| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च ॥ सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम्॥ १॥
गतेषु तेषु देवेषु विधि विष्णु-आदिकेषु च ॥ सर्वेषु मुनिषु प्रीत्या किम् बभूव ततस् परम्॥ १॥
gateṣu teṣu deveṣu vidhi viṣṇu-ādikeṣu ca .. sarveṣu muniṣu prītyā kim babhūva tatas param.. 1..
किं कृतं शंभुना तात वरं दातुंसमागतः ॥ कियत्कालेन च कथं तद्वद प्रीतिमावहन् ॥ २॥
किम् कृतम् शंभुना तात वरम् दातुंसमागतः ॥ कियत्-कालेन च कथम् तत् वद प्रीतिम् आवहन् ॥ २॥
kim kṛtam śaṃbhunā tāta varam dātuṃsamāgataḥ .. kiyat-kālena ca katham tat vada prītim āvahan .. 2..
।। ब्रह्मोवाच ।।
गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् ॥ तत्तपस्सु परीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३॥
गतेषु तेषु देवेषु ब्रह्म-आदिषु निज-आश्रमम् ॥ तद्-तपस्सु परीक्षा-अर्थम् समाधि-स्थः अभवत् भवः ॥ ३॥
gateṣu teṣu deveṣu brahma-ādiṣu nija-āśramam .. tad-tapassu parīkṣā-artham samādhi-sthaḥ abhavat bhavaḥ .. 3..
स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिंतयत् ॥ परात्परतरं स्वस्थं निर्माय निरवग्रहम् ॥ ४॥
स्व-आत्मानम् आत्मना कृत्वा स्व-आत्मनि एव व्यचिंतयत् ॥ परात्परतरम् स्वस्थम् निर्माय निरवग्रहम् ॥ ४॥
sva-ātmānam ātmanā kṛtvā sva-ātmani eva vyaciṃtayat .. parātparataram svastham nirmāya niravagraham .. 4..
तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः ॥ अविज्ञातगतिस्सूतिस्स हरः परमेश्वरः ॥ ५ ॥
तद्-वस्तु-भूतः भगवान् ईश्वरः वृषभध्वजः ॥ अ विज्ञात-गतिः सूतिः स हरः परमेश्वरः ॥ ५ ॥
tad-vastu-bhūtaḥ bhagavān īśvaraḥ vṛṣabhadhvajaḥ .. a vijñāta-gatiḥ sūtiḥ sa haraḥ parameśvaraḥ .. 5 ..
ब्रह्मोवाच ।।
गिरिजा हि तदा तात तताप परमं तपः॥ तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६॥
गिरिजा हि तदा तात तताप परमम् तपः॥ तपसा तेन रुद्रः अपि परम् विस्मयम् आगतः ॥ ६॥
girijā hi tadā tāta tatāpa paramam tapaḥ.. tapasā tena rudraḥ api param vismayam āgataḥ .. 6..
समाधेश्चलितस्सोऽभूद्भक्ताधीनोऽपि नान्यथा ॥ वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७॥
समाधेः चलितः सः अभूत् भक्त-अधीनः अपि ना अन्यथा ॥ वसिष्ठ-आदीन् मुनीन् सप्त सस्मार सूतिकृत् हरः ॥ ७॥
samādheḥ calitaḥ saḥ abhūt bhakta-adhīnaḥ api nā anyathā .. vasiṣṭha-ādīn munīn sapta sasmāra sūtikṛt haraḥ .. 7..
सप्तापि मुनयश्शीघ्रमाययुस्स्मृति मात्रतः ॥ प्रसन्नवदनाः सर्वे वर्णयंतो विधिं बहु ॥ ८॥
सप्त अपि मुनयः शीघ्रम् आययुः स्मृति मात्रतः ॥ प्रसन्न-वदनाः सर्वे वर्णयंतः विधिम् बहु ॥ ८॥
sapta api munayaḥ śīghram āyayuḥ smṛti mātrataḥ .. prasanna-vadanāḥ sarve varṇayaṃtaḥ vidhim bahu .. 8..
प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः ॥ वाण्या गद्गदया बद्धकरा विनतकंधराः ॥ ९॥ ॥
प्रणम्य तम् महेशानम् तुष्टुवुः हर्ष-निर्भराः ॥ वाण्या गद्गदया बद्ध-कराः विनत-कंधराः ॥ ९॥ ॥
praṇamya tam maheśānam tuṣṭuvuḥ harṣa-nirbharāḥ .. vāṇyā gadgadayā baddha-karāḥ vinata-kaṃdharāḥ .. 9.. ..
