| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर॥ चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १ ॥
एवम् तपत्याम् पार्वत्याम् शिव-प्राप्तौ मुनि-ईश्वर॥ चिर-कालः व्यतीयाय प्रादुर्भूतः हरः न हि ॥ १ ॥
evam tapatyām pārvatyām śiva-prāptau muni-īśvara.. cira-kālaḥ vyatīyāya prādurbhūtaḥ haraḥ na hi .. 1 ..
हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥ सभार्यस्ससुतामात्य उवाच परमेश्वरीम् ॥ २॥
हिमालयः तदा आगत्य पार्वतीम् कृत-निश्चयाम्॥ स भार्यः स सुत-अमात्यः उवाच परमेश्वरीम् ॥ २॥
himālayaḥ tadā āgatya pārvatīm kṛta-niścayām.. sa bhāryaḥ sa suta-amātyaḥ uvāca parameśvarīm .. 2..
हिमालय उवाच।।
मा खिद्यतां महाभागे तपसानेन पार्वती ॥ रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३ ॥
मा खिद्यताम् महाभागे तपसा अनेन पार्वती ॥ रुद्रः न दृश्यते बाले विरक्तः न अत्र संशयः ॥ ३ ॥
mā khidyatām mahābhāge tapasā anena pārvatī .. rudraḥ na dṛśyate bāle viraktaḥ na atra saṃśayaḥ .. 3 ..
त्वं तन्वी सुकुमारांगी तपसा च विमोहिता ॥ भविष्यसि न संदेहस्सत्यं सत्यं वदामि ते ॥ ४॥
त्वम् तन्वी सुकुमार-अंगी तपसा च विमोहिता ॥ भविष्यसि न संदेहः सत्यम् सत्यम् वदामि ते ॥ ४॥
tvam tanvī sukumāra-aṃgī tapasā ca vimohitā .. bhaviṣyasi na saṃdehaḥ satyam satyam vadāmi te .. 4..
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि ॥ किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५ ॥
तस्मात् उत्तिष्ठ च एहि त्वम् स्व-गृहम् वरवर्णिनि ॥ किम् तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५ ॥
tasmāt uttiṣṭha ca ehi tvam sva-gṛham varavarṇini .. kim tena tava rudreṇa yena dagdhaḥ purā smaraḥ .. 5 ..
अतो हि निर्विकार त्वात्त्वामादातुं वरां हराः ॥ नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६ ॥
अतस् हि निर्विकार त्वात् त्वाम् आदातुम् वराम् हराः ॥ ना आगमिष्यति देवेशि तम् कथम् प्रार्थयिष्यसि ॥ ६ ॥
atas hi nirvikāra tvāt tvām ādātum varām harāḥ .. nā āgamiṣyati deveśi tam katham prārthayiṣyasi .. 6 ..
गगनस्थो यथा चंद्रो ग्रहीतुं न हि शक्यते ॥ तथैव दुर्गमं शंभुं जानीहि त्वमिहानघे ॥ ७ ॥
गगन-स्थः यथा चंद्रः ग्रहीतुम् न हि शक्यते ॥ तथा एव दुर्गमम् शंभुम् जानीहि त्वम् इह अनघे ॥ ७ ॥
gagana-sthaḥ yathā caṃdraḥ grahītum na hi śakyate .. tathā eva durgamam śaṃbhum jānīhi tvam iha anaghe .. 7 ..
।। ब्रह्मोवाच ।।
तथैव मेनया चोक्ता तथा सह्याद्रिणा सती ॥ मेरुणा मंदरेणैव मैनाकेन तथैव सा ॥ ८ ॥
तथा एव मेनया च उक्ता तथा सह्य-अद्रिणा सती ॥ मेरुणा मंदरेण एव मैनाकेन तथा एव सा ॥ ८ ॥
tathā eva menayā ca uktā tathā sahya-adriṇā satī .. meruṇā maṃdareṇa eva mainākena tathā eva sā .. 8 ..
