| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
त्वयि देवमुने याते पार्वती हृष्टमानसा ॥ तपस्साध्यं हरं मेने तपोर्थं मन आदधे ॥ १ ॥
त्वयि देव-मुने याते पार्वती हृष्ट-मानसा ॥ तपः-साध्यम् हरम् मेने तपः-र्थम् मनः आदधे ॥ १ ॥
tvayi deva-mune yāte pārvatī hṛṣṭa-mānasā .. tapaḥ-sādhyam haram mene tapaḥ-rtham manaḥ ādadhe .. 1 ..
ततः सख्यौ समादाय जयां च विजयां तथा॥ मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २॥
ततस् सख्यौ समादाय जयाम् च विजयाम् तथा॥ मातरम् पितरम् च एव सखीभ्याम् पर्यपृच्छत ॥ २॥
tatas sakhyau samādāya jayām ca vijayām tathā.. mātaram pitaram ca eva sakhībhyām paryapṛcchata .. 2..
प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् ॥ पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३ ॥
प्रथमम् पितरम् गत्वा हिमवन्तम् नग-ईश्वरम् ॥ पर्यपृच्छत् सु प्रणम्य विनयेन समन्विता ॥ ३ ॥
prathamam pitaram gatvā himavantam naga-īśvaram .. paryapṛcchat su praṇamya vinayena samanvitā .. 3 ..
सख्यावूचतुः ।।
हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ॥ सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः ॥ ४ ॥
हिमवन् श्रूयताम् पुत्री वचनम् कथ्यते अधुना ॥ सा स्वयम् च एव देहस्य रूपस्य अपि तथा पुनर् ॥ ४ ॥
himavan śrūyatām putrī vacanam kathyate adhunā .. sā svayam ca eva dehasya rūpasya api tathā punar .. 4 ..
भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति ॥ तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५॥
भवतः हि कुलस्य अस्य साफल्यम् कर्तुम् इच्छति ॥ तपसा साधनीयः असौ न अन्यथा दृश्यताम् व्रजेत् ॥ ५॥
bhavataḥ hi kulasya asya sāphalyam kartum icchati .. tapasā sādhanīyaḥ asau na anyathā dṛśyatām vrajet .. 5..
तस्माच्च पर्वतश्रेष्ठ देह्याज्ञां भवताधुना ॥ तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६॥
तस्मात् च पर्वत-श्रेष्ठ देहि आज्ञाम् भवत अधुना ॥ तपः करोतु गिरिजा वनम् गत्वा इति सादरम् ॥ ६॥
tasmāt ca parvata-śreṣṭha dehi ājñām bhavata adhunā .. tapaḥ karotu girijā vanam gatvā iti sādaram .. 6..
ब्रह्मोवाच ।।
इत्येवं च तदा पृष्टस्सखीभ्यां मुनिसत्तम ॥ पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७ ॥
इति एवम् च तदा पृष्टः सखीभ्याम् मुनि-सत्तम ॥ पार्वत्या सु विचार्य अथ गिरि-राजः अब्रवीत् इदम् ॥ ७ ॥
iti evam ca tadā pṛṣṭaḥ sakhībhyām muni-sattama .. pārvatyā su vicārya atha giri-rājaḥ abravīt idam .. 7 ..
हिमालय उवाच ।।
मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः ॥ यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८ ॥
मह्यम् च रोचते अत्यर्थम् मेनायै रुच्यताम् पुनर् ॥ यथा इदम् भवितव्यम् च किम् अतस् परम् उत्तमम् ॥ ८ ॥
mahyam ca rocate atyartham menāyai rucyatām punar .. yathā idam bhavitavyam ca kim atas param uttamam .. 8 ..
साफल्यं तु मदीयस्य कुलस्य च न संशयः ॥ मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम्॥ ९॥
साफल्यम् तु मदीयस्य कुलस्य च न संशयः ॥ मात्रे तु रुच्यते चेद् वै ततस् शुभतरम् नु किम्॥ ९॥
sāphalyam tu madīyasya kulasya ca na saṃśayaḥ .. mātre tu rucyate ced vai tatas śubhataram nu kim.. 9..
ब्रह्मोवाच ।।
इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा ॥ जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ 2.3.22.१० ॥
इति एवम् वचनम् पित्रा प्रोक्तम् श्रुत्वा तु ते तदा ॥ जग्मतुः मातरम् सख्यौ तद्-आज्ञप्ते तया सह ॥ २।३।२२।१० ॥
iti evam vacanam pitrā proktam śrutvā tu te tadā .. jagmatuḥ mātaram sakhyau tad-ājñapte tayā saha .. 2.3.22.10 ..
गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद ॥ सुप्रणम्य करो बध्वोचतुर्वचनमादरात् ॥ ११ ॥
गत्वा तु मातरम् तस्याः पार्वत्याः ते च नारद ॥ सु प्रणम्य करः ॥ ११ ॥
gatvā tu mātaram tasyāḥ pārvatyāḥ te ca nārada .. su praṇamya karaḥ .. 11 ..
सख्यावूचतुः ।।
मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ॥ सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि ॥ १२॥
मातर् त्वम् वचनम् पुत्र्याः शृणु देवि नमः अस्तु ते ॥ सु प्रसन्न-तया तत् वै श्रुत्वा कर्तुम् इह अर्हसि ॥ १२॥
mātar tvam vacanam putryāḥ śṛṇu devi namaḥ astu te .. su prasanna-tayā tat vai śrutvā kartum iha arhasi .. 12..
तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः॥ प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३ ॥
तप्तु-कामा तु ते पुत्री शिव-अर्थम् परमम् तपः॥ प्राप्ता अनुज्ञा पितुः च एव तुभ्यम् च परिपृच्छति ॥ १३ ॥
taptu-kāmā tu te putrī śiva-artham paramam tapaḥ.. prāptā anujñā pituḥ ca eva tubhyam ca paripṛcchati .. 13 ..
इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते ॥ त्वदाज्ञया यदि जायेत तप्यते च तथा तपः ॥ १४ ॥
इयम् स्व-रूप-साफल्यम् कर्तु-कामा पतिव्रते ॥ त्वद्-आज्ञया यदि जायेत तप्यते च तथा तपः ॥ १४ ॥
iyam sva-rūpa-sāphalyam kartu-kāmā pativrate .. tvad-ājñayā yadi jāyeta tapyate ca tathā tapaḥ .. 14 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा च ततस्सख्यौ तूष्णीमास्तां मुनीश्वर ॥ नांगीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५ ॥
इति उक्त्वा च ततस् सख्यौ तूष्णीम् आस्ताम् मुनि-ईश्वर ॥ ना अंगीचकार मेना सा तद्-वाक्यम् खिन्न-मानसा ॥ १५ ॥
iti uktvā ca tatas sakhyau tūṣṇīm āstām muni-īśvara .. nā aṃgīcakāra menā sā tad-vākyam khinna-mānasā .. 15 ..
ततस्सा पार्वती प्राह स्वयमेवाथ मातरम् ॥ करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदांबुजम् ॥ १६॥
ततस् सा पार्वती प्राह स्वयम् एव अथ मातरम् ॥ करौ बद्ध्वा विनीत-आत्मा स्मृत्वा शिव-पद-अंबुजम् ॥ १६॥
tatas sā pārvatī prāha svayam eva atha mātaram .. karau baddhvā vinīta-ātmā smṛtvā śiva-pada-aṃbujam .. 16..
पार्वत्युवाच ।।
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ॥ अनुजानीहि मां गंतुं तपसेऽद्य तपोवनम् ॥ १७ ॥
मातर् तप्तुम् गमिष्यामि प्रातर् प्राप्तुम् महेश्वरम् ॥ अनुजानीहि माम् गंतुम् तपसे अद्य तपः-वनम् ॥ १७ ॥
mātar taptum gamiṣyāmi prātar prāptum maheśvaram .. anujānīhi mām gaṃtum tapase adya tapaḥ-vanam .. 17 ..
इत्याकर्ण्य वचः पुत्र्या मेना दुःख मुपागता ॥ सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८ ॥
इति आकर्ण्य वचः पुत्र्याः मेना दुःखम् उपागता ॥ सा उपाहूय तदा पुत्रीम् उवाच विकला सती ॥ १८ ॥
iti ākarṇya vacaḥ putryāḥ menā duḥkham upāgatā .. sā upāhūya tadā putrīm uvāca vikalā satī .. 18 ..
मेनोवाच ।।
दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि ॥ तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९ ॥
दुःखिता असि शिवे पुत्री तपः तप्तुम् पुरा यदि ॥ तपः चर गृहे अद्य त्वम् न बहिस् गच्छ पार्वति ॥ १९ ॥
duḥkhitā asi śive putrī tapaḥ taptum purā yadi .. tapaḥ cara gṛhe adya tvam na bahis gaccha pārvati .. 19 ..
