| |
|

This overlay will guide you through the buttons:

विधे प्राज्ञ महाधीमन्वद मे वदतां वर ॥ ततः परं किमभवच्चरितं विष्णुसद्गुरो ॥ १ ॥
विधे प्राज्ञ महा-धीमन् वद मे वदताम् वर ॥ ततस् परम् किम् अभवत् चरितम् विष्णु-सत्-गुरो ॥ १ ॥
vidhe prājña mahā-dhīman vada me vadatām vara .. tatas param kim abhavat caritam viṣṇu-sat-guro .. 1 ..
अद्भुतेयं कथा प्रोक्ता मेना पूर्वगतिः शुभा ॥ विवाहश्च श्रुतस्सम्यक्परमं चरितं वद ॥ २॥
अद्भुता इयम् कथा प्रोक्ता मेना पूर्व-गतिः शुभा ॥ विवाहः च श्रुतः सम्यक् परमम् चरितम् वद ॥ २॥
adbhutā iyam kathā proktā menā pūrva-gatiḥ śubhā .. vivāhaḥ ca śrutaḥ samyak paramam caritam vada .. 2..
मेनां विवाह्य स गिरिः कृतवान्किं ततः परम् ॥ पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ॥ ३॥
मेनाम् विवाह्य स गिरिः कृतवान् किम् ततस् परम् ॥ पार्वती कथम् उत्पन्ना तस्याम् वै जगदम्बिका ॥ ३॥
menām vivāhya sa giriḥ kṛtavān kim tatas param .. pārvatī katham utpannā tasyām vai jagadambikā .. 3..
तपस्सुदुस्सहं कृत्वा कथं प्राप पतिं हरम् ॥ एतत्सर्वं समाचक्ष्व विस्तराच्छांकरं यशः ॥ ४ ॥
तपः सु दुस्सहम् कृत्वा कथम् प्राप पतिम् हरम् ॥ एतत् सर्वम् समाचक्ष्व विस्तरात् शांकरम् यशः ॥ ४ ॥
tapaḥ su dussaham kṛtvā katham prāpa patim haram .. etat sarvam samācakṣva vistarāt śāṃkaram yaśaḥ .. 4 ..
।। ब्रह्मोवाच ।।
मुने त्वं शृणु सुप्रीत्या शांकरं सुयशः शुभम्॥ यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात्॥ ५॥
मुने त्वम् शृणु सु प्रीत्या शांकरम् सु यशः शुभम्॥ यत् श्रुत्वा ब्रह्म-हा शुद्ध्या इद् सर्वान् कामान् अवाप्नुयात्॥ ५॥
mune tvam śṛṇu su prītyā śāṃkaram su yaśaḥ śubham.. yat śrutvā brahma-hā śuddhyā id sarvān kāmān avāpnuyāt.. 5..
यदा मेनाविवाहन्तु कृत्वागच्छद्गिरिर्गृहम्॥ तदा समुत्सवो जातस्त्रिषु लोकेषु नारद॥ ६॥
यदा कृत्वा अगच्छत् गिरिः गृहम्॥ तदा समुत्सवः जातः त्रिषु लोकेषु नारद॥ ६॥
yadā kṛtvā agacchat giriḥ gṛham.. tadā samutsavaḥ jātaḥ triṣu lokeṣu nārada.. 6..
हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम्॥ भूसुरान्बंधुवर्गांश्च परानानर्च सद्धिया ॥ ७॥
हिमाचलः अपि सु प्रीतः चकार परम-उत्सवम्॥ भूसुरान् बंधु-वर्गान् च परान् आनर्च सत्-धिया ॥ ७॥
himācalaḥ api su prītaḥ cakāra parama-utsavam.. bhūsurān baṃdhu-vargān ca parān ānarca sat-dhiyā .. 7..
सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ॥ ययुस्तस्मै स्वस्वधाम बंधुवर्गास्तथापरे ॥ ८॥
सर्वे द्विजाः च सन्तुष्टाः दत्त्वा आशीर्वचनम् वरम् ॥ ययुः तस्मै स्व-स्व-धाम बंधु-वर्गाः तथा अपरे ॥ ८॥
sarve dvijāḥ ca santuṣṭāḥ dattvā āśīrvacanam varam .. yayuḥ tasmai sva-sva-dhāma baṃdhu-vargāḥ tathā apare .. 8..
हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ॥ रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ॥ ९॥
हिमाचलः अपि सु प्रीतः मेनया सुख-दे गृहे ॥ रेमे अन्यत्र च सुस्थाने नन्दन-आदि-वनेषु अपि ॥ ९॥
himācalaḥ api su prītaḥ menayā sukha-de gṛhe .. reme anyatra ca susthāne nandana-ādi-vaneṣu api .. 9..
तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ॥ मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ॥ 2.3.3.१० ॥
तस्मिन् अवसरे देवाः मुने विष्णु-आदयः अखिलाः ॥ मुनयः च महात्मानः प्रजग्मुः भूधर-अन्तिके ॥ २।३।३।१० ॥
tasmin avasare devāḥ mune viṣṇu-ādayaḥ akhilāḥ .. munayaḥ ca mahātmānaḥ prajagmuḥ bhūdhara-antike .. 2.3.3.10 ..
दृष्ट्वा तानागतान्देवान्प्रणनाम मुदा गिरिः ॥ संमानं कृतवान्भक्त्या प्रशंसन्स्व विधिं महान् ॥ ११ ॥
दृष्ट्वा तान् आगतान् देवान् प्रणनाम मुदा गिरिः ॥ संमानम् कृतवान् भक्त्या प्रशंसन् स्व विधिम् महान् ॥ ११ ॥
dṛṣṭvā tān āgatān devān praṇanāma mudā giriḥ .. saṃmānam kṛtavān bhaktyā praśaṃsan sva vidhim mahān .. 11 ..
साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ॥ रोमोद्गमो महानासीद्गिरेः प्रेमाश्रवोऽपतन् ॥ १२ ॥
स अञ्जलिः नत-शीर्षः हि स तुष्टाव सु भक्तितः ॥ रोम-उद्गमः महान् आसीत् गिरेः प्रेम-अश्रवः अपतन् ॥ १२ ॥
sa añjaliḥ nata-śīrṣaḥ hi sa tuṣṭāva su bhaktitaḥ .. roma-udgamaḥ mahān āsīt gireḥ prema-aśravaḥ apatan .. 12 ..
ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ॥ उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ॥ १३॥
ततस् प्रणम्य सु प्रीतः हिमशैलः प्रसन्न-धीः ॥ उवाच प्रणतः भूत्वा मुने विष्णु-आदिकान् सुरान् ॥ १३॥
tatas praṇamya su prītaḥ himaśailaḥ prasanna-dhīḥ .. uvāca praṇataḥ bhūtvā mune viṣṇu-ādikān surān .. 13..
हिमाचल उवाच ।।
अद्य मे सफलं जन्म सफलं सुमहत्तपः ॥ अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ॥ १४॥
अद्य मे स फलम् जन्म स फलम् सु महत् तपः ॥ अद्य मे स फलम् ज्ञानम् अद्य मे स फलाः क्रियाः ॥ १४॥
adya me sa phalam janma sa phalam su mahat tapaḥ .. adya me sa phalam jñānam adya me sa phalāḥ kriyāḥ .. 14..
धन्योऽहमद्य संजातो धन्या मे सकला क्षितिः ॥ धन्यं कुलं तथा दारास्सर्वं धन्यं न संशयः ॥ १५ ॥
धन्यः अहम् अद्य संजातः धन्या मे सकला क्षितिः ॥ धन्यम् कुलम् तथा दाराः सर्वम् धन्यम् न संशयः ॥ १५ ॥
dhanyaḥ aham adya saṃjātaḥ dhanyā me sakalā kṣitiḥ .. dhanyam kulam tathā dārāḥ sarvam dhanyam na saṃśayaḥ .. 15 ..
यतः समागता यूयं मिलित्वा सर्व एकदा ॥ मां निदेशयत प्रीत्योचितं मत्त्वा स्वसेवकम् ॥ १६ ॥
यतस् समागताः यूयम् मिलित्वा सर्वे एकदा ॥ माम् निदेशयत प्रीत्या उचितम् स्व-सेवकम् ॥ १६ ॥
yatas samāgatāḥ yūyam militvā sarve ekadā .. mām nideśayata prītyā ucitam sva-sevakam .. 16 ..
इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ॥ ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ॥ १७॥
इति श्रुत्वा महीध्रस्य वचनम् ते सुराः तदा ॥ ऊचुः हरि-आदयः प्रीताः सिद्धिम् मत्वा स्व-कार्यतः ॥ १७॥
iti śrutvā mahīdhrasya vacanam te surāḥ tadā .. ūcuḥ hari-ādayaḥ prītāḥ siddhim matvā sva-kāryataḥ .. 17..
।। ब्रह्मोवाच ।।
यदर्थमागतास्सर्वे तद्ब्रूमः प्रीतितो वयम् ॥ १८॥ या पुरा जगदम्बोमा दक्षकन्याऽभवद्गिरे ॥
यद्-अर्थम् आगताः सर्वे तत् ब्रूमः प्रीतितः वयम् ॥ १८॥ या पुरा जगदम्बा उमा दक्ष-कन्या अभवत् गिरे ॥
yad-artham āgatāḥ sarve tat brūmaḥ prītitaḥ vayam .. 18.. yā purā jagadambā umā dakṣa-kanyā abhavat gire ..
देवा ऊचुः ।।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ॥ १९ ॥ पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ॥
रुद्र-पत्नी हि सा भूत्वा चिक्रीडे सु चिरम् भुवि ॥ १९ ॥ पितृतः अनादरम् प्राप्य संस्मृत्य स्व-पणम् सती ॥
rudra-patnī hi sā bhūtvā cikrīḍe su ciram bhuvi .. 19 .. pitṛtaḥ anādaram prāpya saṃsmṛtya sva-paṇam satī ..
जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका॥ 2.3.3.२०॥ सा कथा विदिता लोके तवापि हिमभूधर॥
जगाम स्व-पदम् त्यक्त्वा तत् शरीरम् तदा अम्बिका॥ २।३।३।२०॥ सा कथा विदिता लोके तव अपि हिम-भूधर॥
jagāma sva-padam tyaktvā tat śarīram tadā ambikā.. 2.3.3.20.. sā kathā viditā loke tava api hima-bhūdhara..
एवं सति महालाभो भवेद्देवगणस्य हि॥ २१॥ सर्वस्य भवतश्चापि स्युस्सर्वे ते वशास्सुराः ॥ २२॥
एवम् सति महा-लाभः भवेत् देव-गणस्य हि॥ २१॥ सर्वस्य भवतः च अपि स्युः सर्वे ते वशाः सुराः ॥ २२॥
evam sati mahā-lābhaḥ bhavet deva-gaṇasya hi.. 21.. sarvasya bhavataḥ ca api syuḥ sarve te vaśāḥ surāḥ .. 22..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः॥ तथास्त्विति प्रसन्नात्मा प्रोवाच न च सादरम्॥ २३॥
इति आकर्ण्य वचः तेषाम् हरि-आदीनाम् गिरीश्वरः॥ तथा अस्तु इति प्रसन्न-आत्मा प्रोवाच न च सादरम्॥ २३॥
iti ākarṇya vacaḥ teṣām hari-ādīnām girīśvaraḥ.. tathā astu iti prasanna-ātmā provāca na ca sādaram.. 23..
अथ ते च समादिश्य तद्विधिम्परमादरात्॥ स्वयं जग्मुश्च शरणमुमायाश्शंकर स्त्रियः ॥ २४॥
अथ ते च समादिश्य तद्-विधिम् परम-आदरात्॥ स्वयम् जग्मुः च शरणम् उमायाः शंकर स्त्रियः ॥ २४॥
atha te ca samādiśya tad-vidhim parama-ādarāt.. svayam jagmuḥ ca śaraṇam umāyāḥ śaṃkara striyaḥ .. 24..
सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ॥ प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ॥ २५॥
सुस्थले मनसा स्थित्वा सस्मरुः जगत्-अम्बिकाम् ॥ प्रणम्य बहुशस् तत्र तुष्टुवुः श्रद्धया सुराः ॥ २५॥
susthale manasā sthitvā sasmaruḥ jagat-ambikām .. praṇamya bahuśas tatra tuṣṭuvuḥ śraddhayā surāḥ .. 25..