एवमन्यैः क्षितिभैश्च क्रौंचादिभिरनातुरा ॥ तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९ ॥
एवम् अन्यैः क्षितिभैः च क्रौंच-आदिभिः अनातुरा ॥ तथा एव गिरिजा प्रोक्ता नाना वाद-विधायिभिः ॥ ९ ॥
evam anyaiḥ kṣitibhaiḥ ca krauṃca-ādibhiḥ anāturā .. tathā eva girijā proktā nānā vāda-vidhāyibhiḥ .. 9 ..
।। ब्रह्मोवाच ।।
एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता ॥ उवाच प्रहसंत्येव हिमवंतं शुचिस्मिता ॥ 2.3.23.१०॥
एवम् प्रोक्ता यदा तन्वी सा सर्वैः तपसि स्थिता ॥ उवाच प्रहसंती एव हिमवंतम् शुचि-स्मिता ॥ २।३।२३।१०॥
evam proktā yadā tanvī sā sarvaiḥ tapasi sthitā .. uvāca prahasaṃtī eva himavaṃtam śuci-smitā .. 2.3.23.10..
पार्वत्युवाच ।।
पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया ॥ अधुनापि प्रतिज्ञां च शृणुध्वं मम बांधवाः ॥ ११ ॥
पुरा प्रोक्तम् मया तात मातर् किम् विस्मृतम् त्वया ॥ अधुना अपि प्रतिज्ञाम् च शृणुध्वम् मम बांधवाः ॥ ११ ॥
purā proktam mayā tāta mātar kim vismṛtam tvayā .. adhunā api pratijñām ca śṛṇudhvam mama bāṃdhavāḥ .. 11 ..
विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः ॥ तं तोषयामि तपसा शंकरं भक्तवत्सलम् ॥ १२ ॥
विरक्तः असौ महादेवः येन दग्धा रुषा स्मरः ॥ तम् तोषयामि तपसा शंकरम् भक्त-वत्सलम् ॥ १२ ॥
viraktaḥ asau mahādevaḥ yena dagdhā ruṣā smaraḥ .. tam toṣayāmi tapasā śaṃkaram bhakta-vatsalam .. 12 ..
सर्वे भवंतो गच्छंतु स्वं स्वं धाम प्रहर्षिताः ॥ भविष्यत्येव तुष्टोऽसौ नात्र कार्य्या विचारणा ॥ १ ३॥
सर्वे भवन्तः गच्छन्तु स्वम् स्वम् धाम प्रहर्षिताः ॥ भविष्यति एव तुष्टः असौ न अत्र कार्या विचारणा ॥ १ ३॥
sarve bhavantaḥ gacchantu svam svam dhāma praharṣitāḥ .. bhaviṣyati eva tuṣṭaḥ asau na atra kāryā vicāraṇā .. 1 3..
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् ॥ तमानयिष्ये चात्रैव तपसा केव लेन हि ॥ १४॥
दग्धः हि मदनः येन येन दग्धम् गिरेः वनम् ॥ तम् आनयिष्ये च अत्रा एव तपसा केव लेन हि ॥ १४॥
dagdhaḥ hi madanaḥ yena yena dagdham gireḥ vanam .. tam ānayiṣye ca atrā eva tapasā keva lena hi .. 14..
तपोबलेन महता सुसेव्यो हि सदाशिवः ॥ जानीध्वं हि महाभागास्सत्यं सत्यं वदामि वः ॥ १५ ॥
तपः-बलेन महता सुसेव्यः हि सदाशिवः ॥ जानीध्वम् हि महाभागाः सत्यम् सत्यम् वदामि वः ॥ १५ ॥
tapaḥ-balena mahatā susevyaḥ hi sadāśivaḥ .. jānīdhvam hi mahābhāgāḥ satyam satyam vadāmi vaḥ .. 15 ..