कुत्र यासि तपः कर्तुं देवास्संति गृहे मम ॥ तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ 2.3.22.२० ॥
कुत्र यासि तपः कर्तुम् देवाः संति गृहे मम ॥ तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २।३।२२।२० ॥
kutra yāsi tapaḥ kartum devāḥ saṃti gṛhe mama .. tīrthāni ca samastāni kṣetrāṇi vividhāni ca .. 2.3.22.20 ..
कर्तव्यो न हठः पुत्रि गंतव्यं न बहिः क्वचित् ॥ साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१॥
कर्तव्यः न हठः पुत्रि गंतव्यम् न बहिस् क्वचिद् ॥ साधितम् किम् त्वया पूर्वम् पुनर् किम् साधयिष्यसि ॥ २१॥
kartavyaḥ na haṭhaḥ putri gaṃtavyam na bahis kvacid .. sādhitam kim tvayā pūrvam punar kim sādhayiṣyasi .. 21..
शरीरं कोमलं वत्से तपस्तु कठिनं महत् ॥ एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२॥
शरीरम् कोमलम् वत्से तपः तु कठिनम् महत् ॥ एवस्मात् तु त्वया कार्यम् तपः अत्र न बहिस् व्रज ॥ २२॥
śarīram komalam vatse tapaḥ tu kaṭhinam mahat .. evasmāt tu tvayā kāryam tapaḥ atra na bahis vraja .. 22..
स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी ॥ तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति ॥ २३॥
स्त्रीणाम् तपः-वन-गतिः न श्रुता कामना-अर्थिनी ॥ तस्मात् त्वम् पुत्रि मा कार्षीः तपः-र्थम् गमनम् प्रति ॥ २३॥
strīṇām tapaḥ-vana-gatiḥ na śrutā kāmanā-arthinī .. tasmāt tvam putri mā kārṣīḥ tapaḥ-rtham gamanam prati .. 23..
।। ब्रह्मोवाच ।।
इत्येवं बहुधा पुत्री तन्मात्रा विनवारिता ॥ संवेदे न सुखं किंचिद्विनाराध्य महेश्वरम् ॥ २४॥
इति एवम् बहुधा पुत्री तद्-मात्रा विनवारिता ॥ संवेदे न सुखम् किंचिद् विना आराध्य महेश्वरम् ॥ २४॥
iti evam bahudhā putrī tad-mātrā vinavāritā .. saṃvede na sukham kiṃcid vinā ārādhya maheśvaram .. 24..
तपोनिषिद्धा तपसे वनं गंतुं च मेनया ॥ हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५॥
तपः-निषिद्धा तपसे वनम् गंतुम् च मेनया ॥ हेतुना तेन सोम-इति नाम प्राप शिवा तदा ॥ २५॥
tapaḥ-niṣiddhā tapase vanam gaṃtum ca menayā .. hetunā tena soma-iti nāma prāpa śivā tadā .. 25..
अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् ॥ निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६॥
अथ ताम् दुखिताम् ज्ञात्वा मेना शैलप्रिया शिवाम् ॥ निदेशम् सा ददौ तस्याः पार्वत्याः तपसे मुने ॥ २६॥
atha tām dukhitām jñātvā menā śailapriyā śivām .. nideśam sā dadau tasyāḥ pārvatyāḥ tapase mune .. 26..
मातुराज्ञां च संप्राप्य सुव्रता मुनिसत्तम ॥ ततः स्वांते सुखं लेभे पार्वती स्मृतशंकरा॥ २७॥
मातुः आज्ञाम् च संप्राप्य सुव्रताः मुनि-सत्तम ॥ ततस् स्व-अंते सुखम् लेभे पार्वती स्मृत-शंकरा॥ २७॥
mātuḥ ājñām ca saṃprāpya suvratāḥ muni-sattama .. tatas sva-aṃte sukham lebhe pārvatī smṛta-śaṃkarā.. 27..
मातरं पितरं साथ प्रणिपत्य मुदा शिवा ॥ सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता॥ २८॥
मातरम् पितरम् सा अथ प्रणिपत्य मुदा शिवा ॥ सखीभ्याम् च शिवम् स्मृत्वा तपः तप्तुम् समुद्गता॥ २८॥
mātaram pitaram sā atha praṇipatya mudā śivā .. sakhībhyām ca śivam smṛtvā tapaḥ taptum samudgatā.. 28..