सप्तर्षय ऊचुः ।।
देवदेव महादेव करुणासागर प्रभो ॥ जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ 2.3.25.१० ॥
देवदेव महादेव करुणा-सागर प्रभो ॥ जाताः वयम् सु धन्याः हि त्वया यत् अधुना स्मृताः ॥ २।३।२५।१० ॥
devadeva mahādeva karuṇā-sāgara prabho .. jātāḥ vayam su dhanyāḥ hi tvayā yat adhunā smṛtāḥ .. 2.3.25.10 ..
किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः ॥ स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११॥
किमर्थम् संस्मृताः वा अथ शासनम् देहि तत् हि नः ॥ स्व-दास-सदृशीम् स्वामिन् कृपाम् कुरु नमः अस्तु ते ॥ ११॥
kimartham saṃsmṛtāḥ vā atha śāsanam dehi tat hi naḥ .. sva-dāsa-sadṛśīm svāmin kṛpām kuru namaḥ astu te .. 11..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः ॥ प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२ ॥
इति आकर्ण्य तु विज्ञप्तिम् करुणा-निधिः ॥ प्रोवाच विहसन् प्रीत्या प्रोत्फुल्ल-नयन-अम्बुजः ॥ १२ ॥
iti ākarṇya tu vijñaptim karuṇā-nidhiḥ .. provāca vihasan prītyā protphulla-nayana-ambujaḥ .. 12 ..
।। महेश्वर उवाच ।।
हे सप्तमुनयस्ताताश्शृणुतारं वचो मम ॥ अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३ ॥
हे सप्त-मुनयः ताताः शृणुतारम् वचः मम ॥ अस्मद्-हित-कराः यूयम् सर्व-ज्ञान-विचक्षणाः ॥ १३ ॥
he sapta-munayaḥ tātāḥ śṛṇutāram vacaḥ mama .. asmad-hita-karāḥ yūyam sarva-jñāna-vicakṣaṇāḥ .. 13 ..
तपश्चरति देवेशी पार्वती गिरिजाऽधुना ॥ गौरीशिखरसंज्ञे हि पार्वते दृढमानसा ॥ १४॥
तपः चरति देवेशी पार्वती गिरिजा अधुना ॥ गौरीशिखर-संज्ञे हि पार्वते दृढ-मानसा ॥ १४॥
tapaḥ carati deveśī pārvatī girijā adhunā .. gaurīśikhara-saṃjñe hi pārvate dṛḍha-mānasā .. 14..
मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः ॥ सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५ ॥
माम् पतिम् प्राप्तु-कामा हि सा सखी-सेविता द्विजाः ॥ सर्वान् कामान् विहाय अन्यान् परम् निश्चयम् आगता ॥ १५ ॥
mām patim prāptu-kāmā hi sā sakhī-sevitā dvijāḥ .. sarvān kāmān vihāya anyān param niścayam āgatā .. 15 ..
तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः॥ परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः॥ १६॥
तत्र गच्छत यूयम् मद्-शासनात् मुनि-सत्तमाः॥ परीक्षाम् दृढ-तायाः तत् कुरुत प्रेम-चेतसः॥ १६॥
tatra gacchata yūyam mad-śāsanāt muni-sattamāḥ.. parīkṣām dṛḍha-tāyāḥ tat kuruta prema-cetasaḥ.. 16..
सर्वथा छलसंयुक्तं वचनीयं वचश्च वः ॥ न संशयः प्रकर्तव्यश्शासनान्मम सुव्रताः ॥ १७ ॥
सर्वथा छल-संयुक्तम् वचनीयम् वचः च वः ॥ न संशयः प्रकर्तव्यः शासनात् मम सुव्रताः ॥ १७ ॥
sarvathā chala-saṃyuktam vacanīyam vacaḥ ca vaḥ .. na saṃśayaḥ prakartavyaḥ śāsanāt mama suvratāḥ .. 17 ..
।।ब्रह्मोवाच ।।
इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते ॥ यत्र राजति सा दीप्ता जगन्माता नगात्मजा॥ १८॥
इति आज्ञप्ताः च मुनयः जग्मुः तत्र द्रुतम् हि ते ॥ यत्र राजति सा दीप्ता जगन्माता नग-आत्मजा॥ १८॥
iti ājñaptāḥ ca munayaḥ jagmuḥ tatra drutam hi te .. yatra rājati sā dīptā jaganmātā naga-ātmajā.. 18..
तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा॥ मूर्ता परमतेजस्का विलसंती सुतेजसा ॥ १९॥
तत्र दृष्ट्वा शिवा साक्षात् तपः-सिद्धिः इव अपरा॥ मूर्ता परम-तेजस्का विलसन्ती सु तेजसा ॥ १९॥
tatra dṛṣṭvā śivā sākṣāt tapaḥ-siddhiḥ iva aparā.. mūrtā parama-tejaskā vilasantī su tejasā .. 19..
हृदा प्रणम्य तां ते तु ऋषयस्सप्त सुव्रताः॥ सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः॥ ।2.3.25.२०॥
हृदा प्रणम्य ताम् ते तु ऋषयः सप्त सुव्रताः॥ सन्नताः वचनम् प्रोचुः पूजिताः च विशेषतः॥ ।२।३।२५।२०॥
hṛdā praṇamya tām te tu ṛṣayaḥ sapta suvratāḥ.. sannatāḥ vacanam procuḥ pūjitāḥ ca viśeṣataḥ.. .2.3.25.20..
।। ऋषय ऊचुः ।।
शृणु शैलसुते देवी किमर्थं तप्यते तपः ॥ इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१॥
शृणु शैलसुते देवी किमर्थम् तप्यते तपः ॥ इच्छसि त्वम् सुरम् कम् च किम् फलम् तत् वद अधुना ॥ २१॥
śṛṇu śailasute devī kimartham tapyate tapaḥ .. icchasi tvam suram kam ca kim phalam tat vada adhunā .. 21..
ब्रह्मोवाच ।।
इत्युक्ता सा शिवा देवी गिरींद्रतनया द्विजैः ॥ प्रत्युवाच वचस्सत्यं सुगूढमपि तत्पुरः ॥ २२ ॥
इति उक्ता सा शिवा देवी गिरींद्र-तनया द्विजैः ॥ प्रत्युवाच वचः सत्यम् सु गूढम् अपि तत् पुरस् ॥ २२ ॥
iti uktā sā śivā devī girīṃdra-tanayā dvijaiḥ .. pratyuvāca vacaḥ satyam su gūḍham api tat puras .. 22 ..
।। पार्वत्युवाच ।।
मुनीश्वरास्संशृणुत मद्वाक्यं प्रीतितो हृदा ॥ ब्रवीमि स्वविचारं वै चिंतितो यो धिया स्वया ॥ २३ ॥
मुनि-ईश्वराः संशृणुत मद्-वाक्यम् प्रीतितः हृदा ॥ ब्रवीमि स्व-विचारम् वै चिंतितः यः धिया स्वया ॥ २३ ॥
muni-īśvarāḥ saṃśṛṇuta mad-vākyam prītitaḥ hṛdā .. bravīmi sva-vicāram vai ciṃtitaḥ yaḥ dhiyā svayā .. 23 ..
करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसंभवाः ॥ संकोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४ ॥
करिष्यथ प्रहासम् मे श्रुत्वा वाचः हि असंभवाः ॥ संकोचः वर्णनात् विप्राः भवति एव करोमि किम् ॥ २४ ॥
kariṣyatha prahāsam me śrutvā vācaḥ hi asaṃbhavāḥ .. saṃkocaḥ varṇanāt viprāḥ bhavati eva karomi kim .. 24 ..
इदं मनो हि सुदृढमवशं परकर्मकृत् ॥ जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५ ॥
इदम् मनः हि सु दृढम् अवशम् पर-कर्म-कृत् ॥ जल-उपरि महा-भित्तिम् चिकीर्षति महा-उन्नताम् ॥ २५ ॥
idam manaḥ hi su dṛḍham avaśam para-karma-kṛt .. jala-upari mahā-bhittim cikīrṣati mahā-unnatām .. 25 ..
सुरर्षेश्शासनं प्राप्य करोमि सुदृढं तपः ॥ रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६ ॥
सुर-ऋषेः शासनम् प्राप्य करोमि सु दृढम् तपः ॥ रुद्रः पतिः भवेत् मे हि विधाय इति मनोरथम् ॥ २६ ॥
sura-ṛṣeḥ śāsanam prāpya karomi su dṛḍham tapaḥ .. rudraḥ patiḥ bhavet me hi vidhāya iti manoratham .. 26 ..
अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ॥ तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ॥ २७ ॥
अपक्षः मन्मनः पक्षी व्योम्नि उड्डीयते हठात् ॥ तद्-आशाम् शंकरस्वामी पिपर्त्तु करुणा-निधिः ॥ २७ ॥
apakṣaḥ manmanaḥ pakṣī vyomni uḍḍīyate haṭhāt .. tad-āśām śaṃkarasvāmī piparttu karuṇā-nidhiḥ .. 27 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते ॥ संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८॥
इति आकर्ण्य वचः तस्याः विहस्य मुनयः च ते ॥ संमान्य गिरिजाम् प्रीत्या प्रोचुः छल-वचः मृषा ॥ २८॥
iti ākarṇya vacaḥ tasyāḥ vihasya munayaḥ ca te .. saṃmānya girijām prītyā procuḥ chala-vacaḥ mṛṣā .. 28..