आभाष्य चैवं गिरिजा च मेनकां मैनाकबंधुं पितरं हिमालयम् ॥ तूष्णीं बभूवाशु सुभाषिणी शिवा समंदरं पर्वतराजबालिका ॥ १६॥
आभाष्य च एवम् गिरिजा च मेनकाम् मैनाकबंधुम् पितरम् हिमालयम् ॥ तूष्णीम् बभूव आशु सु भाषिणी शिवा स मंदरम् पर्वतराज-बालिका ॥ १६॥
ābhāṣya ca evam girijā ca menakām mainākabaṃdhum pitaram himālayam .. tūṣṇīm babhūva āśu su bhāṣiṇī śivā sa maṃdaram parvatarāja-bālikā .. 16..
जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते ॥ प्रशंसमाना गिरिजा मुहुर्मुहुस्सुविस्मिता हेमनगेश्वराद्याः ॥ १७॥
जग्मुः तथा उक्ताः शिवया हि पर्वताः यथागतेन अपि विचक्षणाः ते ॥ प्रशंसमानाः गिरिजाः मुहुर् मुहुर् सु विस्मिताः हेम-नगेश्वर-आद्याः ॥ १७॥
jagmuḥ tathā uktāḥ śivayā hi parvatāḥ yathāgatena api vicakṣaṇāḥ te .. praśaṃsamānāḥ girijāḥ muhur muhur su vismitāḥ hema-nageśvara-ādyāḥ .. 17..
गतेषु तेषु सूर्येषु सखीभिः परिवारिता ॥ तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १-॥
गतेषु तेषु सूर्येषु सखीभिः परिवारिता ॥ तपः तेपे तत् अधिकम् परम-अर्थ-सु निश्चया ॥ १॥
gateṣu teṣu sūryeṣu sakhībhiḥ parivāritā .. tapaḥ tepe tat adhikam parama-artha-su niścayā .. 1..
तपसा महता तेन तप्तमासीच्चराचरम् ॥ त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९ ॥
तपसा महता तेन तप्तम् आसीत् चराचरम् ॥ त्रैलोक्यम् हि मुनि-श्रेष्ठ स देव-असुर-मानुषम् ॥ १९ ॥
tapasā mahatā tena taptam āsīt carācaram .. trailokyam hi muni-śreṣṭha sa deva-asura-mānuṣam .. 19 ..
तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः॥ सिद्धास्साध्याश्च मुनयो विद्याधरमहोरगाः॥ ॥ 2.3.23.२० ॥
तदा सुर-असुराः सर्वे यक्ष-किन्नर-चारणाः॥ सिद्धाः साध्याः च मुनयः विद्याधर-महा-उरगाः॥ ॥ २।३।२३।२० ॥
tadā sura-asurāḥ sarve yakṣa-kinnara-cāraṇāḥ.. siddhāḥ sādhyāḥ ca munayaḥ vidyādhara-mahā-uragāḥ.. .. 2.3.23.20 ..
सप्रजापतयश्चैव गुह्यकाश्च तथापरे ॥ कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१॥
स प्रजापतयः च एव गुह्यकाः च तथा अपरे ॥ कष्टात् कष्टतरम् प्राप्ताः कारणम् न विदुः स्म तत् ॥ २१॥
sa prajāpatayaḥ ca eva guhyakāḥ ca tathā apare .. kaṣṭāt kaṣṭataram prāptāḥ kāraṇam na viduḥ sma tat .. 21..
सर्वे मिलित्वा शक्राद्या गुरुमामंत्र्य विह्वलाः ॥ सुमेरौ तप्तसर्वांगा विधिं मां शरणं ययुः ॥ २२ ॥
सर्वे मिलित्वा शक्र-आद्याः गुरुम् आमंत्र्य विह्वलाः ॥ सुमेरौ तप्त-सर्व-अंगाः विधिम् माम् शरणम् ययुः ॥ २२ ॥
sarve militvā śakra-ādyāḥ gurum āmaṃtrya vihvalāḥ .. sumerau tapta-sarva-aṃgāḥ vidhim mām śaraṇam yayuḥ .. 22 ..
तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः ॥ ऊचुस्सर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३ ॥
तत्र गत्वा प्रणम्य आशु विह्वलाः नष्ट-सु त्विषः ॥ ऊचुः सर्वे च संस्तूय हि ऐकपद्येन माम् हि ते ॥ २३ ॥
tatra gatvā praṇamya āśu vihvalāḥ naṣṭa-su tviṣaḥ .. ūcuḥ sarve ca saṃstūya hi aikapadyena mām hi te .. 23 ..
देवा ऊचुः ।।
त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् ॥ संतप्तमति कस्माद्वै न ज्ञातं कारणं विभो॥ २४॥
त्वया सृष्टम् इदम् सर्वम् जगत् एतत् चराचरम् ॥ संतप्त-मति कस्मात् वै न ज्ञातम् कारणम् विभो॥ २४॥
tvayā sṛṣṭam idam sarvam jagat etat carācaram .. saṃtapta-mati kasmāt vai na jñātam kāraṇam vibho.. 24..
तद्ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो ॥ दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक ॥ २८॥
तत् ब्रूहि कारणम् ब्रह्मन् ज्ञातुम् अर्हसि नः प्रभो ॥ दग्ध-भूत-तनून् देवान् त्वत्तः ना अन्यः अस्ति रक्षक ॥ २८॥
tat brūhi kāraṇam brahman jñātum arhasi naḥ prabho .. dagdha-bhūta-tanūn devān tvattaḥ nā anyaḥ asti rakṣaka .. 28..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा ॥ विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६ ॥
इति आकर्ण्य वचः तेषाम् अहम् स्मृत्वा शिवम् हृदा ॥ विचार्य मनसा सर्वम् गिरिजायाः तपः फलम् ॥ २६ ॥
iti ākarṇya vacaḥ teṣām aham smṛtvā śivam hṛdā .. vicārya manasā sarvam girijāyāḥ tapaḥ phalam .. 26 ..
दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् ॥ हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७॥
दग्धम् विश्वम् इति ज्ञात्वा तैः सर्वैः इह सादरात् ॥ हरये तत् कथयितुम् क्षीराब्धिम् अगमम् द्रुतम् ॥ २७॥
dagdham viśvam iti jñātvā taiḥ sarvaiḥ iha sādarāt .. haraye tat kathayitum kṣīrābdhim agamam drutam .. 27..
तत्र गत्वा हरिं दृष्ट्वा विलसंतं सुखासने ॥ सुप्रणम्य सुसंस्तूय प्रावोचं सांजलिः सुरैः ॥ २८॥
तत्र गत्वा हरिम् दृष्ट्वा विलसन्तम् सुख-आसने ॥ सु प्रणम्य सु संस्तूय प्रावोचम् स अंजलिः सुरैः ॥ २८॥
tatra gatvā harim dṛṣṭvā vilasantam sukha-āsane .. su praṇamya su saṃstūya prāvocam sa aṃjaliḥ suraiḥ .. 28..
त्राहि त्राहि महाविष्णो तप्तान्नश्शरणागतान् ॥ तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ॥ २९।
त्राहि त्राहि महाविष्णो तप्तान् नः शरण-आगतान् ॥ तपसा उग्रेण पार्वत्याः तपत्याः परमेण हि ॥ २९।
trāhi trāhi mahāviṣṇo taptān naḥ śaraṇa-āgatān .. tapasā ugreṇa pārvatyāḥ tapatyāḥ parameṇa hi .. 29.
इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम् ॥ शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ 2.3.23.३०॥
इति आकर्ण्य वचः तेषाम् अस्मद्-आदि दिवौकसाम् ॥ शेष-आसने समाविष्टः अस्मान् उवाच रमेश्वरः ॥ २।३।२३।३०॥
iti ākarṇya vacaḥ teṣām asmad-ādi divaukasām .. śeṣa-āsane samāviṣṭaḥ asmān uvāca rameśvaraḥ .. 2.3.23.30..