हित्वा मतान्यनेकानि वस्त्राणि विविधानि च॥ वल्कलानि धृतान्याशु मौंजीं बद्ध्वा तु शोभनाम् ॥ २९॥
हित्वा मतानि अनेकानि वस्त्राणि विविधानि च॥ वल्कलानि धृतानि आशु मौंजीम् बद्ध्वा तु शोभनाम् ॥ २९॥
hitvā matāni anekāni vastrāṇi vividhāni ca.. valkalāni dhṛtāni āśu mauṃjīm baddhvā tu śobhanām .. 29..
हित्वा हारं तथा चर्म्म मृगस्य परमं धृतम् ॥ जगाम तपसे तत्र गंगावतरणं प्रति॥ 2.3.22.३०॥
हित्वा हारम् तथा चर्म्म मृगस्य परमम् धृतम् ॥ जगाम तपसे तत्र गंगावतरणम् प्रति॥ २।३।२२।३०॥
hitvā hāram tathā carmma mṛgasya paramam dhṛtam .. jagāma tapase tatra gaṃgāvataraṇam prati.. 2.3.22.30..
शंभुना कुर्वता ध्यानं यत्र दग्धो मनोभवः॥ गंगावतरणो नाम प्रस्थो हिमवतस्स च ॥ ३१ ॥
शंभुना कुर्वता ध्यानम् यत्र दग्धः मनोभवः॥ गंगावतरणः नाम प्रस्थः हिमवतः स च ॥ ३१ ॥
śaṃbhunā kurvatā dhyānam yatra dagdhaḥ manobhavaḥ.. gaṃgāvataraṇaḥ nāma prasthaḥ himavataḥ sa ca .. 31 ..
हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः ॥ काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२ ॥
हर-शून्यः अथ ददृशे स प्रस्थः हिमभूभृतः ॥ काल्या तत्र इत्य भोः तात पार्वत्या जगदम्बया ॥ ३२ ॥
hara-śūnyaḥ atha dadṛśe sa prasthaḥ himabhūbhṛtaḥ .. kālyā tatra itya bhoḥ tāta pārvatyā jagadambayā .. 32 ..
यत्र स्थित्वा पुरा शंभुस्तप्तवान्दुस्तरं तपः ॥ तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३ ॥
यत्र स्थित्वा पुरा शंभुः तप्तवान् दुस्तरम् तपः ॥ तत्र क्षणम् तु सा स्थित्वा बभूव विरह-अर्दिता ॥ ३३ ॥
yatra sthitvā purā śaṃbhuḥ taptavān dustaram tapaḥ .. tatra kṣaṇam tu sā sthitvā babhūva viraha-arditā .. 33 ..
हा हरेति शिवा तत्र रुदन्ती सा गिरेस्सुता ॥ विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४ ॥
हा हर इति शिवा तत्र रुदन्ती सा गिरेः सुता ॥ विललाप अति दुःख-आर्ता चिन्ता-शोक-समन्विता ॥ ३४ ॥
hā hara iti śivā tatra rudantī sā gireḥ sutā .. vilalāpa ati duḥkha-ārtā cintā-śoka-samanvitā .. 34 ..
ततश्चिरेण सा मोहं धैर्य्या त्संस्तभ्य पार्वती ॥ नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५ ॥
ततस् चिरेण सा मोहम् धैर्य्यात् संस्तभ्य पार्वती ॥ नियमाय अभवत् तत्र दीक्षिता हिमवत्-सुता ॥ ३५ ॥
tatas cireṇa sā moham dhairyyāt saṃstabhya pārvatī .. niyamāya abhavat tatra dīkṣitā himavat-sutā .. 35 ..
तपश्चकार सा तत्र शृंगितीर्थे महोत्तमे ॥ गौरीशिखर नामासीत्तत्तपःकरणाद्धि तत् ॥ ३६ ॥
तपः चकार सा तत्र शृंगितीर्थे महा-उत्तमे ॥ गौरीशिखर नाम आसीत् तद्-तपः-करणात् हि तत् ॥ ३६ ॥
tapaḥ cakāra sā tatra śṛṃgitīrthe mahā-uttame .. gaurīśikhara nāma āsīt tad-tapaḥ-karaṇāt hi tat .. 36 ..
सुंदराश्च द्रुमास्तत्र पवित्राश्शिवया मुने ॥ आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७ ॥
सुंदराः च द्रुमाः तत्र पवित्राः शिवया मुने ॥ आरोपिताः परीक्षा-अर्थम् तपसः फल-भागिनः ॥ ३७ ॥
suṃdarāḥ ca drumāḥ tatra pavitrāḥ śivayā mune .. āropitāḥ parīkṣā-artham tapasaḥ phala-bhāginaḥ .. 37 ..
भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी ॥ तथा तपस्समारब्धं मुनीनामपि दुष्करम् ॥ ३८ ॥
भूभिः शुद्धिम् ततस् कृत्वा वेदीम् निर्माय सुन्दरी ॥ तथा तपः समारब्धम् मुनीनाम् अपि दुष्करम् ॥ ३८ ॥
bhūbhiḥ śuddhim tatas kṛtvā vedīm nirmāya sundarī .. tathā tapaḥ samārabdham munīnām api duṣkaram .. 38 ..
विगृह्य मनसा सर्वाणींद्रियाणि सहाशु सा ॥ समुपस्थानिके तत्र चकार परमं तपः ॥ ३९ ।
विगृह्य मनसा सर्वाणि इंद्रियाणि सह आशु सा ॥ समुपस्थानिके तत्र चकार परमम् तपः ॥ ३९ ।
vigṛhya manasā sarvāṇi iṃdriyāṇi saha āśu sā .. samupasthānike tatra cakāra paramam tapaḥ .. 39 .
ग्रीष्मे च परितो वह्निं प्रज्वलंतं दिवानिशम् ॥ कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम ॥ 2.3.22.४० ॥
ग्रीष्मे च परितस् वह्निम् प्रज्वलन्तम् दिवानिशम् ॥ कृत्वा तस्थौ च तद्-मध्ये सततम् जपती ॥ २।३।२२।४० ॥
grīṣme ca paritas vahnim prajvalantam divāniśam .. kṛtvā tasthau ca tad-madhye satatam japatī .. 2.3.22.40 ..
सततं चैव वर्षासु स्थंडिले सुस्थिरासना ॥ शिलापृष्ठे च संसिक्ता बभूव जलधारया॥ ४१॥
सततम् च एव वर्षासु स्थंडिले सु स्थिर-आसना ॥ शिला-पृष्ठे च संसिक्ता बभूव जल-धारया॥ ४१॥
satatam ca eva varṣāsu sthaṃḍile su sthira-āsanā .. śilā-pṛṣṭhe ca saṃsiktā babhūva jala-dhārayā.. 41..
शीते जलांतरे शश्वत्तस्थौ सा भक्तितत्परा॥ अनाहारातपत्तत्र नीहारे निशासु च॥ ४२॥
शीते जल-अंतरे शश्वत् तस्थौ सा भक्ति-तत्परा॥ अनाहारा अतपत् तत्र नीहारे निशासु च॥ ४२॥
śīte jala-aṃtare śaśvat tasthau sā bhakti-tatparā.. anāhārā atapat tatra nīhāre niśāsu ca.. 42..
एवं तपः प्रकुर्वाणा पंचाक्षरजपे रता ॥ दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम्॥ ४३॥
एवम् तपः प्रकुर्वाणा पंचाक्षर-जपे रता ॥ दध्यौ शिवम् शिवा तत्र सर्व-काम-फल-प्रदम्॥ ४३॥
evam tapaḥ prakurvāṇā paṃcākṣara-jape ratā .. dadhyau śivam śivā tatra sarva-kāma-phala-pradam.. 43..
स्वारोपिताच्छुभान्वृक्षान्सखीभिस्सिंचती मुदा॥ प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत्॥ ४४॥
सु आरोपितात् शुभान् वृक्षान् सखीभिः सिंचती मुदा॥ प्रत्यहम् स अवकाशे सा तत्र आतिथ्यम् अकल्पयत्॥ ४४॥
su āropitāt śubhān vṛkṣān sakhībhiḥ siṃcatī mudā.. pratyaham sa avakāśe sā tatra ātithyam akalpayat.. 44..
वातश्चैव तथा शीतवृष्टिश्च विविधा तथा॥ दुस्सहोऽपि तथा घर्म्मस्तया सेहे सुचित्तया॥ ४५॥
वातः च एव तथा शीत-वृष्टिः च विविधा तथा॥ दुस्सहः अपि तथा घर्म्मः तया सेहे सु चित्तया॥ ४५॥
vātaḥ ca eva tathā śīta-vṛṣṭiḥ ca vividhā tathā.. dussahaḥ api tathā gharmmaḥ tayā sehe su cittayā.. 45..
दुःखं च विविधं तत्र गणितं न तयागतम् ॥ केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६॥
दुःखम् च विविधम् तत्र गणितम् न तया आगतम् ॥ केवलम् मनः आधाय शिवे सा आसीत् स्थिता मुने ॥ ४६॥
duḥkham ca vividham tatra gaṇitam na tayā āgatam .. kevalam manaḥ ādhāya śive sā āsīt sthitā mune .. 46..
