २ ॥
श्रूयताम् सा कथा तात यत् जातम् तत् अनंतरम् ॥ तव स्नेहात् प्रवक्ष्यामि शिव-लीलाम् मुदा-आवहाम् ॥ २ ॥
śrūyatām sā kathā tāta yat jātam tat anaṃtaram .. tava snehāt pravakṣyāmi śiva-līlām mudā-āvahām .. 2 ..
धैर्यस्य व्यसनं दृष्ट्वा महायोगी महेश्वरः ॥ विचिंतितं मनस्येवं विस्मितोऽतिततः परम् ॥ ३ ॥
धैर्यस्य व्यसनम् दृष्ट्वा महा-योगी महेश्वरः ॥ विचिंतितम् मनसि एवम् विस्मितः अति ततस् परम् ॥ ३ ॥
dhairyasya vyasanam dṛṣṭvā mahā-yogī maheśvaraḥ .. viciṃtitam manasi evam vismitaḥ ati tatas param .. 3 ..
।। शिव उवाच ।।
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ॥ केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥ ४ ॥
किमु विघ्नाः समुत्पन्नाः कुर्वतः तपः उत्तमम् ॥ केन मे विकृतम् चित्तम् कृतम् अत्र कु कर्मिणा ॥ ४ ॥
kimu vighnāḥ samutpannāḥ kurvataḥ tapaḥ uttamam .. kena me vikṛtam cittam kṛtam atra ku karmiṇā .. 4 ..
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ॥ जातो धर्मविरोधोऽत्र श्रुतिसीमा विलंघिता ॥ ५ ॥
कु वर्णनम् मया प्रीत्या पर-स्त्री-उपरि वै कृतम् ॥ जातः धर्म-विरोधः अत्र श्रुति-सीमा विलंघिता ॥ ५ ॥
ku varṇanam mayā prītyā para-strī-upari vai kṛtam .. jātaḥ dharma-virodhaḥ atra śruti-sīmā vilaṃghitā .. 5 ..
।। ब्रह्मोवाच ।।
विचिंत्येत्थं महायोगी परमेशस्सतां गतिः ॥ दिशो विलोकयामास परितश्शंकितस्तदा ॥ ६ ॥
विचिंत्य इत्थम् महा-योगी परमेशः सताम् गतिः ॥ दिशः विलोकयामास परितस् शंकितः तदा ॥ ६ ॥
viciṃtya ittham mahā-yogī parameśaḥ satām gatiḥ .. diśaḥ vilokayāmāsa paritas śaṃkitaḥ tadā .. 6 ..
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ॥ स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥ ७ ॥
वाम-भागे स्थितम् कामम् ददर्श आकृष्ट-बाणकम् ॥ स्व-शरम् क्षेप्तु-कामम् हि गर्वितम् मूढ-चेतसम् ॥ ७ ॥
vāma-bhāge sthitam kāmam dadarśa ākṛṣṭa-bāṇakam .. sva-śaram kṣeptu-kāmam hi garvitam mūḍha-cetasam .. 7 ..
तं दृष्ट्वा तादृशं कामं गिरीशस्य परात्मनः ॥ संजातः क्रोधसंमर्दस्तत्क्षणादपि नारद। ॥ ८ ॥
तम् दृष्ट्वा तादृशम् कामम् गिरीशस्य परात्मनः ॥ संजातः क्रोध-संमर्दः तद्-क्षणात् अपि नारद। ॥ ८ ॥
tam dṛṣṭvā tādṛśam kāmam girīśasya parātmanaḥ .. saṃjātaḥ krodha-saṃmardaḥ tad-kṣaṇāt api nārada. .. 8 ..
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ॥ चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने ॥ ९ ॥
कामः स्थितः अन्तरिक्षे स धृत्वा तत् स शरम् धनुः ॥ चिक्षेप अस्त्रम् दुर्निवारम् अमोघम् शंकरे मुने ॥ ९ ॥
kāmaḥ sthitaḥ antarikṣe sa dhṛtvā tat sa śaram dhanuḥ .. cikṣepa astram durnivāram amogham śaṃkare mune .. 9 ..
