| |
|

This overlay will guide you through the buttons:

पार्वत्युवाच ।।
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ॥ सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ॥ १ ॥
शृणु द्विजेन्द्र जटिल मद्-वृत्तम् निखिलम् खलु ॥ सखि उक्तम् मे अद्य यत् सत्यम् तत् तथा एव न च अन्यथा ॥ १ ॥
śṛṇu dvijendra jaṭila mad-vṛttam nikhilam khalu .. sakhi uktam me adya yat satyam tat tathā eva na ca anyathā .. 1 ..
मनसा वचसा साक्षात्कर्म्मणा पतिभावतः ॥ सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या ॥ २ ॥
मनसा वचसा साक्षात् कर्म्मणा पति-भावतः ॥ सत्यम् ब्रवीमि नः असत्यम् वृतः वै शंकरः या ॥ २ ॥
manasā vacasā sākṣāt karmmaṇā pati-bhāvataḥ .. satyam bravīmi naḥ asatyam vṛtaḥ vai śaṃkaraḥ yā .. 2 ..
जानामि दुर्ल्लभं वस्तु कथम्प्राप्यं मया भवेत् ॥ तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ॥ ३ ॥
जानामि दुर्ल्लभम् वस्तु कथम् प्राप्यम् मया भवेत् ॥ तथा अपि मनः औत्सुक्यात् तप्यते अद्य तपः मया ॥ ३ ॥
jānāmi durllabham vastu katham prāpyam mayā bhavet .. tathā api manaḥ autsukyāt tapyate adya tapaḥ mayā .. 3 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनन्तस्मै स्थिता सा गिरिजा तदा ॥ उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ॥ ४ ॥
इति उक्त्वा वचनम् तस्मै स्थिता सा गिरिजा तदा ॥ उवाच ब्राह्मणः तत्र तत् श्रुत्वा पार्वती-वचः ॥ ४ ॥
iti uktvā vacanam tasmai sthitā sā girijā tadā .. uvāca brāhmaṇaḥ tatra tat śrutvā pārvatī-vacaḥ .. 4 ..
ब्राह्मण उवाच ।।
एतावत्कालपर्य्यन्तम्ममेच्छा महती ह्यभूत् ॥ किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः ॥ ५ ॥
एतावत्-काल-पर्य्यन्तम् मम इच्छा महती हि अभूत् ॥ किम् वस्तु कांक्षती देवी कुरुते सु महत् तपः ॥ ५ ॥
etāvat-kāla-paryyantam mama icchā mahatī hi abhūt .. kim vastu kāṃkṣatī devī kurute su mahat tapaḥ .. 5 ..
तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपंकजात् ॥ इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ॥ ६ ॥
तत् ज्ञात्वा निखिलम् देवि श्रुत्वा त्वद्-मुख-पंकजात् ॥ इतस् गच्छामि अहम् स्थानात् यथा इच्छसि तथा कुरु ॥ ६ ॥
tat jñātvā nikhilam devi śrutvā tvad-mukha-paṃkajāt .. itas gacchāmi aham sthānāt yathā icchasi tathā kuru .. 6 ..
न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ॥ यथा कार्य्यं तथा भावि कथनीयं सुखेन च ॥ ७ ॥
न कथ्यते त्वया मह्यम् मित्र-त्वम् निष्फलम् भवेत् ॥ यथा कार्य्यम् तथा भावि कथनीयम् सुखेन च ॥ ७ ॥
na kathyate tvayā mahyam mitra-tvam niṣphalam bhavet .. yathā kāryyam tathā bhāvi kathanīyam sukhena ca .. 7 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ॥ तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ॥ ८ ॥
इति उक्त्वा वचनम् तस्य यावत् गन्तुम् इयेष सः ॥ तावत् च पार्वती देवी प्रणम्य उवाच तम् द्विजम् ॥ ८ ॥
iti uktvā vacanam tasya yāvat gantum iyeṣa saḥ .. tāvat ca pārvatī devī praṇamya uvāca tam dvijam .. 8 ..