प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः॥ तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७॥
प्रथमम् फल-भोगेन द्वितीयम् पर्ण-भोजनैः॥ तपः प्रकुर्वती देवी क्रमात् निन्ये अमिताः समाः ॥ ४७॥
prathamam phala-bhogena dvitīyam parṇa-bhojanaiḥ.. tapaḥ prakurvatī devī kramāt ninye amitāḥ samāḥ .. 47..
ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता॥ निराहाराभवद्देवी तपश्चरणसंरता॥ ४८॥
ततस् पर्णानि अपि शिवा निरस्य हिमवत्-सुता॥ निराहारा अभवत् देवी तपः-चरण-संरता॥ ४८॥
tatas parṇāni api śivā nirasya himavat-sutā.. nirāhārā abhavat devī tapaḥ-caraṇa-saṃratā.. 48..
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः ॥ तेन देवैरपर्णेति कथिता नामतः शिवा॥ ४९॥
आहारे त्यक्त-पर्णा अभूत् यस्मात् हिमवतः सुतः ॥ तेन देवैः अपर्णा इति कथिता नामतः शिवा॥ ४९॥
āhāre tyakta-parṇā abhūt yasmāt himavataḥ sutaḥ .. tena devaiḥ aparṇā iti kathitā nāmataḥ śivā.. 49..
एका पादस्थिता सासीच्छिवं संस्मृत्य पार्वती॥ पंचाक्षरं जपंती च मनुं तेपे तपो महत् ॥ 2.3.22.५० ॥
एका पाद-स्थिता सा आसीत् शिवम् संस्मृत्य पार्वती॥ पंचाक्षरम् जपन्ती च मनुम् तेपे तपः महत् ॥ २।३।२२।५० ॥
ekā pāda-sthitā sā āsīt śivam saṃsmṛtya pārvatī.. paṃcākṣaram japantī ca manum tepe tapaḥ mahat .. 2.3.22.50 ..
चीरवल्कलसंवीता जटासंघातधारिणी॥ शिवचिंतनसंसक्ता जिगाय तपसा मुनीम् ॥ ५१॥
चीर-वल्कल-संवीता जटा-संघात-धारिणी॥ शिव-चिंतन-संसक्ता जिगाय तपसा मुनीम् ॥ ५१॥
cīra-valkala-saṃvītā jaṭā-saṃghāta-dhāriṇī.. śiva-ciṃtana-saṃsaktā jigāya tapasā munīm .. 51..
एवं तस्यास्तपस्यन्त्या चिंतयंत्या महेश्वरम् ॥ त्रीणि वर्ष सहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२॥
एवम् तस्याः तपस्यन्त्या चिंतयंत्याः महेश्वरम् ॥ त्रीणि वर्ष-सहस्राणि जग्मुः काल्याः तपः-वने ॥ ५२॥
evam tasyāḥ tapasyantyā ciṃtayaṃtyāḥ maheśvaram .. trīṇi varṣa-sahasrāṇi jagmuḥ kālyāḥ tapaḥ-vane .. 52..
षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ॥ तत्र क्षणमथोषित्वा चिंतयामास सा शिवा ॥ ५३॥
षष्टि-वर्ष-सहस्राणि यत्र तेपे तपः हरः ॥ तत्र क्षणम् अथ उषित्वा चिंतयामास सा शिवा ॥ ५३॥
ṣaṣṭi-varṣa-sahasrāṇi yatra tepe tapaḥ haraḥ .. tatra kṣaṇam atha uṣitvā ciṃtayāmāsa sā śivā .. 53..
नियमस्थां महादेव किं मां जानासि नाधुना ॥ येनाहं सुचिरं तेन नानुयाता तवोरता ॥ ५४॥
नियम-स्थाम् महादेव किम् माम् जानासि न अधुना ॥ येन अहम् सु चिरम् तेन न अनुयाता तव उरता ॥ ५४॥
niyama-sthām mahādeva kim mām jānāsi na adhunā .. yena aham su ciram tena na anuyātā tava uratā .. 54..
लोके वेदे च गिरिशो मुनिभिर्गीयते सदा ॥ शंकरस्य हि सर्वज्ञस्सर्वात्मा सर्वदर्शनः॥ ५५॥
लोके वेदे च गिरिशः मुनिभिः गीयते सदा ॥ शंकरस्य हि सर्वज्ञः सर्व-आत्मा सर्व-दर्शनः॥ ५५॥
loke vede ca giriśaḥ munibhiḥ gīyate sadā .. śaṃkarasya hi sarvajñaḥ sarva-ātmā sarva-darśanaḥ.. 55..
