| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे तात महाप्राज्ञ विष्णुशिष्य त्रिलोककृत् ॥ अद्भुतेयं कथा प्रोक्ता शंकरस्य महात्मनः ॥ १ ॥
विधे तात महा-प्राज्ञ विष्णु-शिष्य त्रि-लोक-कृत् ॥ अद्भुता इयम् कथा प्रोक्ता शंकरस्य महात्मनः ॥ १ ॥
vidhe tāta mahā-prājña viṣṇu-śiṣya tri-loka-kṛt .. adbhutā iyam kathā proktā śaṃkarasya mahātmanaḥ .. 1 ..
भस्मीभूते स्मरे शंभुतृतीयनयनाग्निना ॥ तस्मिन्प्रविष्टे जलधौ वद त्वं किमभूत्ततः ॥ २॥
भस्मीभूते स्मरे शंभु-तृतीय-नयन-अग्निना ॥ तस्मिन् प्रविष्टे जलधौ वद त्वम् किम् अभूत् ततस् ॥ २॥
bhasmībhūte smare śaṃbhu-tṛtīya-nayana-agninā .. tasmin praviṣṭe jaladhau vada tvam kim abhūt tatas .. 2..
किं चकार ततो देवी पार्वती कुधरात्मजः ॥ गता कुत्र सखीभ्यां सा तद्वदाद्य दयानिधे ॥ ३॥
किम् चकार ततस् देवी पार्वती कुधर-आत्मजः ॥ गता कुत्र सखीभ्याम् सा तद्वत् आ अद्य दयानिधे ॥ ३॥
kim cakāra tatas devī pārvatī kudhara-ātmajaḥ .. gatā kutra sakhībhyām sā tadvat ā adya dayānidhe .. 3..
।। ब्रह्मोवाच ।।
शृणु तात महाप्राज्ञ चरितं शशिमौलिनः ॥ महोतिकारकस्यैव स्वामिनो मम चादरात् ॥ ४ ॥
शृणु तात महा-प्राज्ञ चरितम् शशिमौलिनः ॥ महा-ऊति-कारकस्य एव स्वामिनः मम च आदरात् ॥ ४ ॥
śṛṇu tāta mahā-prājña caritam śaśimaulinaḥ .. mahā-ūti-kārakasya eva svāminaḥ mama ca ādarāt .. 4 ..
यदाहच्छंभुनेत्रोद्भवो हि मदनं शुचिः ॥ महाशब्दोऽद्भुतोऽभूद्वै येनाकाशः प्रपूरितः ॥ ५ ॥
यत् आहत् शंभु-नेत्र-उद्भवः हि मदनम् शुचिः ॥ महा-शब्दः अद्भुतः अभूत् वै येन आकाशः प्रपूरितः ॥ ५ ॥
yat āhat śaṃbhu-netra-udbhavaḥ hi madanam śuciḥ .. mahā-śabdaḥ adbhutaḥ abhūt vai yena ākāśaḥ prapūritaḥ .. 5 ..
तेन शब्देन महता कामं दग्धं समीक्ष्य च॥ सखीभ्यां सह भीता सा ययौ स्वगृहमाकुला॥ ६॥
तेन शब्देन महता कामम् दग्धम् समीक्ष्य च॥ सखीभ्याम् सह भीता सा ययौ स्व-गृहम् आकुला॥ ६॥
tena śabdena mahatā kāmam dagdham samīkṣya ca.. sakhībhyām saha bhītā sā yayau sva-gṛham ākulā.. 6..
तेन शब्देन हिमवान्परिवारसमन्वितः ॥ विस्मितोऽभूदतिक्लिष्टस्सुतां स्मृत्वा गतां ततः ॥ ७ ॥
तेन शब्देन हिमवान् परिवार-समन्वितः ॥ विस्मितः अभूत् अति क्लिष्टः सुताम् स्मृत्वा गताम् ततस् ॥ ७ ॥
tena śabdena himavān parivāra-samanvitaḥ .. vismitaḥ abhūt ati kliṣṭaḥ sutām smṛtvā gatām tatas .. 7 ..