।। पार्वत्युवाच ।।
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ॥ इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ॥ ९ ॥
किम् गमिष्यसि विप्र-इन्द्र स्थितः भव हितम् वद ॥ इति उक्ते च तया तत्र स्थित्वा उवाच स दण्डधृक् ॥ ९ ॥
kim gamiṣyasi vipra-indra sthitaḥ bhava hitam vada .. iti ukte ca tayā tatra sthitvā uvāca sa daṇḍadhṛk .. 9 ..
द्विज उवाच ।।
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ॥ वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत् ॥ 2.3.27.१० ॥
यदि श्रोतु-मनाः देवि माम् स्थापयसि भक्तितः ॥ वदामि तत्त्वम् तत् सर्वम् येन ते वयुनम् भवेत् ॥ २।३।२७।१० ॥
yadi śrotu-manāḥ devi mām sthāpayasi bhaktitaḥ .. vadāmi tattvam tat sarvam yena te vayunam bhavet .. 2.3.27.10 ..
जानाम्यहं महादेवं सर्वथा गुरुधर्म्मतः ॥ प्रवदामि यथार्थं हि सावधानतया शृणु ॥ ११॥
जानामि अहम् महादेवम् सर्वथा गुरु-धर्म्मतः ॥ प्रवदामि यथार्थम् हि सावधान-तया शृणु ॥ ११॥
jānāmi aham mahādevam sarvathā guru-dharmmataḥ .. pravadāmi yathārtham hi sāvadhāna-tayā śṛṇu .. 11..
वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ॥ व्याघ्रचर्म्मांबरधरः संवीतो गजकृत्तिना ॥ १२ ॥
॥ व्याघ्र-चर्म्म-अंबर-धरः संवीतः गज-कृत्तिना ॥ १२ ॥
.. vyāghra-carmma-aṃbara-dharaḥ saṃvītaḥ gaja-kṛttinā .. 12 ..
कपालधारी सर्पौघैस्सर्वगात्रेषु वेष्टितः ॥ विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ॥ १३॥
कपाल-धारी सर्प-ओघैः सर्व-गात्रेषु वेष्टितः ॥ ॥ १३॥
kapāla-dhārī sarpa-oghaiḥ sarva-gātreṣu veṣṭitaḥ .. .. 13..
अव्यक्तजन्मा सततं गृहभोगविवर्जितः ॥ दिगंबरो दशभुजो भूत प्रेतान्वितस्सदा ॥ १४॥
अव्यक्त-जन्मा सततम् गृह-भोग-विवर्जितः ॥ दिगंबरः दश-भुजः भूत प्रेत-अन्वितः सदा ॥ १४॥
avyakta-janmā satatam gṛha-bhoga-vivarjitaḥ .. digaṃbaraḥ daśa-bhujaḥ bhūta preta-anvitaḥ sadā .. 14..
केन कारणेन त्वं तं भर्तारं समीहसे ॥ क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ॥ १५॥
केन कारणेन त्वम् तम् भर्तारम् समीहसे ॥ क्व ज्ञानम् ते गतम् देवि तत् वद अद्य विचारतः ॥ १५॥
kena kāraṇena tvam tam bhartāram samīhase .. kva jñānam te gatam devi tat vada adya vicārataḥ .. 15..
पूर्वं श्रुतं मया चैव व्रतन्तस्य भयंकरम् ॥ शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ॥ १६॥
पूर्वम् श्रुतम् मया च एव भयंकरम् ॥ शृणु ते निगदामि अद्य यदि ते श्रवणे रुचिः ॥ १६॥
pūrvam śrutam mayā ca eva bhayaṃkaram .. śṛṇu te nigadāmi adya yadi te śravaṇe ruciḥ .. 16..
