| |
|

This overlay will guide you through the buttons:

एतावद्धि मया ज्ञातं कश्चिदन्योयमागतः ॥ इदानीं सकलं ज्ञातमवध्यस्त्वम्विशेषतः ॥ १॥
एतावत् हि मया ज्ञातम् कश्चिद् अन्यः यम् आगतः ॥ इदानीम् सकलम् ज्ञातम् अवध्यः त्वम् विशेषतः ॥ १॥
etāvat hi mayā jñātam kaścid anyaḥ yam āgataḥ .. idānīm sakalam jñātam avadhyaḥ tvam viśeṣataḥ .. 1..
त्वयोक्तं विदितं देव तदलीकं न चान्यथा ॥ यदि त्वयोदितं स्याद्वै विरुद्धं नोच्यते त्वया॥ २॥
त्वया उक्तम् विदितम् देव तत् अलीकम् न च अन्यथा ॥ यदि त्वया उदितम् स्यात् वै विरुद्धम् न उच्यते त्वया॥ २॥
tvayā uktam viditam deva tat alīkam na ca anyathā .. yadi tvayā uditam syāt vai viruddham na ucyate tvayā.. 2..
कदाचिद्दृश्यते तादृक् वेषधारी महेश्वरः ॥ स्वलीलया परब्रह्म स्वरागोपात्तविग्रहः॥ ३॥
कदाचिद् दृश्यते तादृश् वेष-धारी महेश्वरः ॥ स्व-लीलया पर-ब्रह्म स्व-राग-उपात्त-विग्रहः॥ ३॥
kadācid dṛśyate tādṛś veṣa-dhārī maheśvaraḥ .. sva-līlayā para-brahma sva-rāga-upātta-vigrahaḥ.. 3..
ब्रह्मचारिस्वरूपेण प्रतारयितुमुद्यतः॥ आगतश्छलसंयुक्तं वचोवादीः कुयुक्तितः। ॥ ४॥
ब्रह्मचारि-स्वरूपेण प्रतारयितुम् उद्यतः॥ आगतः छल-संयुक्तम् वचः-वादीः कुयुक्तितः। ॥ ४॥
brahmacāri-svarūpeṇa pratārayitum udyataḥ.. āgataḥ chala-saṃyuktam vacaḥ-vādīḥ kuyuktitaḥ. .. 4..
शंकरस्य स्वरूपं तु जानामि सुविशेषतः ॥ शिवतत्त्वमतो वच्मि सुविचार्य्य यथार्हतः ॥ ५॥
शंकरस्य स्वरूपम् तु जानामि सु विशेषतः ॥ शिवतत्त्वम् अतस् वच्मि सु विचार्य्य यथार्हतः ॥ ५॥
śaṃkarasya svarūpam tu jānāmi su viśeṣataḥ .. śivatattvam atas vacmi su vicāryya yathārhataḥ .. 5..
वस्तुतो निर्गुणो ब्रह्म सगुणः कारणेन सः ॥ कुतो जातिर्भवेत्तस्य निर्गुणस्य गुणात्मनः ॥ ६॥
वस्तुतस् निर्गुणः ब्रह्म स गुणः कारणेन सः ॥ कुतस् जातिः भवेत् तस्य निर्गुणस्य गुण-आत्मनः ॥ ६॥
vastutas nirguṇaḥ brahma sa guṇaḥ kāraṇena saḥ .. kutas jātiḥ bhavet tasya nirguṇasya guṇa-ātmanaḥ .. 6..
स सर्वासां हि विद्यानामधिष्ठानं सदाशिवः ॥ किं तस्य विद्यया कार्य्यं पूर्णस्य परमात्मनः ॥ ७॥
स सर्वासाम् हि विद्यानाम् अधिष्ठानम् सदाशिवः ॥ किम् तस्य विद्यया कार्य्यम् पूर्णस्य परमात्मनः ॥ ७॥
sa sarvāsām hi vidyānām adhiṣṭhānam sadāśivaḥ .. kim tasya vidyayā kāryyam pūrṇasya paramātmanaḥ .. 7..