जगाम शोकं शैलेशो सुतां दृष्ट्वातिविह्वलाम् ॥ रुदतीं शंभुविरहादाससादाचलेश्वरः ॥ ८ ॥
जगाम शोकम् शैलेशो सुताम् दृष्ट्वा अति विह्वलाम् ॥ रुदतीम् शंभु-विरहात् आससाद अचल-ईश्वरः ॥ ८ ॥
jagāma śokam śaileśo sutām dṛṣṭvā ati vihvalām .. rudatīm śaṃbhu-virahāt āsasāda acala-īśvaraḥ .. 8 ..
आसाद्य पाणिना तस्या मार्जयन्नयनद्वयम् ॥ मा बिभीहि शिवेऽरोदीरित्युक्त्वा तां तदाग्रहीत् ॥ ९॥
आसाद्य पाणिना तस्याः मार्जयन् नयन-द्वयम् ॥ मा बिभीहि शिवे अरोदीः इति उक्त्वा ताम् तदा अग्रहीत् ॥ ९॥
āsādya pāṇinā tasyāḥ mārjayan nayana-dvayam .. mā bibhīhi śive arodīḥ iti uktvā tām tadā agrahīt .. 9..
क्रोडे कृत्वा सुतां शीघ्रं हिम वानचलेश्वरः ॥ स्वमालयमथानिन्ये सांत्वयन्नतिविह्वलाम् ॥ 2.3.21.१०॥
क्रोडे कृत्वा सुताम् शीघ्रम् वान् अचल-ईश्वरः ॥ स्वम् आलयम् अथ अनिन्ये सांत्वयन् अति विह्वलाम् ॥ २।३।२१।१०॥
kroḍe kṛtvā sutām śīghram vān acala-īśvaraḥ .. svam ālayam atha aninye sāṃtvayan ati vihvalām .. 2.3.21.10..
अंतर्हिते स्मरं दग्ध्वा हरे तद्विरहाच्छिवा ॥ विकलाभूद् भृशं सा वै लेभे शर्म न कुत्रचित् ॥ ११॥
अन्तर्हिते स्मरम् दग्ध्वा हरे तद्-विरहात् शिवा ॥ विकला अभूत् भृशम् सा वै लेभे शर्म न कुत्रचिद् ॥ ११॥
antarhite smaram dagdhvā hare tad-virahāt śivā .. vikalā abhūt bhṛśam sā vai lebhe śarma na kutracid .. 11..
पितुर्गृहं तदा गत्वा मिलित्वा मातरं शिवा ॥ पुनर्जातं तदा मेने स्वात्मानं सा धरात्मजा ॥ ॥ १२॥
पितुः गृहम् तदा गत्वा मिलित्वा मातरम् शिवा ॥ पुनर् जातम् तदा मेने स्व-आत्मानम् सा धरा-आत्मजा ॥ ॥ १२॥
pituḥ gṛham tadā gatvā militvā mātaram śivā .. punar jātam tadā mene sva-ātmānam sā dharā-ātmajā .. .. 12..
निनिंद च स्वरूपं सा हा हतास्मीत्यथाब्रवीत् ॥ सखीभिर्बोधिता चापि न बुबोध गिरीन्द्रजा ॥ १३॥
निनिंद च स्व-रूपम् सा हा हता अस्मि इति अथ अब्रवीत् ॥ सखीभिः बोधिता च अपि न बुबोध गिरीन्द्रजा ॥ १३॥
niniṃda ca sva-rūpam sā hā hatā asmi iti atha abravīt .. sakhībhiḥ bodhitā ca api na bubodha girīndrajā .. 13..
स्वपती च पिबंती च सा स्नाती गच्छती शिवा ॥ तिष्ठंती च सखीमध्ये न किंचित्सुखमाप ह ॥ १४॥
स्वपती च पिबंती च सा स्नाती गच्छती शिवा ॥ तिष्ठंती च सखी-मध्ये न किंचिद् सुखम् आप ह ॥ १४॥
svapatī ca pibaṃtī ca sā snātī gacchatī śivā .. tiṣṭhaṃtī ca sakhī-madhye na kiṃcid sukham āpa ha .. 14..
