| |
|

This overlay will guide you through the buttons:

।। देवा ऊचुः ।।
नमो रुद्राय देवाय मदनांतकराय च ॥ स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः ॥ १॥
नमः रुद्राय देवाय मदन-अंत-कराय च ॥ स्तुत्याय भूरि-भासाय त्रिनेत्राय नमः नमः ॥ १॥
namaḥ rudrāya devāya madana-aṃta-karāya ca .. stutyāya bhūri-bhāsāya trinetrāya namaḥ namaḥ .. 1..
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः॥ महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥
शिपिविष्टाय भीमाय भीम-अक्षाय नमः नमः॥ महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २॥
śipiviṣṭāya bhīmāya bhīma-akṣāya namaḥ namaḥ.. mahādevāya prabhave triviṣṭapataye namaḥ .. 2..
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ॥ शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः ॥ ३ ॥
त्वम् नाथः सर्व-लोकानाम् पिता माता त्वम् ईश्वरः ॥ शंभुः ईशः शंकरः असि दयालुः त्वम् विशेषतः ॥ ३ ॥
tvam nāthaḥ sarva-lokānām pitā mātā tvam īśvaraḥ .. śaṃbhuḥ īśaḥ śaṃkaraḥ asi dayāluḥ tvam viśeṣataḥ .. 3 ..
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ॥ त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर ॥ ॥ ४ ॥
त्वम् धाता सर्व-जगताम् त्रातुम् अर्हसि नः प्रभो ॥ त्वाम् विना कः समर्थः अस्ति दुःख-नाशे महेश्वर ॥ ॥ ४ ॥
tvam dhātā sarva-jagatām trātum arhasi naḥ prabho .. tvām vinā kaḥ samarthaḥ asti duḥkha-nāśe maheśvara .. .. 4 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ॥ कृपया परया युक्तो विज्ञप्तुं शंभुमारभत् ॥ ५ ॥
इति आकर्ण्य वचः तेषाम् सुराणाम् नन्दिकेश्वरः ॥ कृपया परया युक्तः विज्ञप्तुम् शंभुम् आरभत् ॥ ५ ॥
iti ākarṇya vacaḥ teṣām surāṇām nandikeśvaraḥ .. kṛpayā parayā yuktaḥ vijñaptum śaṃbhum ārabhat .. 5 ..
।। नंदिकेश्वर उवाच ।।
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति ॥ कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६ ॥
विष्णु-आदयः सुर-गणाः मुनि-सिद्ध-संघाः त्वाम् द्रष्टुम् एव सुर-वर्य्य विशेषयंति ॥ कार्य-अर्थिनः असुर-वरैः परिभर्त्स्य मानाः सम्यक् पराभव-पदम् परमम् प्रपन्नाः ॥ ६ ॥
viṣṇu-ādayaḥ sura-gaṇāḥ muni-siddha-saṃghāḥ tvām draṣṭum eva sura-varyya viśeṣayaṃti .. kārya-arthinaḥ asura-varaiḥ paribhartsya mānāḥ samyak parābhava-padam paramam prapannāḥ .. 6 ..
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः ॥ दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७॥
तस्मात् त्वया हि सर्व-ईश त्रातव्याः मुनयः सुराः ॥ दीन-बंधुः विशेषेण त्वम् उक्तः भक्त-वत्सलः ॥ ७॥
tasmāt tvayā hi sarva-īśa trātavyāḥ munayaḥ surāḥ .. dīna-baṃdhuḥ viśeṣeṇa tvam uktaḥ bhakta-vatsalaḥ .. 7..
।। ब्रह्मोवाच ।।
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम् ॥ शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८॥
एवम् दयावता शंभुः विज्ञप्तः नंदिना भृशम् ॥ शनैस् शनैस् उपरमत्-ध्यानात् उन्मील्य च अक्षिणी ॥ ८॥
evam dayāvatā śaṃbhuḥ vijñaptaḥ naṃdinā bhṛśam .. śanais śanais uparamat-dhyānāt unmīlya ca akṣiṇī .. 8..
ईशोऽथोपरतश्शंभुस्तदा परमकोविदः ॥ समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९ ॥
ईशः अथ उपरतः शंभुः तदा परम-कोविदः ॥ समाधेः परमात्मा असौ सुरान् सर्वान् उवाच ह ॥ ९ ॥
īśaḥ atha uparataḥ śaṃbhuḥ tadā parama-kovidaḥ .. samādheḥ paramātmā asau surān sarvān uvāca ha .. 9 ..