ऋषय ऊचुः ।।
न ज्ञातं तस्य चरितं वृथापण्डितमानिनः ॥ देवर्षेः कूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९॥
न ज्ञातम् तस्य चरितम् वृथा पण्डित-मानिनः ॥ देवर्षेः कूर-मनसः सु ज्ञाः भूत्वा अपि अगात् आत्मजे ॥ २९॥
na jñātam tasya caritam vṛthā paṇḍita-māninaḥ .. devarṣeḥ kūra-manasaḥ su jñāḥ bhūtvā api agāt ātmaje .. 29..
नारदः कूटवादी च परचित्तप्रमंथकः ॥ तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ॥ 2.3.25.३० ॥
च ॥ तस्य वार्त्ता-श्रवणतः हानिः भवति सर्वथा ॥ २।३।२५।३० ॥
ca .. tasya vārttā-śravaṇataḥ hāniḥ bhavati sarvathā .. 2.3.25.30 ..
तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम् ॥ क्रमात्त्वां बोधयंतो हि प्रीत्या तमुपधारय ॥ ३१ ॥
तत्र त्वम् शृणु सत्-बुध्या च इतिहासम् सु शोभितम् ॥ क्रमात् त्वाम् बोधयंतः हि प्रीत्या तम् उपधारय ॥ ३१ ॥
tatra tvam śṛṇu sat-budhyā ca itihāsam su śobhitam .. kramāt tvām bodhayaṃtaḥ hi prītyā tam upadhāraya .. 31 ..
ब्रह्मपुत्रो हि यो दक्षस्सुषुवे पितुराज्ञया ॥ स्वपत्न्यामयुतं पुत्रानयुंक्त तपसि प्रियान् ॥ ३२ ॥
ब्रह्म-पुत्रः हि यः दक्षः सुषुवे पितुः आज्ञया ॥ स्व-पत्न्याम् अयुतम् पुत्रान् अयुंक्त तपसि प्रियान् ॥ ३२ ॥
brahma-putraḥ hi yaḥ dakṣaḥ suṣuve pituḥ ājñayā .. sva-patnyām ayutam putrān ayuṃkta tapasi priyān .. 32 ..
ते सुताः पश्चिमां दिशि नारायणसरो गताः ॥ तपोर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३ ॥
ते सुताः पश्चिमाम् दिशि नारायण-सरः गताः ॥ तपः-र्थे ते प्रतिज्ञाय नारदः तत्र वै ययौ ॥ ३३ ॥
te sutāḥ paścimām diśi nārāyaṇa-saraḥ gatāḥ .. tapaḥ-rthe te pratijñāya nāradaḥ tatra vai yayau .. 33 ..
कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः ॥ तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४ ॥
कूट-उपदेशम् आश्राव्य तत्र तान् नारदः मुनिः ॥ तद्-आज्ञया च ते सर्वे पितुः न गृहम् आययुः ॥ ३४ ॥
kūṭa-upadeśam āśrāvya tatra tān nāradaḥ muniḥ .. tad-ājñayā ca te sarve pituḥ na gṛham āyayuḥ .. 34 ..
तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः ॥ उत्पाद्य पुत्रान्प्रायुंक्त सहस्रप्रमितांस्ततः ॥ ३५ ॥
तत् श्रुत्वा कुपितः दक्षः पित्रा आश्वासित-मानसः ॥ उत्पाद्य पुत्रान् प्रायुंक्त सहस्र-प्रमितान् ततस् ॥ ३५ ॥
tat śrutvā kupitaḥ dakṣaḥ pitrā āśvāsita-mānasaḥ .. utpādya putrān prāyuṃkta sahasra-pramitān tatas .. 35 ..
तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया ॥ नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६ ॥
ते अपि तत्र गताः पुत्राः तपः-र्थम् पितुः आज्ञया ॥ नारदः अपि ययौ तत्र पुनर् तद्-स्व-उपदेश-कृत् ॥ ३६ ॥
te api tatra gatāḥ putrāḥ tapaḥ-rtham pituḥ ājñayā .. nāradaḥ api yayau tatra punar tad-sva-upadeśa-kṛt .. 36 ..
ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः ॥ आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७॥
ददौ तद्-उपदेशम् ते तेभ्यः भ्रातृ-पथम् ययुः ॥ आययुः न पितुः गेहम् भिक्षु-वृत्ति-रताः च ते ॥ ३७॥
dadau tad-upadeśam te tebhyaḥ bhrātṛ-patham yayuḥ .. āyayuḥ na pituḥ geham bhikṣu-vṛtti-ratāḥ ca te .. 37..
इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके ॥ अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८ ॥
इत्थम् नारद-सत्-वृत्तिः विश्रुत्ता शैलकन्यके ॥ अन्याम् शृणु हि तद्-वृत्तिम् वैराग्य-करणीम् नृणाम् ॥ ३८ ॥
ittham nārada-sat-vṛttiḥ viśruttā śailakanyake .. anyām śṛṇu hi tad-vṛttim vairāgya-karaṇīm nṛṇām .. 38 ..
विद्याधरश्चित्रकेतुर्यो बभूव पुराकरोत् ॥ स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥ ३९ ॥
विद्याधरः चित्रकेतुः यः बभूव पुरा अकरोत् ॥ स्व-उपदेश-मयम् दत्त्वा तस्मै शून्यम् च तद्-गृहम् ॥ ३९ ॥
vidyādharaḥ citraketuḥ yaḥ babhūva purā akarot .. sva-upadeśa-mayam dattvā tasmai śūnyam ca tad-gṛham .. 39 ..
प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् ॥ दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ॥ 2.3.25.४० ॥
प्रह्लादाय स्व-उपदेशान् हिरण्यकशिपोः परम् ॥ दत्त्वा दुखम् ददौ च अयम् पर-बुद्धि-प्रभेदकः ॥ २।३।२५।४० ॥
prahlādāya sva-upadeśān hiraṇyakaśipoḥ param .. dattvā dukham dadau ca ayam para-buddhi-prabhedakaḥ .. 2.3.25.40 ..
मुनिना निजविद्या यच्छ्राविता कर्णरोचना ॥ स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१॥
मुनिना निज-विद्या यत् श्राविता कर्णरोचना ॥ स स्व-गेहम् विहाय आशु भिक्षाम् चरति प्रायशस् ॥ ४१॥
muninā nija-vidyā yat śrāvitā karṇarocanā .. sa sva-geham vihāya āśu bhikṣām carati prāyaśas .. 41..
नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् ॥ जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२ ॥
नारदः मलिन-आत्मा हि सर्व-दः ज्ज्वल-देहवान् ॥ जानीमः तम् विशेषेण वयम् तद्-सहवासिनः ॥ ४२ ॥
nāradaḥ malina-ātmā hi sarva-daḥ jjvala-dehavān .. jānīmaḥ tam viśeṣeṇa vayam tad-sahavāsinaḥ .. 42 ..
बकं साधुं वर्णयंति न मत्स्यानत्ति सर्वथा ॥ सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३॥
बकम् साधुम् वर्णयन्ति न मत्स्य-अनत्ति सर्वथा ॥ सहवासी विजानीयात् चरित्रम् सहवासिनाम् ॥ ४३॥
bakam sādhum varṇayanti na matsya-anatti sarvathā .. sahavāsī vijānīyāt caritram sahavāsinām .. 43..
लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता ॥ वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ॥ ४४॥
लब्ध्वा तद्-उपदेशम् हि त्वम् अपि प्राज्ञ-संमता ॥ वृथा एव मूर्खीभूता तु तपः चरसि दुष्करम् ॥ ४४॥
labdhvā tad-upadeśam hi tvam api prājña-saṃmatā .. vṛthā eva mūrkhībhūtā tu tapaḥ carasi duṣkaram .. 44..
यदर्थमीदृशं बाले करोषि विपुलं तपः ॥ सदोदासी निर्विकारो मदनारिर्नसंशयः ॥ ४५॥
यद्-अर्थम् ईदृशम् बाले करोषि विपुलम् तपः ॥ सदा उदासी निर्विकारः मदनारिः न संशयः ॥ ४५॥
yad-artham īdṛśam bāle karoṣi vipulam tapaḥ .. sadā udāsī nirvikāraḥ madanāriḥ na saṃśayaḥ .. 45..
अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली ॥ कुवेषी प्रेतभूतादिसंगी नग्नौ हि शूलभृत् ॥ ४६॥
अमंगल-वपुः-धारी निर्लज्जः असदनः अकुली ॥ कु वेषी प्रेत-भूत-आदि-संगी नग्नौ हि शूलभृत् ॥ ४६॥
amaṃgala-vapuḥ-dhārī nirlajjaḥ asadanaḥ akulī .. ku veṣī preta-bhūta-ādi-saṃgī nagnau hi śūlabhṛt .. 46..
