| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम्॥ ॥ तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ॥ १॥
ब्रह्मन् विधे महाभाग किम् जातम् तद्-अनन्तरम्॥ ॥ तत् सर्वम् श्रोतुम् इच्छामि कथय त्वम् शिवायशः ॥ १॥
brahman vidhe mahābhāga kim jātam tad-anantaram.. .. tat sarvam śrotum icchāmi kathaya tvam śivāyaśaḥ .. 1..
ब्रह्मोवाच।।
देवर्षे श्रूयतां सम्यक्कथयामि कथां मुदा॥ तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम् ॥ २॥
देव-ऋषे श्रूयताम् सम्यक् कथयामि कथाम् मुदा॥ ताम् महा-पाप-संहर्त्रीम् शिव-भक्ति-विवर्द्धिनीम् ॥ २॥
deva-ṛṣe śrūyatām samyak kathayāmi kathām mudā.. tām mahā-pāpa-saṃhartrīm śiva-bhakti-vivarddhinīm .. 2..
पार्वती वचनं श्रुत्वा हरस्स परमात्मनः ॥ दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ॥ ३॥
पार्वती वचनम् श्रुत्वा हरः स परमात्मनः ॥ दृष्ट्वा आनन्द-करम् रूपम् जहर्ष अतीव च द्विज ॥ ३॥
pārvatī vacanam śrutvā haraḥ sa paramātmanaḥ .. dṛṣṭvā ānanda-karam rūpam jaharṣa atīva ca dvija .. 3..
प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् ॥ अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ॥ ४ ॥
प्रत्युवाच महा साध्वी स्व-उपकण्ठ-स्थितम् विभुम् ॥ अतीव सुखिता देवी प्रीति-उत्फुल्ल-आनना शिवा ॥ ४ ॥
pratyuvāca mahā sādhvī sva-upakaṇṭha-sthitam vibhum .. atīva sukhitā devī prīti-utphulla-ānanā śivā .. 4 ..
पार्वत्युवाच ।।
त्वं नाथो मम देवेश त्वया किं विस्मृतम्पुरा ॥ दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ॥ ५ ॥
त्वम् नाथः मम देवेश त्वया किम् विस्मृतम् पुरा ॥ दक्ष-यज्ञ-विनाशम् हि यद्-अर्थम् कृतवान् हठात् ॥ ५ ॥
tvam nāthaḥ mama deveśa tvayā kim vismṛtam purā .. dakṣa-yajña-vināśam hi yad-artham kṛtavān haṭhāt .. 5 ..
स त्वं साहं समुत्पन्ना मेनयां कार्य्यसिद्धये ॥ देवानां देव देदेश तारकाप्ताऽसुखात्मनाम् ॥ ६॥
स त्वम् सा अहम् समुत्पन्ना मेनयाम् कार्य्य-सिद्धये ॥ देवानाम् देव देदेश तारका आप्ता अ सुख-आत्मनाम् ॥ ६॥
sa tvam sā aham samutpannā menayām kāryya-siddhaye .. devānām deva dedeśa tārakā āptā a sukha-ātmanām .. 6..
यदि प्रसन्नो देवेश करोषि च कृपां यदि ॥ पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ॥ ७॥
यदि प्रसन्नः देवेश करोषि च कृपाम् यदि ॥ पतिः भव मम ईशान मम वाक्यम् कुरु प्रभो ॥ ७॥
yadi prasannaḥ deveśa karoṣi ca kṛpām yadi .. patiḥ bhava mama īśāna mama vākyam kuru prabho .. 7..
पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया ॥ प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ॥ ८ ॥
पितुः गेहे मया सम्यक् गम्यते त्वद्-अनुजया ॥ प्रसिद्धम् क्रियताम् तत् वै विशुद्धम् परमम् यशः ॥ ८ ॥
pituḥ gehe mayā samyak gamyate tvad-anujayā .. prasiddham kriyatām tat vai viśuddham paramam yaśaḥ .. 8 ..
गन्तव्यं भवता नाथ हिमवत्पार्श्वतं प्रभो ॥ याचस्व मां ततो भिक्षु भूत्वा लीलाविशारदः ॥ ९ ॥
गन्तव्यम् भवता नाथ हिमवत्-पार्श्वतम् प्रभो ॥ याचस्व माम् ततस् भिक्षु भूत्वा लीला-विशारदः ॥ ९ ॥
gantavyam bhavatā nātha himavat-pārśvatam prabho .. yācasva mām tatas bhikṣu bhūtvā līlā-viśāradaḥ .. 9 ..