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ॥ समशाम्यत्ततस्तस्मिन्संकुद्धे परमेश्वरे ॥ 2.3.19.१० ॥
बभूव अमोघम् अस्त्रम् तु मोघम् तत् परमात्मनि ॥ समशाम्यत् ततस् तस्मिन् संकुद्धे परमेश्वरे ॥ २।३।१९।१० ॥
babhūva amogham astram tu mogham tat paramātmani .. samaśāmyat tatas tasmin saṃkuddhe parameśvare .. 2.3.19.10 ..
मोघीभूते शिवे स्वेस्त्रे भयमापाशु मन्मथः ॥ चकंपे च पुरः स्थित्वा दृष्ट्वा मृत्युंजयं प्रभुम् ॥ ११ ॥
मोघीभूते शिवे स्व-इस्त्रे भयम् आप आशु मन्मथः ॥ चकंपे च पुरस् स्थित्वा दृष्ट्वा मृत्युंजयम् प्रभुम् ॥ ११ ॥
moghībhūte śive sva-istre bhayam āpa āśu manmathaḥ .. cakaṃpe ca puras sthitvā dṛṣṭvā mṛtyuṃjayam prabhum .. 11 ..
सस्मार त्रिदशान्सर्वान्शक्रादीन्भयविह्वलः ॥ स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥ १२ ॥
सस्मार त्रिदशान् सर्वान् शक्र-आदीन् भय-विह्वलः ॥ स स्मरः मुनि-शार्दूल स्व-प्रयासे निरर्थके ॥ १२ ॥
sasmāra tridaśān sarvān śakra-ādīn bhaya-vihvalaḥ .. sa smaraḥ muni-śārdūla sva-prayāse nirarthake .. 12 ..
कामेन सुस्मृता देवाश्शक्राद्यास्ते मुनीश्वर ॥ आययुः सकलास्ते हि शंभुं नत्वा च तुष्टुवुः ॥ १३ ॥
कामेन सु स्मृताः देवाः शक्र-आद्याः ते मुनि-ईश्वर ॥ आययुः सकलाः ते हि शंभुम् नत्वा च तुष्टुवुः ॥ १३ ॥
kāmena su smṛtāḥ devāḥ śakra-ādyāḥ te muni-īśvara .. āyayuḥ sakalāḥ te hi śaṃbhum natvā ca tuṣṭuvuḥ .. 13 ..
स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि ॥ तृतीयात्तस्य नेत्राद्वै निस्ससार ततो महान् ॥ १४ ॥
स्तुतिम् कुर्वत्सु देवेषु कुद्धस्य अति हरस्य हि ॥ तृतीयात् तस्य नेत्रात् वै निस्ससार ततस् महान् ॥ १४ ॥
stutim kurvatsu deveṣu kuddhasya ati harasya hi .. tṛtīyāt tasya netrāt vai nissasāra tatas mahān .. 14 ..
ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ॥ जज्वालोर्द्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥ १५ ॥
ललाट मध्य-गात् तस्मात् स वह्निः द्रुतसम्भवः ॥ जज्वाल ऊर्द्ध्व-शिखः दीप्तः प्रलय-अग्नि-सम-प्रभः ॥ १५ ॥
lalāṭa madhya-gāt tasmāt sa vahniḥ drutasambhavaḥ .. jajvāla ūrddhva-śikhaḥ dīptaḥ pralaya-agni-sama-prabhaḥ .. 15 ..