शंभुरुवाच ।।
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः ॥ हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत् ॥ 2.3.24.१० ॥
कस्मात् यूयम् समायाताः मद्-समीपम् सुरेश्वरः ॥ हरि-ब्रह्म-आदयः सर्वे ब्रूत कारणम् आशु तत् ॥ २।३।२४।१० ॥
kasmāt yūyam samāyātāḥ mad-samīpam sureśvaraḥ .. hari-brahma-ādayaḥ sarve brūta kāraṇam āśu tat .. 2.3.24.10 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः ॥ विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११ ॥
इति श्रुत्वा वचः शम्भोः सर्वे देवाः मुदा अन्विताः ॥ विष्णोः विलोकयामासुः मुखम् विज्ञप्ति-हेतवे ॥ ११ ॥
iti śrutvā vacaḥ śambhoḥ sarve devāḥ mudā anvitāḥ .. viṣṇoḥ vilokayāmāsuḥ mukham vijñapti-hetave .. 11 ..
अथ विष्णुर्महाभक्तो देवानां हितकारकः ॥ मदीरितमुवाचेदं सुरकार्यं महत्तरम् ॥ १२ ॥
अथ विष्णुः महा-भक्तः देवानाम् हित-कारकः ॥ मद्-ईरितम् उवाच इदम् सुर-कार्यम् महत्तरम् ॥ १२ ॥
atha viṣṇuḥ mahā-bhaktaḥ devānām hita-kārakaḥ .. mad-īritam uvāca idam sura-kāryam mahattaram .. 12 ..
तारकेण कृतं शंभो देवानां परमाद्भुतम् ॥ कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३ ॥
तारकेण कृतम् शंभो देवानाम् परम-अद्भुतम् ॥ कष्टात् कष्टतरम् देवाः विज्ञप्तुम् सर्वे आगताः ॥ १३ ॥
tārakeṇa kṛtam śaṃbho devānām parama-adbhutam .. kaṣṭāt kaṣṭataram devāḥ vijñaptum sarve āgatāḥ .. 13 ..
हे शंभो तव पुत्रेणौरसेन हि भविष्यति॥ निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४ ॥
हे शंभो तव पुत्रेण औरसेन हि भविष्यति॥ निहतः तारकः दैत्यः न अन्यथा मम भाषितम् ॥ १४ ॥
he śaṃbho tava putreṇa aurasena hi bhaviṣyati.. nihataḥ tārakaḥ daityaḥ na anyathā mama bhāṣitam .. 14 ..
विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ॥ देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५ ॥
विचार्य इत्थम् महादेव कृपाम् कुरु नमः अस्तु ते ॥ देवान् समुद्धर स्वामिन् कष्टात् तारक-निर्मितात् ॥ १५ ॥
vicārya ittham mahādeva kṛpām kuru namaḥ astu te .. devān samuddhara svāmin kaṣṭāt tāraka-nirmitāt .. 15 ..
तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ॥ पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व ॥ १६॥
तस्मात् त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ॥ पाणिग्रहेण एव महा-अनुभावाम् दत्ताम् गिरि-इन्द्रेण च ताम् कुरुष्व ॥ १६॥
tasmāt tvayā girijā deva śaṃbho grahītavyā pāṇinā dakṣiṇena .. pāṇigraheṇa eva mahā-anubhāvām dattām giri-indreṇa ca tām kuruṣva .. 16..
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ॥ दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥ १७ ॥
विष्णोः तत् वचनम् श्रुत्वा प्रसन्नः हि अब्रवीत् शिवः ॥ दर्शयन् सत्-गतिम् तेषाम् सर्वेषाम् योग-तत्परः ॥ १७ ॥
viṣṇoḥ tat vacanam śrutvā prasannaḥ hi abravīt śivaḥ .. darśayan sat-gatim teṣām sarveṣām yoga-tatparaḥ .. 17 ..
शिव उवाच ।।
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी ॥ तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा ॥ १८ ॥
यदा मे स्वीकृता देवी गिरिजा सर्व-सुंदरी ॥ तदा सर्वे सुर-इंद्राः च मुनयः ऋषयः तदा ॥ १८ ॥
yadā me svīkṛtā devī girijā sarva-suṃdarī .. tadā sarve sura-iṃdrāḥ ca munayaḥ ṛṣayaḥ tadā .. 18 ..
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ॥ जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम् ॥ १९ ॥
स कामाः च भविष्यन्ति न क्षमाः च परे पथि ॥ जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९ ॥
sa kāmāḥ ca bhaviṣyanti na kṣamāḥ ca pare pathi .. jīvayiṣyati durgā sā pāṇigrahaṇataḥ smaram .. 19 ..
मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये ॥ ।ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ 2.3.24.२० ॥
मदनः हि मया दग्धः सर्वेषाम् कार्य्य-सिद्धये ॥ ।ब्रह्मणः वचनात् विष्णो न अत्र कार्या विचारणा ॥ २।३।२४।२० ॥
madanaḥ hi mayā dagdhaḥ sarveṣām kāryya-siddhaye .. .brahmaṇaḥ vacanāt viṣṇo na atra kāryā vicāraṇā .. 2.3.24.20 ..
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ॥ सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि ॥ २१ ॥
एवम् विमृश्य मनसा कार्य-अकार्य-व्यवस्थितौ ॥ सुधीः सर्वैः च देव-इंद्र हठम् नो कर्तुम् अर्हसि ॥ २१ ॥
evam vimṛśya manasā kārya-akārya-vyavasthitau .. sudhīḥ sarvaiḥ ca deva-iṃdra haṭham no kartum arhasi .. 21 ..
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ॥ सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम् ॥ २२ ॥
दग्धे कामे मया विष्णो सुर-कार्यम् महत् कृतम् ॥ सर्वे तिष्ठन्तु निष्कामाः मया सह सु निश्चितम् ॥ २२ ॥
dagdhe kāme mayā viṣṇo sura-kāryam mahat kṛtam .. sarve tiṣṭhantu niṣkāmāḥ mayā saha su niścitam .. 22 ..
यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः ॥ तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३॥
यथा अहम् च सुराः सर्वे तथा यूयम् अयत्नतः ॥ तपः परम-संयुक्ताः करिष्यध्वम् सु दुष्करम् ॥ २३॥
yathā aham ca surāḥ sarve tathā yūyam ayatnataḥ .. tapaḥ parama-saṃyuktāḥ kariṣyadhvam su duṣkaram .. 23..
यूयं समाधिना तेन मदनेन विना सुराः ॥ परमानंदसंयुक्ता निर्विकारा भवंतु वै ॥ २४ ॥
यूयम् समाधिना तेन मदनेन विना सुराः ॥ परमानंद-संयुक्ताः निर्विकाराः भवंतु वै ॥ २४ ॥
yūyam samādhinā tena madanena vinā surāḥ .. paramānaṃda-saṃyuktāḥ nirvikārāḥ bhavaṃtu vai .. 24 ..
पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे ॥ महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५ ॥
पुरावृत्तम् स्मर-कृतम् विस्मृतम् यद्विधे हरे ॥ महा-इन्द्र मुनयः देवाः यत् तत् सर्वम् विमृश्यताम् ॥ २५ ॥
purāvṛttam smara-kṛtam vismṛtam yadvidhe hare .. mahā-indra munayaḥ devāḥ yat tat sarvam vimṛśyatām .. 25 ..
महाधनुर्धरेणैव मदनेन हठात्सुराः ॥ सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा ॥ २६ ॥
महा-धनुः-धरेण एव मदनेन हठात् सुराः ॥ सर्वेषाम् ध्यान-विध्वंसः कृतः तेन पुरा पुरा ॥ २६ ॥
mahā-dhanuḥ-dhareṇa eva madanena haṭhāt surāḥ .. sarveṣām dhyāna-vidhvaṃsaḥ kṛtaḥ tena purā purā .. 26 ..
कामो हि नरकायैव तस्मात् क्रोधोभिजायते ॥ क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः ॥ २७ ॥
कामः हि नरकाय एव तस्मात् क्रोधः अभिजायते ॥ क्रोधात् भवति संमोहः मोहात् च भ्रंशते तपः ॥ २७ ॥
kāmaḥ hi narakāya eva tasmāt krodhaḥ abhijāyate .. krodhāt bhavati saṃmohaḥ mohāt ca bhraṃśate tapaḥ .. 27 ..
कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः ॥ सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८॥
काम-क्रोधौ परित्याज्यौ भवद्भिः सुर-सत्तमैः ॥ सर्वैः एव च मंतव्यम् मद्-वाक्यम् न अन्यथा क्वचिद् ॥ २८॥
kāma-krodhau parityājyau bhavadbhiḥ sura-sattamaiḥ .. sarvaiḥ eva ca maṃtavyam mad-vākyam na anyathā kvacid .. 28..
।। ब्रह्मोवाच ।।
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ॥ सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम् ॥ २९ ॥
एवम् विश्राव्य भगवान् महादेवः वृषध्वजः ॥ सुरान् प्रवाचयामास विधि-विष्णू तथा मुनीम् ॥ २९ ॥
evam viśrāvya bhagavān mahādevaḥ vṛṣadhvajaḥ .. surān pravācayāmāsa vidhi-viṣṇū tathā munīm .. 29 ..