धिक्स्वरूपं मदीयं च तथा जन्म च कर्म च ॥ इति ब्रुवंती सततं स्मरंती हरचेष्टितम् ॥ १५॥
धिक् स्व-रूपम् मदीयम् च तथा जन्म च कर्म च ॥ इति ब्रुवंती सततम् स्मरंती हर-चेष्टितम् ॥ १५॥
dhik sva-rūpam madīyam ca tathā janma ca karma ca .. iti bruvaṃtī satatam smaraṃtī hara-ceṣṭitam .. 15..
एवं सा पार्वती शंभुविरहोत्क्लिष्टमानसा ॥ सुखं न लेभे किंचिद्राऽब्रवीच्छिवशिवेति च ॥ १६ ॥
एवम् सा पार्वती शंभु-विरह-उत्क्लिष्ट-मानसा ॥ सुखम् न लेभे किंचिद् रा अब्रवीत् शिव-शिव-इति च ॥ १६ ॥
evam sā pārvatī śaṃbhu-viraha-utkliṣṭa-mānasā .. sukham na lebhe kiṃcid rā abravīt śiva-śiva-iti ca .. 16 ..
निवसंती पितुर्ग्गेहे पिनाकिगतचेतना ॥ शुशोचाथ शिवा तात मुमोह च मुहुर्मुहुः ॥ १७ ॥
निवसंती पितुः ग्गेहे पिनाकि-गत-चेतना ॥ शुशोच अथ शिवा तात मुमोह च मुहुर् मुहुर् ॥ १७ ॥
nivasaṃtī pituḥ ggehe pināki-gata-cetanā .. śuśoca atha śivā tāta mumoha ca muhur muhur .. 17 ..
शैलाधिराजोप्यथ मेनकापि मैनाकमुख्यास्तनयाश्च सर्वे॥ तां सांत्वयामासुरदीनसत्त्वा हरं विसस्मार तथापि नो सा ॥ १८॥
शैलाधिराजः उपि अथ मेनका अपि मैनाक-मुख्याः तनयाः च सर्वे॥ ताम् सांत्वयामासुः अदीन-सत्त्वाः हरम् विसस्मार तथा अपि नो सा ॥ १८॥
śailādhirājaḥ upi atha menakā api maināka-mukhyāḥ tanayāḥ ca sarve.. tām sāṃtvayāmāsuḥ adīna-sattvāḥ haram visasmāra tathā api no sā .. 18..
अथ देवमुने धीमन्हिमव त्प्रस्तरे तदा ॥ नियोजितो बलभिदागमस्त्वं कामचारतः ॥ १९ ॥
अथ देव-मुने धीमन् हिमव प्रस्तरे तदा ॥ नियोजितः बलभिदा आगमः त्वम् कामचारतः ॥ १९ ॥
atha deva-mune dhīman himava prastare tadā .. niyojitaḥ balabhidā āgamaḥ tvam kāmacārataḥ .. 19 ..
ततस्त्वं पूजितस्तेन भूधरेण महात्मना ॥ कुशलं पृष्टवांस्तं वै तदाविष्टो वरासने ॥ 2.3.21.२० ॥
ततस् त्वम् पूजितः तेन भूधरेण महात्मना ॥ कुशलम् पृष्टवान् तम् वै तद्-आविष्टः वरासने ॥ २।३।२१।२० ॥
tatas tvam pūjitaḥ tena bhūdhareṇa mahātmanā .. kuśalam pṛṣṭavān tam vai tad-āviṣṭaḥ varāsane .. 2.3.21.20 ..
ततः प्रोवाच शैलेशः कन्याचरितमादितः ॥ हरसेवान्वितं कामदहनं च हरेण ह ॥ २१ ॥
ततस् प्रोवाच शैलेशः कन्या-चरितम् आदितस् ॥ हर-सेवा-अन्वितम् काम-दहनम् च हरेण ह ॥ २१ ॥
tatas provāca śaileśaḥ kanyā-caritam āditas .. hara-sevā-anvitam kāma-dahanam ca hareṇa ha .. 21 ..