तथा त्वया प्रकर्तव्यं लोके ख्यापयता यशः ॥ पितुर्मे सफलं सर्वं कुरुष्वैवं गृहा*मम् ॥ 2.3.29.१० ॥
तथा त्वया प्रकर्तव्यम् लोके ख्यापयता यशः ॥ पितुः मे सफलम् सर्वम् कुरुष्व एवम् गृह अमम् ॥ २।३।२९।१० ॥
tathā tvayā prakartavyam loke khyāpayatā yaśaḥ .. pituḥ me saphalam sarvam kuruṣva evam gṛha amam .. 2.3.29.10 ..
ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः ॥ करिष्यति न संदेहस्तव वाक्यं पिता मम ॥ ११॥
ऋषिभिः बोधितः प्रीत्या स्व-बन्धु-परिवारितः ॥ करिष्यति न संदेहः तव वाक्यम् पिता मम ॥ ११॥
ṛṣibhiḥ bodhitaḥ prītyā sva-bandhu-parivāritaḥ .. kariṣyati na saṃdehaḥ tava vākyam pitā mama .. 11..
दक्षकन्या पुराहं वै पित्रा दत्ता यदा तव ॥ यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥ १२ ॥
दक्ष-कन्या पुरा अहम् वै पित्रा दत्ता यदा तव ॥ यथा उक्त-विधिना तत्र विवाहः न कृतः त्वया ॥ १२ ॥
dakṣa-kanyā purā aham vai pitrā dattā yadā tava .. yathā ukta-vidhinā tatra vivāhaḥ na kṛtaḥ tvayā .. 12 ..
न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे ॥ ग्रहाणां विषयस्तेन सच्छिद्रोयं महानभूत् ॥ १३ ॥
न ग्रहाः पूजिताः तेन दक्षेण जनकेन मे ॥ ग्रहाणाम् विषयः तेन स छिद्रः यम् महान् अभूत् ॥ १३ ॥
na grahāḥ pūjitāḥ tena dakṣeṇa janakena me .. grahāṇām viṣayaḥ tena sa chidraḥ yam mahān abhūt .. 13 ..
तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो ॥ विवाहं त्वं महादेव देवानां कार्य्यसिद्धये ॥ १४ ॥
तस्मात् यथा उक्त-विधिना कर्तुम् अर्हसि मे प्रभो ॥ विवाहम् त्वम् महादेव देवानाम् कार्य्य-सिद्धये ॥ १४ ॥
tasmāt yathā ukta-vidhinā kartum arhasi me prabho .. vivāham tvam mahādeva devānām kāryya-siddhaye .. 14 ..
विवाहस्य यथा रीतिः कर्तव्या सा तथा धुवम् ॥ जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ॥ १५ ॥
विवाहस्य यथा रीतिः कर्तव्या सा तथा ॥ जानातु हिमवान् सम्यक् कृतम् पुत्र्या शुभम् तपः ॥ १५ ॥
vivāhasya yathā rītiḥ kartavyā sā tathā .. jānātu himavān samyak kṛtam putryā śubham tapaḥ .. 15 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा सुप्रसन्नस्सदाशिवः ॥ प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ॥ । १६ ॥
इति एवम् वचनम् श्रुत्वा सु प्रसन्नः सदाशिवः ॥ प्रोवाच वचनम् प्रीत्या गिरिजाम् प्रहसन् इव ॥ । १६ ॥
iti evam vacanam śrutvā su prasannaḥ sadāśivaḥ .. provāca vacanam prītyā girijām prahasan iva .. . 16 ..
शिव उवाच ।।
शृणु देवि महेशानि परमं वचनं मम ॥ यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ॥ १७ ॥
शृणु देवि महेशानि परमम् वचनम् मम ॥ यथोचितम् सु माङ्गल्यम् अविकारि तथा कुरु ॥ १७ ॥
śṛṇu devi maheśāni paramam vacanam mama .. yathocitam su māṅgalyam avikāri tathā kuru .. 17 ..
ब्रह्मादिकानि भूतानि त्वनित्यानि वरानने ॥ दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ॥ १८ ॥
ब्रह्म-आदिकानि भूतानि तु अनित्यानि वरानने ॥ दृष्टम् यत् सर्वम् एतत् च नश्वरम् विद्धि भामिनि ॥ १८ ॥
brahma-ādikāni bhūtāni tu anityāni varānane .. dṛṣṭam yat sarvam etat ca naśvaram viddhi bhāmini .. 18 ..
