| |
|

This overlay will guide you through the buttons:

नारद उवाच ।। ।।
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ॥ गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ॥ १ ॥
विधे नेत्र-समुद्भूत-वह्नि-ज्वाला हरस्य सा ॥ गता कुत्र वद त्वम् तत् चरित्रम् शशिमौलिनः ॥ १ ॥
vidhe netra-samudbhūta-vahni-jvālā harasya sā .. gatā kutra vada tvam tat caritram śaśimaulinaḥ .. 1 ..
।। ब्रह्मोवाच ।। ।।
यदा भस्म चकाराशु तृतीयनयनानलः ॥ शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ॥ २॥
यदा भस्म चकार आशु तृतीय-नयन-अनलः ॥ शम्भोः कामम् प्रजज्वाल सर्वतस् विफलः तदा ॥ २॥
yadā bhasma cakāra āśu tṛtīya-nayana-analaḥ .. śambhoḥ kāmam prajajvāla sarvatas viphalaḥ tadā .. 2..
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् ॥ ३॥
हाहाकारः महान् आसीत् त्रैलोक्ये स चराचरे।सर्व-देवर्षयः तात शरणम् माम् ययुः द्रुतम् ॥ ३॥
hāhākāraḥ mahān āsīt trailokye sa carācare.sarva-devarṣayaḥ tāta śaraṇam mām yayuḥ drutam .. 3..
सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ॥ सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना ॥ ४ ॥
सर्वे निवेदयामासुः तत् दुखम् मह्यम् आकुलाः ॥ सु प्रणम्य सु संस्तुत्य करौ बद्ध्वा नत-आनना ॥ ४ ॥
sarve nivedayāmāsuḥ tat dukham mahyam ākulāḥ .. su praṇamya su saṃstutya karau baddhvā nata-ānanā .. 4 ..
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ॥ गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ॥ ५ ॥
तत् श्रुत्वा अहम् शिवम् स्मृत्वा तद्-हेतुम् सु विमृश्य च ॥ गतः तत्र विनीत-आत्मा त्रि-लोक-अवन-हेतवे ॥ ५ ॥
tat śrutvā aham śivam smṛtvā tad-hetum su vimṛśya ca .. gataḥ tatra vinīta-ātmā tri-loka-avana-hetave .. 5 ..
संदग्धुकामः स शुचिज्वालामालातिदीपितः ॥ स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा ॥ ६ ॥
संदग्धु-कामः स शुचि-ज्वाला-माला-अति दीपितः ॥ स्तंभितः अरम् मया शंभु-प्रसाद-आप्त-सु तेजसा ॥ ६ ॥
saṃdagdhu-kāmaḥ sa śuci-jvālā-mālā-ati dīpitaḥ .. staṃbhitaḥ aram mayā śaṃbhu-prasāda-āpta-su tejasā .. 6 ..
अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ॥ वाडवांतकमार्षं च सौम्यज्वालामुखं मुने ॥ ७॥
अथ क्रोध-मयम् वह्निम् दग्धु-काम जगत्त्रयम् ॥ वाडवांतक-मार्षम् च सौम्य-ज्वालामुखम् मुने ॥ ७॥
atha krodha-mayam vahnim dagdhu-kāma jagattrayam .. vāḍavāṃtaka-mārṣam ca saumya-jvālāmukham mune .. 7..
तं वाडवतनुमहं समादाय शिवेच्छया ॥ सागरं समगां लोकहिताय जगतां पतिः ॥ ८ ॥
तम् वाडब-तनुम् अहम् समादाय शिव-इच्छया ॥ सागरम् समगाम् लोक-हिताय जगताम् पतिः ॥ ८ ॥
tam vāḍaba-tanum aham samādāya śiva-icchayā .. sāgaram samagām loka-hitāya jagatām patiḥ .. 8 ..
आगतं मां समालोक्य सागरस्सांजलिर्मुने ॥ धृत्वा च पौरुषं रूपमागतस्संनिधिं मम ॥ ९ ॥
आगतम् माम् समालोक्य सागरः स अंजलिः मुने ॥ धृत्वा च पौरुषम् रूपम् आगतः संनिधिम् मम ॥ ९ ॥
āgatam mām samālokya sāgaraḥ sa aṃjaliḥ mune .. dhṛtvā ca pauruṣam rūpam āgataḥ saṃnidhim mama .. 9 ..
सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ॥ स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ॥ 2.3.20.१०॥
सु प्रणम्य अथ माम् सिंधुः संस्तूय च यथा विधि ॥ स माम् उवाच सु प्रीत्या सर्व-लोक-पितामहम् ॥ २।३।२०।१०॥
su praṇamya atha mām siṃdhuḥ saṃstūya ca yathā vidhi .. sa mām uvāca su prītyā sarva-loka-pitāmaham .. 2.3.20.10..
सागर उवाच ।।
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ॥ तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ॥ ११ ॥
किमर्थम् आगतः असि त्वम् ब्रह्मन् अत्र अखिल-अधिप ॥ तत् निदेशय सु प्रीत्या मत्वा माम् च स्व-सेवकम् ॥ ११ ॥
kimartham āgataḥ asi tvam brahman atra akhila-adhipa .. tat nideśaya su prītyā matvā mām ca sva-sevakam .. 11 ..
अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ॥ प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ॥ १२ ॥
अथ अहम् सागर-वचः श्रुत्वा प्रीति-पुरस्सरम् ॥ प्रावोचम् शंकरम् स्मृत्वा लौकिकम् हितम् आवहन् ॥ १२ ॥
atha aham sāgara-vacaḥ śrutvā prīti-purassaram .. prāvocam śaṃkaram smṛtvā laukikam hitam āvahan .. 12 ..