वेदा उच्छ्वासरूपेण पुरा दत्ताश्च विष्णवे ॥ शंभुना तेन कल्पादौ तत्समः कोऽस्ति सुप्रभुः ॥ ८ ॥
वेदाः उच्छ्वास-रूपेण पुरा दत्ताः च विष्णवे ॥ शंभुना तेन कल्प-आदौ तद्-समः कः अस्ति सु प्रभुः ॥ ८ ॥
vedāḥ ucchvāsa-rūpeṇa purā dattāḥ ca viṣṇave .. śaṃbhunā tena kalpa-ādau tad-samaḥ kaḥ asti su prabhuḥ .. 8 ..
सर्वेषामादिभूतस्य वयोमानं कुतस्ततः ॥ प्रकृतिस्तु ततो जाता किं शक्तेस्तस्य कारणम् ॥ ९ ॥
सर्वेषाम् आदि-भूतस्य वयः-मानम् कुतस् ततस् ॥ प्रकृतिः तु ततस् जाता किम् शक्तेः तस्य कारणम् ॥ ९ ॥
sarveṣām ādi-bhūtasya vayaḥ-mānam kutas tatas .. prakṛtiḥ tu tatas jātā kim śakteḥ tasya kāraṇam .. 9 ..
ये भजंति च तं प्रीत्या शक्तीशं शंकरं सदा ॥ तस्मै शक्तित्रयं शंभुः स ददाति सदाव्ययम् ॥ 2.3.28.१० ॥
ये भजंति च तम् प्रीत्या शक्तीशम् शंकरम् सदा ॥ तस्मै शक्ति-त्रयम् शंभुः स ददाति सदा अव्ययम् ॥ २।३।२८।१० ॥
ye bhajaṃti ca tam prītyā śaktīśam śaṃkaram sadā .. tasmai śakti-trayam śaṃbhuḥ sa dadāti sadā avyayam .. 2.3.28.10 ..
तस्यैव भजनाज्जीवो मृत्युं जयति निर्भयः ॥ तस्मान्मृत्युंजयन्नाम प्रसिद्धम्भुवनत्रये ॥ ११॥
तस्य एव भजनात् जीवः मृत्युम् जयति निर्भयः ॥ तस्मात् मृत्युंजयत् नाम प्रसिद्धम् भुवनत्रये ॥ ११॥
tasya eva bhajanāt jīvaḥ mṛtyum jayati nirbhayaḥ .. tasmāt mṛtyuṃjayat nāma prasiddham bhuvanatraye .. 11..
तस्यैव पक्षपातेन विष्णुर्विष्णुत्वमाप्नुयात् ॥ ब्रह्मत्वं च यथा ब्रह्मा देवा देवत्वमेव च ।१२॥
तस्य एव पक्षपातेन विष्णुः विष्णु-त्वम् आप्नुयात् ॥ ब्रह्मत्वम् च यथा ब्रह्मा देवाः देव-त्वम् एव च ।१२॥
tasya eva pakṣapātena viṣṇuḥ viṣṇu-tvam āpnuyāt .. brahmatvam ca yathā brahmā devāḥ deva-tvam eva ca .12..
दर्शनार्थं शिवस्यादौ यथा गच्छति देवराट्॥ भूतादयस्तत्परस्य द्वारपालाश्शिवस्य तु॥ १३॥
दर्शन-अर्थम् शिवस्य आदौ यथा गच्छति॥ भूत-आदयः तद्-परस्य द्वारपालाः शिवस्य तु॥ १३॥
darśana-artham śivasya ādau yathā gacchati.. bhūta-ādayaḥ tad-parasya dvārapālāḥ śivasya tu.. 13..
दण्डैश्च मुकुटं विद्धं मृष्टं भवति सर्वतः ॥ किं तस्य बहुपक्षेण स्वयमेव महाप्रभुः ॥ १४॥
दण्डैः च मुकुटम् विद्धम् मृष्टम् भवति सर्वतस् ॥ किम् तस्य बहु-पक्षेण स्वयम् एव महा-प्रभुः ॥ १४॥
daṇḍaiḥ ca mukuṭam viddham mṛṣṭam bhavati sarvatas .. kim tasya bahu-pakṣeṇa svayam eva mahā-prabhuḥ .. 14..
कल्याणरूपिणस्तस्य सेवयेह न किं भवेत्॥ किं न्यूनं तस्य देवस्य मामिच्छति सदाशिवः॥ १५॥
कल्याण-रूपिणः तस्य सेवया इह न किम् भवेत्॥ किम् न्यूनम् तस्य देवस्य माम् इच्छति सदाशिवः॥ १५॥
kalyāṇa-rūpiṇaḥ tasya sevayā iha na kim bhavet.. kim nyūnam tasya devasya mām icchati sadāśivaḥ.. 15..