श्रुत्वावोचो मुने त्वं तु तं शैलेशं शिवं भज ॥ तमामंत्र्योदतिष्ठस्त्वं संस्मृत्य मनसा शिवम् ॥ २२ ॥
श्रुत्वा अवोचः मुने त्वम् तु तम् शैल-ईशम् शिवम् भज ॥ तम् आमंत्र्य उदतिष्ठः त्वम् संस्मृत्य मनसा शिवम् ॥ २२ ॥
śrutvā avocaḥ mune tvam tu tam śaila-īśam śivam bhaja .. tam āmaṃtrya udatiṣṭhaḥ tvam saṃsmṛtya manasā śivam .. 22 ..
तं समुत्सृज्य रहसि कालीं तामगमंस्त्वरा ॥ लोकोपकारको ज्ञानी त्वं मुने शिववल्लभः ॥ २३॥
तम् समुत्सृज्य रहसि कालीम् ताम् अगमन् त्वरा ॥ लोक-उपकारकः ज्ञानी त्वम् मुने शिव-वल्लभः ॥ २३॥
tam samutsṛjya rahasi kālīm tām agaman tvarā .. loka-upakārakaḥ jñānī tvam mune śiva-vallabhaḥ .. 23..
आसाद्य कालीं संबोध्य तद्धिते स्थित आदरात्॥ अवोचस्त्वं वचस्तथ्यं सर्वेषां ज्ञानिनां वरः ॥ २४॥
आसाद्य कालीम् संबोध्य तद्धिते स्थितः आदरात्॥ अवोचः त्वम् वचः तथ्यम् सर्वेषाम् ज्ञानिनाम् वरः ॥ २४॥
āsādya kālīm saṃbodhya taddhite sthitaḥ ādarāt.. avocaḥ tvam vacaḥ tathyam sarveṣām jñāninām varaḥ .. 24..
नारद उवाच ।।
शृणु कालि वचो मे हि सत्यं वच्मि दयारतः॥ सर्वथा ते हितकरं निर्विकारं सुकामदम् ॥ २५ ॥
शृणु कालि वचः मे हि सत्यम् वच्मि दया-रतः॥ सर्वथा ते हित-करम् निर्विकारम् सु काम-दम् ॥ २५ ॥
śṛṇu kāli vacaḥ me hi satyam vacmi dayā-rataḥ.. sarvathā te hita-karam nirvikāram su kāma-dam .. 25 ..
सेवितश्च महादेवस्त्वयेह तपसा विना ॥ गर्ववत्या यदध्वंसीद्दीनानुग्रहकारकः ॥ २६॥
सेवितः च महादेवः त्वया इह तपसा विना ॥ गर्ववत्या यत् अध्वंसीत् दीन-अनुग्रह-कारकः ॥ २६॥
sevitaḥ ca mahādevaḥ tvayā iha tapasā vinā .. garvavatyā yat adhvaṃsīt dīna-anugraha-kārakaḥ .. 26..
विरक्तश्च स ते स्वामी महायोगी महेश्वरः ॥ विसृष्टवान्स्मरं दग्ध्वा त्वां शिवे भक्तवत्सलः ॥ २७ ॥
विरक्तः च स ते स्वामी महा-योगी महेश्वरः ॥ विसृष्टवान् स्मरम् दग्ध्वा त्वाम् शिवे भक्त-वत्सलः ॥ २७ ॥
viraktaḥ ca sa te svāmī mahā-yogī maheśvaraḥ .. visṛṣṭavān smaram dagdhvā tvām śive bhakta-vatsalaḥ .. 27 ..
तस्मात्त्वं सुतपोयुक्ता चिरमाराधयेश्वरम् ॥ तपसा संस्कृतां रुद्रस्स द्वितीयां करिष्यति ॥ २८॥
तस्मात् त्वम् सु तपः-युक्ता चिरम् आराधय ईश्वरम् ॥ तपसा संस्कृताम् रुद्रः स द्वितीयाम् करिष्यति ॥ २८॥
tasmāt tvam su tapaḥ-yuktā ciram ārādhaya īśvaram .. tapasā saṃskṛtām rudraḥ sa dvitīyām kariṣyati .. 28..