उत्पत्य गगने तूर्णं निष्पत्य धरणी तले ॥ भ्रामंभ्रामं स्वपरितः पपात मेदनीं परि ॥ १६
उत्पत्य गगने तूर्णम् निष्पत्य धरणी तले ॥ भ्रामंभ्रामम् स्व-परितस् पपात मेदनीम् परि ॥ १६
utpatya gagane tūrṇam niṣpatya dharaṇī tale .. bhrāmaṃbhrāmam sva-paritas papāta medanīm pari .. 16
भस्मसात्कृतवान्साधो मदनं तावदेव हि ॥ यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥ १७ ॥
भस्मसात्कृतवान् साधो मदनम् तावत् एव हि ॥ यावत् च मरुताम् वाचः क्षम्यताम् क्षम्यताम् इति ॥ १७ ॥
bhasmasātkṛtavān sādho madanam tāvat eva hi .. yāvat ca marutām vācaḥ kṣamyatām kṣamyatām iti .. 17 ..
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ॥ रुरुदुर्विह्वलाश्चातिक्रोशतः किमभूदिति ॥ १८ ॥ ॥
हते तस्मिन् स्मरे वीरे देव दुःखम् उपागताः ॥ रुरुदुः विह्वलाः च अति क्रोशतः किम् अभूत् इति ॥ १८ ॥ ॥
hate tasmin smare vīre deva duḥkham upāgatāḥ .. ruruduḥ vihvalāḥ ca ati krośataḥ kim abhūt iti .. 18 .. ..
श्वेतांगा विकृतात्मा च गिरिराजसुता तदा ॥ जगाम मंदिरं स्वं च समादाय सखीजनम् ॥ १९ ॥
श्वेतांगा विकृत-आत्मा च गिरिराज-सुता तदा ॥ जगाम मंदिरम् स्वम् च समादाय सखी-जनम् ॥ १९ ॥
śvetāṃgā vikṛta-ātmā ca girirāja-sutā tadā .. jagāma maṃdiram svam ca samādāya sakhī-janam .. 19 ..
क्षणमात्रं रतिस्तत्र विसंज्ञा साभवत्तदा ॥ भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥ 2.3.19.२०॥
क्षण-मात्रम् रतिः तत्र विसंज्ञा सा अभवत् तदा ॥ भर्तृ-मृत्यु-ज-दुःखेन पतिता सा मृता इव ॥ २।३।१९।२०॥
kṣaṇa-mātram ratiḥ tatra visaṃjñā sā abhavat tadā .. bhartṛ-mṛtyu-ja-duḥkhena patitā sā mṛtā iva .. 2.3.19.20..
जातायां चैव संज्ञायां रतिरत्यंतविह्वला॥ विललाप तदा तत्रोच्चरंती विविधं वचः ॥ २१ ॥
जातायाम् च एव संज्ञायाम् रतिः अत्यंत-विह्वला॥ विललाप तदा तत्र उच्चरन्ती विविधम् वचः ॥ २१ ॥
jātāyām ca eva saṃjñāyām ratiḥ atyaṃta-vihvalā.. vilalāpa tadā tatra uccarantī vividham vacaḥ .. 21 ..
।। रतिरुवाच ।।
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ॥ मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥ २२ ॥
किम् करोमि क्व गच्छामि किम् कृतम् दैवतैः इह ॥ मद्-स्वामिनम् समाहूय नाशयामासुः उद्धतम् ॥ २२ ॥
kim karomi kva gacchāmi kim kṛtam daivataiḥ iha .. mad-svāminam samāhūya nāśayāmāsuḥ uddhatam .. 22 ..
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ॥ इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥ २३ ॥
हा हा नाथ स्मर स्वामिन् प्राण-प्रिय सुख-प्रद ॥ इदम् तु किम् अभूत् अत्र हा हा प्रिय प्रिय इति च ॥ २३ ॥
hā hā nātha smara svāmin prāṇa-priya sukha-prada .. idam tu kim abhūt atra hā hā priya priya iti ca .. 23 ..