सर्वभूतिप्रदो देवस्सर्वभावानुभावनः ॥ भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६॥
सर्व ॥ भक्त-अभीष्ट-प्रदः नित्यम् सर्व-क्लेश-निवारणः ॥ ५६॥
sarva .. bhakta-abhīṣṭa-pradaḥ nityam sarva-kleśa-nivāraṇaḥ .. 56..
सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे॥ अनुरक्ता तदा सोत्र संप्रसीदतु शंकरः ॥ ५७ ॥
सर्व-कामान् परित्यज्य यदि च अहम् वृषध्वजे॥ अनुरक्ता तदा सा उत्र संप्रसीदतु शंकरः ॥ ५७ ॥
sarva-kāmān parityajya yadi ca aham vṛṣadhvaje.. anuraktā tadā sā utra saṃprasīdatu śaṃkaraḥ .. 57 ..
यदि नारद तत्रोक्तमंत्रो जप्तश्शराक्षरः ॥ सुभक्त्या विधिना नित्यं संप्रसीदतु शंकरः ॥ ५८ ॥
यदि नारद तत्र उक्त-मंत्रः जप्तः शर-अक्षरः ॥ सु भक्त्या विधिना नित्यम् संप्रसीदतु शंकरः ॥ ५८ ॥
yadi nārada tatra ukta-maṃtraḥ japtaḥ śara-akṣaraḥ .. su bhaktyā vidhinā nityam saṃprasīdatu śaṃkaraḥ .. 58 ..
यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् ॥ सर्वेश्वरस्य चात्यंतं संप्रसीदतु शंकरः ॥ ५९ ॥
यदि भक्त्या शिवस्य अहम् निर्विकारा यथा उदितम् ॥ सर्वेश्वरस्य च अत्यंतम् संप्रसीदतु शंकरः ॥ ५९ ॥
yadi bhaktyā śivasya aham nirvikārā yathā uditam .. sarveśvarasya ca atyaṃtam saṃprasīdatu śaṃkaraḥ .. 59 ..
एवं चिंतयती नित्यं तेपे सा सुचिरं तपः ॥ अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ 2.3.22.६० ॥
एवम् चिंतयती नित्यम् तेपे सा सु चिरम् तपः ॥ अधोमुखी निर्विकारा जटा-वल्कल-धारिणी ॥ २।३।२२।६० ॥
evam ciṃtayatī nityam tepe sā su ciram tapaḥ .. adhomukhī nirvikārā jaṭā-valkala-dhāriṇī .. 2.3.22.60 ..
तथा तया तपस्तप्तं मुनीनामपि दुष्करम् ॥ स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१ ॥
तथा तया तपः तप्तम् मुनीनाम् अपि दुष्करम् ॥ स्मृत्वा च पुरुषाः तत्र परमम् विस्मयम् गताः ॥ ६१ ॥
tathā tayā tapaḥ taptam munīnām api duṣkaram .. smṛtvā ca puruṣāḥ tatra paramam vismayam gatāḥ .. 61 ..
तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः ॥ धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२ ॥
तद्-तपः-दर्शन-अर्थम् हि समाजग्मुः च ते अखिलाः ॥ धन्यान् निजान् मन्यमानाः जगदुः च इति सम्मताः ॥ ६२ ॥
tad-tapaḥ-darśana-artham hi samājagmuḥ ca te akhilāḥ .. dhanyān nijān manyamānāḥ jagaduḥ ca iti sammatāḥ .. 62 ..
महतां धर्म्मवृद्धेषु गमनं श्रेय उच्यते ॥ प्रमाणं तपसो नास्ति मान्यो धर्म्मस्सदा बुधैः ॥ ६३ ॥
महताम् धर्म्म-वृद्धेषु गमनम् श्रेयः उच्यते ॥ प्रमाणम् तपसः ना अस्ति मान्यः धर्म्मः सदा बुधैः ॥ ६३ ॥
mahatām dharmma-vṛddheṣu gamanam śreyaḥ ucyate .. pramāṇam tapasaḥ nā asti mānyaḥ dharmmaḥ sadā budhaiḥ .. 63 ..
श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः ॥ अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४ ॥
श्रुत्वा दृष्ट्वा तपः अस्य अस्तु किम् अन्यैः क्रियते तपः ॥ अस्मात् तपः अधिकम् लोके न भूतम् न भविष्यति ॥ ६४ ॥
śrutvā dṛṣṭvā tapaḥ asya astu kim anyaiḥ kriyate tapaḥ .. asmāt tapaḥ adhikam loke na bhūtam na bhaviṣyati .. 64 ..