देवा ऊचुः ।।
देव्युमे जगतामम्ब शिवलोकनिवासिनी ॥ सदाशिवप्रिये दुर्गे त्वां नमामो महेश्वरि ॥ २६॥
देवी उमे जगताम् अम्ब शिव-लोक-निवासिनी ॥ सदाशिव-प्रिये दुर्गे त्वाम् नमामः महेश्वरि ॥ २६॥
devī ume jagatām amba śiva-loka-nivāsinī .. sadāśiva-priye durge tvām namāmaḥ maheśvari .. 26..
श्रीशक्तिं पावनां शान्तां पुष्टिम्परमपावनीम्॥ वयन्नामामहे भक्त्या महदव्यक्तरूपिणीम् ॥ २७॥
श्रीशक्तिम् पावनाम् शान्ताम् पुष्टिम् परम-पावनीम्॥ वयन् नामामहे अहे भक्त्या महत्-अव्यक्त-रूपिणीम् ॥ २७॥
śrīśaktim pāvanām śāntām puṣṭim parama-pāvanīm.. vayan nāmāmahe ahe bhaktyā mahat-avyakta-rūpiṇīm .. 27..
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ॥ अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ २८ ॥
शिवाम् शिव-कराम् शुद्धाम् स्थूलाम् सूक्ष्माम् परायणाम् ॥ अन्तर्विद्या-सुविद्याभ्याम् सु प्रीताम् त्वाम् नमामहे ॥ २८ ॥
śivām śiva-karām śuddhām sthūlām sūkṣmām parāyaṇām .. antarvidyā-suvidyābhyām su prītām tvām namāmahe .. 28 ..
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ॥ त्वन्दीधितिस्सूर्य्यगता स्वप्रपञ्चप्रकाशिनी ॥ २९ ॥
त्वम् श्रद्धा त्वम् धृतिः त्वम् श्रीः त्वम् एव सर्व-गोचरा ॥ त्वन् दीधितिः सूर्य्य-गता स्व-प्रपञ्च-प्रकाशिनी ॥ २९ ॥
tvam śraddhā tvam dhṛtiḥ tvam śrīḥ tvam eva sarva-gocarā .. tvan dīdhitiḥ sūryya-gatā sva-prapañca-prakāśinī .. 29 ..
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ॥ आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥ 2.3.3.३०॥
या च ब्रह्माण्ड-संस्थाने जगत्-जीवेषु या जगत् ॥ आप्याययति ब्रह्म-आदि-तृण-अन्तम् ताम् नमामहे ॥ २।३।३।३०॥
yā ca brahmāṇḍa-saṃsthāne jagat-jīveṣu yā jagat .. āpyāyayati brahma-ādi-tṛṇa-antam tām namāmahe .. 2.3.3.30..
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती॥ ७० ॥ त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ ३१॥
गायत्री त्वम् वेद-माता त्वम् सावित्री सरस्वती॥ ७० ॥ त्वम् वार्ता सर्व-जगताम् त्वम् त्रयी धर्म-रूपिणी ॥ ३१॥
gāyatrī tvam veda-mātā tvam sāvitrī sarasvatī.. 70 .. tvam vārtā sarva-jagatām tvam trayī dharma-rūpiṇī .. 31..
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि॥ तृष्णा कान्तिश्छविस्तुष्टिस्सर्वानन्दकरी सदा ॥ ३२॥
निद्रा त्वम् सर्व-भूतेषु क्षुधा तृप्तिः त्वम् एव हि॥ तृष्णा कान्तिः छविः तुष्टिः सर्व-आनन्द-करी सदा ॥ ३२॥
nidrā tvam sarva-bhūteṣu kṣudhā tṛptiḥ tvam eva hi.. tṛṣṇā kāntiḥ chaviḥ tuṣṭiḥ sarva-ānanda-karī sadā .. 32..
त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ॥ त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ।३३॥
त्वम् लक्ष्मीः पुण्य-कर्तॄणाम् त्वम् ज्येष्ठा पापिनाम् सदा ॥ त्वम् शान्तिः सर्व-जगताम् त्वम् धात्री प्राण-पोषिणी ।३३॥
tvam lakṣmīḥ puṇya-kartṝṇām tvam jyeṣṭhā pāpinām sadā .. tvam śāntiḥ sarva-jagatām tvam dhātrī prāṇa-poṣiṇī .33..