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ॥ आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ 2.3.24.३० ॥
तूष्णींभूतः अभवत् शंभुः ध्यानम् आश्रित्य वै पुनर् ॥ आस्ते पुरा यथा स्थाणुः गणैः च परिवारितः ॥ २।३।२४।३० ॥
tūṣṇīṃbhūtaḥ abhavat śaṃbhuḥ dhyānam āśritya vai punar .. āste purā yathā sthāṇuḥ gaṇaiḥ ca parivāritaḥ .. 2.3.24.30 ..
स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत् ॥ निरंजनं निराभासं निर्विकारं निरामयम् ॥ ३१ ॥
स्व-आत्मानम् आत्मना शंभुः आत्मनि एव व्यचिंतयत् ॥ निरंजनम् निराभासम् निर्विकारम् निरामयम् ॥ ३१ ॥
sva-ātmānam ātmanā śaṃbhuḥ ātmani eva vyaciṃtayat .. niraṃjanam nirābhāsam nirvikāram nirāmayam .. 31 ..
परात्परतरं नित्यं निर्ममं निरवग्रहम् ॥ शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२ ॥
परात्परतरम् नित्यम् निर्ममम् निरवग्रहम् ॥ शब्दातीतम् निर्गुणम् च ज्ञान-गम्यम् परात्परम् ॥ ३२ ॥
parātparataram nityam nirmamam niravagraham .. śabdātītam nirguṇam ca jñāna-gamyam parātparam .. 32 ..
एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः ॥ परमानंदसंमग्नो बभूव बहुसूतिकृत् ॥ ३३ ॥
एवम् स्व-रूपम् परमम् चिंतयन् ध्यानम् आस्थितः ॥ परम-आनंद-संमग्नः बभूव बहु-सूति-कृत् ॥ ३३ ॥
evam sva-rūpam paramam ciṃtayan dhyānam āsthitaḥ .. parama-ānaṃda-saṃmagnaḥ babhūva bahu-sūti-kṛt .. 33 ..
ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ॥ हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः ॥ ३४ ॥
ध्यान-स्थितम् च सर्व-ईशम् दृष्ट्वा सर्वे दिवौकसः ॥ हरि-शक्र-आदयः सर्वे नंदिनम् प्रोचुः आनताः ॥ ३४ ॥
dhyāna-sthitam ca sarva-īśam dṛṣṭvā sarve divaukasaḥ .. hari-śakra-ādayaḥ sarve naṃdinam procuḥ ānatāḥ .. 34 ..
।। देवा ऊचुः ।।
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ॥ शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः ॥ ३५ ॥
किम् वयम् करवाम अद्य विरक्तः ध्यानम् आस्थितः ॥ शंभुः त्वम् शंकर सखः सर्वज्ञः शुचि-सेवकः ॥ ३५ ॥
kim vayam karavāma adya viraktaḥ dhyānam āsthitaḥ .. śaṃbhuḥ tvam śaṃkara sakhaḥ sarvajñaḥ śuci-sevakaḥ .. 35 ..
केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ॥ तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ॥ ।३६॥
केन उपायेन गिरिशः प्रसन्नः स्यात् गणाधिप ॥ तद्-उपायम् समाचक्ष्व वयम् त्वद्-शरणम् गताः ॥ ॥ ।३६॥
kena upāyena giriśaḥ prasannaḥ syāt gaṇādhipa .. tad-upāyam samācakṣva vayam tvad-śaraṇam gatāḥ .. .. .36..
।। ब्रह्मोवाच ।!
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ॥ प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः ॥ ३७ ॥
इति विज्ञापितः देवैः मुने हर्ष-आदिभिः तदा ॥ प्रत्युवाच सुरान् तान् स नंदी शंभु-प्रियः गणः ॥ ३७ ॥
iti vijñāpitaḥ devaiḥ mune harṣa-ādibhiḥ tadā .. pratyuvāca surān tān sa naṃdī śaṃbhu-priyaḥ gaṇaḥ .. 37 ..
नंदीश्वर उवाच ।।
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ॥ शृणुध्वं वचनं मे हि शिवसंतोषकारकम् ॥ ३८ ॥
हे हरे हे विधे शक्र-निर्जराः मुनयः तथा ॥ शृणुध्वम् वचनम् मे हि शिव-संतोष-कारकम् ॥ ३८ ॥
he hare he vidhe śakra-nirjarāḥ munayaḥ tathā .. śṛṇudhvam vacanam me hi śiva-saṃtoṣa-kārakam .. 38 ..