जल्पंत इति ते सर्वे सुप्रशस्य शिवातपः ॥ जग्मुः स्वं धाम मुदिताः कठिनांगाश्च ये ह्यपि ॥ ६५ ॥
जल्पंतः इति ते सर्वे सु प्रशस्य शिव-आतपः ॥ जग्मुः स्वम् धाम मुदिताः कठिन-अंगाः च ये हि अपि ॥ ६५ ॥
jalpaṃtaḥ iti te sarve su praśasya śiva-ātapaḥ .. jagmuḥ svam dhāma muditāḥ kaṭhina-aṃgāḥ ca ye hi api .. 65 ..
अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना ॥ पार्वत्या जगदम्बायाः पराश्चर्य्यकरं महत् ॥ ६६ ॥
अन्यत् शृणु महा-ऋषे त्वम् प्रभावम् तपसः अधुना ॥ पार्वत्याः जगदम्बायाः पर-आश्चर्य्य-करम् महत् ॥ ६६ ॥
anyat śṛṇu mahā-ṛṣe tvam prabhāvam tapasaḥ adhunā .. pārvatyāḥ jagadambāyāḥ para-āścaryya-karam mahat .. 66 ..
तदाश्रमगता ये च स्वभावेन विरोधिनः ॥ तेप्यासँस्तत्प्रभावेण विरोधरहि तास्तदा ॥ ६७॥
तद्-आश्रम-गताः ये च स्वभावेन विरोधिनः ॥ ते अपि आसन् तद्-प्रभावेण विरोध-रहि ताः तदा ॥ ६७॥
tad-āśrama-gatāḥ ye ca svabhāvena virodhinaḥ .. te api āsan tad-prabhāveṇa virodha-rahi tāḥ tadā .. 67..
सिंहा गावश्च सततं रागादिदोषसंयुताः ॥ तन्महिम्ना च ते तत्र नाबाधंत परस्परम् ॥ ६८ ॥
सिंहाः गावः च सततम् राग-आदि-दोष-संयुताः ॥ तद्-महिम्ना च ते तत्र न अबाधन्त परस्परम् ॥ ६८ ॥
siṃhāḥ gāvaḥ ca satatam rāga-ādi-doṣa-saṃyutāḥ .. tad-mahimnā ca te tatra na abādhanta parasparam .. 68 ..
अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः ॥ निसर्गाद्वैरिणो यत्र विक्रियंते स्म न क्वचित् ॥ ६९॥
अथ अन्ये च मुनि-श्रेष्ठ मार्ज्जाराः मूषक-आदयः ॥ निसर्गात् वैरिणः यत्र विक्रियंते स्म न क्वचिद् ॥ ६९॥
atha anye ca muni-śreṣṭha mārjjārāḥ mūṣaka-ādayaḥ .. nisargāt vairiṇaḥ yatra vikriyaṃte sma na kvacid .. 69..
वृक्षाश्च सफलास्तत्र तृणानि विविधानि च ॥ पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ 2.3.22.७० ॥
वृक्षाः च स फलाः तत्र तृणानि विविधानि च ॥ पुष्पाणि च विचित्राणि तत्र आसन् मुनि-सत्तम ॥ २।३।२२।७० ॥
vṛkṣāḥ ca sa phalāḥ tatra tṛṇāni vividhāni ca .. puṣpāṇi ca vicitrāṇi tatra āsan muni-sattama .. 2.3.22.70 ..
तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् ॥ जातं च तपस्तस्यास्सिद्धिरूपमभूत्तदा ॥ ७१ ॥
तत् वनम् च तदा सर्वम् कैलासेन उपम-अन्वितम् ॥ जातम् च तपः तस्याः सिद्धि-रूपम् अभूत् तदा ॥ ७१ ॥
tat vanam ca tadā sarvam kailāsena upama-anvitam .. jātam ca tapaḥ tasyāḥ siddhi-rūpam abhūt tadā .. 71 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं० तृतीये पार्वती० पार्वतीतपोव० नाम द्वाविंशोऽध्यायः ॥ २२ ॥ ।
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसं० तृतीये पार्वती-पार्वतीतपोवन् नाम द्वाविंशः अध्यायः ॥ २२ ॥ ।
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃ0 tṛtīye pārvatī-pārvatītapovan nāma dvāviṃśaḥ adhyāyaḥ .. 22 .. .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In