स धूर्तस्तव विज्ञानं विनाश्य निजमायया ॥ मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७॥
स धूर्तः तव विज्ञानम् विनाश्य निज-मायया ॥ मोहयामास सत्-युक्त्या कारयामास वै तपः ॥ ४७॥
sa dhūrtaḥ tava vijñānam vināśya nija-māyayā .. mohayāmāsa sat-yuktyā kārayāmāsa vai tapaḥ .. 47..
ईदृशं हि वरं लब्ध्वा किं सुखं संभविष्यति ॥ विचारं कुरु देवेशि त्वमेव गिरिजात्मजे॥ ४६॥
ईदृशम् हि वरम् लब्ध्वा किम् सुखम् संभविष्यति ॥ विचारम् कुरु देवेशि त्वम् एव गिरिजात्मजे॥ ४६॥
īdṛśam hi varam labdhvā kim sukham saṃbhaviṣyati .. vicāram kuru deveśi tvam eva girijātmaje.. 46..
प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् ॥ निर्वाहं कृतवान्नैव मूढः किंचिद्दिनानि हि ॥ ४९॥
प्रथमम् दक्ष-जाम् साध्वी विवाह्य सुधिया सतीम् ॥ निर्वाहम् कृतवान् ना एव मूढः किंचिद् दिनानि हि ॥ ४९॥
prathamam dakṣa-jām sādhvī vivāhya sudhiyā satīm .. nirvāham kṛtavān nā eva mūḍhaḥ kiṃcid dināni hi .. 49..
तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः ॥ ध्यायन्स्वरूप मकलमशोकमरमत्सुखी ॥ 2.3.25.५०॥
ताम् तथा एव स वै दोषम् दत्त्वा अत्याक्षीत् स्वयम् प्रभुः ॥ ध्यायन् स्व-रूप मकलम् अशोकम् अरमत् सुखी ॥ २।३।२५।५०॥
tām tathā eva sa vai doṣam dattvā atyākṣīt svayam prabhuḥ .. dhyāyan sva-rūpa makalam aśokam aramat sukhī .. 2.3.25.50..
एकलः परनिर्वाणो ह्यसंगोऽद्वय एव च ॥ तेन नार्याः कथं देवि निर्वाहः संभविष्यति ॥ ५१ ॥
एकलः पर-निर्वाणः हि असंगः अद्वयः एव च ॥ तेन नार्याः कथम् देवि निर्वाहः संभविष्यति ॥ ५१ ॥
ekalaḥ para-nirvāṇaḥ hi asaṃgaḥ advayaḥ eva ca .. tena nāryāḥ katham devi nirvāhaḥ saṃbhaviṣyati .. 51 ..
अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् ॥ त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२॥
अद्या अपि शासनम् प्राप्य गृहम् आयाहि दुर्मतिम् ॥ त्यज अस्माकम् महाभागे भविष्यति च शम् तव ॥ ५२॥
adyā api śāsanam prāpya gṛham āyāhi durmatim .. tyaja asmākam mahābhāge bhaviṣyati ca śam tava .. 52..
त्वद्योग्यो हि वरो विष्णुस्सर्वसद्गुणवान्प्रभुः ॥ वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३ ॥
त्वद्-योग्यः हि वरः विष्णुः सर्व-सत्-गुणवान् प्रभुः ॥ ॥ ५३ ॥
tvad-yogyaḥ hi varaḥ viṣṇuḥ sarva-sat-guṇavān prabhuḥ .. .. 53 ..
तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् ॥ इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४ ॥
तेन ते कारयिष्यामः विवाहम् सर्व-सौख्य-दम् ॥ इति ईदृशम् त्यज हठम् सुखिता भव पार्वति ॥ ५४ ॥
tena te kārayiṣyāmaḥ vivāham sarva-saukhya-dam .. iti īdṛśam tyaja haṭham sukhitā bhava pārvati .. 54 ..
ब्रह्मोवाच ।।
इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका ॥ विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ॥ ५५॥
इत्या इदम् वचनम् श्रुत्वा पार्वती जगदम्बिका ॥ विहस्य च पुनर् प्राह मुनीन् ज्ञान-विशारदान् ॥ ५५॥
ityā idam vacanam śrutvā pārvatī jagadambikā .. vihasya ca punar prāha munīn jñāna-viśāradān .. 55..
