| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् ॥ परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १॥
गतेषु तेषु मुनिषु स्वम् लोकम् शंकरः स्वयम् ॥ परीक्षितुम् तपः देव्याः ऐच्छत् सूतिकरः प्रभुः ॥ १॥
gateṣu teṣu muniṣu svam lokam śaṃkaraḥ svayam .. parīkṣitum tapaḥ devyāḥ aicchat sūtikaraḥ prabhuḥ .. 1..
परीक्षा छद्मना शंभुर्द्रष्टुं तां तुष्टमानसः॥ जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २ ॥
परीक्षा छद्मना शंभुः द्रष्टुम् ताम् तुष्ट-मानसः॥ जाटिलम् रूपम् आस्थाय स ययौ पार्वती-वनम् ॥ २ ॥
parīkṣā chadmanā śaṃbhuḥ draṣṭum tām tuṣṭa-mānasaḥ.. jāṭilam rūpam āsthāya sa yayau pārvatī-vanam .. 2 ..
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ॥ प्रज्वलन्मनसा हृष्टो दंडी छत्री बभूव सः ॥ ३ ॥
अतीव स्थविरः विप्र-देह-धारी स्व-तेजसा ॥ प्रज्वलत्-मनसा हृष्टः दंडी छत्री बभूव सः ॥ ३ ॥
atīva sthaviraḥ vipra-deha-dhārī sva-tejasā .. prajvalat-manasā hṛṣṭaḥ daṃḍī chatrī babhūva saḥ .. 3 ..
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ॥ वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४ ॥
तत्र अपश्यत् स्थिताम् देवीम् सखीभिः परिवारिताम् ॥ वेदिका-उपरि शुद्धाम् ताम् शिवाम् इव विधोः कलाम् ॥ ४ ॥
tatra apaśyat sthitām devīm sakhībhiḥ parivāritām .. vedikā-upari śuddhām tām śivām iva vidhoḥ kalām .. 4 ..
शंभु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ॥ उपकंठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः ॥ ५ ॥
शंभु निरीक्ष्य ताम् देवीम् ब्रह्मचारि-स्व-रूपवान् ॥ उप कंठम् ययौ प्रीत्या तदा असौ भक्त-वत्सलः ॥ ५ ॥
śaṃbhu nirīkṣya tām devīm brahmacāri-sva-rūpavān .. upa kaṃṭham yayau prītyā tadā asau bhakta-vatsalaḥ .. 5 ..
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ॥ अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६॥
आगतम् तम् तदा दृष्ट्वा ब्राह्मणम् तेजसा अद्भुतम् ॥ अपूजयत् शिवा देवी सर्व-पूजा-उपहारकैः ॥ ६॥
āgatam tam tadā dṛṣṭvā brāhmaṇam tejasā adbhutam .. apūjayat śivā devī sarva-pūjā-upahārakaiḥ .. 6..
सुसत्कृतं संविधाभिः पूजितं परया मुदा ॥ पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात ॥ ७॥
सु सत्कृतम् संविधाभिः पूजितम् परया मुदा ॥ पार्वती कुशलम् प्रीत्या पप्रच्छ द्विजम् आदरात ॥ ७॥
su satkṛtam saṃvidhābhiḥ pūjitam parayā mudā .. pārvatī kuśalam prītyā papraccha dvijam ādarāta .. 7..
।। पार्वत्युवाच ।।
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ॥ इदं वनं भासयसे वद वेदविदां वर ॥ ८॥
ब्रह्मचारि-स्व-रूपेण कः त्वम् हि कुतस् आगतः ॥ इदम् वनम् भासयसे वद वेद-विदाम् वर ॥ ८॥
brahmacāri-sva-rūpeṇa kaḥ tvam hi kutas āgataḥ .. idam vanam bhāsayase vada veda-vidām vara .. 8..
।। विप्र उवाच ।।
अहमिच्छाभिगामी च वृद्धो विप्रतनुस्सुधीः ॥ तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९ ॥
अहम् इच्छा-अभिगामी च वृद्धः विप्र-तनुः सुधीः ॥ तपस्वी सुख-दः अन्येषाम् उपकारी न संशयः ॥ ९ ॥
aham icchā-abhigāmī ca vṛddhaḥ vipra-tanuḥ sudhīḥ .. tapasvī sukha-daḥ anyeṣām upakārī na saṃśayaḥ .. 9 ..