।। ब्रह्मोवाच ।।।
इत्थं विलपती सा तु वदंती बहुधा वचः ॥ हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥ २४॥
इत्थम् विलपती सा तु वदंती बहुधा वचः ॥ हस्तौ पादौ तदा आस्फाल्य केशान् अत्रोटयत् तदा ॥ २४॥
ittham vilapatī sā tu vadaṃtī bahudhā vacaḥ .. hastau pādau tadā āsphālya keśān atroṭayat tadā .. 24..
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ॥ अभवन्दुःखितास्सर्वे स्थावरा अपि नारद ॥ २५॥
तद्-विलापम् तदा श्रुत्वा तत्र सर्वे वनेचराः ॥ अभवन् दुःखिताः सर्वे स्थावराः अपि नारद ॥ २५॥
tad-vilāpam tadā śrutvā tatra sarve vanecarāḥ .. abhavan duḥkhitāḥ sarve sthāvarāḥ api nārada .. 25..
एतस्मिन्नंतरे तत्र देवाश्शक्रादयोऽखिलाः ॥ रतिमूचुस्समाश्वास्य संस्मरंतो महेश्वरम् ॥ २६॥
एतस्मिन् अन्तरे तत्र देवाः शक्र-आदयः अखिलाः ॥ रतिम् ऊचुः समाश्वास्य संस्मरन्तः महेश्वरम् ॥ २६॥
etasmin antare tatra devāḥ śakra-ādayaḥ akhilāḥ .. ratim ūcuḥ samāśvāsya saṃsmarantaḥ maheśvaram .. 26..
।। देवा ऊचुः ।।
किंचिद्भस्म गृहीत्वा तु रक्ष यत्नाद्भयं त्यज॥ जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥ २७ ॥
किंचिद् भस्म गृहीत्वा तु रक्ष यत्नात् भयम् त्यज॥ जीवयिष्यति स स्वामी लप्स्यसे त्वम् पुनर् प्रियम् ॥ २७ ॥
kiṃcid bhasma gṛhītvā tu rakṣa yatnāt bhayam tyaja.. jīvayiṣyati sa svāmī lapsyase tvam punar priyam .. 27 ..
सुखदाता न कोप्यस्ति दुःखदाता न कश्चन ॥ सर्वोऽपि स्वकृतं भुंक्ते देवाञ्शोचसि वै वृथा ॥ २८ ॥ ।
सुख-दाता न कः अपि अस्ति दुःख-दाता न कश्चन ॥ सर्वः अपि स्व-कृतम् भुंक्ते देवान् शोचसि वै वृथा ॥ २८ ॥ ।
sukha-dātā na kaḥ api asti duḥkha-dātā na kaścana .. sarvaḥ api sva-kṛtam bhuṃkte devān śocasi vai vṛthā .. 28 .. .
।। ब्रह्मोवाच ।।
इत्याश्वास्य रतिं देवास्सर्वे शिवमुपागताः ॥ सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥ २९॥
इति आश्वास्य रतिम् देवाः सर्वे शिवम् उपागताः ॥ सु प्रसाद्य शिवम् भक्त्या वचनम् च इदम् अब्रुवन् ॥ २९॥
iti āśvāsya ratim devāḥ sarve śivam upāgatāḥ .. su prasādya śivam bhaktyā vacanam ca idam abruvan .. 29..
।। देवा ऊचुः ।।
भगवञ्छ्रूयतोमेतद्वचनं नश्शुभं प्रभो॥ कृपां कृत्वा महेशान शरणागतवत्सल ॥ 2.3.19.३०॥
भगवन् श्रूयतः उमा एतत् वचनम् नः शुभम् प्रभो॥ कृपाम् कृत्वा महेशान शरण-आगत-वत्सल ॥ २।३।१९।३०॥
bhagavan śrūyataḥ umā etat vacanam naḥ śubham prabho.. kṛpām kṛtvā maheśāna śaraṇa-āgata-vatsala .. 2.3.19.30..