यदि वो हठ एवाद्य शिव दारपरिग्रहे ॥ अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९ ॥
यदि वः हठे एवा अद्य शिव दार-परिग्रहे ॥ अति दीन-तया सर्वे सुनुतिम् कुरुत आदरात् ॥ ३९ ॥
yadi vaḥ haṭhe evā adya śiva dāra-parigrahe .. ati dīna-tayā sarve sunutim kuruta ādarāt .. 39 ..
भक्तेर्वश्यो महादेवो न साधारणतस्तुराः ॥ अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥ 2.3.24.४० ॥
भक्तेः वश्यः महादेवः न साधारणतः तुराः ॥ अकार्यम् अपि सत्-भक्त्या करोति परमेश्वरः ॥ २।३।२४।४० ॥
bhakteḥ vaśyaḥ mahādevaḥ na sādhāraṇataḥ turāḥ .. akāryam api sat-bhaktyā karoti parameśvaraḥ .. 2.3.24.40 ..
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ॥ यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१ ॥
एवम् कुरुत सर्वे हि विधि-विष्णु-मुखाः सुराः ॥ यथागतेन मार्गेण अन्यथा गच्छत मा चिरम् ॥ ४१ ॥
evam kuruta sarve hi vidhi-viṣṇu-mukhāḥ surāḥ .. yathāgatena mārgeṇa anyathā gacchata mā ciram .. 41 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः ॥ तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते ॥ ४२ ॥
इति आकर्ण्य वचः तस्य मुने विष्णु-आदयः सुराः ॥ तथा इति मत्त्वा सु प्रीत्या शंकरम् तुष्टुवुः हि ते ॥ ४२ ॥
iti ākarṇya vacaḥ tasya mune viṣṇu-ādayaḥ surāḥ .. tathā iti mattvā su prītyā śaṃkaram tuṣṭuvuḥ hi te .. 42 ..
देवदेव महादेव करुणासागर प्रभो ॥ समुद्धर महाक्लेशात्त्राहि नश्शरणागतान् ॥ ४३॥
देवदेव महादेव करुणा-सागर प्रभो ॥ समुद्धर महा-क्लेशात् त्राहि नः शरण-आगतान् ॥ ४३॥
devadeva mahādeva karuṇā-sāgara prabho .. samuddhara mahā-kleśāt trāhi naḥ śaraṇa-āgatān .. 43..
ब्रह्मोवाच ।।
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः ॥ रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः ॥ ४५॥
इति एवम् बहु-दीन-उक्त्या तुष्टुवुः शंकरम् सुराः ॥ रुरुदुः सु स्वरम् सर्वे प्रेम-व्याकुल-मानसः ॥ ४५॥
iti evam bahu-dīna-uktyā tuṣṭuvuḥ śaṃkaram surāḥ .. ruruduḥ su svaram sarve prema-vyākula-mānasaḥ .. 45..
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ॥ संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः ॥ ४५ ॥
हरिः मया सु दीन-उक्त्या सु विज्ञप्तम् चकार ह ॥ संस्मरन् मनसा शंभुम् भक्त्या परमया अन्वितः ॥ ४५ ॥
hariḥ mayā su dīna-uktyā su vijñaptam cakāra ha .. saṃsmaran manasā śaṃbhum bhaktyā paramayā anvitaḥ .. 45 ..
ब्रह्मोवाच ।।
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम् ॥ भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः ॥ ४६॥
सुरैः एवम् स्तुतः शंभुः हरिणा च मया भृशम् ॥ भक्त-वात्सल्यतः ध्यानात् विरतः भूत् महेश्वरः ॥ ४६॥
suraiḥ evam stutaḥ śaṃbhuḥ hariṇā ca mayā bhṛśam .. bhakta-vātsalyataḥ dhyānāt virataḥ bhūt maheśvaraḥ .. 46..
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ॥ विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः ॥ ४७॥
उवाच सु प्रसन्न-आत्मा हरि-आदीन् हर्षयन् हरः ॥ विलोक्य करुणा-दृष्ट्या शंकरः भक्त-वत्सलः ॥ ४७॥
uvāca su prasanna-ātmā hari-ādīn harṣayan haraḥ .. vilokya karuṇā-dṛṣṭyā śaṃkaraḥ bhakta-vatsalaḥ .. 47..
शंकर उवाच ।।
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे ॥ किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८ ॥
हे हरे हे विधे देवाः शक्र-आद्याः युगपद् समे ॥ किमर्थम् आगताः यूयम् सत्यम् ब्रूत मम अग्रतस् ॥ ४८ ॥
he hare he vidhe devāḥ śakra-ādyāḥ yugapad same .. kimartham āgatāḥ yūyam satyam brūta mama agratas .. 48 ..
