| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ॥
विधे प्राज्ञ वद इदानीम् मेना-उत्पत्तिम् समादरात् ॥
vidhe prājña vada idānīm menā-utpattim samādarāt ..
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् ॥ अपि शापं समाचक्ष्व कुरु संदेहभंजनम् ॥ १॥
विधे प्राज्ञ वद इदानीम् मेना-उत्पत्तिम् समादरात् ॥ अपि शापम् समाचक्ष्व कुरु संदेह-भंजनम् ॥ १॥
vidhe prājña vada idānīm menā-utpattim samādarāt .. api śāpam samācakṣva kuru saṃdeha-bhaṃjanam .. 1..
ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः ॥ मुनिभिः सह वक्ष्येहं सुतवर्य्य महाबुध ॥ २॥
शृणु नारद सु प्रीत्या मेना-उत्पत्तिम् विवेकतः ॥ मुनिभिः सह वक्ष्य इहम् सुत-वर्य्य महा-बुध ॥ २॥
śṛṇu nārada su prītyā menā-utpattim vivekataḥ .. munibhiḥ saha vakṣya iham suta-varyya mahā-budha .. 2..
दक्षनामा मम सुतो यः पुरा कथितो मुने ॥ तस्य जाताः सुताः षष्टिप्रमितास्सृष्टिकारणाः ॥ ३॥
दक्ष-नामा मम सुतः यः पुरा कथितः मुने ॥ तस्य जाताः सुताः षष्टि-प्रमिताः सृष्टि-कारणाः ॥ ३॥
dakṣa-nāmā mama sutaḥ yaḥ purā kathitaḥ mune .. tasya jātāḥ sutāḥ ṣaṣṭi-pramitāḥ sṛṣṭi-kāraṇāḥ .. 3..
तासां विवाहमकरोत्स वरैः कश्यपादिभिः ॥ विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ॥ ४ ॥
तासाम् विवाहम् अकरोत् स वरैः कश्यप-आदिभिः ॥ विदितम् ते समस्तम् तत् प्रस्तुतम् शृणु नारद ॥ ४ ॥
tāsām vivāham akarot sa varaiḥ kaśyapa-ādibhiḥ .. viditam te samastam tat prastutam śṛṇu nārada .. 4 ..
तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् ॥ तिस्रोभवन्सुतास्तस्यास्सुभगा धर्ममूर्तयः ॥ ५ ॥
तासाम् मध्ये स्वधा-नाम्नीम् पितृभ्यः दत्तवान् सुताम् ॥ तिस्रः भवन् सुताः तस्याः सुभगाः धर्म-मूर्तयः ॥ ५ ॥
tāsām madhye svadhā-nāmnīm pitṛbhyaḥ dattavān sutām .. tisraḥ bhavan sutāḥ tasyāḥ subhagāḥ dharma-mūrtayaḥ .. 5 ..
तासां नामानि शृणु मे पावनानि मुनीश्वर ॥ सदा विघ्नहराण्येव महामंगलदानि च ॥ ६॥
तासाम् नामानि शृणु मे पावनानि मुनि-ईश्वर ॥ सदा विघ्न-हराणि एव महा-मंगल-दानि च ॥ ६॥
tāsām nāmāni śṛṇu me pāvanāni muni-īśvara .. sadā vighna-harāṇi eva mahā-maṃgala-dāni ca .. 6..
मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती॥ अन्त्या एतास्सुतास्सर्वाः पितॄणाम्मानसोद्भवाः ॥ ७॥
मेना-नाम्नी सुता ज्येष्ठा मध्या धन्या कलावती॥ अन्त्याः एताः सुताः सर्वाः पितॄणाम् मानस-उद्भवाः ॥ ७॥
menā-nāmnī sutā jyeṣṭhā madhyā dhanyā kalāvatī.. antyāḥ etāḥ sutāḥ sarvāḥ pitṝṇām mānasa-udbhavāḥ .. 7..
अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः॥ ।आसाम्प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत् ॥ ८॥
अयोनि-जाः स्वधायाः च लोकतः तद्-सुताः मताः॥ ।आसाम् प्रोच्य सु नामानि सर्वान् कामान् जनः लभेत् ॥ ८॥
ayoni-jāḥ svadhāyāḥ ca lokataḥ tad-sutāḥ matāḥ.. .āsām procya su nāmāni sarvān kāmān janaḥ labhet .. 8..