दक्षस्य दुहिता साध्वी सती वृषभवाहनम्॥ वव्रे पतिं पुरा दैवात्तत्संभोगः परिश्रुतः ॥ १७॥
दक्षस्य दुहिता साध्वी सती वृषभ-वाहनम्॥ वव्रे पतिम् पुरा दैवात् तद्-संभोगः परिश्रुतः ॥ १७॥
dakṣasya duhitā sādhvī satī vṛṣabha-vāhanam.. vavre patim purā daivāt tad-saṃbhogaḥ pariśrutaḥ .. 17..
कपालिजायेति सती दक्षेण परिवर्जिता ॥ यज्ञे भागप्रदानाय शंभुश्चापि विवर्जितः ॥ १८॥
कपालि-जाया इति सती दक्षेण परिवर्जिता ॥ यज्ञे भाग-प्रदानाय शंभुः च अपि विवर्जितः ॥ १८॥
kapāli-jāyā iti satī dakṣeṇa parivarjitā .. yajñe bhāga-pradānāya śaṃbhuḥ ca api vivarjitaḥ .. 18..
सा तथैवापमानेन भृशं कोपाकुला सती ॥ तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः ॥ १९॥
सा तथा एव अपमानेन भृशम् कोप-आकुला सती ॥ तत्याज असून् प्रियान् तत्र तया त्यक्तः च शंकरः ॥ १९॥
sā tathā eva apamānena bhṛśam kopa-ākulā satī .. tatyāja asūn priyān tatra tayā tyaktaḥ ca śaṃkaraḥ .. 19..
त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ॥ तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥ 2.3.27.२०॥
त्वम् स्त्री-रत्नम् तव पिता राजा निखिल भूभृताम् ॥ तथाविधम् पतिम् कस्मात् उग्रेण तपसा ईहसे ॥ २।३।२७।२०॥
tvam strī-ratnam tava pitā rājā nikhila bhūbhṛtām .. tathāvidham patim kasmāt ugreṇa tapasā īhase .. 2.3.27.20..
दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ॥ हित्वा च चंदनं शुभ्रं कर्दमं लेप्तुमिच्छसि ॥ २१ ॥
दत्त्वा सुवर्ण-मुद्राम् च ग्रहीतुम् काचम् इच्छसि ॥ हित्वा च चंदनम् शुभ्रम् कर्दमम् लेप्तुम् इच्छसि ॥ २१ ॥
dattvā suvarṇa-mudrām ca grahītum kācam icchasi .. hitvā ca caṃdanam śubhram kardamam leptum icchasi .. 21 ..
सूर्य्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ॥ चीनांशुकं विहायैव चर्म्मांबरमिहेच्छसि ॥ २२ ॥
सूर्य्य-तेजः परित्यज्य खद्योत-द्युतिम् इच्छसि ॥ चीन-अंशुकम् विहाय एव चर्म्म-अंबरम् इह इच्छसि ॥ २२ ॥
sūryya-tejaḥ parityajya khadyota-dyutim icchasi .. cīna-aṃśukam vihāya eva carmma-aṃbaram iha icchasi .. 22 ..
गृहवासम्परित्यज्य वनवासं समीहसे ॥ लोहमिच्छसि देवेश त्यक्त्वा शेवधिमुत्तमम् ॥ २३॥
गृह-वासम् परित्यज्य वन-वासम् समीहसे ॥ लोहम् इच्छसि देवेश त्यक्त्वा शेवधिम् उत्तमम् ॥ २३॥
gṛha-vāsam parityajya vana-vāsam samīhase .. loham icchasi deveśa tyaktvā śevadhim uttamam .. 23..
इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ॥ नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ॥ २४॥
इन्द्र-आदि-लोकपालान् च हित्वा शिवम् अनु व्रता ॥ न एतत् सूक्तम् हि लोकेषु विरुद्धम् दृश्यते अधुना ॥ २४॥
indra-ādi-lokapālān ca hitvā śivam anu vratā .. na etat sūktam hi lokeṣu viruddham dṛśyate adhunā .. 24..