एकोनेकत्वमापन्नो निर्गुणो हि गुणान्वितः॥ ।ज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ॥ १९॥
एकः उनेक-त्वम् आपन्नः निर्गुणः हि गुण-अन्वितः॥ ।ज्योत्स्नया यः विभाति पर-ज्योत्स्ना-अन्वितः अभवत् ॥ १९॥
ekaḥ uneka-tvam āpannaḥ nirguṇaḥ hi guṇa-anvitaḥ.. .jyotsnayā yaḥ vibhāti para-jyotsnā-anvitaḥ abhavat .. 19..
स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम्॥ सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि॥ 2.3.29.२०॥
स्वतन्त्रः परतन्त्रः च त्वया देवि कृतः हि अहम्॥ सर्व-कर्त्री च प्रकृतिः महामाया त्वम् एव हि॥ २।३।२९।२०॥
svatantraḥ paratantraḥ ca tvayā devi kṛtaḥ hi aham.. sarva-kartrī ca prakṛtiḥ mahāmāyā tvam eva hi.. 2.3.29.20..
मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या ॥ सवार्त्मभिस्सुकृतिभिः परमात्मभावैस्संसिक्तमात्मनि गणः परिवेष्टितश्च ॥ २१॥
माया-मयम् कृतम् इदम् च जगत् समग्रम् सर्व-आत्मना हि विधृतम् परया स्व-बुद्ध्या ॥ सव-आर्त्मभिः सुकृतिभिः परमात्म-भावैः संसिक्तम् आत्मनि गणः परिवेष्टितः च ॥ २१॥
māyā-mayam kṛtam idam ca jagat samagram sarva-ātmanā hi vidhṛtam parayā sva-buddhyā .. sava-ārtmabhiḥ sukṛtibhiḥ paramātma-bhāvaiḥ saṃsiktam ātmani gaṇaḥ pariveṣṭitaḥ ca .. 21..
के ग्रहाः के ऋतुगणाः के वान्येपि त्वया ग्रहाः॥ किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ॥ २२॥
के ग्रहाः के ऋतु-गणाः के वा अन्ये अपि त्वया ग्रहाः॥ किम् उक्तम् च अधुना देवि शिव-अर्थम् वरवर्णिनि ॥ २२॥
ke grahāḥ ke ṛtu-gaṇāḥ ke vā anye api tvayā grahāḥ.. kim uktam ca adhunā devi śiva-artham varavarṇini .. 22..
गुणकार्य्यप्रभेदेनावाभ्यां प्रादुर्भवः कृतः ॥ भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ॥ २३॥
गुण-कार्य्य-प्रभेदेन आवाभ्याम् प्रादुर्भवः कृतः ॥ भक्त-हेतोः जगति अस्मिन् भक्त-वत्सल-भावतः ॥ २३॥
guṇa-kāryya-prabhedena āvābhyām prādurbhavaḥ kṛtaḥ .. bhakta-hetoḥ jagati asmin bhakta-vatsala-bhāvataḥ .. 23..
त्वं हि वै प्रकृतिस्सूक्ष्मा रजस्सत्त्वतमोमयी॥ व्यापारदक्षा सततं सगुणा निर्गुणापि च॥ २४॥
त्वम् हि वै प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमः-मयी॥ व्यापार-दक्षा सततम् स गुणा निर्गुणा अपि च॥ २४॥
tvam hi vai prakṛtiḥ sūkṣmā rajaḥ-sattva-tamaḥ-mayī.. vyāpāra-dakṣā satatam sa guṇā nirguṇā api ca.. 24..
सर्वेषामिह भूतानामहमात्मा सुमध्यमे॥ निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ॥ २५॥
सर्वेषाम् इह भूतानाम् अहम् आत्मा सुमध्यमे॥ निर्विकारी निरीहः च भक्त-इच्छा-उपात्त-विग्रहः ॥ २५॥
sarveṣām iha bhūtānām aham ātmā sumadhyame.. nirvikārī nirīhaḥ ca bhakta-icchā-upātta-vigrahaḥ .. 25..