ब्रह्मोवाच ।।
शृणु तात महाधीमन्सर्वलोकहितावह ॥ वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा ॥ १३ ॥
शृणु तात महा-धीमन् सर्व-लोक-हित-आवह ॥ वच्मि अहम् प्रीतितः सिंधो शिव-इच्छा-प्रेरितः हृदा ॥ १३ ॥
śṛṇu tāta mahā-dhīman sarva-loka-hita-āvaha .. vacmi aham prītitaḥ siṃdho śiva-icchā-preritaḥ hṛdā .. 13 ..
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ॥ दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ॥ १४॥
अयम् क्रोधः महेशस्य वाडब-आत्मा महा-प्रभुः ॥ दग्ध्वा कामम् द्रुतम् सर्वम् दग्धु-कामः अभवत् ततस् ॥ १४॥
ayam krodhaḥ maheśasya vāḍaba-ātmā mahā-prabhuḥ .. dagdhvā kāmam drutam sarvam dagdhu-kāmaḥ abhavat tatas .. 14..
प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ॥ तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम् ॥ १५॥
प्रार्थितः अहम् सुरैः शीघ्रम् पीडितैः शंकर-इच्छया ॥ तत्र आगत्य द्रुतम् तम् वै तात स्तंभितवान् शुचिम् ॥ १५॥
prārthitaḥ aham suraiḥ śīghram pīḍitaiḥ śaṃkara-icchayā .. tatra āgatya drutam tam vai tāta staṃbhitavān śucim .. 15..
वाडवं रूपमाधत्त तमादायाग तोत्र ह ॥ निर्दिशामि जलाधार त्वामहं करुणाकरः ॥ १६ ॥
वाडवम् रूपम् आधत्त तम् आदाय आग ता उत्र ह ॥ निर्दिशामि जलाधार त्वाम् अहम् करुणाकरः ॥ १६ ॥
vāḍavam rūpam ādhatta tam ādāya āga tā utra ha .. nirdiśāmi jalādhāra tvām aham karuṇākaraḥ .. 16 ..
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ॥ ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम् ॥ १७॥
अयम् क्रोधी महेशस्य वाडवम् रूपम् आश्रितः ॥ ज्वाला-मुखः त्वया धार्यः यावत् आभूतसंप्लवम् ॥ १७॥
ayam krodhī maheśasya vāḍavam rūpam āśritaḥ .. jvālā-mukhaḥ tvayā dhāryaḥ yāvat ābhūtasaṃplavam .. 17..
यदात्राहं समागम्य वत्स्यामि सरितां पते ॥ तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः ॥ १८॥
यदा अत्र अहम् समागम्य वत्स्यामि सरिताम् पते ॥ तदा त्वया परित्याज्यः क्रोधः अयम् शांकरः अद्भुतः ॥ १८॥
yadā atra aham samāgamya vatsyāmi saritām pate .. tadā tvayā parityājyaḥ krodhaḥ ayam śāṃkaraḥ adbhutaḥ .. 18..
भोजनं तोयमेतस्य तव नित्यं भविष्यति ॥ यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम् ॥ १९ ॥
भोजनम् तोयम् एतस्य तव नित्यम् भविष्यति ॥ यत्नात् एव अवधार्यः अयम् यथा ना उपैति च अन्तरम् ॥ १९ ॥
bhojanam toyam etasya tava nityam bhaviṣyati .. yatnāt eva avadhāryaḥ ayam yathā nā upaiti ca antaram .. 19 ..
ब्रह्मोवाच ।।
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ॥ ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ॥ 2.3.20.२० ॥
इति उक्तः हि मया सिंधुः अंगीचक्रे तदा धुवम् ॥ ग्रहीतुम् वाडवम् वह्निम् रौद्रम् च अशक्यम् अन्यतस् ॥ २।३।२०।२० ॥
iti uktaḥ hi mayā siṃdhuḥ aṃgīcakre tadā dhuvam .. grahītum vāḍavam vahnim raudram ca aśakyam anyatas .. 2.3.20.20 ..
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ॥ वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ॥ २१ ॥
ततस् प्रविष्टः जलधौ स वाडब-तनुः शुचिः ॥ वारि-ओघान् सु दहन् तस्य ज्वाला-माला-अभिदीपितः ॥ २१ ॥
tatas praviṣṭaḥ jaladhau sa vāḍaba-tanuḥ śuciḥ .. vāri-oghān su dahan tasya jvālā-mālā-abhidīpitaḥ .. 21 ..
ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ॥ अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम् ॥ २२॥
ततस् संतुष्ट-चेतस्कः स्वम् धाम अहम् गतः मुने ॥ अंतर्धानम् अगात् सिंधुः दिव्य-रूपः प्रणम्य माम् ॥ २२॥
tatas saṃtuṣṭa-cetaskaḥ svam dhāma aham gataḥ mune .. aṃtardhānam agāt siṃdhuḥ divya-rūpaḥ praṇamya mām .. 22..
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ॥ देवा बभूवुः सुखिनो मुनयश्च महामुने २३ ॥
स्वास्थ्यम् प्राप जगत् सर्वम् निर्मुक्तम् तद्-भवात् भयात् ॥ देवाः बभूवुः सुखिनः मुनयः च महा-मुने ॥
svāsthyam prāpa jagat sarvam nirmuktam tad-bhavāt bhayāt .. devāḥ babhūvuḥ sukhinaḥ munayaḥ ca mahā-mune ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे वडवानलचरितम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe vaḍavānalacaritam nāma viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In