सप्तजन्मदरिद्रः स्यात्सेवेन्नो यदि शंकरम् ॥ तस्यैतत्सेवनाल्लोको लक्ष्मीः स्यादनपायिनी॥ १६॥
सप्त-जन्म-दरिद्रः स्यात् सेवेत् नो यदि शंकरम् ॥ तस्य एतद्-सेवनात् लोकः लक्ष्मीः स्यात् अनपायिनी॥ १६॥
sapta-janma-daridraḥ syāt sevet no yadi śaṃkaram .. tasya etad-sevanāt lokaḥ lakṣmīḥ syāt anapāyinī.. 16..
यदग्रे सिद्धयोष्टौ च नित्यं नृत्यंति तोषितुम्॥ अवाङ्मुखास्सदा तत्र तद्धितं दुर्ल्लभं कुतः॥ १७॥
यद्-अग्रे सिद्ध-योष्टौ च नित्यम् नृत्यन्ति तोषितुम्॥ अवाङ्मुखाः सदा तत्र तत् हितम् दुर्ल्लभम् कुतस्॥ १७॥
yad-agre siddha-yoṣṭau ca nityam nṛtyanti toṣitum.. avāṅmukhāḥ sadā tatra tat hitam durllabham kutas.. 17..
यद्यस्य मंगालानीह सेवते शंकरस्य न॥ यथापि मंगलन्तस्य स्मरणादेव जायते ॥ १८॥
यदि अस्य मंगालानि इह सेवते शंकरस्य न॥ यथा अपि मंगलन्तस्य स्मरणात् एव जायते ॥ १८॥
yadi asya maṃgālāni iha sevate śaṃkarasya na.. yathā api maṃgalantasya smaraṇāt eva jāyate .. 18..
यस्य पूजाप्रभावेण कामास्सिद्ध्यन्ति सर्वशः ॥ कुतो विकारस्तस्यास्ति निर्विकारस्य सर्वदा ॥ १९॥
यस्य पूजा-प्रभावेण सर्वशस् ॥ कुतस् विकारः तस्य अस्ति निर्विकारस्य सर्वदा ॥ १९॥
yasya pūjā-prabhāveṇa sarvaśas .. kutas vikāraḥ tasya asti nirvikārasya sarvadā .. 19..
शिवेति मंगलन्नाम मुखे यस्य निरन्तरम् ॥ तस्यैव दर्शनादन्ये पवित्रास्संति सर्वदा ॥ 2.3.28.२०॥
शिव-इति मंगलत् नाम मुखे यस्य निरन्तरम् ॥ तस्य एव दर्शनात् अन्ये पवित्राः संति सर्वदा ॥ २।३।२८।२०॥
śiva-iti maṃgalat nāma mukhe yasya nirantaram .. tasya eva darśanāt anye pavitrāḥ saṃti sarvadā .. 2.3.28.20..
यद्यपूतम्भवेद्भस्म चितायाश्च त्वयोदितम् ॥ नित्यमस्यांगगं देवैश्शिरोभिर्द्धार्यते कथम्॥ २१॥
यदि अ पूतम् भवेत् भस्म चितायाः च त्वया उदितम् ॥ नित्यम् अस्य अंग-गम् देवैः शिरोभिः द्धार्यते कथम्॥ २१॥
yadi a pūtam bhavet bhasma citāyāḥ ca tvayā uditam .. nityam asya aṃga-gam devaiḥ śirobhiḥ ddhāryate katham.. 21..
यो देवो जगतां कर्ता भर्ता हर्ता गुणान्वितः ॥ निर्गुणश्शिवसंज्ञश्च स विज्ञेयः कथम्भवेत् ॥ २२ ॥
यः देवः जगताम् कर्ता भर्ता हर्ता गुण-अन्वितः ॥ निर्गुणः शिव-संज्ञः च स विज्ञेयः कथम् भवेत् ॥ २२ ॥
yaḥ devaḥ jagatām kartā bhartā hartā guṇa-anvitaḥ .. nirguṇaḥ śiva-saṃjñaḥ ca sa vijñeyaḥ katham bhavet .. 22 ..