जगद्वंद्याः सदा लोकमातरः परमोददाः ॥ योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ॥ ९॥
जगत्-वंद्याः सदा लोक-मातरः परम-उद-दाः ॥ योगिन्यः परमाः ज्ञान-निधानाः ताः त्रिलोक-गाः ॥ ९॥
jagat-vaṃdyāḥ sadā loka-mātaraḥ parama-uda-dāḥ .. yoginyaḥ paramāḥ jñāna-nidhānāḥ tāḥ triloka-gāḥ .. 9..
एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर ॥ श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे॥ 2.3.2.१०॥
एकस्मिन् समये तिस्रः भगिन्यः ताः मुनि-ईश्वर ॥ श्वेतद्वीपम् विष्णु-लोकम् जग्मुः दर्शन-हेतवे॥ २।३।२।१०॥
ekasmin samaye tisraḥ bhaginyaḥ tāḥ muni-īśvara .. śvetadvīpam viṣṇu-lokam jagmuḥ darśana-hetave.. 2.3.2.10..
कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः ॥ तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ॥ ११ ॥
कृत्वा प्रणामम् विष्णोः च संस्तुतिम् भक्ति-संयुताः ॥ तस्थुः तद्-आज्ञया तत्र सु समाजः महान् अभूत् ॥ ११ ॥
kṛtvā praṇāmam viṣṇoḥ ca saṃstutim bhakti-saṃyutāḥ .. tasthuḥ tad-ājñayā tatra su samājaḥ mahān abhūt .. 11 ..
तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने ॥ गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ॥ १२ ॥
तदा एव सनक-आद्याः तु सिद्धाः ब्रह्म-सुताः मुने ॥ गताः तत्र हरिम् नत्वा स्तुत्वा तस्थुः तद्-आज्ञया ॥ १२ ॥
tadā eva sanaka-ādyāḥ tu siddhāḥ brahma-sutāḥ mune .. gatāḥ tatra harim natvā stutvā tasthuḥ tad-ājñayā .. 12 ..
सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् ॥ तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ॥ १३ ॥
सनक-आद्यान् मुनीन् दृष्ट्वा उत्तस्थुः ते सकलाः द्रुतम् ॥ तत्रस्थान् संस्थितान् नत्वा देव-आद्यान् लोक-वन्दितान् ॥ १३ ॥
sanaka-ādyān munīn dṛṣṭvā uttasthuḥ te sakalāḥ drutam .. tatrasthān saṃsthitān natvā deva-ādyān loka-vanditān .. 13 ..
तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने ॥ मायया दैवविवशाश्शङ्करस्य परात्मनः ॥ १४ ॥
तिस्रः भगिन्यः तान् तत्र न उत्तस्थुः मोहिताः मुने ॥ मायया दैव-विवशाः शङ्करस्य परात्मनः ॥ १४ ॥
tisraḥ bhaginyaḥ tān tatra na uttasthuḥ mohitāḥ mune .. māyayā daiva-vivaśāḥ śaṅkarasya parātmanaḥ .. 14 ..
मोहिनी सर्व लोकानां शिवमाया गरीयसी ॥ तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ॥ १५॥
मोहिनी लोकानाम् शिव-माया गरीयसी ॥ तद्-अधीनम् जगत् सर्वम् शिव-इच्छा सा प्रकीर्त्यते ॥ १५॥
mohinī lokānām śiva-māyā garīyasī .. tad-adhīnam jagat sarvam śiva-icchā sā prakīrtyate .. 15..
प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः ॥ शिवेच्छया भवत्येव नात्र कार्या विचारणा ॥ १६॥
प्रारब्धम् प्रोच्यते सा एव तद्-नामानि हि अनेकशस् ॥ शिव-इच्छया भवति एव न अत्र कार्या विचारणा ॥ १६॥
prārabdham procyate sā eva tad-nāmāni hi anekaśas .. śiva-icchayā bhavati eva na atra kāryā vicāraṇā .. 16..
भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम्॥ विस्मितास्सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ॥ १७ ॥
भूत्वा तद्-वश-गाः ताः वै न चक्रुः अपि तद्-नतिम्॥ विस्मिताः सम्प्रदृश्य एव संस्थिताः तत्र केवलम् ॥ १७ ॥
bhūtvā tad-vaśa-gāḥ tāḥ vai na cakruḥ api tad-natim.. vismitāḥ sampradṛśya eva saṃsthitāḥ tatra kevalam .. 17 ..
तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः ॥ ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ॥ १८ ॥
तादृशीम् तद्-गतिम् दृष्ट्वा सनक-आद्याः मुनि-ईश्वराः ॥ ज्ञानिनः अपि परम् चक्रुः क्रोधम् दुर्विषहम् च ते ॥ १८ ॥
tādṛśīm tad-gatim dṛṣṭvā sanaka-ādyāḥ muni-īśvarāḥ .. jñāninaḥ api param cakruḥ krodham durviṣaham ca te .. 18 ..
शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह ॥ सनत्कुमारो योगीशश्शापन्दण्डकरं ददन् ॥ १९ ॥
शिव-इच्छा-मोहितः तत्र स क्रोधः ताः उवाच ह ॥ सनत्कुमारः योगि-ईशः शापन् दण्डकरम् ददन् ॥ १९ ॥
śiva-icchā-mohitaḥ tatra sa krodhaḥ tāḥ uvāca ha .. sanatkumāraḥ yogi-īśaḥ śāpan daṇḍakaram dadan .. 19 ..
सनत्कुमार उवाच ।।
यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः ॥ अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ॥ 2.3.2.२० ॥
यूयम् तिस्रः भगिन्यः च मूढाः सत्-वयुना-उज्झिताः ॥ अज्ञात-श्रुति-तत्त्वाः हि पितृ-कन्याः अपि ध्रुवम् ॥ २।३।२।२० ॥
yūyam tisraḥ bhaginyaḥ ca mūḍhāḥ sat-vayunā-ujjhitāḥ .. ajñāta-śruti-tattvāḥ hi pitṛ-kanyāḥ api dhruvam .. 2.3.2.20 ..
अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः ॥ मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि ॥ २१ ॥
अभ्युत्थानम् कृतम् नः यत् नमस्कारः अपि गर्वतः ॥ मोहिताः नर-भाव-त्वात् स्वर्गात् दूराः भवन्तु हि ॥ २१ ॥
abhyutthānam kṛtam naḥ yat namaskāraḥ api garvataḥ .. mohitāḥ nara-bhāva-tvāt svargāt dūrāḥ bhavantu hi .. 21 ..
नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः ॥ स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम् ॥ २२ ॥
नर-स्त्रियः सम्भवन्तु तिस्रः अपि ज्ञान-मोहिताः ॥ स्व-कर्मणः लभध्वम् फलम् ईदृशम् ॥ २२ ॥
nara-striyaḥ sambhavantu tisraḥ api jñāna-mohitāḥ .. sva-karmaṇaḥ labhadhvam phalam īdṛśam .. 22 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य च साध्व्यस्तास्तिस्रोऽपि चकिता भृशम् ॥ पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ॥ २३ ॥
इति आकर्ण्य च साध्व्यः ताः तिस्रः अपि चकिताः भृशम् ॥ पतित्वा पादयोः तस्य समूचुः नत-मस्तकाः ॥ २३ ॥
iti ākarṇya ca sādhvyaḥ tāḥ tisraḥ api cakitāḥ bhṛśam .. patitvā pādayoḥ tasya samūcuḥ nata-mastakāḥ .. 23 ..
पितृतनया ऊचुः ।।
मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना ॥ त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ॥ २४ ॥
मुनि-वर्य्य दया-सिन्धो प्रसन्नः भव च अधुना ॥ त्वद्-प्रणामम् वयम् मूढाः कुर्महे स्म न भावतः ॥ २४ ॥
muni-varyya dayā-sindho prasannaḥ bhava ca adhunā .. tvad-praṇāmam vayam mūḍhāḥ kurmahe sma na bhāvataḥ .. 24 ..
प्राप्तं च तत्फलं विप्र न ते दोषो महामुने ॥ अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिम्पुनः ॥ २५ ॥
प्राप्तम् च तत् फलम् विप्र न ते दोषः महा-मुने ॥ अनुग्रहम् कुरुष्व अत्र लभेम स्वर् गतिम् पुनर् ॥ २५ ॥
prāptam ca tat phalam vipra na te doṣaḥ mahā-mune .. anugraham kuruṣva atra labhema svar gatim punar .. 25 ..