हरिरुवाच ।।
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः ॥ किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९ ॥
सर्वज्ञः त्वम् महेशान त्वंतर्यामी अखिल-ईश्वरः ॥ किम् न जानासि चित्त-स्थम् तथा वच्मि अपि शासनात् ॥ ४९ ॥
sarvajñaḥ tvam maheśāna tvaṃtaryāmī akhila-īśvaraḥ .. kim na jānāsi citta-stham tathā vacmi api śāsanāt .. 49 ..
तारकासुरतो दुःखं संभूतं विविधं मृड ॥ सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ 2.3.24.५० ॥
तारक-असुरतः दुःखम् संभूतम् विविधम् मृड ॥ सर्वेषाम् नः तद्-अर्थम् हि प्रसन्नः अकारि वै सुरैः ॥ २।३।२४।५० ॥
tāraka-asurataḥ duḥkham saṃbhūtam vividham mṛḍa .. sarveṣām naḥ tad-artham hi prasannaḥ akāri vai suraiḥ .. 2.3.24.50 ..
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ॥ तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१ ॥
शिवा सा जनिता शैलात् त्वद्-अर्थम् हि हिमालयात् ॥ तस्याम् त्वद्-उद्भवात् पुत्रात् तस्य मृत्युः न च अन्यथा ॥ ५१ ॥
śivā sā janitā śailāt tvad-artham hi himālayāt .. tasyām tvad-udbhavāt putrāt tasya mṛtyuḥ na ca anyathā .. 51 ..
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ॥ तदन्यस्मादमृत्युस्स बाधते निखिलं जगत् ॥ ५२॥
इति दत्तः ब्रह्मणा हि तस्मै दैत्याय यद्-वरः ॥ तद्-अन्यस्मात् अमृत्युः स बाधते निखिलम् जगत् ॥ ५२॥
iti dattaḥ brahmaṇā hi tasmai daityāya yad-varaḥ .. tad-anyasmāt amṛtyuḥ sa bādhate nikhilam jagat .. 52..
नारदस्य निर्देशात्सा करोति कठिनं तपः ॥ तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३ ॥
नारदस्य निर्देशात् सा करोति कठिनम् तपः ॥ तद्-तेजसा अखिलम् व्याप्तम् त्रैलोक्यम् सचराचरम् ॥ ५३ ॥
nāradasya nirdeśāt sā karoti kaṭhinam tapaḥ .. tad-tejasā akhilam vyāptam trailokyam sacarācaram .. 53 ..
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ॥ देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४ ॥
वरम् दातुम् शिवायै हि गच्छ त्वम् परमेश्वर ॥ देव-दुःखम् जहि स्वामिन् अस्माकम् सुखम् आवह ॥ ५४ ॥
varam dātum śivāyai hi gaccha tvam parameśvara .. deva-duḥkham jahi svāmin asmākam sukham āvaha .. 54 ..
देवानां मे महोत्साहो हृदये चास्ति शंकर ॥ विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५ ॥
देवानाम् मे महा-उत्साहः हृदये च अस्ति शंकर ॥ विवाहम् तव संद्रष्टुम् तत् त्वम् कुरु यथोचितम् ॥ ५५ ॥
devānām me mahā-utsāhaḥ hṛdaye ca asti śaṃkara .. vivāham tava saṃdraṣṭum tat tvam kuru yathocitam .. 55 ..
रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ॥ प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६ ॥
रत्यै यत् भवता दत्तः वरः तस्य परात्पर ॥ प्राप्तः अवसरः एव आशु सफलम् स्व-पणम् कुरु ॥ ५६ ॥
ratyai yat bhavatā dattaḥ varaḥ tasya parātpara .. prāptaḥ avasaraḥ eva āśu saphalam sva-paṇam kuru .. 56 ..
ब्रह्मोवाच ।।
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ॥ संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः ॥ ५७॥
इति उक्त्वा तम् प्रणम्य एव विष्णुः देवाः महा-ऋषयः ॥ संस्तूय विविधैः स्तोत्रैः संतस्थुः तद्-पुरस् अखिलाः ॥ ५७॥
iti uktvā tam praṇamya eva viṣṇuḥ devāḥ mahā-ṛṣayaḥ .. saṃstūya vividhaiḥ stotraiḥ saṃtasthuḥ tad-puras akhilāḥ .. 57..
भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ॥ विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८ ॥
भक्त-अधीनः शंकरः अपि श्रुत्वा देव-वचः तदा ॥ विहस्य प्रत्युवाच आशु वेद-मर्याद-रक्षकः ॥ ५८ ॥
bhakta-adhīnaḥ śaṃkaraḥ api śrutvā deva-vacaḥ tadā .. vihasya pratyuvāca āśu veda-maryāda-rakṣakaḥ .. 58 ..
।। शंकर उवाच ।।
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः ॥ यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९॥
हे हरे हे विधे देवाः शृणुत आदरतः अखिलाः ॥ यथोचितम् अहम् वच्मि स विशेषम् विवेकतः ॥ ५९॥
he hare he vidhe devāḥ śṛṇuta ādarataḥ akhilāḥ .. yathocitam aham vacmi sa viśeṣam vivekataḥ .. 59..
नोचितं हि विधानं वै विवाहकरणं नृणाम् ॥ महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥ 2.3.24.६०।
न उचितम् हि विधानम् वै विवाह-करणम् नृणाम् ॥ महानिगड-संज्ञः हि विवाहः दृढ-बन्धनः ॥ २।३।२४।६०।
na ucitam hi vidhānam vai vivāha-karaṇam nṛṇām .. mahānigaḍa-saṃjñaḥ hi vivāhaḥ dṛḍha-bandhanaḥ .. 2.3.24.60.
कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः ॥ उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते ॥ ६१ ॥
कुसंगाः बहवः लोके स्त्री-संगः तत्र च अधिकः ॥ उद्धरेत् सकल-बंधैः न स्त्री-संगात् प्रमुच्यते ॥ ६१ ॥
kusaṃgāḥ bahavaḥ loke strī-saṃgaḥ tatra ca adhikaḥ .. uddharet sakala-baṃdhaiḥ na strī-saṃgāt pramucyate .. 61 ..
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ॥ स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन ॥ ६२ ॥
लोह-दारु-मयैः पाशैः दृढम् बद्धः अपि मुच्यते ॥ स्त्री-आदि-पाश-सु संबद्धः मुच्यते न कदाचन ॥ ६२ ॥
loha-dāru-mayaiḥ pāśaiḥ dṛḍham baddhaḥ api mucyate .. strī-ādi-pāśa-su saṃbaddhaḥ mucyate na kadācana .. 62 ..
वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः ॥ विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३ ॥
वर्द्धंते विषयाः शश्वत् महाबंधन-कारिणः ॥ विषय-आक्रांत-मनसः स्वप्ने मोक्षः अपि दुर्लभः ॥ ६३ ॥
varddhaṃte viṣayāḥ śaśvat mahābaṃdhana-kāriṇaḥ .. viṣaya-ākrāṃta-manasaḥ svapne mokṣaḥ api durlabhaḥ .. 63 ..
सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ॥ विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४ ॥
सुखम् इच्छतु चेद् प्राज्ञः विधिवत् विषयान् त्यजेत् ॥ विष-वत् विषयान् आहुः विषयैः यैः निहन्यते ॥ ६४ ॥
sukham icchatu ced prājñaḥ vidhivat viṣayān tyajet .. viṣa-vat viṣayān āhuḥ viṣayaiḥ yaiḥ nihanyate .. 64 ..
जनो विषयिणा साकं वार्तातः पतति क्षणात् ॥ विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम् ॥ ६५ ॥
जनः विषयिणा साकम् वार्तातः पतति क्षणात् ॥ विषयम् प्राहुः आचार्याः सितालित-इन्द्रवारुणीम् ॥ ६५ ॥
janaḥ viṣayiṇā sākam vārtātaḥ patati kṣaṇāt .. viṣayam prāhuḥ ācāryāḥ sitālita-indravāruṇīm .. 65 ..
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ॥ तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६॥
यदि अपि एवम् हि जानामि सर्वम् ज्ञानम् विशेषतः ॥ तथा अपि अहम् करिष्यामि प्रार्थनाम् सफलाम् च वः ॥ ६६॥
yadi api evam hi jānāmi sarvam jñānam viśeṣataḥ .. tathā api aham kariṣyāmi prārthanām saphalām ca vaḥ .. 66..
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ॥ अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७ ॥
भक्त-अधीनः अहम् एव अस्मि तद्-वशात् सर्व-कार्य-कृत् ॥ अयथा उचित-कर्ता हि प्रसिद्धः भुवनत्रये ॥ ६७ ॥
bhakta-adhīnaḥ aham eva asmi tad-vaśāt sarva-kārya-kṛt .. ayathā ucita-kartā hi prasiddhaḥ bhuvanatraye .. 67 ..