।। विष्णुरुवाच ।।
ज्ञातं सर्वं निदानं मे पार्वती तपसोद्य वै ॥ युष्माभिस्सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१ ॥
ज्ञातम् सर्वम् निदानम् मे पार्वती तपसा उद्य वै ॥ युष्माभिः सहितः तु अद्य व्रजामि परमेश्वरम् ॥ ३१ ॥
jñātam sarvam nidānam me pārvatī tapasā udya vai .. yuṣmābhiḥ sahitaḥ tu adya vrajāmi parameśvaram .. 31 ..
महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् ॥ पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः॥ ३२॥
महादेवम् प्रार्थयामः गिरिजा-प्रापणाय तम् ॥ पाणिग्रह-अर्थम् अधुना लोकानाम् स्वस्तये अमराः॥ ३२॥
mahādevam prārthayāmaḥ girijā-prāpaṇāya tam .. pāṇigraha-artham adhunā lokānām svastaye amarāḥ.. 32..
वरं दातुं शिवायै हि देवदेव पिनाकधृक् ॥ यथा चेष्यति तत्रैव करिष्यामोऽधुना हि तत्॥ २३।
वरम् दातुम् शिवायै हि देवदेव पिनाकधृक् ॥ यथा चेष्यति तत्र एव करिष्यामः अधुना हि तत्॥ २३।
varam dātum śivāyai hi devadeva pinākadhṛk .. yathā ceṣyati tatra eva kariṣyāmaḥ adhunā hi tat.. 23.
तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः ॥ तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः ॥ ३४ ॥
तस्मात् वयम् गमिष्यामः यत्र रुद्रः महा-प्रभुः ॥ तपसा उग्रेण संयुक्तः अद्य आस्ते परम-मंगलः ॥ ३४ ॥
tasmāt vayam gamiṣyāmaḥ yatra rudraḥ mahā-prabhuḥ .. tapasā ugreṇa saṃyuktaḥ adya āste parama-maṃgalaḥ .. 34 ..
।। ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुस्सुरादयः ॥ महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयंकरात् ॥ ३५ ॥
विष्णोः तत् वचनम् श्रुत्वा सर्वे ऊचुः सुर-आदयः ॥ महा-भीताः हठात् क्रुद्धात् दग्धु-कामात् लयंकरात् ॥ ३५ ॥
viṣṇoḥ tat vacanam śrutvā sarve ūcuḥ sura-ādayaḥ .. mahā-bhītāḥ haṭhāt kruddhāt dagdhu-kāmāt layaṃkarāt .. 35 ..
देवा ऊचुः ।।
महाभयंकरं क्रुद्धं कालानलसमप्रभम् ॥ न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम् ॥ ३६ ॥
महा-भयंकरम् क्रुद्धम् काल-अनल-सम-प्रभम् ॥ न यास्यामः वयम् सर्वे विरूपाक्षम् महा-प्रभम् ॥ ३६ ॥
mahā-bhayaṃkaram kruddham kāla-anala-sama-prabham .. na yāsyāmaḥ vayam sarve virūpākṣam mahā-prabham .. 36 ..
यथा दग्धः पुरा तेन मदनो दुरतिक्रमः ॥ तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७ ॥
यथा दग्धः पुरा तेन मदनः दुरतिक्रमः ॥ तथा एव क्रोध-युक्तः नः स धक्ष्यति न संशयः ॥ ३७ ॥
yathā dagdhaḥ purā tena madanaḥ duratikramaḥ .. tathā eva krodha-yuktaḥ naḥ sa dhakṣyati na saṃśayaḥ .. 37 ..
ब्रह्मोवाच ।।
तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः ॥ सांत्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८ ॥
तत् आकर्ण्य वचः तेषाम् शक्र-आदीनाम् रमेश्वरः ॥ सांत्वयन् तान् सुरान् सर्वान् प्रोवाच स हरिः मुने ॥ ३८ ॥
tat ākarṇya vacaḥ teṣām śakra-ādīnām rameśvaraḥ .. sāṃtvayan tān surān sarvān provāca sa hariḥ mune .. 38 ..