का त्वं कस्यासि तनया किमर्थ विजने वने ॥ तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ 2.3.26.१०॥
का त्वम् कस्य असि तनया किमर्थ विजने वने ॥ तपः चरसि दुर्धर्षम् मुनिभिः प्रपदैः अपि ॥ २।३।२६।१०॥
kā tvam kasya asi tanayā kimartha vijane vane .. tapaḥ carasi durdharṣam munibhiḥ prapadaiḥ api .. 2.3.26.10..
न बाला न च वृद्धासि तरुणी भासि शोभना ॥ कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११॥
न बाला न च वृद्धा असि तरुणी भासि शोभना ॥ कथम् पतिम् विना तीक्ष्णम् तपः चरसि वै वने ॥ ११॥
na bālā na ca vṛddhā asi taruṇī bhāsi śobhanā .. katham patim vinā tīkṣṇam tapaḥ carasi vai vane .. 11..
कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ॥ तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२ ॥
कि त्वम् तपस्विनी भद्रे कस्यचिद् सहचारिणी ॥ तपस्वी स न पुष्णाति देवि त्वाम् च गतः अन्यतस् ॥ १२ ॥
ki tvam tapasvinī bhadre kasyacid sahacāriṇī .. tapasvī sa na puṣṇāti devi tvām ca gataḥ anyatas .. 12 ..
वद कस्य कुले जाता कः पिता तव का विधा ॥ महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३ ॥
वद कस्य कुले जाता कः पिता तव का विधा ॥ महा-सौभाग्य-रूपा त्वम् वृथा तव तपः-रतिः ॥ १३ ॥
vada kasya kule jātā kaḥ pitā tava kā vidhā .. mahā-saubhāgya-rūpā tvam vṛthā tava tapaḥ-ratiḥ .. 13 ..
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ॥ एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४ ॥
किम् त्वम् वेद-प्रसूः लक्ष्मीः किम् सुरूपा सरस्वती ॥ एतासु मध्ये का वा त्वम् न अहम् तर्कितुम् उत्सहे ॥ १४ ॥
kim tvam veda-prasūḥ lakṣmīḥ kim surūpā sarasvatī .. etāsu madhye kā vā tvam na aham tarkitum utsahe .. 14 ..
।। पार्वत्युवाच ।।
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ॥ अहं हिमाचलसुता सांप्रतं नाम पार्वती ॥ १५॥
न अहम् वेद-प्रसूः विप्र न लक्ष्मीः च सरस्वती ॥ अहम् हिमाचल-सुता सांप्रतम् नाम पार्वती ॥ १५॥
na aham veda-prasūḥ vipra na lakṣmīḥ ca sarasvatī .. aham himācala-sutā sāṃpratam nāma pārvatī .. 15..
पुरा दक्षसुता जाता सती नामान्यजन्मनि ॥ योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः ॥ १६ ॥
पुरा दक्ष-सुता जाता सती नाम अन्य-जन्मनि ॥ योगेन त्यक्त-देहा अहम् यत् पित्रा निन्दितः पतिः ॥ १६ ॥
purā dakṣa-sutā jātā satī nāma anya-janmani .. yogena tyakta-dehā aham yat pitrā ninditaḥ patiḥ .. 16 ..
अत्र जन्मनि संप्राप्तश्शिवोऽपि विधिवैभवात् ॥ मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७ ॥
अत्र जन्मनि संप्राप्तः शिवः अपि विधि-वैभवात् ॥ माम् त्यक्त्वा भस्मसात्कृत्य मन्मथम् स जगाम ह ॥ १७ ॥
atra janmani saṃprāptaḥ śivaḥ api vidhi-vaibhavāt .. mām tyaktvā bhasmasātkṛtya manmatham sa jagāma ha .. 17 ..
प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् ॥ आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८॥
प्रयाते शंकरे ताप-उद्विजिता अहम् पितुः गृहात् ॥ आगता तपसे विप्र सु दृढा स्वर्णदी-तटे ॥ १८॥
prayāte śaṃkare tāpa-udvijitā aham pituḥ gṛhāt .. āgatā tapase vipra su dṛḍhā svarṇadī-taṭe .. 18..