सुविचारय सुप्रीत्या कृति कामस्य शंकर ॥ कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥ ३१॥
सु विचारय सु प्रीत्या कामस्य शंकर ॥ कामेन एतत् कृतम् यत्र न स्व-अर्थम् तत् महेश्वर ॥ ३१॥
su vicāraya su prītyā kāmasya śaṃkara .. kāmena etat kṛtam yatra na sva-artham tat maheśvara .. 31..
दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो ॥ कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर ॥ ३२॥
दुष्टेन पीडितैः देवैः तारकेण अखिलैः विभो ॥ कर्म तत् कारितम् नाथ न अन्यथा विद्धि शंकर ॥ ३२॥
duṣṭena pīḍitaiḥ devaiḥ tārakeṇa akhilaiḥ vibho .. karma tat kāritam nātha na anyathā viddhi śaṃkara .. 32..
रतिरेकाकिनी देव विलापं दुःखिता सती ॥ करोति गिरिश त्वं च तामाश्वासय सर्वदा ॥ ३३॥
रतिः एकाकिनी देव विलापम् दुःखिता सती ॥ करोति गिरिश त्वम् च ताम् आश्वासय सर्वदा ॥ ३३॥
ratiḥ ekākinī deva vilāpam duḥkhitā satī .. karoti giriśa tvam ca tām āśvāsaya sarvadā .. 33..
संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर ॥ दैवतैस्सह सर्वेषां हतवांस्तं यदि स्मरम्॥ ३४॥
संहारम् कर्तु-कामः असि क्रोधेन अनेन शंकर ॥ दैवतैः सह सर्वेषाम् हतवान् तम् यदि स्मरम्॥ ३४॥
saṃhāram kartu-kāmaḥ asi krodhena anena śaṃkara .. daivataiḥ saha sarveṣām hatavān tam yadi smaram.. 34..
दुःखं तस्या रतेर्दृष्ट्वा नष्टप्रायाश्च देवताः॥ तस्मात्त्वया च कर्त्तव्यं रत्याशोकापनोदनम् ॥ ३५ ॥
दुःखम् तस्याः रतेः दृष्ट्वा नष्ट-प्रायाः च देवताः॥ तस्मात् त्वया च कर्त्तव्यम् रत्या-शोक-अपनोदनम् ॥ ३५ ॥
duḥkham tasyāḥ rateḥ dṛṣṭvā naṣṭa-prāyāḥ ca devatāḥ.. tasmāt tvayā ca karttavyam ratyā-śoka-apanodanam .. 35 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः ॥ देवानां सकलानां च वचनं चेदमब्रवीत् ॥ ३६ ॥
इति आकर्ण्य वचः तेषाम् प्रसन्नः भगवान् शिवः ॥ देवानाम् सकलानाम् च वचनम् च इदम् अब्रवीत् ॥ ३६ ॥
iti ākarṇya vacaḥ teṣām prasannaḥ bhagavān śivaḥ .. devānām sakalānām ca vacanam ca idam abravīt .. 36 ..
।। शिव उवाच ।। ।।
देवाश्च ऋषयस्सर्वे मद्वचश्शृणुतादरात् ॥ मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत् ॥ ३७ ॥
देवाः च ऋषयः सर्वे मद्-वचः शृणुत आदरात् ॥ मद्-कोपेन च यत् जातम् तत् तथा न अन्यथा भवत् ॥ ३७ ॥
devāḥ ca ṛṣayaḥ sarve mad-vacaḥ śṛṇuta ādarāt .. mad-kopena ca yat jātam tat tathā na anyathā bhavat .. 37 ..
अनंगस्तावदेव स्यात्कामो रतिपतिः प्रभुः ॥ यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥ ३८ ॥
अनंगः तावत् एव स्यात् कामः रतिपतिः प्रभुः ॥ यावत् च अवतरेत् कृष्णः धरण्याम् रुक्मिणीपतिः ॥ ३८ ॥
anaṃgaḥ tāvat eva syāt kāmaḥ ratipatiḥ prabhuḥ .. yāvat ca avataret kṛṣṇaḥ dharaṇyām rukmiṇīpatiḥ .. 38 ..