अगुणं ब्रह्मणो रूपं शिवस्य परमात्मनः ॥ तत्कथं हि विजानन्ति त्वादृशास्तद्बहिर्मुखाः ॥ २३ ॥
अगुणम् ब्रह्मणः रूपम् शिवस्य परमात्मनः ॥ तत् कथम् हि विजानन्ति त्वादृशाः तद्-बहिर्मुखाः ॥ २३ ॥
aguṇam brahmaṇaḥ rūpam śivasya paramātmanaḥ .. tat katham hi vijānanti tvādṛśāḥ tad-bahirmukhāḥ .. 23 ..
दुराचाराश्च पापाश्च देवेभ्यस्ते विनिर्गताः ॥ तत्त्वं ते नैव जानन्ति शिवस्यागुणरूपिणः ॥ २४ ॥
दुराचाराः च पापाः च देवेभ्यः ते विनिर्गताः ॥ तत्त्वम् ते न एव जानन्ति शिवस्य अगुण-रूपिणः ॥ २४ ॥
durācārāḥ ca pāpāḥ ca devebhyaḥ te vinirgatāḥ .. tattvam te na eva jānanti śivasya aguṇa-rūpiṇaḥ .. 24 ..
शिवनिन्दां करोतीह तत्त्वमज्ञाय यः पुमान् ॥ आजन्मसंचितं पुण्यं भस्मीभवति तस्य तत् ॥ २५ ॥
शिव-निन्दाम् करोति इह तत्त्वम् अ ज्ञाय यः पुमान् ॥ आजन्म संचितम् पुण्यम् भस्मीभवति तस्य तत् ॥ २५ ॥
śiva-nindām karoti iha tattvam a jñāya yaḥ pumān .. ājanma saṃcitam puṇyam bhasmībhavati tasya tat .. 25 ..
त्वया निंदा कृता यात्र हरस्यामित तेजसः ॥ त्वत्पूजा च कृता यन्मे तस्मात्पापम्भजाम्यहम् ॥ २६ ॥
त्वया निंदा कृता या अत्र हरस्य अमित-तेजसः ॥ त्वद्-पूजा च कृता यत् मे तस्मात् पापम् भजामि अहम् ॥ २६ ॥
tvayā niṃdā kṛtā yā atra harasya amita-tejasaḥ .. tvad-pūjā ca kṛtā yat me tasmāt pāpam bhajāmi aham .. 26 ..
शिवविद्वेषिणं दृष्ट्वा सचेलं स्नानमाचरेत् ॥ शिवविद्वेषिणं दृष्ट्वा प्रायश्चितं समाचरेत् ॥ २७॥
शिव-विद्वेषिणम् दृष्ट्वा स चेलम् स्नानम् आचरेत् ॥ शिव-विद्वेषिणम् दृष्ट्वा प्रायश्चितम् समाचरेत् ॥ २७॥
śiva-vidveṣiṇam dṛṣṭvā sa celam snānam ācaret .. śiva-vidveṣiṇam dṛṣṭvā prāyaścitam samācaret .. 27..
रे रे दुष्ट त्वया चोक्तमहं जानामि शंकरम् ॥ निश्चयेन न विज्ञातश्शिव एव सनातनः ॥ २८॥
रे रे दुष्ट त्वया च उक्तम् अहम् जानामि शंकरम् ॥ निश्चयेन न विज्ञातः शिवः एव सनातनः ॥ २८॥
re re duṣṭa tvayā ca uktam aham jānāmi śaṃkaram .. niścayena na vijñātaḥ śivaḥ eva sanātanaḥ .. 28..
यथा तथा भवेद्रुद्रो यथा वा बहुरूपवान् ॥ ममाभीष्टतमो नित्यं निर्विकारी सतां प्रियः ॥ २९ ॥
यथा तथा भवेत् रुद्रः यथा वा बहु-रूपवान् ॥ मम अभीष्टतमः नित्यम् निर्विकारी सताम् प्रियः ॥ २९ ॥
yathā tathā bhavet rudraḥ yathā vā bahu-rūpavān .. mama abhīṣṭatamaḥ nityam nirvikārī satām priyaḥ .. 29 ..