त्वं चापि शंकरं शम्भुं न त्यक्ष्यसि कदाचन ॥ नान्यं पतिं हठाद्देवि ग्रहीष्यसि शिवादृते ॥ २९ ॥
त्वम् च अपि शंकरम् शम्भुम् न त्यक्ष्यसि कदाचन ॥ न अन्यम् पतिम् हठात् देवि ग्रहीष्यसि शिवात् ऋते ॥ २९ ॥
tvam ca api śaṃkaram śambhum na tyakṣyasi kadācana .. na anyam patim haṭhāt devi grahīṣyasi śivāt ṛte .. 29 ..
।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्यवचस्ते हि मुने सा भूधरात्मजा ॥ किंचिदुच्छ्वसिता काली प्राह त्वां सांजलिर्मुदा ॥ 2.3.21.३०॥
इति आकर्ण्य वचः ते हि मुने सा भूधर-आत्मजा ॥ किंचिद् उच्छ्वसिता काली प्राह त्वाम् स अंजलिः मुदा ॥ २।३।२१।३०॥
iti ākarṇya vacaḥ te hi mune sā bhūdhara-ātmajā .. kiṃcid ucchvasitā kālī prāha tvām sa aṃjaliḥ mudā .. 2.3.21.30..
शिवोवाच ।।
त्वं तु सर्वज्ञ जगतामुपकारकर प्रभो ॥ रुद्रस्याराधनार्थाय मंत्रं देहि मुने हि मे ॥ ३१ ॥
त्वम् तु सर्वज्ञ जगताम् उपकार-कर प्रभो ॥ रुद्रस्य आराधन-अर्थाय मंत्रम् देहि मुने हि मे ॥ ३१ ॥
tvam tu sarvajña jagatām upakāra-kara prabho .. rudrasya ārādhana-arthāya maṃtram dehi mune hi me .. 31 ..
न सिद्यति क्रिया कापि सर्वेषां सद्गुरुं विना ॥ मया श्रुता पुरा सत्यं श्रुतिरेषा सनातनी ॥ ३२ ॥
न सिद्यति क्रिया का अपि सर्वेषाम् सत्-गुरुम् विना ॥ मया श्रुता पुरा सत्यम् श्रुतिः एषा सनातनी ॥ ३२ ॥
na sidyati kriyā kā api sarveṣām sat-gurum vinā .. mayā śrutā purā satyam śrutiḥ eṣā sanātanī .. 32 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्याः पार्वत्या मुनिसत्तमः ॥ पंचाक्षरं शम्भुमन्त्रं विधिपूर्वमुपादिशः ॥ ३३ ॥
इति श्रुत्वा वचः तस्याः पार्वत्याः मुनि-सत्तमः ॥ पंचाक्षरम् शम्भु-मन्त्रम् विधि-पूर्वम् उपादिशः ॥ ३३ ॥
iti śrutvā vacaḥ tasyāḥ pārvatyāḥ muni-sattamaḥ .. paṃcākṣaram śambhu-mantram vidhi-pūrvam upādiśaḥ .. 33 ..
अवोचश्च वचस्तां त्वं श्रद्धामुत्पादयन्मुने॥ प्रभावं मन्त्रराजस्य तस्य सर्वाधिकं मुने ॥ ३४॥
अवोचः च वचः ताम् त्वम् श्रद्धाम् उत्पादयन् मुने॥ प्रभावम् मन्त्रराजस्य तस्य सर्व-अधिकम् मुने ॥ ३४॥
avocaḥ ca vacaḥ tām tvam śraddhām utpādayan mune.. prabhāvam mantrarājasya tasya sarva-adhikam mune .. 34..
नारद उवाच ।।
शृणु देवि मनोरस्य प्रभावं परमाद्भुतम् ॥ यस्य श्रवणमात्रेण शंकरस्तु प्रसीदति ॥ ३५ ॥
शृणु देवि मनोः अस्य प्रभावम् परम-अद्भुतम् ॥ यस्य श्रवण-मात्रेण शंकरः तु प्रसीदति ॥ ३५ ॥
śṛṇu devi manoḥ asya prabhāvam parama-adbhutam .. yasya śravaṇa-mātreṇa śaṃkaraḥ tu prasīdati .. 35 ..