पार्वत्युवाच ।।
सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः ॥ परंतु मे हठो नैव मुक्तो भवति वै द्विजाः ॥ ५६॥
सत्यम् भवद्भिः कथितम् स्व-ज्ञानेन मुनि-ईश्वराः ॥ परंतु मे हठः ना एव मुक्तः भवति वै द्विजाः ॥ ५६॥
satyam bhavadbhiḥ kathitam sva-jñānena muni-īśvarāḥ .. paraṃtu me haṭhaḥ nā eva muktaḥ bhavati vai dvijāḥ .. 56..
स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् ॥ इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७॥
स्व-तनोः शैल-जात-त्वात् काठिन्यम् सहजम् स्थितम् ॥ इत्थम् विचार्य सुधियाः माम् निषेद्धुम् न च अर्हथ ॥ ५७॥
sva-tanoḥ śaila-jāta-tvāt kāṭhinyam sahajam sthitam .. ittham vicārya sudhiyāḥ mām niṣeddhum na ca arhatha .. 57..
सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन ॥ गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८॥
सुरर्षेः वचनम् पथ्यम् त्यक्ष्ये ना एव कदाचन ॥ गुरूणाम् वचनम् पथ्यम् इति वेद-विदः विदुः ॥ ५८॥
surarṣeḥ vacanam pathyam tyakṣye nā eva kadācana .. gurūṇām vacanam pathyam iti veda-vidaḥ viduḥ .. 58..
गुरूणां वचनं सत्यमिति येषां दृढा मतिः ॥ तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९॥
गुरूणाम् वचनम् सत्यम् इति येषाम् दृढा मतिः ॥ तेषाम् इह अमुत्र सुखम् परमम् न असुखम् क्वचिद् ॥ ५९॥
gurūṇām vacanam satyam iti yeṣām dṛḍhā matiḥ .. teṣām iha amutra sukham paramam na asukham kvacid .. 59..
गुरूणां वचनं सत्यमिति यद्धृदये न धीः ॥ इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ॥ 2.3.25.६० ॥
गुरूणाम् वचनम् सत्यम् इति यत् हृदये न धीः ॥ इह अमुत्र अपि तेषाम् हि दुखम् न च सुखम् क्वचिद् ॥ २।३।२५।६० ॥
gurūṇām vacanam satyam iti yat hṛdaye na dhīḥ .. iha amutra api teṣām hi dukham na ca sukham kvacid .. 2.3.25.60 ..
सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः॥ गृहं वसेद्वा शून्यं स्यान्मे हठस्सुखदस्सदा॥ ६१॥
सर्वथा न परित्याज्यम् गुरूणाम् वचनम् द्विजाः॥ गृहम् वसेत् वा शून्यम् स्यात् मे हठः सुख-दः सदा॥ ६१॥
sarvathā na parityājyam gurūṇām vacanam dvijāḥ.. gṛham vaset vā śūnyam syāt me haṭhaḥ sukha-daḥ sadā.. 61..
यद्भवद्भिस्सुभणितं वचनं मुनिसत्तमाः ॥ तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२॥
यत् भवद्भिः सु भणितम् वचनम् मुनि-सत्तमाः ॥ तद्-अन्यथा तद्-विवेकम् वर्णयामि समासतस् ॥ ६२॥
yat bhavadbhiḥ su bhaṇitam vacanam muni-sattamāḥ .. tad-anyathā tad-vivekam varṇayāmi samāsatas .. 62..
गुणालयो विहारी च विष्णुस्सत्यं प्रकीर्तितः ॥ सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ॥ ६३ ॥
गुण-आलयः विहारी च विष्णुः सत्यम् प्रकीर्तितः ॥ सदाशिवः अगुणः प्रोक्तः तत्र कारण मुच्यते ॥ ६३ ॥
guṇa-ālayaḥ vihārī ca viṣṇuḥ satyam prakīrtitaḥ .. sadāśivaḥ aguṇaḥ proktaḥ tatra kāraṇa mucyate .. 63 ..
शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः ॥ प्रभुतां लौकिकीं नैव संदर्शयितुमिच्छति॥ ।६४।
शिवः ब्रह्म अविकारः स भक्त-हेतोः धृत-आकृतिः ॥ प्रभु-ताम् लौकिकीम् न एव संदर्शयितुम् इच्छति॥ ।६४।
śivaḥ brahma avikāraḥ sa bhakta-hetoḥ dhṛta-ākṛtiḥ .. prabhu-tām laukikīm na eva saṃdarśayitum icchati.. .64.
अतः परमहंसानां धार्यये सुप्रिया गतिः॥ अवधूतस्वरूपेण परानंदेन शंभुना॥ ६५॥
अतस् परमहंसानाम् धार्यये सु प्रिया गतिः॥ अवधूत-स्व-रूपेण पर-आनंदेन शंभुना॥ ६५॥
atas paramahaṃsānām dhāryaye su priyā gatiḥ.. avadhūta-sva-rūpeṇa para-ānaṃdena śaṃbhunā.. 65..
भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च॥ स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६॥
भूषूण-आदि-रुचिः मायाः लिप्तानाम् ब्रह्मणः न च॥ स प्रभुः निर्गुणः अजः निर्मायः अलक्ष्य-गतिः विराज् ॥ ६६॥
bhūṣūṇa-ādi-ruciḥ māyāḥ liptānām brahmaṇaḥ na ca.. sa prabhuḥ nirguṇaḥ ajaḥ nirmāyaḥ alakṣya-gatiḥ virāj .. 66..
धर्मजात्यादिभिश्शम्भुर्नानुगृह्णाति व द्विजाः ॥ गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७॥
धर्म-जाति-आदिभिः शम्भुः न अनुगृह्णाति द्विजाः ॥ गुरोः अनुग्रहेण एव शिवम् जानामि तत्त्वतः ॥ ६७॥
dharma-jāti-ādibhiḥ śambhuḥ na anugṛhṇāti dvijāḥ .. guroḥ anugraheṇa eva śivam jānāmi tattvataḥ .. 67..
चेच्छिवस्स हि मे विप्रा विवाहं न करिष्यति ॥ अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८॥
चेद् शिवः स हि मे विप्राः विवाहम् न करिष्यति ॥ अविवाहा सदा अहम् स्याम् सत्यम् सत्यम् वदामि अहम् ॥ ६८॥
ced śivaḥ sa hi me viprāḥ vivāham na kariṣyati .. avivāhā sadā aham syām satyam satyam vadāmi aham .. 68..
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुश्शीततां याति वह्निः ॥ विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि॥ ६९॥
उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीत-ताम् याति वह्निः ॥ विकसति यदि पद्मम् पर्वत-अग्रे शिलायाम् न हि चलति हठः मे सत्यम् एतत् ब्रवीमि॥ ६९॥
udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śīta-tām yāti vahniḥ .. vikasati yadi padmam parvata-agre śilāyām na hi calati haṭhaḥ me satyam etat bravīmi.. 69..
।। ब्रह्मोवाच।।
इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा ॥ विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ 2.3.25.७० ॥
इति उक्त्वा तान् प्रणम्य आशु मुनीन् सा पर्वतात्मजा ॥ विरराम शिवम् स्मृत्वा निर्विकारेण चेतसा ॥ २।३।२५।७० ॥
iti uktvā tān praṇamya āśu munīn sā parvatātmajā .. virarāma śivam smṛtvā nirvikāreṇa cetasā .. 2.3.25.70 ..
ऋषयोऽपीत्थमाज्ञाय गिरिजायास्सुनिश्चयम् ॥ प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१
ऋषयः अपि इत्थम् आज्ञाय गिरिजायाः सु निश्चयम् ॥ प्रोचुः जय-गिरम् तत्र ददुः च आशिषम् उत्तमाम् ॥ ७१
ṛṣayaḥ api ittham ājñāya girijāyāḥ su niścayam .. procuḥ jaya-giram tatra daduḥ ca āśiṣam uttamām .. 71
अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः ॥ शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने॥ ७२॥
अथ प्राणम्य ताम् देवीम् मुनयः हृष्ट-मानसाः ॥ शिव-स्थानम् द्रुतम् जग्मुः तद्-परीक्षा-कराः मुने॥ ७२॥
atha prāṇamya tām devīm munayaḥ hṛṣṭa-mānasāḥ .. śiva-sthānam drutam jagmuḥ tad-parīkṣā-karāḥ mune.. 72..
तत्र गत्वा शिवं नत्वा वृत्तांतं विनिवेद्य तम् ॥ तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३॥
तत्र गत्वा शिवम् नत्वा वृत्तांतम् विनिवेद्य तम् ॥ तद्-आज्ञाम् समनुप्राप्य स्वर् लोकम् जग्मुः आदरात् ॥ ७३॥
tatra gatvā śivam natvā vṛttāṃtam vinivedya tam .. tad-ājñām samanuprāpya svar lokam jagmuḥ ādarāt .. 73..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तर्षिंकृतपरीक्षावर्णनो नाम पंचविशोऽध्याय ॥ २५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे सप्तर्षिंकृतपरीक्षावर्णनः नाम पंचविशः अध्याय ॥ २५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe saptarṣiṃkṛtaparīkṣāvarṇanaḥ nāma paṃcaviśaḥ adhyāya .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In