विष्णुर्ब्रह्मापि न समस्तस्य क्वापि महात्मनः ॥ कुतोऽन्ये निर्जराद्याश्च कालाधीनास्सदैवतम्॥ 2.3.28.३०॥
विष्णुः ब्रह्मा अपि न समस्तस्य क्वापि महात्मनः ॥ कुतस् अन्ये निर्जर-आद्याः च काल-अधीनाः स दैवतम्॥ २।३।२८।३०॥
viṣṇuḥ brahmā api na samastasya kvāpi mahātmanaḥ .. kutas anye nirjara-ādyāḥ ca kāla-adhīnāḥ sa daivatam.. 2.3.28.30..
इति बुध्या समालोक्य स्वया सत्या सुतत्त्वतः ॥ शिवार्थं वनमागत्य करोमि विपुलं तपः ॥ ३१ ॥
इति बुध्या समालोक्य स्वया सत्या सु तत्त्वतः ॥ शिव-अर्थम् वनम् आगत्य करोमि विपुलम् तपः ॥ ३१ ॥
iti budhyā samālokya svayā satyā su tattvataḥ .. śiva-artham vanam āgatya karomi vipulam tapaḥ .. 31 ..
स एव परमेशानस्सर्वेशो भक्तवत्सलः ॥ संप्राप्तुम्मेऽभिलाषो हि दीनानुग्रहकारकम् ॥ ३२ ॥
सः एव परमेशानः सर्व-ईशः भक्त-वत्सलः ॥ संप्राप्तुम् मे अभिलाषः हि दीन-अनुग्रह-कारकम् ॥ ३२ ॥
saḥ eva parameśānaḥ sarva-īśaḥ bhakta-vatsalaḥ .. saṃprāptum me abhilāṣaḥ hi dīna-anugraha-kārakam .. 32 ..
ब्रह्मोवाच ।।
इत्युक्त्वा गिरिजा सा हि गिरीश्वरसुता मुने ॥ विरराम शिवं दध्यो निर्विकारेण चेतसा ॥ ३३ ॥
इति उक्त्वा गिरिजा सा हि गिरीश्वर-सुता मुने ॥ विरराम शिवम् दध्यः निर्विकारेण चेतसा ॥ ३३ ॥
iti uktvā girijā sā hi girīśvara-sutā mune .. virarāma śivam dadhyaḥ nirvikāreṇa cetasā .. 33 ..
तदाकर्ण्य वचो देव्या ब्रह्मचारी स वै द्विजः ॥ पुनर्वचनमाख्यातुं यावदेव प्रचक्रमे ॥ ३४॥
तत् आकर्ण्य वचः देव्याः ब्रह्मचारी स वै द्विजः ॥ पुनर्वचनम् आख्यातुम् यावत् एव प्रचक्रमे ॥ ३४॥
tat ākarṇya vacaḥ devyāḥ brahmacārī sa vai dvijaḥ .. punarvacanam ākhyātum yāvat eva pracakrame .. 34..
उवाच गिरिजा तावत्स्वसखीं विजयां द्रुतम् ॥ शिव सक्तमनोवृत्तिश्शिवनिंदापराङ्मुखी॥ ३५॥
उवाच गिरिजा तावत् स्व-सखीम् विजयाम् द्रुतम् ॥ शिव सक्त-मनः-वृत्तिः शिव-निन्दा-पराङ्मुखी॥ ३५॥
uvāca girijā tāvat sva-sakhīm vijayām drutam .. śiva sakta-manaḥ-vṛttiḥ śiva-nindā-parāṅmukhī.. 35..
गिरिजोवाच ।।
वारणीयः प्रयत्नेन सख्ययं हि द्विजाधमः ॥ पुनर्वक्तुमनाश्चैव शिवनिंदां करिष्यति ॥ ३६ ॥
वारणीयः प्रयत्नेन सखी अयम् हि द्विज-अधमः ॥ पुनर् वक्तु-मनाः च एव शिव-निंदाम् करिष्यति ॥ ३६ ॥
vāraṇīyaḥ prayatnena sakhī ayam hi dvija-adhamaḥ .. punar vaktu-manāḥ ca eva śiva-niṃdām kariṣyati .. 36 ..
न केवलम्भवेत्पापं निन्दां कर्तुश्शिवस्य हि ॥ यो वै शृणोति तन्निन्दां पापभाक् स भवेदिह ॥ ३७ ॥
न केवलम् भवेत् पापम् निन्दाम् कर्तुः शिवस्य हि ॥ यः वै शृणोति तद्-निन्दाम् पाप-भाज् स भवेत् इह ॥ ३७ ॥
na kevalam bhavet pāpam nindām kartuḥ śivasya hi .. yaḥ vai śṛṇoti tad-nindām pāpa-bhāj sa bhavet iha .. 37 ..