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ॥ न प्राप्याग्नौ विविक्षन्ती त्वं दृष्ट्वा संस्थिता क्षणम्॥ १९॥
कृत्वा तपः कठोरम् च सु चिरम् प्राण-वल्लभम् ॥ न प्राप्य अग्नौ विविक्षन्ती त्वम् दृष्ट्वा संस्थिता क्षणम्॥ १९॥
kṛtvā tapaḥ kaṭhoram ca su ciram prāṇa-vallabham .. na prāpya agnau vivikṣantī tvam dṛṣṭvā saṃsthitā kṣaṇam.. 19..
गच्छ त्वं प्रविशाम्यग्नौ शिवेनांगीकृता न हि ॥ यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ 2.3.26.२०॥
गच्छ त्वम् प्रविशामि अग्नौ शिवेन अंगीकृता न हि ॥ यत्र यत्र जनुः लप्स्ये वरिष्यामि शिवम् वरम् ॥ २।३।२६।२०॥
gaccha tvam praviśāmi agnau śivena aṃgīkṛtā na hi .. yatra yatra januḥ lapsye variṣyāmi śivam varam .. 2.3.26.20..
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ॥ निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१॥
इति उक्त्वा पार्वती वह्नौ तत् पुरस् प्रविवेश सा ॥ निषिध्यमाना पुरतस् ब्राह्मणेन पुनर् पुनर् ॥ २१॥
iti uktvā pārvatī vahnau tat puras praviveśa sā .. niṣidhyamānā puratas brāhmaṇena punar punar .. 21..
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः॥ बभूव तत्क्षणं सद्यो वह्नि श्चंदनपंकवत् ॥ २२॥
वह्निप्रवेशम् कुर्वत्याः पार्वत्याः तद्-प्रभावतः॥ बभूव तद्-क्षणम् सद्यस् वह्नि चंदन-पंकवत् ॥ २२॥
vahnipraveśam kurvatyāḥ pārvatyāḥ tad-prabhāvataḥ.. babhūva tad-kṣaṇam sadyas vahni caṃdana-paṃkavat .. 22..
क्षणं तदंतरे स्थित्वा ह्युत्पतंती दिवं द्विजः ॥ पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३॥
क्षणम् तद्-अंतरे स्थित्वा हि उत्पतन्ती दिवम् द्विजः ॥ पुनर् पप्रच्छ सहसा विहसन् सु तनुम् शिवः ॥ २३॥
kṣaṇam tad-aṃtare sthitvā hi utpatantī divam dvijaḥ .. punar papraccha sahasā vihasan su tanum śivaḥ .. 23..
द्विज उवाच ।।
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ॥ न दग्धो वह्निना देहो न च प्राप्तं मनीषितम्॥ २४॥
अहो तपः ते किम् भद्रे न बुद्धम् किंचिद् एव हि ॥ न दग्धः वह्निना देहः न च प्राप्तम् मनीषितम्॥ २४॥
aho tapaḥ te kim bhadre na buddham kiṃcid eva hi .. na dagdhaḥ vahninā dehaḥ na ca prāptam manīṣitam.. 24..
अतस्सत्यं निकामं वै वद देवि मनोरथम् ॥ ममाग्रे विप्रवर्यस्य सर्वानंदप्रदस्य हि ॥ २५॥
अतस् सत्यम् निकामम् वै वद देवि मनोरथम् ॥ मम अग्रे विप्र-वर्यस्य सर्व-आनंद-प्रदस्य हि ॥ २५॥
atas satyam nikāmam vai vada devi manoratham .. mama agre vipra-varyasya sarva-ānaṃda-pradasya hi .. 25..
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ॥ तस्मान्मैत्री च संजाता कार्य्यं गोप्यं त्वया न हि ॥ २६ ॥
यथाविधि त्वया देवि कीर्त्यताम् सर्वथा आत्मना ॥ तस्मात् मैत्री च संजाता कार्य्यम् गोप्यम् त्वया न हि ॥ २६ ॥
yathāvidhi tvayā devi kīrtyatām sarvathā ātmanā .. tasmāt maitrī ca saṃjātā kāryyam gopyam tvayā na hi .. 26 ..
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ॥ त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७ ॥
किम् इच्छसि वरम् देवि प्रष्टुम् इच्छामि अतस् परम् ॥ त्वयि एव तत् असौ देवि फलम् सर्वम् प्रदृश्यते ॥ २७ ॥
kim icchasi varam devi praṣṭum icchāmi atas param .. tvayi eva tat asau devi phalam sarvam pradṛśyate .. 27 ..
परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ॥ रत्नं हस्ते समादाय हित्वा काचस्तु संचितः ॥ २८॥
पर-अर्थे च तपः चेद् वै तिष्ठेत् तु तपः एव तत् ॥ रत्नम् हस्ते समादाय हित्वा काचः तु संचितः ॥ २८॥
para-arthe ca tapaḥ ced vai tiṣṭhet tu tapaḥ eva tat .. ratnam haste samādāya hitvā kācaḥ tu saṃcitaḥ .. 28..
ईदृशं तव सौंदर्यं कथं व्यर्थीकृतं त्वया ॥ हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ॥ २९॥
ईदृशम् तव सौंदर्यम् कथम् व्यर्थीकृतम् त्वया ॥ हित्वा वस्त्राणि अनेकानि चर्म-आदि च धृतम् त्वया ॥ २९॥
īdṛśam tava sauṃdaryam katham vyarthīkṛtam tvayā .. hitvā vastrāṇi anekāni carma-ādi ca dhṛtam tvayā .. 29..
तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ॥ तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमावाप्नुयाम् ॥ 2.3.26.३०॥
तत् सर्वम् कारणम् ब्रूहि तपसः तु अस्य सत्यतः ॥ तत् श्रुत्वा विप्र-वर्यः अहम् यथा हर्षम् आवाप्नुयाम् ॥ २।३।२६।३०॥
tat sarvam kāraṇam brūhi tapasaḥ tu asya satyataḥ .. tat śrutvā vipra-varyaḥ aham yathā harṣam āvāpnuyām .. 2.3.26.30..
ब्रह्मोवाच ।।
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ॥ तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ॥ ३१॥
इति पृष्टा तदा तेन सखीम् प्रैरयत अम्बिका ॥ तद्-मुखेन एव तत् सर्वम् कथयामास सुव्रता ॥ ३१॥
iti pṛṣṭā tadā tena sakhīm prairayata ambikā .. tad-mukhena eva tat sarvam kathayāmāsa suvratā .. 31..
तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ॥ प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ॥ ३२ ॥
तया च प्रेरिता तत्र पार्वत्या विजया-अभिधा ॥ प्राण-प्रिया सु व्रत-ज्ञा सखी जटिलम् अब्रवीत् ॥ ३२ ॥
tayā ca preritā tatra pārvatyā vijayā-abhidhā .. prāṇa-priyā su vrata-jñā sakhī jaṭilam abravīt .. 32 ..
सख्युवाच ।।
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ॥ हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि ॥ ३३ ॥
शृणु साधो प्रवक्ष्यामि पार्वती-चरितम् परम् ॥ हेतुम् च तपसः सर्वम् यदि त्वम् श्रोतुम् इच्छसि ॥ ३३ ॥
śṛṇu sādho pravakṣyāmi pārvatī-caritam param .. hetum ca tapasaḥ sarvam yadi tvam śrotum icchasi .. 33 ..
सखा मे गिरिराजस्य सुतेयं हिमभूभृतः ॥ ख्याता वै पार्वती नाम्ना सा कालीति च मेनका ॥ ३४ ॥
सखा मे गिरिराजस्य सुता इयम् हिमभूभृतः ॥ ख्याता वै पार्वती नाम्ना सा काली इति च मेनका ॥ ३४ ॥
sakhā me girirājasya sutā iyam himabhūbhṛtaḥ .. khyātā vai pārvatī nāmnā sā kālī iti ca menakā .. 34 ..
ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ॥ त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ॥ ३५ ॥
ऊढा इयम् न च केन अपि न वाञ्छति शिवात् परम् ॥ त्रीणि वर्ष-सहस्राणि तपः-चरण-साधिनी ॥ ३५ ॥
ūḍhā iyam na ca kena api na vāñchati śivāt param .. trīṇi varṣa-sahasrāṇi tapaḥ-caraṇa-sādhinī .. 35 ..
तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ॥ तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम ॥ ३६ ॥
तद्-अर्थम् मे अनया सख्या प्रारब्धम् तपः ईदृशम् ॥ तत् अत्र कारणम् वक्ष्ये शृणु साधो द्विजोत्तम ॥ ३६ ॥
tad-artham me anayā sakhyā prārabdham tapaḥ īdṛśam .. tat atra kāraṇam vakṣye śṛṇu sādho dvijottama .. 36 ..
हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ॥ पतिं पिनाकपाणिं वै प्राप्नुमिच्छति पार्वती ॥ ३७ ॥
हित्वा इन्द्र-प्रमुखान् देवान् हरिम् ब्रह्माणम् एव च ॥ पतिम् पिनाकपाणिम् वै प्राप्नुम् इच्छति पार्वती ॥ ३७ ॥
hitvā indra-pramukhān devān harim brahmāṇam eva ca .. patim pinākapāṇim vai prāpnum icchati pārvatī .. 37 ..
इयं सखी मदीया वै वृक्षानारोप यत्पुरा ॥ तेषु सर्वेषु संजातं फलपुष्पादिकं द्विज ॥ ३८ ॥
इयम् सखी मदीया वै वृक्षान् आरोप यत् पुरा ॥ तेषु सर्वेषु संजातम् फल-पुष्प-आदिकम् द्विज ॥ ३८ ॥
iyam sakhī madīyā vai vṛkṣān āropa yat purā .. teṣu sarveṣu saṃjātam phala-puṣpa-ādikam dvija .. 38 ..
रूपसार्थाय जनककुलालंकरणाय च ॥ समुद्दिश्य महेशानं कामस्यानुग्रहाय च ॥ ३९ ॥
रूप-सार्थाय जनक-कुल-अलंकरणाय च ॥ समुद्दिश्य महेशानम् कामस्य अनुग्रहाय च ॥ ३९ ॥
rūpa-sārthāya janaka-kula-alaṃkaraṇāya ca .. samuddiśya maheśānam kāmasya anugrahāya ca .. 39 ..
मत्सखी नारदोपदेशात्तपस्तपति दारुणम् ॥ मनोरथः कुतस्तस्या न फलिष्यति तापस ॥ 2.3.26.४० ॥
मद्-सखी नारद-उपदेशात् तपः तपति दारुणम् ॥ मनोरथः कुतस् तस्याः न फलिष्यति तापस ॥ २।३।२६।४० ॥
mad-sakhī nārada-upadeśāt tapaḥ tapati dāruṇam .. manorathaḥ kutas tasyāḥ na phaliṣyati tāpasa .. 2.3.26.40 ..
यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ॥ मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ॥ ४१ ॥
यत् ते पृष्टम् द्विजश्रेष्ठ मद्-सख्या मनसि ईप्सितम् ॥ मया ख्यातम् च तद्-प्रीत्या किम् अन्यत् श्रोतुम् इच्छसि ॥ ४१ ॥
yat te pṛṣṭam dvijaśreṣṭha mad-sakhyā manasi īpsitam .. mayā khyātam ca tad-prītyā kim anyat śrotum icchasi .. 41 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ॥ मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ४२ ॥
इति एवम् वचनम् श्रुत्वा विजयायाः यथार्थतः ॥ मुने स जटिलः रुद्रः विहसन् वाक्यम् अब्रवीत् ॥ ४२ ॥
iti evam vacanam śrutvā vijayāyāḥ yathārthataḥ .. mune sa jaṭilaḥ rudraḥ vihasan vākyam abravīt .. 42 ..
जटिल उवाच ।।
सख्येदं कथितं तत्र परिहासोनुमीयते ॥ यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ॥ ४३॥
सख्या इदम् कथितम् तत्र परिहासः उनुमीयते ॥ यथार्थम् चेद् तदा देवी स्व-मुखेन अभिभाषताम् ॥ ४३॥
sakhyā idam kathitam tatra parihāsaḥ unumīyate .. yathārtham ced tadā devī sva-mukhena abhibhāṣatām .. 43..
।। ब्रह्मोवाच ।।
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ॥ उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ॥ ४४ ॥
इति उक्ते च तदा तेन जटिलेन द्विजन्मना ॥ उवाच पार्वती देवी स्व-मुखेन एव तम् द्विजम् ॥ ४४ ॥
iti ukte ca tadā tena jaṭilena dvijanmanā .. uvāca pārvatī devī sva-mukhena eva tam dvijam .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः ॥ २६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवाजटिलसंवादः नाम षड्विंशः उध्यायः ॥ २६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivājaṭilasaṃvādaḥ nāma ṣaḍviṃśaḥ udhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In