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति॥ तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥ ३९॥
द्वारकायाम् यदा स्थित्वा पुत्रान् उत्पादयिष्यति॥ तदा कृष्णः तु रुक्मिण्याम् कामम् उत्पादयिष्यति ॥ ३९॥
dvārakāyām yadā sthitvā putrān utpādayiṣyati.. tadā kṛṣṇaḥ tu rukmiṇyām kāmam utpādayiṣyati .. 39..
प्रद्युम्ननाम तस्यैव भविष्यति न संशयः ॥ जातमात्रं तु तं पुत्रं शंबरस्संहरिष्यति ॥ 2.3.19.४० ॥
प्रद्युम्न-नाम तस्य एव भविष्यति न संशयः ॥ जात-मात्रम् तु तम् पुत्रम् शंबरः संहरिष्यति ॥ २।३।१९।४० ॥
pradyumna-nāma tasya eva bhaviṣyati na saṃśayaḥ .. jāta-mātram tu tam putram śaṃbaraḥ saṃhariṣyati .. 2.3.19.40 ..
हृत्वा प्रास्य समुद्रं तं शंबरो दानवोत्तमः ॥ मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥ ४१॥
हृत्वा प्रास्य समुद्रम् तम् शंबरः दानव-उत्तमः ॥ मृतम् ज्ञात्वा वृथा मूढः नगरम् स्वम् गमिष्यति ॥ ४१॥
hṛtvā prāsya samudram tam śaṃbaraḥ dānava-uttamaḥ .. mṛtam jñātvā vṛthā mūḍhaḥ nagaram svam gamiṣyati .. 41..
तावच्च नगरं तस्य रते स्थेयं यथासुखम् ॥ तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२ ॥
तावत् च नगरम् तस्य रते स्थेयम् यथासुखम् ॥ तत्र एव स्व-पतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२ ॥
tāvat ca nagaram tasya rate stheyam yathāsukham .. tatra eva sva-pateḥ prāptiḥ pradyumnasya bhaviṣyati .. 42 ..
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ॥ भविष्यति सुखी देवाः प्रद्युम्नाख्यस्स्वकामिनीम् ॥ ४३ ॥
तत्र कामः मिलित्वा तम् हत्वा शम्बरम् आहवे ॥ भविष्यति सुखी देवाः प्रद्युम्न-आख्यः स्व-कामिनीम् ॥ ४३ ॥
tatra kāmaḥ militvā tam hatvā śambaram āhave .. bhaviṣyati sukhī devāḥ pradyumna-ākhyaḥ sva-kāminīm .. 43 ..
तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः ॥ गमिष्यति तया सार्द्धं देवास्सत्यं वचो मम ॥ ४४ ॥
तदीयम् च एव यत् द्रव्यम् नीत्वा स नगरम् पुनर् ॥ गमिष्यति तया सार्द्धम् देवाः सत्यम् वचः मम ॥ ४४ ॥
tadīyam ca eva yat dravyam nītvā sa nagaram punar .. gamiṣyati tayā sārddham devāḥ satyam vacaḥ mama .. 44 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचश्शंभोर्देवा ऊचुः प्रणम्य तम् ॥ किंचिदुच्छ्वसिताश्चित्ते करौ बद्ध्वा नतांगकाः ॥ ४५ ॥
इति श्रुत्वा वचः शंभोः देवाः ऊचुः प्रणम्य तम् ॥ किंचिद् उच्छ्वसिताः चित्ते करौ बद्ध्वा नत-अंगकाः ॥ ४५ ॥
iti śrutvā vacaḥ śaṃbhoḥ devāḥ ūcuḥ praṇamya tam .. kiṃcid ucchvasitāḥ citte karau baddhvā nata-aṃgakāḥ .. 45 ..