।। हरिरुवाच ।।
हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः ॥ न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९ ॥
हे सुराः मद्-वचः प्रीत्या शृणुत आदरतः अखिलाः ॥ न वः धक्ष्यति स स्वामी देवानाम् भय-नाशनः ॥ ३९ ॥
he surāḥ mad-vacaḥ prītyā śṛṇuta ādarataḥ akhilāḥ .. na vaḥ dhakṣyati sa svāmī devānām bhaya-nāśanaḥ .. 39 ..
तस्माद्भवद्भिर्गंतव्यं मया सार्द्धं विचक्षणैः ॥ शंभुं शुभकरं मत्वा शरणं तस्य सुप्रभो ॥ 2.3.23.४०॥
तस्मात् भवद्भिः गंतव्यम् मया सार्द्धम् विचक्षणैः ॥ शंभुम् शुभ-करम् मत्वा शरणम् तस्य सु प्रभो ॥ २।३।२३।४०॥
tasmāt bhavadbhiḥ gaṃtavyam mayā sārddham vicakṣaṇaiḥ .. śaṃbhum śubha-karam matvā śaraṇam tasya su prabho .. 2.3.23.40..
शिवं पुराणं पुरुषमधीशं वरेण्यरूपं हि परं पुराणम् ॥ तपोजुषाणां परमात्मरूपं परात्परं तं शरणं व्रजामः ॥ ४१ ॥
शिवम् पुराणम् पुरुषम् अधीशम् वरेण्य-रूपम् हि परम् पुराणम् ॥ तपः-जुषाणाम् परमात्म-रूपम् परात्परम् तम् शरणम् व्रजामः ॥ ४१ ॥
śivam purāṇam puruṣam adhīśam vareṇya-rūpam hi param purāṇam .. tapaḥ-juṣāṇām paramātma-rūpam parātparam tam śaraṇam vrajāmaḥ .. 41 ..
ब्रह्मोवाच ।।
एवमुक्तास्तदा देवा विष्णुना प्रभवि ष्णुना ॥ जग्मुस्सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२॥
एवम् उक्ताः तदा देवाः विष्णुना ॥ जग्मुः सर्वे तेन सह द्रष्टु-कामाः पिनाकिनम् ॥ ४२॥
evam uktāḥ tadā devāḥ viṣṇunā .. jagmuḥ sarve tena saha draṣṭu-kāmāḥ pinākinam .. 42..
प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् ॥ जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यस्सकुतूहलाः ॥ ४३ ॥
प्रथमम् शैलपुत्र्याः तत् तपः द्रष्टुम् तद्-आश्रमम् ॥ जग्मुः मार्ग-वशात् सर्वे विष्णु-आद्यः स कुतूहलाः ॥ ४३ ॥
prathamam śailaputryāḥ tat tapaḥ draṣṭum tad-āśramam .. jagmuḥ mārga-vaśāt sarve viṣṇu-ādyaḥ sa kutūhalāḥ .. 43 ..
पार्वत्यास्तु तपो दृष्ट्वा तेजसा व्यापृतास्तदा ॥ प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपः स्थिताम् ॥ ४४ ॥
पार्वत्याः तु तपः दृष्ट्वा तेजसा व्यापृताः तदा ॥ प्रणेमुः ताम् जगद्धात्रीम् तेजः-रूपाम् तपः स्थिताम् ॥ ४४ ॥
pārvatyāḥ tu tapaḥ dṛṣṭvā tejasā vyāpṛtāḥ tadā .. praṇemuḥ tām jagaddhātrīm tejaḥ-rūpām tapaḥ sthitām .. 44 ..
प्रशंसंतस्तपस्तस्यास्साक्षात्सिद्धितनोस्सुराः ॥ जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५ ॥
प्रशंसंतः तपः तस्याः साक्षात् सिद्धि-तनोः सुराः ॥ जग्मुः तत्र तदा ते च यत्र आस्ते वृषभध्वजः ॥ ४५ ॥
praśaṃsaṃtaḥ tapaḥ tasyāḥ sākṣāt siddhi-tanoḥ surāḥ .. jagmuḥ tatra tadā te ca yatra āste vṛṣabhadhvajaḥ .. 45 ..
तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा ॥ पश्यतो दूरतस्तस्थुः कामभस्मकृतोहरात् ॥ ४६॥
तत्र गत्वा च ते देवाः त्वाम् मुने प्रैषयन् तदा ॥ पश्यतः दूरतस् तस्थुः काम-भस्म-कृतोहरात् ॥ ४६॥
tatra gatvā ca te devāḥ tvām mune praiṣayan tadā .. paśyataḥ dūratas tasthuḥ kāma-bhasma-kṛtoharāt .. 46..
नारद त्वं शिवस्थानं तदा गत्वाऽभयस्सदा ॥ शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७॥
नारद त्वम् शिव-स्थानम् तदा गत्वा अभयः सदा ॥ शिव-भक्तः विशेषेण प्रसन्नम् दृष्टवान् प्रभुम् ॥ ४७॥
nārada tvam śiva-sthānam tadā gatvā abhayaḥ sadā .. śiva-bhaktaḥ viśeṣeṇa prasannam dṛṣṭavān prabhum .. 47..
पुनरागत्य यत्नेन देवानाहूय तांस्ततः ॥ निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८ ॥
पुनर् आगत्य यत्नेन देवान् आहूय तान् ततस् ॥ निनाय शंकर-स्थानम् तदा विष्णु-आदिकान् मुने ॥ ४८ ॥
punar āgatya yatnena devān āhūya tān tatas .. nināya śaṃkara-sthānam tadā viṣṇu-ādikān mune .. 48 ..
अथ विष्ण्वादयस्सर्वे तत्र गत्वा शिवं प्रभुम् ॥ ददृशुस्सुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९॥
अथ विष्णु-आदयः सर्वे तत्र गत्वा शिवम् प्रभुम् ॥ ददृशुः सुखम् आसीनम् प्रसन्नम् भक्त-वत्सलम् ॥ ४९॥
atha viṣṇu-ādayaḥ sarve tatra gatvā śivam prabhum .. dadṛśuḥ sukham āsīnam prasannam bhakta-vatsalam .. 49..
योगपट्टस्थितं शंभुं गणैश्च परिवारितम् ॥ तपोरूपं दधानं च परमेश्वररूपिणम्॥ 2.3.23.५०॥
योग-पट्ट-स्थितम् शंभुम् गणैः च परिवारितम् ॥ तपः-रूपम् दधानम् च परमेश्वर-रूपिणम्॥ २।३।२३।५०॥
yoga-paṭṭa-sthitam śaṃbhum gaṇaiḥ ca parivāritam .. tapaḥ-rūpam dadhānam ca parameśvara-rūpiṇam.. 2.3.23.50..
ततो विष्णुर्मयान्ये च सुरसिद्धमुनीश्वराः॥ प्रणम्य तुष्टुवुस्सूक्तैर्वेदोपनिषदन्वितैः॥ ५१॥
ततस् विष्णुः मया अन्ये च सुर-सिद्ध-मुनि-ईश्वराः॥ प्रणम्य तुष्टुवुः सूक्तैः वेद-उपनिषद्-अन्वितैः॥ ५१॥
tatas viṣṇuḥ mayā anye ca sura-siddha-muni-īśvarāḥ.. praṇamya tuṣṭuvuḥ sūktaiḥ veda-upaniṣad-anvitaiḥ.. 51..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तुतीये पार्वतीखंडे पार्वतीसांत्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः॥ २३॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तुतीये पार्वतीखण्डे पार्वतीसांत्वनशिवदेवदर्शनवर्णनम् नाम त्रयोविंशः अध्यायः॥ २३॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tutīye pārvatīkhaṇḍe pārvatīsāṃtvanaśivadevadarśanavarṇanam nāma trayoviṃśaḥ adhyāyaḥ.. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In