त्वन्तस्वरूपा भूतानां पञ्चानामपि सारकृत् ॥ त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ॥ ३४॥
तु अन्त-स्वरूपा भूतानाम् पञ्चानाम् अपि सार-कृत् ॥ त्वम् हि नीति-भृताम् नीतिः व्यवसाय-स्वरूपिणी ॥ ३४॥
tu anta-svarūpā bhūtānām pañcānām api sāra-kṛt .. tvam hi nīti-bhṛtām nītiḥ vyavasāya-svarūpiṇī .. 34..
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥ ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५ ॥
गीतिः त्वम् सामवेदस्य ग्रन्थिः त्वम् यजुषाम् हुतिः ॥ ऋग्वेदस्य तथा मात्रा आथर्वणस्य परा गतिः ॥ ३५ ॥
gītiḥ tvam sāmavedasya granthiḥ tvam yajuṣām hutiḥ .. ṛgvedasya tathā mātrā ātharvaṇasya parā gatiḥ .. 35 ..
समस्तगीर्वाणगणस्य शक्तिस्तमोमयी धातृगुणैकदृश्या ॥ रजः प्रपंचात्तु भवैकरूपा या न श्रुता भव्यकरी स्तुतेह ॥ ३६ ॥
समस्त-गीर्वाण-गणस्य शक्तिः तमः-मयी धातृ-गुण-एक-दृश्या ॥ रजः प्रपंचात् तु भव-एक-रूपा या न श्रुता भव्य-करी स्तुता इह ॥ ३६ ॥
samasta-gīrvāṇa-gaṇasya śaktiḥ tamaḥ-mayī dhātṛ-guṇa-eka-dṛśyā .. rajaḥ prapaṃcāt tu bhava-eka-rūpā yā na śrutā bhavya-karī stutā iha .. 36 ..
संसारसागरकरालभवाङ्गदुःखनिस्तारकारितरणिश्च निवीतहीना ॥ अष्टाङ्गयोगपरिपालनकेलिदक्षां विन्ध्यागवासनिरतां प्रणमाम तां वै ॥ ३७ ॥
संसार-सागर-कराल-भव-अङ्ग-दुःख-निस्तार-कारि-तरणिः च निवीत-हीना ॥ अष्टाङ्ग-योग-परिपालन-केलि-दक्षाम् विन्ध्य-आग-वास-निरताम् प्रणमाम ताम् वै ॥ ३७ ॥
saṃsāra-sāgara-karāla-bhava-aṅga-duḥkha-nistāra-kāri-taraṇiḥ ca nivīta-hīnā .. aṣṭāṅga-yoga-paripālana-keli-dakṣām vindhya-āga-vāsa-niratām praṇamāma tām vai .. 37 ..
नासाक्षि वक्त्रभुजवक्षसि मानसे च धृत्या सुखानि वितनोषि सदैव जन्तोः ॥ निद्रेति याति सुभगा जगती भवा नः सा नः प्रसीदंतु भवस्थितिपालनाय ॥ ३८ ॥
नासा-अक्षि वक्त्र-भुज-वक्षसि मानसे च धृत्या सुखानि वितनोषि सदा एव जन्तोः ॥ निद्रा इति याति सुभगा जगती भवाः नः सा नः प्रसीदंतु भव-स्थिति-पालनाय ॥ ३८ ॥
nāsā-akṣi vaktra-bhuja-vakṣasi mānase ca dhṛtyā sukhāni vitanoṣi sadā eva jantoḥ .. nidrā iti yāti subhagā jagatī bhavāḥ naḥ sā naḥ prasīdaṃtu bhava-sthiti-pālanāya .. 38 ..
ब्रह्मोवाच ।।
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ॥ सुप्रेयमनसः सर्वे तस्थुस्ते दर्शनेप्सवः ॥ ३९ ॥
इति स्तुत्वा महेशानीम् जगदम्बाम् उमाम् सतीम् ॥ सुप्रेय-मनसः सर्वे तस्थुः ते दर्शन-ईप्सवः ॥ ३९ ॥
iti stutvā maheśānīm jagadambām umām satīm .. supreya-manasaḥ sarve tasthuḥ te darśana-īpsavaḥ .. 39 ..
इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवस्तुतिर्नाम तृतीयोऽध्यायः ॥ ३ ॥
इति श्री-शिव-महापुराणे दितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे देवस्तुतिः नाम तृतीयः अध्यायः ॥ ३ ॥
iti śrī-śiva-mahāpurāṇe ditīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe devastutiḥ nāma tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In