हिमालयं न गच्छेयं जनकं तव शैलजे ॥ ततस्त्वां भिक्षुको भूत्वा न याचेयं कथंचन ॥ २६ ॥
हिमालयम् न गच्छेयम् जनकम् तव शैलजे ॥ ततस् त्वाम् भिक्षुकः भूत्वा न याचेयम् कथंचन ॥ २६ ॥
himālayam na gaccheyam janakam tava śailaje .. tatas tvām bhikṣukaḥ bhūtvā na yāceyam kathaṃcana .. 26 ..
महागुणैर्गरिष्ठोपि महात्मापि गिरीन्द्रजे ॥ देहीतिवचनात्सद्यः पुरुषो याति लाघवम् ॥ २७॥
महा-गुणैः गरिष्ठः अपि महात्मा अपि गिरीन्द्रजे ॥ देहि इति वचनात् सद्यस् पुरुषः याति लाघवम् ॥ २७॥
mahā-guṇaiḥ gariṣṭhaḥ api mahātmā api girīndraje .. dehi iti vacanāt sadyas puruṣaḥ yāti lāghavam .. 27..
इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ ॥ कार्य्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ॥ २८ ॥
इत्थम् ज्ञात्वा तु कल्याणि किम् अस्माकम् वदसि अथ ॥ कार्य्यम् त्वद्-आज्ञया भद्रे यथा इच्छसि तथा कुरु ॥ २८ ॥
ittham jñātvā tu kalyāṇi kim asmākam vadasi atha .. kāryyam tvad-ājñayā bhadre yathā icchasi tathā kuru .. 28 ..
।। ब्रह्मोवाच ।।
तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा ॥ जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः॥ २९॥
तेन उक्ता अपि महादेवी सा साध्वी कमल-ईक्षणा ॥ जगाद शंकरम् भक्त्या सु प्रणम्य पुनर् पुनर्॥ २९॥
tena uktā api mahādevī sā sādhvī kamala-īkṣaṇā .. jagāda śaṃkaram bhaktyā su praṇamya punar punar.. 29..
पार्वत्युवाच ।।
त्वमात्मा प्रकृतिश्चाहं नात्र कार्य्या विचारणा ॥ स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ॥ 2.3.29.३० ॥
त्वम् आत्मा प्रकृतिः च अहम् न अत्र कार्या विचारणा ॥ स्वतन्त्रौ भक्त-वशगौ निर्गुणौ स गुणौ अपि ॥ २।३।२९।३० ॥
tvam ātmā prakṛtiḥ ca aham na atra kāryā vicāraṇā .. svatantrau bhakta-vaśagau nirguṇau sa guṇau api .. 2.3.29.30 ..
प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो ॥ याचस्व मां हिमगिरेस्सौभाग्यं देहि शङ्कर ॥ ३१ ॥
प्रयत्नेन त्वया शम्भो कार्यम् वाक्यम् मम प्रभो ॥ याचस्व माम् हिमगिरेः सौभाग्यम् देहि शङ्कर ॥ ३१ ॥
prayatnena tvayā śambho kāryam vākyam mama prabho .. yācasva mām himagireḥ saubhāgyam dehi śaṅkara .. 31 ..
कृपां कुरु महेशान तव भक्तास्मि नित्यशः ॥ तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ॥ ३२॥
कृपाम् कुरु महेशान तव भक्ता अस्मि नित्यशस् ॥ तव पत्नी सदा नाथ हि अहम् जन्मनि जन्मनि ॥ ३२॥
kṛpām kuru maheśāna tava bhaktā asmi nityaśas .. tava patnī sadā nātha hi aham janmani janmani .. 32..
त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ॥ निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ॥ ३३ ॥
त्वम् ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः ॥ निर्विकारी निरीहः च स्वतन्त्रः परमेश्वरः ॥ ३३ ॥
tvam brahma paramātmā hi nirguṇaḥ prakṛteḥ paraḥ .. nirvikārī nirīhaḥ ca svatantraḥ parameśvaraḥ .. 33 ..
तथापि सगुणोपीह भक्तोद्धारपरायणः ॥ विहारी स्वात्मनिरतो नानालीलाविशारदः ॥ ३४ ॥
तथा अपि स गुणः उपि इह भक्त-उद्धार-परायणः ॥ ॥ ३४ ॥
tathā api sa guṇaḥ upi iha bhakta-uddhāra-parāyaṇaḥ .. .. 34 ..
सर्वथा त्वामहं जाने महादेव महेश्वर ॥ किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ॥ ३५ ॥
सर्वथा त्वाम् अहम् जाने महादेव महेश्वर ॥ किम् उक्तेन च सर्वज्ञ बहुना हि दयाम् कुरु ॥ ३५ ॥
sarvathā tvām aham jāne mahādeva maheśvara .. kim uktena ca sarvajña bahunā hi dayām kuru .. 35 ..
विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् ॥ यत्सुगीय जना नाथांजसोत्तीर्णा भवाम्बुधेः ॥ ३६॥
विस्तारय यशः लोके कृत्वा लीलाम् महा-अद्भुताम् ॥ यत् सु गीय जनाः नाथ अंजसा उत्तीर्णाः भव-अम्बुधेः ॥ ३६॥
vistāraya yaśaḥ loke kṛtvā līlām mahā-adbhutām .. yat su gīya janāḥ nātha aṃjasā uttīrṇāḥ bhava-ambudheḥ .. 36..
ब्रह्मोवाच ।।
इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः ॥ विरराम महेशानं नतस्कन्धा कृतांजलिः ॥ ३७ ॥
इति एवम् उक्त्वा गिरिजा सु प्रणम्य पुनर् पुनर् ॥ विरराम महेशानम् नत-स्कन्धा कृतांजलिः ॥ ३७ ॥
iti evam uktvā girijā su praṇamya punar punar .. virarāma maheśānam nata-skandhā kṛtāṃjaliḥ .. 37 ..
इत्येवमुक्तस्स तया महात्मा महेश्वरो लोकविडम्बनाय ॥ तथेति मत्त्वा प्रहसन्बभूव मुदान्वितः कर्तुमनास्तदेव ॥ ३८॥
इति एवम् उक्तः स तया महात्मा महेश्वरः लोक-विडम्बनाय ॥ तथा इति प्रहसन् बभूव मुदा अन्वितः कर्तु-मनाः तत् एव ॥ ३८॥
iti evam uktaḥ sa tayā mahātmā maheśvaraḥ loka-viḍambanāya .. tathā iti prahasan babhūva mudā anvitaḥ kartu-manāḥ tat eva .. 38..
ततो ह्यन्तर्हितश्शम्भुर्बभूव सुप्रहर्षितः ॥ कैलासं प्रययौ काल्या विरहाकृष्टमानसः ॥ ३९ ॥
ततस् हि अन्तर्हितः शम्भुः बभूव सु प्रहर्षितः ॥ कैलासम् प्रययौ काल्या विरह-आकृष्ट-मानसः ॥ ३९ ॥
tatas hi antarhitaḥ śambhuḥ babhūva su praharṣitaḥ .. kailāsam prayayau kālyā viraha-ākṛṣṭa-mānasaḥ .. 39 ..
तत्र गत्वा महेशानो नन्द्यादिभ्यस्स ऊचिवान् ॥ वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः ॥ 2.3.29.४०॥
तत्र गत्वा महेशानः नन्दि-आदिभ्यः सः ऊचिवान् ॥ वृत्तान्तम् सकलम् तम् वै परम-आनन्द-निर्भरः ॥ २।३।२९।४०॥
tatra gatvā maheśānaḥ nandi-ādibhyaḥ saḥ ūcivān .. vṛttāntam sakalam tam vai parama-ānanda-nirbharaḥ .. 2.3.29.40..
तेऽपि श्रुत्वा गणास्सर्वे भैरवाद्याश्च सर्वशः॥ बभूवुस्सुखिनोत्यन्तं विदधुः परमोत्सवम्॥ ४१॥
ते अपि श्रुत्वा गणाः सर्वे भैरव-आद्याः च सर्वशस्॥ बभूवुः सुखिना अत्यन्तम् विदधुः परम-उत्सवम्॥ ४१॥
te api śrutvā gaṇāḥ sarve bhairava-ādyāḥ ca sarvaśas.. babhūvuḥ sukhinā atyantam vidadhuḥ parama-utsavam.. 41..
सुमंगलं तत्र द्विज बभूवातीव नारद ॥ सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम् ॥ ४२ ॥
सु मंगलम् तत्र द्विज बभूव अतीव नारद ॥ सर्वेषाम् दुःख-नाशः भूत् रुद्रः प्राप अपि संमुदम् ॥ ४२ ॥
su maṃgalam tatra dvija babhūva atīva nārada .. sarveṣām duḥkha-nāśaḥ bhūt rudraḥ prāpa api saṃmudam .. 42 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनम् नाम एकोनत्रिंशः अध्यायः ॥ २९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivāśivasamvādavarṇanam nāma ekonatriṃśaḥ adhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In