देवा ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ॥ शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥ ४६॥
देवदेव महादेव करुणा-सागर प्रभो ॥ शीघ्रम् जीवय कामम् त्वम् रक्ष प्राणान् रतेः हर ॥ ४६॥
devadeva mahādeva karuṇā-sāgara prabho .. śīghram jīvaya kāmam tvam rakṣa prāṇān rateḥ hara .. 46..
ब्रह्मोवाच।।
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः॥ पुनर्बभाषे करुणासागरस्सकलेश्वरः ॥ ४७ ॥
इति आकर्ण्य अमर-वचः प्रसन्नः परमेश्वरः॥ पुनर् बभाषे करुणा-सागरः सकल-ईश्वरः ॥ ४७ ॥
iti ākarṇya amara-vacaḥ prasannaḥ parameśvaraḥ.. punar babhāṣe karuṇā-sāgaraḥ sakala-īśvaraḥ .. 47 ..
शिव उवाच ।।
हे देवास्सुप्रसन्नोऽस्मि जीवयिष्यामि चांतरे ॥ कामः स मद्गणो भूत्वा विहरिष्यति नित्यशः ॥ ४८ ॥
हे देवाः सु प्रसन्नः अस्मि जीवयिष्यामि च अन्तरे ॥ कामः स मद्-गणः भूत्वा विहरिष्यति नित्यशस् ॥ ४८ ॥
he devāḥ su prasannaḥ asmi jīvayiṣyāmi ca antare .. kāmaḥ sa mad-gaṇaḥ bhūtvā vihariṣyati nityaśas .. 48 ..
नाख्येयमिदमाख्यानं कस्यचित्पुरतस्सुराः ॥ गच्छत स्वस्थलं दुखं नाशयिष्यामि सर्वतः ॥ ४९ ॥
न आख्येयम् इदम् आख्यानम् कस्यचिद् पुरतस् सुराः ॥ गच्छत स्व-स्थलम् दुखम् नाशयिष्यामि सर्वतस् ॥ ४९ ॥
na ākhyeyam idam ākhyānam kasyacid puratas surāḥ .. gacchata sva-sthalam dukham nāśayiṣyāmi sarvatas .. 49 ..
ब्रह्मोवाच ।।
इत्युक्त्वांतर्दधे रुद्रो देवानां स्तुवतां तदा॥ सर्वे देवास्सुप्रस्सन्ना बभूवुर्गतविस्मयाः ॥ 2.3.19.५० ॥
इति उक्त्वा अंतर्दधे रुद्रः देवानाम् स्तुवताम् तदा॥ सर्वे देवाः सु प्रस्सन्नाः बभूवुः गत-विस्मयाः ॥ २।३।१९।५० ॥
iti uktvā aṃtardadhe rudraḥ devānām stuvatām tadā.. sarve devāḥ su prassannāḥ babhūvuḥ gata-vismayāḥ .. 2.3.19.50 ..
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः॥ उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥ ५१॥
ततस् ताम् च समाश्वास्य रुद्रस्य वचने स्थिताः॥ उक्त्वा वचः तदीयम् च स्वम् स्वम् धाम ययुः मुने ॥ ५१॥
tatas tām ca samāśvāsya rudrasya vacane sthitāḥ.. uktvā vacaḥ tadīyam ca svam svam dhāma yayuḥ mune .. 51..
कामपत्नी समादिष्टं नगरं सा गता तदा ॥ प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥ ५२ ॥ ॥
काम-पत्नी समादिष्टम् नगरम् सा गता तदा ॥ प्रतीक्षमाणा तम् कालम् रुद्र-आदिष्टम् मुनि-ईश्वर ॥ ५२ ॥ ॥
kāma-patnī samādiṣṭam nagaram sā gatā tadā .. pratīkṣamāṇā tam kālam rudra-ādiṣṭam muni-īśvara .. 52 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे कामनाशवर्णनम् नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe kāmanāśavarṇanam nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In