ब्रह्मोवाच ।।
श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा ॥ शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ॥ २६ ॥
श्रुत्वा तद्-वचनम् तात प्रोवाच स मुनिः तदा ॥ शाप-उद्धारम् प्रसन्न-आत्मा प्रेरितः शिव-मायया ॥ २६ ॥
śrutvā tad-vacanam tāta provāca sa muniḥ tadā .. śāpa-uddhāram prasanna-ātmā preritaḥ śiva-māyayā .. 26 ..
सनत्कुमार उवाच ।।
पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः ॥ वचनं मम शोकघ्नं सुखदं सर्वदैव वः ॥ २७ ॥
पितॄणाम् तनयाः तिस्रः शृणुत प्रीत-मानसाः ॥ वचनम् मम शोक-घ्नम् सुख-दम् सर्वदा एव वः ॥ २७ ॥
pitṝṇām tanayāḥ tisraḥ śṛṇuta prīta-mānasāḥ .. vacanam mama śoka-ghnam sukha-dam sarvadā eva vaḥ .. 27 ..
विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी ॥ ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ॥ २८ ॥
विष्णोः अंशस्य शैलस्य हिम-आधारस्य कामिनी ॥ ज्येष्ठा भवतु तद्-कन्या भविष्यति एव पार्वती ॥ २८ ॥
viṣṇoḥ aṃśasya śailasya hima-ādhārasya kāminī .. jyeṣṭhā bhavatu tad-kanyā bhaviṣyati eva pārvatī .. 28 ..
धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ॥ तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ॥ २९ ॥
धन्या प्रिया द्वितीया तु योगिनी जनकस्य च ॥ तस्याः कन्या महालक्ष्मीः नाम्ना सीता भविष्यति ॥ २९ ॥
dhanyā priyā dvitīyā tu yoginī janakasya ca .. tasyāḥ kanyā mahālakṣmīḥ nāmnā sītā bhaviṣyati .. 29 ..
वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ॥ ।भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ॥ 2.3.2.३० ॥
वृषभानस्य वैश्यस्य कनिष्ठा च कलावती ॥ ।भविष्यति प्रिया राधा तद्-सुता द्वापर-अन्ततः ॥ २।३।२।३० ॥
vṛṣabhānasya vaiśyasya kaniṣṭhā ca kalāvatī .. .bhaviṣyati priyā rādhā tad-sutā dvāpara-antataḥ .. 2.3.2.30 ..
मेनका योगिनी पत्या पार्वत्याश्च वरेण च ॥ तेन देहेन कैलासं गमिष्यति परम्पदम् ॥ ३१ ॥
मेनका योगिनी पत्या पार्वत्याः च वरेण च ॥ तेन देहेन कैलासम् गमिष्यति परम्पदम् ॥ ३१ ॥
menakā yoginī patyā pārvatyāḥ ca vareṇa ca .. tena dehena kailāsam gamiṣyati parampadam .. 31 ..
धन्या च सीतया सीरध्वजो जनकवंशजः ॥ जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ॥ ३२ ॥
धन्या च सीतया सीरध्वजः जनक-वंश-जः ॥ जीवन्मुक्तः महा-योगी वैकुण्ठम् च गमिष्यति ॥ ३२ ॥
dhanyā ca sītayā sīradhvajaḥ janaka-vaṃśa-jaḥ .. jīvanmuktaḥ mahā-yogī vaikuṇṭham ca gamiṣyati .. 32 ..
कलावती वृषभानस्य कौतुकात्कन्यया सह ॥ जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ॥ ३३ ॥
कलावती वृषभानस्य कौतुकात् कन्यया सह ॥ जीवन्मुक्ता च गोलोकम् गमिष्यति न संशयः ॥ ३३ ॥
kalāvatī vṛṣabhānasya kautukāt kanyayā saha .. jīvanmuktā ca golokam gamiṣyati na saṃśayaḥ .. 33 ..
विना विपत्तिं महिमा केषां कुत्र भविष्यति ॥ सुकर्मिणां गते दुःखे प्रभवेद्दुर्लभं सुखम् ॥ ३४ ॥
विना विपत्तिम् महिमा केषाम् कुत्र भविष्यति ॥ सु कर्मिणाम् गते दुःखे प्रभवेत् दुर्लभम् सुखम् ॥ ३४ ॥
vinā vipattim mahimā keṣām kutra bhaviṣyati .. su karmiṇām gate duḥkhe prabhavet durlabham sukham .. 34 ..