क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ॥ शशांकवदना त्वं च पंचवक्त्रः शिवस्स्मृतः ॥ २५ ॥
क्व त्वम् कमल-पत्र-अक्षी क्व असौ वै त्रिविलोचनः ॥ शशांक-वदना त्वम् च पंचवक्त्रः शिवः स्मृतः ॥ २५ ॥
kva tvam kamala-patra-akṣī kva asau vai trivilocanaḥ .. śaśāṃka-vadanā tvam ca paṃcavaktraḥ śivaḥ smṛtaḥ .. 25 ..
वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ॥ जटाजूटं शिवस्येव प्रसिद्धम्परिचक्षते ॥ २६ ॥
वेणी शिरसि ते दिव्या सर्पिणी इव विभासिता ॥ जटा-जूटम् शिवस्य इव प्रसिद्धम् परिचक्षते ॥ २६ ॥
veṇī śirasi te divyā sarpiṇī iva vibhāsitā .. jaṭā-jūṭam śivasya iva prasiddham paricakṣate .. 26 ..
चंदनं च त्वदीयांगे चिताभस्म शिवस्य च ॥ क्व दुकूलं त्वदीयं वै शांकरं क्व गजाजिनम् ॥ २७ ॥
चंदनम् च त्वदीय-अंगे चिता-भस्म शिवस्य च ॥ क्व दुकूलम् त्वदीयम् वै शांकरम् क्व गज-अजिनम् ॥ २७ ॥
caṃdanam ca tvadīya-aṃge citā-bhasma śivasya ca .. kva dukūlam tvadīyam vai śāṃkaram kva gaja-ajinam .. 27 ..
भूषणानि दिव्यानि क्व सर्पाश्शंकरस्य च ॥ क्व चरा देवतास्सर्वाः क्व च भूतबलिप्रियः ॥ २८ ॥
भूषणानि दिव्यानि क्व सर्पाः शंकरस्य च ॥ क्व चराः देवताः सर्वाः क्व च भूत-बलि-प्रियः ॥ २८ ॥
bhūṣaṇāni divyāni kva sarpāḥ śaṃkarasya ca .. kva carāḥ devatāḥ sarvāḥ kva ca bhūta-bali-priyaḥ .. 28 ..
क्व वा मृदंगवादश्च क्व च तड्डमरुस्तथा ॥ क्व च भेरीकलापश्च क्व च शृंगरवोऽशुभः ॥ २९॥
क्व वा मृदंग-वादः च क्व च तत् डमरुः तथा ॥ क्व च भेरी-कलापः च क्व च शृंगरवः अशुभः ॥ २९॥
kva vā mṛdaṃga-vādaḥ ca kva ca tat ḍamaruḥ tathā .. kva ca bherī-kalāpaḥ ca kva ca śṛṃgaravaḥ aśubhaḥ .. 29..
क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ॥ भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ॥ 2.3.27.३० ॥
क्व च ढक्का-मयः शब्दः गल-नादः क्व च अशुभः ॥ भवत्याः च शिवस्य एव न युक्तम् रूपम् उत्तमम् ॥ २।३।२७।३० ॥
kva ca ḍhakkā-mayaḥ śabdaḥ gala-nādaḥ kva ca aśubhaḥ .. bhavatyāḥ ca śivasya eva na yuktam rūpam uttamam .. 2.3.27.30 ..
यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ॥ वाहनं च बलीवर्दस्सामग्री कापि तस्य न ॥ ३१ ॥
यदि द्रव्यम् भवेत् तस्य कथम् स्यात् स दिगम्बरः ॥ वाहनम् च बलीवर्दः सामग्री का अपि तस्य न ॥ ३१ ॥
yadi dravyam bhavet tasya katham syāt sa digambaraḥ .. vāhanam ca balīvardaḥ sāmagrī kā api tasya na .. 31 ..
वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ॥ तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः ॥ ३२ ॥
वरेषु ये गुणाः प्रोक्ताः नारीणाम् सुख-दायकाः ॥ तद्-मध्ये हि विरूपाक्षे एकः अपि न गुणः स्मृतः ॥ ३२ ॥
vareṣu ye guṇāḥ proktāḥ nārīṇām sukha-dāyakāḥ .. tad-madhye hi virūpākṣe ekaḥ api na guṇaḥ smṛtaḥ .. 32 ..
तवापि कामो दयितो दग्धस्तेन हरेण च ॥ अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ॥ ३३॥
तव अपि कामः दयितः दग्धः तेन हरेण च ॥ अनादरः तदा दृष्टः हित्वा त्वाम् अन्यतस् गतः ॥ ३३॥
tava api kāmaḥ dayitaḥ dagdhaḥ tena hareṇa ca .. anādaraḥ tadā dṛṣṭaḥ hitvā tvām anyatas gataḥ .. 33..
जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ॥ सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ॥ ३४ ॥
जातिः न दृश्यते तस्य विद्या-ज्ञानम् तथा एव च ॥ सहायाः च पिशाचाः हि विषम् कण्ठे हि दृश्यते ॥ ३४ ॥
jātiḥ na dṛśyate tasya vidyā-jñānam tathā eva ca .. sahāyāḥ ca piśācāḥ hi viṣam kaṇṭhe hi dṛśyate .. 34 ..
एकाकी च सदा नित्यं विरागी च विशेषतः ॥ तस्मात्त्वं हि हरे नैव मनो योक्तुं तु चार्हसि ॥ ३५ ॥
एकाकी च सदा नित्यम् विरागी च विशेषतः ॥ तस्मात् त्वम् हि हरे ना एव मनः योक्तुम् तु च अर्हसि ॥ ३५ ॥
ekākī ca sadā nityam virāgī ca viśeṣataḥ .. tasmāt tvam hi hare nā eva manaḥ yoktum tu ca arhasi .. 35 ..
क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ॥ अंगरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ॥ ३६ ॥
क्व च हारः त्वदीयः वै क्व च तद्-मुण्ड-मालिका ॥ अंगरागः क्व ते दिव्यः चिता-भस्म क्व तद्-तनौ ॥ ३६ ॥
kva ca hāraḥ tvadīyaḥ vai kva ca tad-muṇḍa-mālikā .. aṃgarāgaḥ kva te divyaḥ citā-bhasma kva tad-tanau .. 36 ..
सर्वं विरुद्धं रूपादि तव देवि हरस्य च ॥ मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ॥ ३७॥
सर्वम् विरुद्धम् रूप-आदि तव देवि हरस्य च ॥ मह्यम् न रोचते हि एतत् यत् इच्छसि तथा कुरु ॥ ३७॥
sarvam viruddham rūpa-ādi tava devi harasya ca .. mahyam na rocate hi etat yat icchasi tathā kuru .. 37..
असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे ॥ निर्वर्तय मनस्तस्मान्नोचेदिच्छसि तत्कुरु ॥ ३८ ॥
असत् वस्तु च यत् किंचिद् तत् सर्वम् स्वयम् ईहसे ॥ निर्वर्तय मनः तस्मात् नो चेद् इच्छसि तत् कुरु ॥ ३८ ॥
asat vastu ca yat kiṃcid tat sarvam svayam īhase .. nirvartaya manaḥ tasmāt no ced icchasi tat kuru .. 38 ..
ब्रह्मोवाच ।
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ॥ उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम्॥ ३९॥
इति एवम् वचनम् श्रुत्वा तस्य विप्रस्य पार्वती ॥ उवाच क्रुद्ध-मनसा शिव-निन्दा-परम् द्विजम्॥ ३९॥
iti evam vacanam śrutvā tasya viprasya pārvatī .. uvāca kruddha-manasā śiva-nindā-param dvijam.. 39..
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः॥ २७॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे ब्रह्मचारिप्रतारणवाक्यवर्णनम् नाम सप्तविंशः अध्यायः॥ २७॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe brahmacāripratāraṇavākyavarṇanam nāma saptaviṃśaḥ adhyāyaḥ.. 27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In