शिवनिन्दाकरो वध्यस्सर्वथा शिवकिंकरैः ॥ ब्राह्मणश्चेत्स वै त्याज्यो गन्तव्यं तत्स्थलाद्द्रुतम् ॥ ३८ ॥
शिव-निन्दा-करः वध्यः सर्वथा शिव-किंकरैः ॥ ब्राह्मणः चेद् स वै त्याज्यः गन्तव्यम् तद्-स्थलात् द्रुतम् ॥ ३८ ॥
śiva-nindā-karaḥ vadhyaḥ sarvathā śiva-kiṃkaraiḥ .. brāhmaṇaḥ ced sa vai tyājyaḥ gantavyam tad-sthalāt drutam .. 38 ..
अयं दुष्टः पुनर्निन्दां करिष्यति शिवस्य हि ॥ ब्राह्मणत्वादवध्यश्चैत्त्याज्योऽदृश्यश्च सर्वथा ॥ ३९ ॥
अयम् दुष्टः पुनर् निन्दाम् करिष्यति शिवस्य हि ॥ ब्राह्मण-त्वात् अवध्यः चैत्त्य-अज्यः अदृश्यः च सर्वथा ॥ ३९ ॥
ayam duṣṭaḥ punar nindām kariṣyati śivasya hi .. brāhmaṇa-tvāt avadhyaḥ caittya-ajyaḥ adṛśyaḥ ca sarvathā .. 39 ..
हित्वैतत्स्थलमद्येव यास्यामोऽन्यत्र मा चिरम् ॥ यथा संभाषणं न स्यादनेनाऽविदुषा पुनः ॥ 2.3.28.४० ॥
हित्वा एतत् स्थलम् अद्या इव यास्यामः अन्यत्र मा चिरम् ॥ यथा संभाषणम् न स्यात् अनेन अ विदुषा पुनर् ॥ २।३।२८।४० ॥
hitvā etat sthalam adyā iva yāsyāmaḥ anyatra mā ciram .. yathā saṃbhāṣaṇam na syāt anena a viduṣā punar .. 2.3.28.40 ..
ब्रह्मोवाच ।।
इत्युक्त्वा चोमया यावत्पादमुत्क्षिप्यते मुने ॥ असौ तावच्छिवस्साक्षादालंबे प्रियया स्वयम् ॥ ४१ ॥
इति उक्त्वा च उमया यावत् पादम् उत्क्षिप्यते मुने ॥ असौ तावत् शिवः साक्षात् आलंबे प्रियया स्वयम् ॥ ४१ ॥
iti uktvā ca umayā yāvat pādam utkṣipyate mune .. asau tāvat śivaḥ sākṣāt ālaṃbe priyayā svayam .. 41 ..
कृत्वा स्वरूपं सुभगं शिवाध्यानं यथा तथा ॥ दर्शयित्वा शिवायै तामुवाचावाङ्मुखीं शिवः ॥ ४२॥
कृत्वा स्व-रूपम् सुभगम् शिव-अध्यानम् यथा तथा ॥ दर्शयित्वा शिवायै ताम् उवाच अवाक् मुखीम् शिवः ॥ ४२॥
kṛtvā sva-rūpam subhagam śiva-adhyānam yathā tathā .. darśayitvā śivāyai tām uvāca avāk mukhīm śivaḥ .. 42..
शिव उवाच ।।
कुत्र यास्यसि मां हित्वा न त्वं त्याज्या मया पुनः ॥ प्रसन्नोऽस्मि वरं ब्रूहि नादेयम्विद्यते तव ॥ ॥ ४३ ॥
कुत्र यास्यसि माम् हित्वा न त्वम् त्याज्या मया पुनर् ॥ प्रसन्नः अस्मि वरम् ब्रूहि न आदेयम् विद्यते तव ॥ ॥ ४३ ॥
kutra yāsyasi mām hitvā na tvam tyājyā mayā punar .. prasannaḥ asmi varam brūhi na ādeyam vidyate tava .. .. 43 ..