कामरूपाधिपस्यैव पणश्च सफलः कृतः ॥ सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि । ६८ ॥
कामरूप-अधिपस्य एव पणः च सफलः कृतः ॥ सुदक्षिणस्य भूपस्य भैमबंध-गतस्य हि । ६८ ॥
kāmarūpa-adhipasya eva paṇaḥ ca saphalaḥ kṛtaḥ .. sudakṣiṇasya bhūpasya bhaimabaṃdha-gatasya hi . 68 ..
गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ॥ तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९॥
गौतम-क्लेश-कर्ता अहम् त्र्यंबक-आत्मा सुख-आवहः ॥ तद्-कष्ट-प्रद-दुष्टानाम् शाप-दायी विशेषतः ॥ ६९॥
gautama-kleśa-kartā aham tryaṃbaka-ātmā sukha-āvahaḥ .. tad-kaṣṭa-prada-duṣṭānām śāpa-dāyī viśeṣataḥ .. 69..
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ॥ देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ 2.3.24.७०॥
विषम् पीतम् सुर-अर्थम् हि भक्त-वत्सल-भावधृक् ॥ देव-कष्टम् हृतम् यत्नात् सर्वदा एव मया सुराः ॥ २।३।२४।७०॥
viṣam pītam sura-artham hi bhakta-vatsala-bhāvadhṛk .. deva-kaṣṭam hṛtam yatnāt sarvadā eva mayā surāḥ .. 2.3.24.70..
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ॥ विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१॥
भक्त-अर्थम् असहम् कष्टम् बहुशस् बहु-यत्नतः ॥ विश्वानर मुनेः दुःखम् हृतम् गृहपतिः भवन् ॥ ७१॥
bhakta-artham asaham kaṣṭam bahuśas bahu-yatnataḥ .. viśvānara muneḥ duḥkham hṛtam gṛhapatiḥ bhavan .. 71..
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ॥ मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः॥ ७२॥
किम् बहु-उक्तेन च हरे विधे सत्यम् ब्रवीमि अहम् ॥ मद्-पणः अस्ति इति यूयम् वै सर्वे जानीथ तत्त्वतः॥ ७२॥
kim bahu-uktena ca hare vidhe satyam bravīmi aham .. mad-paṇaḥ asti iti yūyam vai sarve jānītha tattvataḥ.. 72..
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ॥ तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा ॥ ७३ ॥
यदा यदा विपत्तिः हि भक्तानाम् भवति क्वचिद् ॥ तदा तदा हरमि आशु तद्-क्षणात् सर्वशस् सदा ॥ ७३ ॥
yadā yadā vipattiḥ hi bhaktānām bhavati kvacid .. tadā tadā harami āśu tad-kṣaṇāt sarvaśas sadā .. 73 ..
जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम्॥ असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम् ॥ ७४॥
जाने अहम् तारकात् दुःखम् सर्वेषाम् वः समुत्थितम्॥ असुराः तत् हरिष्यामि सत्यम् सत्यम् वदामि अहम् ॥ ७४॥
jāne aham tārakāt duḥkham sarveṣām vaḥ samutthitam.. asurāḥ tat hariṣyāmi satyam satyam vadāmi aham .. 74..
नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ॥ विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे ॥ ७५ ॥
न अस्ति यदि अपि मे काचिद् विहार-करणे रुचिः ॥ विवाहयिष्ये गिरिजा पुत्र-उत्पादन-हेतवे ॥ ७५ ॥
na asti yadi api me kācid vihāra-karaṇe ruciḥ .. vivāhayiṣye girijā putra-utpādana-hetave .. 75 ..
गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः ॥ कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा ॥ ७६ ॥
गच्छत स्व-गृहाणि एव निर्भयाः सकलाः सुराः ॥ कार्यम् वः साधयिष्यामि न अत्र कार्या विचारणा ॥ ७६ ॥
gacchata sva-gṛhāṇi eva nirbhayāḥ sakalāḥ surāḥ .. kāryam vaḥ sādhayiṣyāmi na atra kāryā vicāraṇā .. 76 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ॥ सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने॥ ७७॥
इति उक्त्वा मौनम् आस्थाय समाधि-स्थः अभवत् हरः ॥ सर्वे विष्णु-आदयः देवाः स्व-धामानि ययुः मुने॥ ७७॥
iti uktvā maunam āsthāya samādhi-sthaḥ abhavat haraḥ .. sarve viṣṇu-ādayaḥ devāḥ sva-dhāmāni yayuḥ mune.. 77..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ॥ २४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारः नाम चतुर्विशः अध्यायः ॥ २४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatīvivāhasvīkāraḥ nāma caturviśaḥ adhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In