मंत्रोयं सर्वमंत्राणामधिराजश्च कामदः ॥ भुक्तिमुक्तिप्रदोऽत्यंतं शंकरस्य महाप्रियः ॥ ३६ ॥
मंत्रः यम् सर्व-मंत्राणाम् अधिराजः च काम-दः ॥ भुक्ति-मुक्ति-प्रदः अत्यंतम् शंकरस्य महा-प्रियः ॥ ३६ ॥
maṃtraḥ yam sarva-maṃtrāṇām adhirājaḥ ca kāma-daḥ .. bhukti-mukti-pradaḥ atyaṃtam śaṃkarasya mahā-priyaḥ .. 36 ..
सुभगे येन जप्तेन विधिना सोऽचिराद् द्रुतम् ॥ आराधितस्ते प्रत्यक्षो भविष्यति शिवो ध्रुवम्॥ ३७॥
सुभगे येन जप्तेन विधिना सः अचिरात् द्रुतम् ॥ आराधितः ते प्रत्यक्षः भविष्यति शिवः ध्रुवम्॥ ३७॥
subhage yena japtena vidhinā saḥ acirāt drutam .. ārādhitaḥ te pratyakṣaḥ bhaviṣyati śivaḥ dhruvam.. 37..
चिंतयती च तद्रूपं नियमस्था शराक्षरम् ॥ जप मन्त्रं शिवे त्वं हि संतुष्यति शिवो द्रुतम् ॥ ३८ ॥
चिंतयती च तद्-रूपम् नियम-स्था शर-अक्षरम् ॥ जप मन्त्रम् शिवे त्वम् हि संतुष्यति शिवः द्रुतम् ॥ ३८ ॥
ciṃtayatī ca tad-rūpam niyama-sthā śara-akṣaram .. japa mantram śive tvam hi saṃtuṣyati śivaḥ drutam .. 38 ..
एवं कुरु तप साध्वि तपस्साध्यो महेश्वरः ॥ तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ॥ ३९॥
एवम् कुरु तप साध्वि तपः-साध्यः महेश्वरः ॥ तपसि एव फलम् सर्वैः प्राप्यते ना अन्यथा क्वचिद् ॥ ३९॥
evam kuru tapa sādhvi tapaḥ-sādhyaḥ maheśvaraḥ .. tapasi eva phalam sarvaiḥ prāpyate nā anyathā kvacid .. 39..
।। ब्रह्मोवाच ।।
एवमुक्त्वा तदा कालीं नारद त्वं शिवप्रियः॥ यादृच्छिकोऽगमस्त्वं तु स्वर्गं देवहिते रतः ॥ 2.3.21.४० ॥
एवम् उक्त्वा तदा कालीम् नारद त्वम् शिव-प्रियः॥ यादृच्छिकः अगमः त्वम् तु स्वर्गम् देव-हिते रतः ॥ २।३।२१।४० ॥
evam uktvā tadā kālīm nārada tvam śiva-priyaḥ.. yādṛcchikaḥ agamaḥ tvam tu svargam deva-hite rataḥ .. 2.3.21.40 ..
पार्वती च तदा श्रुत्वा वचनं तव नारद ॥ सुप्रसन्ना तदा प्राप पंचाक्षरमनूत्तमम् ॥ ४१ ॥ ॥
पार्वती च तदा श्रुत्वा वचनम् तव नारद ॥ सु प्रसन्ना तदा प्राप पंचाक्षरम् अनूत्तमम् ॥ ४१ ॥ ॥
pārvatī ca tadā śrutvā vacanam tava nārada .. su prasannā tadā prāpa paṃcākṣaram anūttamam .. 41 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदोपदेशो नामैकविंशोऽध्यायः ॥ २१ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे नारदोपदेशः नाम एकविंशः अध्यायः ॥ २१ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe nāradopadeśaḥ nāma ekaviṃśaḥ adhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In