यूयं पितॄणां तनयास्सर्वास्स्वर्गविलासिकाः ॥ कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ॥ ३५ ॥
यूयम् पितॄणाम् तनयाः सर्वाः स्वर्ग-विलासिकाः ॥ कर्म-क्षयः च युष्माकम् अभवत् विष्णु-दर्शनात् ॥ ३५ ॥
yūyam pitṝṇām tanayāḥ sarvāḥ svarga-vilāsikāḥ .. karma-kṣayaḥ ca yuṣmākam abhavat viṣṇu-darśanāt .. 35 ..
इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः ॥ शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ॥ ३६ ॥
इति उक्त्वा पुनर् अपि आह गत-क्रोधः मुनि-ईश्वरः ॥ शिवम् संस्मृत्य मनसा ज्ञान-दम् भुक्ति-मुक्ति-दम् ॥ ३६ ॥
iti uktvā punar api āha gata-krodhaḥ muni-īśvaraḥ .. śivam saṃsmṛtya manasā jñāna-dam bhukti-mukti-dam .. 36 ..
अपरं शृणुत प्रीत्या मद्वचस्सुखदं सदा ॥ धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः ॥ ३७ ॥
अपरम् शृणुत प्रीत्या मद्-वचः सुख-दम् सदा ॥ धन्याः यूयम् शिव-प्रीताः मान्याः पूज्याः हि अभीक्ष्णशस् ॥ ३७ ॥
aparam śṛṇuta prītyā mad-vacaḥ sukha-dam sadā .. dhanyāḥ yūyam śiva-prītāḥ mānyāḥ pūjyāḥ hi abhīkṣṇaśas .. 37 ..
मेनायास्तनया देवी पार्वती जगदम्बिका ॥ भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुस्सहम् ॥ ३८ ॥
मेनायाः तनया देवी पार्वती जगदम्बिका ॥ भविष्यति प्रिया शम्भोः तपः कृत्वा सु दुस्सहम् ॥ ३८ ॥
menāyāḥ tanayā devī pārvatī jagadambikā .. bhaviṣyati priyā śambhoḥ tapaḥ kṛtvā su dussaham .. 38 ..
धन्या सुता स्मृता सीता रामपत्नी भविष्यति ॥ लौकिकाचारमाश्रित्य रामेण विहरिष्यति ॥ ३९ ॥
धन्या सुता स्मृता सीता राम-पत्नी भविष्यति ॥ लौकिक-आचारम् आश्रित्य रामेण विहरिष्यति ॥ ३९ ॥
dhanyā sutā smṛtā sītā rāma-patnī bhaviṣyati .. laukika-ācāram āśritya rāmeṇa vihariṣyati .. 39 ..
कलावतीसुता राधा साक्षाद्गोलोकवासिनी ॥ गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ॥ 2.3.2.४० ॥
कलावती-सुता राधा साक्षात् गो लोक-वासिनी ॥ गुप्त-स्नेह-निबद्धा सा कृष्ण-पत्नी भविष्यति ॥ २।३।२।४० ॥
kalāvatī-sutā rādhā sākṣāt go loka-vāsinī .. gupta-sneha-nibaddhā sā kṛṣṇa-patnī bhaviṣyati .. 2.3.2.40 ..
ब्रह्मोवाच ॥ इत्थमाभाष्य स मुनिर्भ्रातृभिस्सह संस्तुतः ॥ सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ॥ ४१ ॥
ब्रह्मा उवाच ॥ इत्थम् आभाष्य स मुनिः भ्रातृभिः सह संस्तुतः ॥ सनत्कुमारः भगवान् तत्र एव अन्तर्हितः अभवत् ॥ ४१ ॥
brahmā uvāca .. ittham ābhāṣya sa muniḥ bhrātṛbhiḥ saha saṃstutaḥ .. sanatkumāraḥ bhagavān tatra eva antarhitaḥ abhavat .. 41 ..
तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः ॥ गतपापास्सुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ॥ ४२॥
तिस्रः भगिन्यः ताः तात पितॄणाम् मानसीः सुताः ॥ गत-पापाः सुखम् प्राप्य स्व-धाम प्रययुः द्रुतम् ॥ ४२॥
tisraḥ bhaginyaḥ tāḥ tāta pitṝṇām mānasīḥ sutāḥ .. gata-pāpāḥ sukham prāpya sva-dhāma prayayuḥ drutam .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पूर्वगतिवर्णनम् नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pūrvagativarṇanam nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In