अद्यप्रभृति ते दासस्तपोभिः क्रीत एव ते ॥ क्रीतोऽस्मि तवसौन्दर्यात्क्षणमेकं युगाय ते ॥ ४४ ॥
अद्य प्रभृति ते दासः तपोभिः क्रीतः एव ते ॥ क्रीतः अस्मि तव सौन्दर्यात् क्षणम् एकम् युगाय ते ॥ ४४ ॥
adya prabhṛti te dāsaḥ tapobhiḥ krītaḥ eva te .. krītaḥ asmi tava saundaryāt kṣaṇam ekam yugāya te .. 44 ..
त्यज्यतां च त्वया लज्जा मम पत्नी सनातनी ॥ गिरिजे त्वं हि सद्बुध्या विचारय महेश्वरि ॥ ४५ ॥
त्यज्यताम् च त्वया लज्जा मम पत्नी सनातनी ॥ गिरिजे त्वम् हि सत्-बुध्या विचारय महेश्वरि ॥ ४५ ॥
tyajyatām ca tvayā lajjā mama patnī sanātanī .. girije tvam hi sat-budhyā vicāraya maheśvari .. 45 ..
मया परीक्षितासि त्वं बहुधा दृढमानसे ॥ तत्क्षमस्वापराधम्मे लोकलीलानुसारिणः ॥ ४६ ॥
मया परीक्षिता असि त्वम् बहुधा दृढ-मानसे ॥ तत् क्षमस्व अपर-अधम् मे लोक-लीला-अनुसारिणः ॥ ४६ ॥
mayā parīkṣitā asi tvam bahudhā dṛḍha-mānase .. tat kṣamasva apara-adham me loka-līlā-anusāriṇaḥ .. 46 ..
न त्वादृशीम्प्रणयिनीं पश्यामि च त्रिलोकके ॥ सर्वथाहं तवाधीनस्स्वकामः पूर्य्यतां शिवे ॥ ४७ ॥
न त्वादृशीम् प्रणयिनीम् पश्यामि च त्रिलोकके ॥ सर्वथा अहम् तव अधीनः स्व-कामः पूर्य्यताम् शिवे ॥ ४७ ॥
na tvādṛśīm praṇayinīm paśyāmi ca trilokake .. sarvathā aham tava adhīnaḥ sva-kāmaḥ pūryyatām śive .. 47 ..
एहि प्रिये मत्सकाशं पत्नी त्वं मे वरस्तव ॥ त्वया साकं द्रुतं यास्ये स्वगृहम्पर्वत्तोत्तमम् ॥ ४८ ॥
एहि प्रिये मद्-सकाशम् पत्नी त्वम् मे वरः तव ॥ त्वया साकम् द्रुतम् यास्ये स्व-गृहम् पर्वत्त-उत्तमम् ॥ ४८ ॥
ehi priye mad-sakāśam patnī tvam me varaḥ tava .. tvayā sākam drutam yāsye sva-gṛham parvatta-uttamam .. 48 ..
ब्रह्मोवाच ।।
इत्युक्ते देवदेवेन पार्वती मुदमाप सा ॥ तपोजातं तु यत्कष्टं तज्जहौ च पुरातनम् ॥ ४९ ॥
इति उक्ते देवदेवेन पार्वती मुदम् आप सा ॥ तपः-जातम् तु यत् कष्टम् तत् जहौ च पुरातनम् ॥ ४९ ॥
iti ukte devadevena pārvatī mudam āpa sā .. tapaḥ-jātam tu yat kaṣṭam tat jahau ca purātanam .. 49 ..
सर्वः श्रमो विनष्टोभूत्स त्यास्तु मुनिसत्तम ॥ फले जाते श्रमः पूर्वो जन्तोर्नाशमवाप्नुयात् ॥ 2.3.28.५० ॥
सर्वः श्रमः विनष्टः अभूत् स त्य-अस्तु मुनि-सत्तम ॥ फले जाते श्रमः पूर्वः जन्तोः नाशम् अवाप्नुयात् ॥ २।३।२८।५० ॥
sarvaḥ śramaḥ vinaṣṭaḥ abhūt sa tya-astu muni-sattama .. phale jāte śramaḥ pūrvaḥ jantoḥ nāśam avāpnuyāt .. 2.3.28.50 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वत्याश्शिवरूपदर्शनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वत्याः शिवरूपदर्शनम् नाम अष्टाविंशः अध्यायः ॥ २८ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatyāḥ śivarūpadarśanam nāma aṣṭāviṃśaḥ adhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In